अर्थशास्त्रम्/अधिकरणम् २/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ अर्थशास्त्रम्
अध्यायः १३
कौटिलीय:
अध्यायः १४ →

 सुवर्ण-अध्यक्षः सुवर्ण-रजत-कर्म-अन्तानां असम्बन्ध-आवेशन-चतुः-शालां एक-द्वारां अक्ष-शालां कारयेत् ।। ०२.१३.०१ ।।

 विशिखा-मध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत् ।। ०२.१३.०२ ।।

 जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्ग-शुक्तिजं जात-रूपं रस-विद्धं आकर-उद्गतं च सुवर्णं ।। ०२.१३.०३ ।।

 किञ्जल्क-वर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठम् । रक्त-पीतकं मध्यमम् । रक्तं अवरं ।। ०२.१३.०४ ।।

 श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकं ।। ०२.१३.०५ ।।

 तद्येनाप्राप्तकं तच्चतुर्-गुणेन सीसेन शोधयेत् ।। ०२.१३.०६ ।।

 सीस-अन्वयेन भिद्यमानं शुष्क-पटलैर्ध्मापयेत् ।। ०२.१३.०७ ।।

 रूक्षत्वाद्भिद्यमानं तैल-गोमये निषेचयेत् ।। ०२.१३.०८ ।।

 आकर-उद्गतं सीस-अन्वयेन भिद्यमानं पाक-पत्त्राणि कृत्वा गण्डिकासु कुट्टयेत् । कदली-वज्र-कन्द-कल्के वा निषेचयेत् ।। ०२.१३.०९ ।।

 तुत्थ-उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यं ।। ०२.१३.१० ।।

 श्वेतं स्निग्धं मृदु च श्रेष्ठं ।। ०२.१३.११ ।।

 विपर्यये स्फोटनं च दुष्टं ।। ०२.१३.१२ ।।

 तत्-सीस-चतुर्-भागेन शोधयेत् ।। ०२.१३.१३ ।।

 उद्गत-चूलिकं अच्छं भ्राजिष्णु दधि-वर्णं च शुद्धं ।। ०२.१३.१४ ।।

 शुद्धस्यएको हारिद्रस्य सुवर्णो वर्णकः ।। ०२.१३.१५ ।।

 ततः शुल्ब-काकण्य्-उत्तर-अपसारिता आ-चतुः-सीम-अन्तादिति षोडश वर्णकाः ।। ०२.१३.१६ ।।

 सुवर्णं पूर्वं निकष्य पश्चाद्वर्णिकां निकषयेत् ।। ०२.१३.१७ ।।

 सम-राग-लेखं अनिम्न-उन्नते देशे निकषितम् । परिमृदितं परिलीढं नख-अन्तराद्वा गैरिकेण-अवचूर्णितं उपधिं विद्यात् ।। ०२.१३.१८ ।।

 जाति-हिङ्गुलुकेन पुष्पका-सीसेन वा गो-मूत्र-भावितेन दिग्धेनाग्र-हस्तेन संस्पृष्टं सुवर्णं श्वेती-भवति ।। ०२.१३.१९ ।।

 सकेसरः स्निग्धो मृदुर्भाजिष्णुश्च निकष-रागः श्रेष्ठः ।। ०२.१३.२० ।।

 कालिङ्गकस्तापी-पाषाणो वा मुद्ग-वर्णो निकषः श्रेष्ठः ।। ०२.१३.२१ ।।

 सम-रागी विक्रय-क्रय-हितः ।। ०२.१३.२२ ।।

 हस्तिच्-छविकः सहरितः प्रति-रागी विक्रय-हितः ।। ०२.१३.२३ ।।

 स्थिरः परुषो विषम-वर्णश्चाप्रतिरागी क्रय-हितः ।। ०२.१३.२४ ।।

 छेदश्चिक्कणः सम-वर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः ।। ०२.१३.२५ ।।

 तापो बहिर्-अन्तश्च समः किञ्जल्क-वर्णः कुरण्डक-पुष्प-वर्णो वा श्रेष्ठः ।। ०२.१३.२६ ।।

 श्यावो नीलश्चाप्राप्तकः ।। ०२.१३.२७ ।।

 तुला-प्रतिमानं पौतव-अध्यक्षे वक्ष्यामः ।। ०२.१३.२८ ।।

 तेनौपदेशेन रूप्य-सुवर्णं दद्यादाददीत च ।। ०२.१३.२९ ।।

 अक्ष-शालां अनायुक्तो नौपगच्छेत् ।। ०२.१३.३० ।।

 अभिगच्छन्नुच्छेद्यः ।। ०२.१३.३१ ।।

 आयुक्तो वा सरूप्य-सुवर्णस्तेनएव जीयेत ।। ०२.१३.३२ ।।

 विचित-वस्त्र-हस्त-गुह्याः काञ्चन-पृषत-त्वष्टृ-तपनीय-कारवो ध्मायक-चरक-पांसु-धावकाः प्रविशेयुर्निष्कसेयुश्च ।। ०२.१३.३३ ।।

 सर्वं चएषां उपकरणं अनिष्ठिताश्च प्रयोगास्तत्रएवावतिष्ठेरन् ।। ०२.१३.३४ ।।

 गृहीतं सुवर्णं धृतं च प्रयोगं करण-मध्ये दद्यात् ।। ०२.१३.३५ ।।

 सायं प्रातश्च लक्षितं कर्तृ-कारयितृ-मुद्राभ्यां निदध्यात् ।। ०२.१३.३६ ।।

 क्षेपणो गुणः क्षुद्रकं इति कर्माणि ।। ०२.१३.३७ ।।

 क्षेपणः काच-अर्पण-आदीनि ।। ०२.१३.३८ ।।

 गुणः सूत्र-वान-आदीनि ।। ०२.१३.३९ ।।

 घनं सुषिरं पृषत-आदि-युक्तं क्षुद्रकं इति ।। ०२.१३.४० ।।

 अर्पयेत्काच-कर्मणः पञ्च-भागं काञ्चनं दश-भागं कटु-मानं ।। ०२.१३.४१ ।।

 ताम्र-पाद-युक्तं रूप्यं रूप्य-पाद-युक्तं वा सुवर्णं संस्कृतकम् । तस्माद्रक्षेत् ।। ०२.१३.४२ ।।

 पृषत-काच-कर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकम् । चत्वारो वा वास्तुकं त्रयः परिभाण्डं ।। ०२.१३.४३ ।।

 त्वष्टृ-कर्मणः शुल्ब-भाण्डं सम-सुवर्णेन सम्यूहयेत् ।। ०२.१३.४४ ।।

 रूप्य-भाण्डं घनं सुषिरं वा सुवर्ण-अर्धेनावलेपयेत् ।। ०२.१३.४५ ।।

 चतुर्-भाग-सुवर्णं वा वालुका-हिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् । ।। ०२.१३.४६ ।।

 तपनीयं ज्येष्ठं सुवर्णं सुरागं सम-सीस-अतिक्रान्तं पाक-पत्त्र-पक्वं सैन्धविकयाउज्ज्वालितं नील-पीत-श्वेत-हरित-शुक-पत्त्र-वर्णानां प्रकृतिर्भवति ।। ०२.१३.४७ ।।

 तीक्ष्णं चास्य मयूर-ग्रीव-आभं श्वेत-भङ्गं चिमिचिमायितं पीत-चूर्णितं काकणिकः सुवर्ण-रागः ।। ०२.१३.४८ ।।

 तारं उपशुद्धं वा अस्थि-तुत्थे चतुः सम-सीसे चतुः शुष्क-तुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्त-दश-तुत्थ-अतिक्रान्तं सैन्धविकयाउज्ज्वालितं ।। ०२.१३.४९ ।।

 एतस्मात्काकण्य्-उत्तरमाद्विमाषादिति सुवर्णे देयम् । पश्चाद्राग-योगः । श्वेत-तारं भवति । ।। ०२.१३.५० ।।

 त्रयोअंशास्तपनीयस्य द्वात्रिंशद्-भाग-श्वेत-तारं ऊर्च्छिताः तत्श्वेत-लोहितकं भवति ।। ०२.१३.५१ ।।

 ताम्रं पीतकं करोति ।। ०२.१३.५२ ।।

 तपनीयं उज्ज्वाल्य राग-त्रि-भागं दद्यात् । पीत-रागं भवति ।। ०२.१३.५३ ।।

 श्वेत-तार-भागौ द्वावेकस्तपनीयस्य मुद्ग-वर्णं करोति ।। ०२.१३.५४ ।।

 काल-अयसस्यार्ध-भाग-अभ्यक्तं कृष्णं भवति ।। ०२.१३.५५ ।।

 प्रतिलेपिना रसेन द्वि-गुण-अभ्यक्तं तपनीयं शुक-पत्त्र-वर्णं भवति ।। ०२.१३.५६ ।।

 तस्य-आरम्भे राग-विशेषेषु प्रतिवर्णिकां गृह्णीयात् ।। ०२.१३.५७ ।।

 तीक्ष्ण-ताम्र-संस्कारं च बुध्येत ।। ०२.१३.५८ ।।

 तस्माद्वज्र-मणि-मुक्ता-प्रवाल-रूपाणां अपनेयि-मानं च रूप्य-सुवर्ण-भाण्ड-बन्ध-प्रमाणानि च ।। ०२.१३.५९ ।।

 सम-रागं सम-द्वन्द्वं असक्त-पृषतं स्थिरं । ।। ०२.१३.६०अ ब ।।

 सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखं ।। ०२.१३.६०च्द् ।।

 अभिनीतं प्रभा-युक्तं संस्थानं अधुरं समं । ।। ०२.१३.६१अ ब ।।

 मनो-नेत्र-अभिरामं च तपनीय-गुणाः स्मृताः ।। ०२.१३.६१च्द् ।।