अर्थशास्त्रम्/अधिकरणम् २/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ अर्थशास्त्रम्
अध्यायः १८
कौटिलीय:
अध्यायः १९ →

 आयुध-अगार-अध्यक्षः सांग्रामिकं दौर्गकर्मिकं पर-पुर-अभिघातिकं च यन्त्रं आयुधं आवरणं उपकरणं च तज्-जात-कारु-शिल्पिभिः कृत-कर्म-प्रमाण-काल-वेतन-फल-निष्पत्तिभिः कारयेत् । स्व-भूमिषु च स्थापयेत् ।। ०२.१८.०१ ।।

 स्थान-परिवर्तनं आतप-प्रवात-प्रदानं च बहुशः कुर्यात् ।। ०२.१८.०२ ।।

 ऊष्म-उपस्नेह-क्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत् ।। ०२.१८.०३ ।।

 जाति-रूप-लक्षण-प्रमाण-आगम-मूल्य-निक्षेपैश्चौपलभेत ।। ०२.१८.०४ ।।

 सर्वतो-भद्र-जामदग्न्य-बहु-मुख-विश्वास-घाति-संघाटी-यानक-पर्जन्यक-बाहु-ऊर्ध्व-बाह्व्-अर्ध-बाहूनि स्थित-यन्त्राणि ।। ०२.१८.०५ ।।

 पाञ्चालिक-देव-दण्ड-सूकरिका-मुसल-यष्टि-हस्ति-वारक-ताल-वृन्त-मुद्गर-गदा-स्पृक्तला-कुद्दाल-आस्फाटिम-उत्पाटिम-उद्घाटिम-शतघ्नि-त्रि-शूल-चक्राणि चल-यन्त्राणि ।। ०२.१८.०६ ।।

 शक्ति-प्रास-कुन्त-हाटक-भिण्डि-पाल-शूल-तोमर-वराह-कर्ण-कणय-कर्पण-त्रासिक-आदीनि च हुल-मुखानि ।। ०२.१८.०७ ।।

 ताल-चाप-दारव-शार्ङ्गाणि कार्मुक-कोदण्ड-द्रूणा धनूंषि ।। ०२.१८.०८ ।।

 मूर्वा-अर्क-शन-गवेधु-वेणु-स्नायूनि ज्याः ।। ०२.१८.०९ ।।

 वेणु-शर-शलाका-दण्ड-आसन-नाराचाश्चैषवः ।। ०२.१८.१० ।।

 तेषां मुखानि छेदन-भेदन-ताडनान्यायस-अस्थि-दारवाणि ।। ०२.१८.११ ।।

 निस्त्रिंश-मण्डल-अग्र-असि-यष्टयः खड्गाः ।। ०२.१८.१२ ।।

 खड्ग-महिष-वारण-विषाण-दारु-वेणु-मूलानि त्सरवः ।। ०२.१८.१३ ।।

 परशु-कुठार-पट्टस-खनित्र-कुद्दाल-क्रकच-काण्डच्-छेदनाः क्षुर-कल्पाः ।। ०२.१८.१४ ।।

 यन्त्र-गोष्पण-मुष्टि-पाषाण-रोचनी-दृषदश्चाश्म-आयुधानि ।। ०२.१८.१५ ।।

 लोह-जालिका-पट्ट-कवच-सूत्र-कङ्कट-शिंशुमारक-खड्गि-धेनुक-हस्ति-गो-चर्म-खुर-शृङ्ग-संघातं वर्माणि ।। ०२.१८.१६ ।।

 शिरस्-त्राण-कण्ठ-त्राण-कूर्पास-कञ्चुक-वार-वाण-पट्ट-नाग-उदरिकाः पेटी-चर्म-हस्ति-कर्ण-ताल-मूल-धमनि-काक-पाट-किटिका-अप्रतिहत-बलाह-कान्ताश्चऽवरणाणि ।। ०२.१८.१७ ।।

 हस्ति-रथ-वाजिनां योग्या-भाण्डं आलंकारिकं सम्नाह-कल्पनाश्चौपकरणानि ।। ०२.१८.१८ ।।

 ऐन्द्रजालिकं औपनिषदिकं च कर्म ।। ०२.१८.१९ ।।

 कर्म-अन्तानां च इच्छां आरम्भ-निष्पत्तिं प्रयोगं व्याजं उद्दयं । ।। ०२.१८.२०अ ब ।।

 क्षय-व्ययौ च जानीयात्कुप्यानां आयुध-ईश्वरः ।। ०२.१८.२०च्द् ।।