अर्थशास्त्रम्/अधिकरणम् २/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८ अर्थशास्त्रम्
अध्यायः १९
कौटिलीय:
अध्यायः २० →

 पौतव-अध्यक्षः पौतव-कर्म-अन्तान्कारयेत् ।। ०२.१९.०१ ।।

 धान्य-माषा दश सुवर्ण-माषकः । पञ्च वा गुञ्जाः ।। ०२.१९.०२ ।।

 ते षोडश सुवर्णः कर्षो वा ।। ०२.१९.०३ ।।

 चतुष्-कर्षं पलं ।। ०२.१९.०४ ।।

 अष्ट-अशीतिर्गौर-सर्षपा रूप्य-माषकः ।। ०२.१९.०५ ।।

 ते षोडश धरणम् । शौम्ब्यानि वा विंशतिः ।। ०२.१९.०६ ।।

 विंशति-तण्डुलं वज्र-धरणं ।। ०२.१९.०७ ।।

 अर्ध-माषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः । अष्टौ सुवर्णाः दश विंशतिः त्रिंशत्चत्वारिंशत्शतं इति ।। ०२.१९.०८ ।।

 तेन धरणानि व्याख्यातानि ।। ०२.१९.०९ ।।

 प्रतिमानान्ययोमयानि मागध-मेकल-शैलमयानि यानि वा नौदक-प्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासं ।। ०२.१९.१० ।।

 षडङ्गुलादूर्ध्वं अष्ट-अङ्गुल-उत्तरा दश तुलाः कारयेत्लोह-पलादूर्ध्वं एक-पल-उत्तराः । यन्त्रं उभयतः-शिक्यं वा ।। ०२.१९.११ ।।

 पञ्च-त्रिंशत्-पललोहां द्वि-सप्तत्य्-अङ्गुल-आयामां सम-वृत्तां कारयेत् ।। ०२.१९.१२ ।।

 तस्याः पञ्च-पलिकं मण्डलं बद्ध्वा सम-करणं कारयेत् ।। ०२.१९.१३ ।।

 ततः कर्ष-उत्तरं पलं पल-उत्तरं दश-पलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् ।। ०२.१९.१४ ।।

 तत आ-शताद्दश-उत्तरं कारयेत् ।। ०२.१९.१५ ।।

 अक्षेषु नान्दी-पिनद्धं कारयेत् ।। ०२.१९.१६ ।।

 द्वि-गुण-लोहां तुलां अतः षण्णवत्य्-अङ्गुल-आयामां परिमाणीं कारयेत् ।। ०२.१९.१७ ।।

 तस्याः शत-पदादूर्ध्वं विंशतिः पञ्चाशत्शतं इति पदानि कारयेत् ।। ०२.१९.१८ ।।

 विंशति-तौलिको भारः ।। ०२.१९.१९ ।।

 दश-धारणिकं पलं ।। ०२.१९.२० ।।

 तत्-पल-शतं आय-मानी ।। ०२.१९.२१ ।।

 पञ्च-पल-अवरा व्यावहारिकी भाजन्यन्तः-पुर-भाजनी च ।। ०२.१९.२२ ।।

 तासां अर्ध-धरण-अवरं पलम् । द्वि-पल-अवरं उत्तर-लोहम् । षड्-अङ्गुल-अवराश्चऽयामाः ।। ०२.१९.२३ ।।

 पूर्वयोः पञ्च-पलिकः प्रयामो मांस-लोह-लवण-मणि-वर्जं ।। ०२.१९.२४ ।।

 काष्ठ-तुला अष्ट-हस्ता पदवती प्रतिमानवती मयूर-पद-अधिष्ठिता ।। ०२.१९.२५ ।।

 काष्ठ-पञ्चविंशति-पलं तण्डुल-प्रस्थ-साधनं ।। ०२.१९.२६ ।।

 एष प्रदेशो बह्व्-अल्पयोः ।। ०२.१९.२७ ।।

 इति तुला-प्रतिमानं व्याख्यातं ।। ०२.१९.२८ ।।

 अथ धान्य-माष-द्वि-पल-शतं द्रोणं आय-मानम् । सप्त-अशीति-पल-शतं अर्ध-पलं च व्यावहारिकम् । पञ्च-सप्तति-पल-शतं भाजनीयम् । द्वि-षष्टि-पल-शतं अर्ध-पलं चान्तः-पुर-भाजनीयं ।। ०२.१९.२९ ।।

 तेषां आढक-प्रस्थ-कुडुबाश्चतुर्-भाग-अवराः ।। ०२.१९.३० ।।

 षोडश-द्रोणा खारी ।। ०२.१९.३१ ।।

 विंशति-द्रोणिकः कुम्भः ।। ०२.१९.३२ ।।

 कुम्भैर्दशभिर्वहः ।। ०२.१९.३३ ।।

 शुष्क-सार-दारु-मयं समं चतुर्-भाग-शिखं मानं कारयेत् । अन्तः-शिखं वा ।। ०२.१९.३४ ।।

 रसस्य तु सुरायाः पुष्प-फलयोस्तुष-अङ्गाराणां सुधायाश्च शिखा-मानं द्वि-गुण-उत्तरा वृद्धिः ।। ०२.१९.३५ ।।

 सपाद-पणो द्रोण-मूल्यं आढकस्य पाद-ऊनः । षण्-माषकाः प्रस्थस्य । माषकः कुडुबस्य ।। ०२.१९.३६ ।।

 द्वि-गुणं रस-आदीनां मान-मूल्यं ।। ०२.१९.३७ ।।

 विंशति-पणाः प्रतिमानस्य ।। ०२.१९.३८ ।।

 तुला-मूल्यं त्रि-भागः ।। ०२.१९.३९ ।।

 चतुर्-मासिकं प्रातिवेधनिकं कारयेत् ।। ०२.१९.४० ।।

 अप्रतिविद्धस्यात्ययः सपादः सप्त-विंशति-पणः ।। ०२.१९.४१ ।।

 प्रातिवेधनिकं काकणीकं अहरहः पौतव-अध्यक्षाय दद्युः ।। ०२.१९.४२ ।।

 द्वात्रिंशद्-भागस्तप्त-व्याजी सर्पिषः । चतुः-षष्टि-भागस्तैलस्य ।। ०२.१९.४३ ।।

 पञ्चाशद्भागो मान-स्रावो द्रवाणां ।। ०२.१९.४४ ।।

 कुडुब-अर्ध-चतुर्-अष्ट-भागानि मानानि कारयेत् ।। ०२.१९.४५ ।।

 कुडुबाश्चतुर्-अशीतिर्वारकः सर्पिषो मतः ।। ०२.१९.४६ ।।

 चतुः-षष्टिस्तु तैलस्य पादश्च घटिकाअनयोः ।। ०२.१९.४७ ।।