अर्थशास्त्रम्/अधिकरणम् २/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ अर्थशास्त्रम्
अध्यायः १४
कौटिलीय:
अध्यायः १५ →

 सौवर्णिकः पौर-जान-पदानां रूप्य-सुवर्णं आवेशनिभिः कारयेत् ।। ०२.१४.०१ ।।

 निर्दिष्ट-काल-कार्यं च कर्म कुर्युः । अनिर्दिष्ट-कालं कार्य-अपदेशं ।। ०२.१४.०२ ।।

 कार्यस्य-अन्यथा-करणे वेतन-नाशः । तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०३ ।।

 काल-अतिपातने पाद-हीनं वेतनं तद्-द्वि-गुणश्च दण्डः ।। ०२.१४.०४ ।।

 यथा-वर्ण-प्रमाणं निक्षेपं गृह्णीयुस्तथा-विधं एवार्पयेयुः ।। ०२.१४.०५ ।।

 काल-अन्तरादपि च तथा-विधं एव प्रतिगृह्णीयुः । अन्यत्र क्षीण-परिशीर्णाभ्यां ।। ०२.१४.०६ ।।

 आवेशनिभिः सुवर्ण-पुद्गल-लक्षण-प्रयोगेषु तत्-तज्जानीयात् ।। ०२.१४.०७ ।।

 तप्त-कल-धौतकयोः काकणिकः सुवर्णे क्षयो देयः ।। ०२.१४.०८ ।।

 तीक्ष्ण-काकणी रूप्य-द्वि-गुणः राग-प्रक्षेपः । तस्य षड्-भागः क्षयः ।। ०२.१४.०९ ।।

 वर्ण-हीने माष-अवरे पूर्वः साहस-दण्डः । प्रमाण-हीने मध्यमः । तुला-प्रतिमान-उपधावुत्तमः । कृत-भाण्ड-उपधौ च ।। ०२.१४.१० ।।

 सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादश-पणो दण्डः ।। ०२.१४.११ ।।

 कर्तुर्द्वि-गुणः सापसारश्चेत् ।। ०२.१४.१२ ।।

 अनपसारः कण्टक-शोधनाय नीयेत ।। ०२.१४.१३ ।।

 कर्तुश्च द्वि-शतो दण्डः पणच्-छेदनं वा ।। ०२.१४.१४ ।।

 तुला-प्रतिमान-भाण्डं पौतव-हस्तात्क्रीणीयुः ।। ०२.१४.१५ ।।

 अन्यथा द्वादश-पणो दण्डः ।। ०२.१४.१६ ।।

 घनं सुषिरं सम्यूह्यं अवलेप्यं संघात्यं वासितकं च कारु-कर्म ।। ०२.१४.१७ ।।

 तुला-विषमं अपसारणं विस्रावणं पेटकः पिङ्कश्चैति हरण-उपायाः ।। ०२.१४.१८ ।।

 सम्नामिन्युत्कीर्णिका भिन्न-मस्तक-उपकण्ठी कुशिक्या सकटु-कक्ष्या परिवेल्याअयस्-कान्ता च दुष्ट-तुलाः ।। ०२.१४.१९ ।।

 रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकं ।। ०२.१४.२० ।।

 तेनाकरोद्गतं अपसार्यते तत्-त्रिपुटक-अपसारितं ।। ०२.१४.२१ ।।

 शुल्बेन शुल्ब-अपसारितम् । वेल्लकेन वेल्लक-अपसारितम् । शुल्ब-अर्ध-सारेण हेम्ना हेम-अपसारितं ।। ०२.१४.२२ ।।

 मूक-मूषा पूति-किट्टः करटुक-मुखं नाली संदंशो जोङ्गनी सुवर्चिका-लवणं तदेव सुवर्णं इत्यपसारण-मार्गाः ।। ०२.१४.२३ ।।

 पूर्व-प्रणिहिता वा पिण्ड-वालुका मूषा-भेदादग्निष्ठादुद्ध्रियन्ते ।। ०२.१४.२४ ।।

 पश्चाद्बन्धने आचितक-पत्त्र-परीक्षायां वा रूप्य-रूपेण परिवर्तनं विस्रावणम् । पिण्ड-वालुकानां लोह-पिण्ड-वालुकाभिर्वा ।। ०२.१४.२५ ।।

 गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्य-संघात्येषु क्रियते ।। ०२.१४.२६ ।।

 सीस-रूपं सुवर्ण-पत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढ-पेटकः ।। ०२.१४.२७ ।।

 स एव पटल-सम्पुटेष्वभ्युद्धार्यः ।। ०२.१४.२८ ।।

 पत्त्रं आश्लिष्टं यमकपत्त्रं वाअवलेप्येषु क्रियते ।। ०२.१४.२९ ।।

 शुल्बं तारं वा गर्भः पत्त्राणां संघात्येषु क्रियते ।। ०२.१४.३० ।।

 शुल्ब-रूपं सुवर्ण-पत्त्र-संहतं प्रमृष्टं सुपार्श्वम् । तदेव यमक-पत्त्र-संहतं प्रमृष्टं ताम्र-तार-रुपं चौत्तर-वर्णकः ।। ०२.१४.३१ ।।

 तदुभयं तापनि-कषाभ्यां निह्शब्द-उल्लेखनाभ्यां वा विद्यात् ।। ०२.१४.३२ ।।

 अभ्युद्धार्यं बदर-आम्ले लवण-उदके वा सादयन्ति इति पेटकः ।। ०२.१४.३३ ।।

 घने सुषिरे वा रूपे सुवर्ण-मृन्-मालुका-हिङ्गुलुक-कल्पो वा तप्तोअवतिष्ठते ।। ०२.१४.३४ ।।

 दृढ-वास्तुके वा रूपे वालुका-मिश्रं जतु गान्धार-पङ्को वा तप्तोअवतिष्ठते ।। ०२.१४.३५ ।।

 तयोस्तापनं अवध्वंसनं वा शुद्धिः ।। ०२.१४.३६ ।।

 सपरिभाण्डे वा रूपे लवणं उल्कया कटु-शर्करया तप्तं अवतिष्ठते ।। ०२.१४.३७ ।।

 तस्य क्वाथनं शुद्धिः ।। ०२.१४.३८ ।।

 अभ्र-पटलं अष्टकेन द्वि-गुण-वास्तुके वा रूपे बध्यते ।। ०२.१४.३९ ।।

 तस्यापिहित-काचकस्यौदके निमज्जत एक-देशः सीदति । पटल-अन्तरेषु वा सूच्या भिद्यते ।। ०२.१४.४० ।।

 मणयो रूप्यं सुवर्णं वा घन-सुषिराणां पिङ्कः ।। ०२.१४.४१ ।।

 तस्य तापनं अवध्वंसनं वा शुद्धिः इति पिङ्कः ।। ०२.१४.४२ ।।

 तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां जाति-रूप-वर्ण-प्रमाण-पुद्गल-लक्षणान्युपलभेत ।। ०२.१४.४३ ।।

 कृत-भाण्ड-परीक्षायां पुराण-भाण्ड-प्रतिसंस्कारे वा चत्वारो हरण-उपायाः परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा ।। ०२.१४.४४ ।।

 पेटक-अपदेशेन पृषतं गुणं पिटकां वा यत्परिशातयन्ति तत्-परिकुट्टनं ।। ०२.१४.४५ ।।

 यद्-द्वि-गुण-वास्तुकानां वा रूपे सीस-रूपं प्रक्षिप्यऽभ्यन्तरं अवच्छिन्दन्ति तदवच्छेदनं ।। ०२.१४.४६ ।।

 यद्घनानां तीक्ष्णेनौल्लिखन्ति तदुल्लेखनं ।। ०२.१४.४७ ।।

 हरि-ताल-मनः-शिला-हिङ्गुलुक-चूर्णानां अन्यतमेन कुरु-विन्द-चूर्णेन वा वस्त्रं सम्यूह्य यत्परिमृद्नन्ति तत्परिमर्दनं ।। ०२.१४.४८ ।।

 तेन सौवर्ण-राजतानि भाण्डानि क्षीयन्ते । न चएषां किंचिदवरुग्णं भवति ।। ०२.१४.४९ ।।

 भग्न-खण्ड-घृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात् ।। ०२.१४.५० ।।

अवलेप्यानां यावदुत्पाटितं तावदुत्पाट्यानुमानं कुर्यात् ।। ०२.१४.५१ ।।

 विरूपाणां वा तापनं उदक-पेषणं च बहुशः कुर्यात् ।। ०२.१४.५२ ।।

 अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिक-अधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्व-काय-ईक्षा दृतिरुदक-शरावं अग्निष्ठं इति काचं विद्यात् ।। ०२.१४.५३ ।।

 राजतानां विस्रं मल-ग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात् ।। ०२.१४.५४ ।।

 एवं नवं च जीर्णं च विरूपं चापि भाण्डकं । ।। ०२.१४.५५अ ब ।।

 परीक्षेतात्ययं चएषां यथा-उद्दिष्टं प्रकल्पयेत् ।। ०२.१४.५५च्द् ।।