अर्थशास्त्रम्/अधिकरणम् २/अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ अर्थशास्त्रम्
अध्यायः २३
कौटिलीय:
अध्यायः २४ →

<poem>

सूत्र-अध्यक्षः सूत्र-वर्म-वस्त्र-रज्जु-व्यवहारं तज्-जात-पुरुषैः कारयेत्  ।। ०२.२३.०१  ।।
ऊर्णा-वल्क-कार्पास-तूल-शण-क्षौमाणि च विधवा-न्यङ्गा-कन्या-प्रव्रजिता-दण्ड-प्रतिकारिणीभी रूप-आजीवा-मातृकाभिर्वृद्ध-राज-दासीभिर्व्युपरत-उपस्थान-देव-दासीभिश्च कर्तयेत् ।। ०२.२३.०२ ।।
श्लक्ष्ण-स्थूल-मध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत् । बह्व्-अल्पतां च ।। ०२.२३.०३ ।।
सूत्र-प्रमाण ज्ञात्वा तैल-आमलक-उद्वर्तनैरेता अनुगृह्णीयात् ।। ०२.२३.०४ ।।
तिथिषु प्रतिमान-दानैश्च कर्म कारयितव्याः ।। ०२.२३.०५ ।।
सूत्र-ह्रासे वेतन-ह्रासो द्रव्य-सारात् ।। ०२.२३.०६ ।।
कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारुभिश्च कर्म कारयेत् । प्रतिसंसर्गं च गच्छेत् ।। ०२.२३.०७ ।।
क्षौम-दुकूल-क्रिमि-तान-राङ्कव-कार्पास-सूत्र-वान-कर्म-अन्तांश्च प्रयुञ्जानो गन्ध-माल्य-दानैरन्यैश्चाउपग्राहिकैराराधयेत् ।। ०२.२३.०८ ।।
वस्त्र-आस्तरण-प्रावरण-विकल्पानुत्थापयेत् ।। ०२.२३.०९ ।।
कङ्कट-कर्म-अन्तांश्च तज्-जात-कारु-शिल्पिभिः कारयेत् ।। ०२.२३.१० ।।
याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वाआत्मानं बिभृयुः ताः स्व-दासीभिरनुसार्य सौपग्रहं कर्म कारयितव्याः ।। ०२.२३.११ ।।
स्वयं आगच्छन्तीनां वा सूत्र-शालां प्रत्युषसि भाण्ड-वेतन-विनिमयं कारयेत् ।। ०२.२३.१२ ।।
सूत्र-परीक्षा-अर्थ-मात्रः प्रदीपः ।। ०२.२३.१३ ।।
स्त्रिया मुख-संदर्शनेअन्य-कार्य-सम्भाषायां वा पूर्वः साहस-दण्डः । वेतन-काल-अतिपातने मध्यमः । अकृत-कर्म-वेतन-प्रदाने च ।। ०२.२३.१४ ।।
गृहीत्वा वेतनं कर्म-अकुर्वत्या अङ्गुष्ठ-संदंशं दापयेत् । भक्षित-अपहृत-अवस्कन्दितानां च ।। ०२.२३.१५ ।।
वेतनेषु च कर्म-कराणां अपराधतो दण्डः ।। ०२.२३.१६ ।।
रज्जु-वर्तकैर्वर्म-कारैश्च स्वयं संसृज्येत ।। ०२.२३.१७ ।।
भाण्डानि च वरत्र-आदीनि वर्तयेत् ।। ०२.२३.१८ ।।
सूत्र-वल्कमयी रज्जुर्वरत्रा वैत्र-वैणवीः । ।। ०२.२३.१९अ ब ।।
साम्नाह्या बन्ध-नीयाश्च यान-युग्यस्य करयेत् ।। ०२.२३.१९च्द् ।।