सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २४

विकिस्रोतः तः
← अध्यायः २३ अर्थशास्त्रम्
अध्यायः २४
कौटिलीय:
अध्यायः २५ →

 सीता-अध्यक्षः कृषि-तन्त्र-शुल्ब-वृक्ष-आयुर्-वेदज्ञस्तज्-ज्ञ-सखो वा सर्व-धान्य-पुष्प-फल-शाक-कन्द-मूल-वाल्लिक्य-क्षौम-कार्पास-बीजानि यथा-कालं गृह्णीयात् ।। ०२.२४.०१ ।।

 बहु-हल-परिकृष्टायां स्व-भूमौ दास-कर्म-कर-दण्ड-प्रतिकर्तृभिर्वापयेत् ।। ०२.२४.०२ ।।

 कर्षण-यन्त्र-उपकरण-बलीवर्दैश्चएषां असङ्गं कारयेत् । कारुभिश्च कर्मार-कुट्टाक-मेदक-रज्जु-वर्तक-सर्प-ग्राह-आदिभिश्च ।। ०२.२४.०३ ।।

 तेषां कर्म-फल-विनिपाते तत्-फल-हानं दण्डः ।। ०२.२४.०४ ।।

 षोडश-द्रोणं जाङ्गलानां वर्ष-प्रमाणम् । अध्यर्धं आनूपानां देश-वापानाम् । अर्ध-त्रयोदशाश्मकानाम् । त्रयोविंशतिरवन्तीनाम् । अमितं अपर-अन्तानां हैमन्यानां च । कुल्या-आवापानां च कालतः ।। ०२.२४.०५ ।।

 वर्ष-त्रि-भागः पूर्व-पश्चिम-मासयोः । द्वौ त्रि-भागौ मध्यमयोः सुषमा-रूपं ।। ०२.२४.०६ ।।

 तस्यौपलधिर्बृहस्पतेः स्थान-गमन-गर्भ-आधानेभ्यः शुक्र-उदय-अस्तमय-चारेभ्यः सूर्यस्य प्रकृति-वैकृताच्च ।। ०२.२४.०७ ।।

 सूर्याद्बीज-सिद्धिः । बृहस्पतेः सस्यानां स्तम्ब-कारिता । शुक्राद्वृष्टिः इति ।। ०२.२४.०८ ।।

 त्रयः सप्त-अहिका मेघा अशीतिः कण-शीकराः । ।। ०२.२४.०९अ ब ।।

 षष्टिरातप-मेघानां एषा वृष्टिः समा हिता ।। ०२.२४.०९च्द् ।।

 वातं आतप-योगं च विभजन्यत्र वर्षति । ।। ०२.२४.१०अ ब ।।

 त्रीन्करीषांश्च जनयंस्तत्र सस्य-आगमो ध्रुवः ।। ०२.२४.१०च्द् ।।

 ततः प्रभूत-उदकं अल्प-उदकं वा सस्यं वापयेत् ।। ०२.२४.११ ।।

 शालि-व्रीहि-कोद्रव-तिल-प्रियङ्गु-उदारक-वरकाः पूर्व-वापाः ।। ०२.२४.१२ ।।

 मुद्ग-माष-शैम्ब्या मध्य-वापाः ।। ०२.२४.१३ ।।

 कुसुम्भ-मसूर-कुलत्थ-यव-गो-धूम-कलाय-अतसी-सर्षपाः पश्चाद्-वापाः ।। ०२.२४.१४ ।।

 यथा-ऋतु-वशेन वा बीज-वापाः ।। ०२.२४.१५ ।।

 वाप-अतिरिक्तं अर्ध-सीतिकाः कुर्युः । स्व-वीर्य-उपजीविनो वा चतुर्-थ-पञ्च-भागिकाः ।। O२.२४.१६ ।।

 यथाइष्टं अनवसित-भागं दद्युः । अन्यत्र कृच्छ्रेभ्यः ।। ऊ२.२४.१७ ।।

 स्व-सेतुभ्यो हस्त-प्रावर्तिमं उदक-भागं पञ्चमं दद्युः । स्कन्ध-प्रावर्तिमं चतुर्थम् । स्रोतो-यन्त्र-प्रावर्तिमं च तृतीयम् । चतुर्थं नदी-सरस्-तटाक-कूप-उद्धाटं ।। ऊ२.२४.१८ ।।

 कर्म-उदक-प्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् ।। ऊ२.२४.१९ ।।

 शाल्य्-आदि ज्येष्ठम् । षण्डो मध्यमः । इक्षुः प्रत्यवरः ।। ऊ२.२४.२० ।।

 इक्षवो हि बह्व्-आबाधा व्यय-ग्राहिणश्च ।। ०२.२४.२१ ।।

 फेन-आघातो वल्ली-फलानाम् । परीवाह-अन्ताः पिप्पली-मृद्वीक-इक्षूणाम् । कूप-पर्यन्ताः शाक-मूलानाम् । हरणी-पर्यन्ता हरितकानाम् । पाल्यो लवानां गन्ध-भैषज्य-उशीर-ह्रीबेर-पिण्डालुक-आदीनां ।। ०२.२४.२२ ।।

 यथा-स्वं भूमिषु च स्थाल्याश्चऽनूप्याश्चओषधीः स्थापयेत् ।। ०२.२४.२३ ।।

 तुषार-पायन-मुष्ण-शोषणं चऽ-सप्त-रात्रादिति धान्य-बीजानाम् । त्रि-रात्रं वा पञ्च-रात्रं वा कोशी-धान्यानाम् । मधु-घृत-सूकर-वसाभिः शकृद्-युक्ताभिः काण्ड-बीजानां छेद-लेपो । मधु-घृतेन कन्दानाम् । अस्थि-बीजानां शकृद्-आलेपः । शाखिनां गर्त-दाहो गो-अस्थि-शकृद्भिः काले दौह्र्दं च ।। ०२.२४.२४ ।।

 प्ररूढांश्चाशुष्क-कटु-मत्स्यांश्च स्नुहि-क्षीरेण पाययेत् ।। ०२.२४.२५ ।।

 कार्पास-सारं निर्मोकं सर्पस्य च समाहरेत् । ।। ०२.२४.२६अ ब ।।

 न सर्पास्तत्र तिष्ठन्ति धूमो यत्रएष तिष्ठति ।। ०२.२४.२६च्द् ।।

 सर्व-जीजानां तु प्रथम-वापे सुवर्ण-उदक-सम्प्लुतां पूर्व-मुष्टिं वापयेद् । अमुं च मन्त्रं ब्रूयात् "प्रजापतये काश्यपाय देवाय च नमः सदा सीता मे ऋध्यतां देवी बीजेषु च धनेषु च ।। ०२.२४.२७ ।।

 षण्ड-वाट-गो-पालक-दास-कर्म-करेभ्यो यथा-पुरुष-परिवापं भक्तं कुर्यात् । सपाद-पणिकं च मासं दद्यात् ।। ०२.२४.२८ ।।

 कर्म-अनुरूपं कारुभ्यो भक्त-वेतनं ।। ०२.२४.२९ ।।

 प्रशीर्णं च पुष्प-फलं देव-कार्य-अर्थं व्रीहि-यवं आग्रयण-अर्थं श्रोत्रियास्तपस्विनश्चऽहरेयुः । राशि-मूलं उञ्छ-वृत्तयः ।। ०२.२४.३० ।।

 यथा-कालं च सस्य-आदि जातं जातं प्रवेशयेत् । ।। ०२.२४.३१अ ब ।।

 न क्षेत्रे स्थापयेत्किंचित्पलालं अपि पण्डितः ।। ०२.२४.३१च्द् ।।

 प्राकाराणां समुच्छ्रयान्वलभीर्वा तथा-विधाः । ।। ०२.२४.३२अ ब ।।

 न संहतानि कुर्वीत न तुच्छानि शिरांसि च ।। ०२.२४.३२च्द् ।।

 खलस्य प्रकरान्कुर्यान्मण्डल-अन्ते समाश्रितान् । ।। ०२.२४.३३अ ब ।।

 अनग्निकाः सौदकाश्च खले स्युः परिकर्मिणः ।। ०२.२४.३३च्द् ।।