अर्थशास्त्रम्/अधिकरणम् २/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११ अर्थशास्त्रम्
अध्यायः १२
कौटिलीय:
अध्यायः १३ →

 आकर-अध्यक्षः शुल्ब-धातु-शास्त्र-रस-पाक-मणि-रागज्ञस्तज्ज्ञ-सखो वा तज्-जात-कर्म-कर-उपकरण-सम्पन्नः किट्ट-मूष-अङ्गार-भस्म-लिङ्गं वाआकरं भूत-पूर्वं अभुत-पूर्वं वा भूमि-प्रस्तर-रस-धातुं अत्यर्थ-वर्ण-गौरवं उग्र-गन्ध-रसं परीक्षेत ।। ०२.१२.०१ ।।

 पर्वतानां अभिज्ञात-उद्देशानां बिल-गुह-उपत्यक-आलयन-गूढ-खातेष्वन्तः प्रस्यन्दिनो जम्बू-चूत-ताल-फल-पक्व-हरिद्रा-भेद-गुड(गूड?)-हरि-ताल-मनः-शिला-क्षौद्र-हिङ्गुलुक-पुण्डरीक-शुक-मयूर-पत्त्र-वर्णाः सवर्ण-उदक-ओषधि-पर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः ।। ०२.१२.०२ ।।

 अप्सु निष्ठ्यूतास्तैलवद्-विसर्पिणः षङ्क-मल-ग्राहिणश्च ताम्र-रूप्ययोः शतादुपरि वेद्धारः ।। ०२.१२.०३ ।।

 तत्-प्रतिरूपकं उग्र-गन्ध-रसं शिला-जतु विद्यात् ।। ०२.१२.०४ ।।

 पीतकास्-ताम्रकास्ताम्र-पीतका वा भूमि-प्रस्तर-धातवो भिन्ना नील-राजीवन्तो मुद्ग-माष-कृसर-वर्णा वा दधि-बिन्दु-पिण्ड-चित्रा हरिद्रा-हरीतकी-पद्म-पत्त्र-शैवल-यकृत्-प्लीह-अनवद्य-वर्णा भिन्नाश्चुञ्चु-वालुक-आलेखा-बिन्दु-स्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तस्ताप्यमाना न भिद्यन्ते बहु-फेन-धूमाश्च सुवर्ण-धातवः प्रतीवाप-अर्थास् ताम्र-रूप्य-वेधनाः ।। ०२.१२.०५ ।।

 शङ्ख-कर्पूर-स्फटिक-नव-नीत-कपोत-पारावत-विमलक-मयूर-ग्रीवा-वर्णाः सस्यक-गोमेदक-गुड-मत्स्यण्डिका-वर्णाः कोविदार-पद्म-पाटलीक-लाय-क्षौम-अतसी-पुष्प-वर्णाः ससीसाः स-अञ्जना विस्रा भिन्नाः श्वेत-आभाः कृष्णाः कृष्ण-आभाः श्वेताः सर्वे वा लेखा-बिन्दु-चित्रा मृदवो ध्मायमाना न स्फुटन्ति बहु-फेन-धूमाश्च रूप्य-धातवः ।। ०२.१२.०६ ।।

 सर्व-धातूनां गौरव-वृद्धौ सत्त्व-वृद्धिः ।। ०२.१२.०७ ।।

 तेषां अशुद्धा मूढ-गर्भा वा तीक्ष्ण-मूत्र-क्षर-भाविता राज-वृक्ष-वट-पीलु-गो-पित्त-रोचना-महिष-खर-करभ-मूत्र-लेण्ड-पिण्ड-बद्धास्तत्-प्रतीवापास्तद्-अवलेपा वा विशुद्धाः स्रवन्ति ।। ०२.१२.०८ ।।

 यव-माष-तिल-पलाश-पीलु-क्षारैर्-गो-क्षीर-अज-क्षीरैर्वा कदली-वज्र-कन्द-प्रतीवपो मार्दव-करः ।। ०२.१२.०९ ।।

 मधु-मधुकं अजा-पयः सतैलं घृत-गुड-किण्व-युतं सकन्दलीकं । ।। ०२.१२.१०अ ब ।।

 यदपि शत-सहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्-निषेकैः ।। ०२.१२.१०च्द् ।।

 गो-दन्त-शृङ्ग-प्रतीवापो मृदु-स्तम्भनः ।। ०२.१२.११ ।।

 भारिकः स्निग्धो मृदुश्च प्रस्तर-धातुर्भूमि-भागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्र-धातुः ।। ०२.१२.१२ ।।

 काक-मोचकः कपोत-रोचना-वर्णः श्वेत-राजि-नद्धो वा विस्रः सीस-धातुः ।। ०२.१२.१३ ।।

 ऊषर-कर्बुरः पक्व-लोष्ठ-वर्णो वा त्रपु-धातुः ।। ०२.१२.१४ ।।

 खरुम्बः पाण्डु-रोहितः सिन्दु-वार-पुष्प-वर्णो वा तीक्ष्ण-धातुः ।। ०२.१२.१५ ।।

 काक-अण्ड-भुज-पत्त्र-वर्णो वा वैकृन्तक-धातुः ।। ०२.१२.१६ ।।

 अच्छः स्निग्धः सप्रभो घोषवान्शीतस्तीव्रस्तनु-रागश्च मणि-धातुः ।। ०२.१२.१७ ।।

 धातु-समुत्थं तज्-जात-कर्म-अन्तेषु प्रयोजयेत् ।। ०२.१२.१८ ।।

 कृत-भाण्ड-व्यवहारं एक-मुखम् । अत्ययं चान्यत्र कर्तृ-क्रेतृ-विक्रेतृऋणां स्थापयेत् ।। ०२.१२.१९ ।।

 आकरिकं अपहरन्तं अष्ट-गुणं दापयेदन्यत्र रत्नेभ्यः ।। ०२.१२.२० ।।

 स्तेनं अनिसृष्ट-उपजीविनं च बद्धं कर्म कारयेत् । दण्ड-उपकारिणं च ।। ०२.१२.२१ ।।

 व्यय-क्रिया-भारिकं आअकरं भागेन प्रक्रयेण वा दद्यात् । लाघविकं आत्मना कारयेत् ।। ०२.१२.२२ ।।

 लोह-अध्यक्षस्ताम्र-सीस-त्रपु-वैकृन्त-कार-कूट-वृत्त-कंस-ताल-लोह-कर्म-अन्तान्कारयेत् । लोह-भाण्ड-व्यवहारं च ।। ०२.१२.२३ ।।

 लक्षण-अध्यक्षश्चतुर्-भाग-ताम्रं रूप्य-रूपं तीक्ष्ण-त्रपु-सीस-अञ्जनानां अन्यतम-माष-बीज-युक्तं कारयेत् पणं अर्ध-पणं पादम् । अष्ट-भागं इति । पाद-आजीवं ताम्र-रूपं माषकं अर्ध-माषकं काकणीम् अर्ध-काकणीं इति ।। ०२.१२.२४ ।।

 रूप-दर्शकः पण-यात्रां व्यावहारिकीं कोश-प्रवेश्यां च स्थापयेत् ।। ०२.१२.२५ ।।

 रूपिकं अष्टकं शतम् । पञ्चकं शतं व्याजीम् । पारीक्षिकं अष्ट-भागिकम् । शतम् । पञ्च-विंशति-पणं अत्ययं च अन्यत्र-कर्तृ-क्रेतृ-विक्रेतृ-परीक्षितृभ्यः ।। ०२.१२.२६ ।।

 खन्य्-अध्यक्षः शङ्ख-वज्र-मणि-मुक्ता-प्रवाल-क्षार-कर्म-अन्तान्कारयेत् । पणन-व्यवहारं च ।। ०२.१२.२७ ।।

 लवण-अध्यक्षः पाक-मुक्तं लवण-भागं प्रक्रयं च यथा-कालं संगृह्णीयाद् । विक्रयाच्च मूल्यं रूपं व्याजीं च ।। ०२.१२.२८ ।।

 आगन्तु-लवणं षड्-भागं दद्यात् ।। ०२.१२.२९ ।।

 दत्त-भाग-विभागस्य विक्रयः । पञ्चकं शतं व्याजीं रूपं रूपिकं च ।। ०२.१२.३० ।।

 क्रेता शुल्कं राज-पण्यच्-छेद-अनुरूपं च वैधरणं दद्यात् । अन्यत्र क्रेता षट्-छतं अत्ययं च ।। ०२.१२.३१ ।।

 विलवणं उत्तमं दण्डं दद्याद् । अनिषृष्ट-उपजीवी चान्यत्र वानप्रस्थेभ्यः ।। ०२.१२.३२ ।।

 श्रोत्रियास्तपस्विनो विष्टयश्च भक्त-लवणं हरेयुः ।। ०२.१२.३३ ।।

 अतोअन्यो लवण-क्षार-वर्गः शुल्कं दद्यात् ।। ०२.१२.३४ ।।

 एवं मूल्यं च भागं च व्याजीं परिघं अत्ययं । ।। ०२.१२.३५अ ब ।।

 शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च ।। ०२.१२.३५च्द् ।।

 खनिभ्यो द्वादश-विधं धातुं पण्यं च संहरेत् । ।। ०२.१२.३६अ ब ।।

 एवं सर्वेषु पण्येषु स्थापयेन्मुख-संग्रहं ।। ०२.१२.३६च्द् ।।

 आकर-प्रभः कोशः कोशाद्दण्डः प्रजायते । ।। ०२.१२.३७अ ब ।।

 पृथिवी कोश-दण्डाभ्यां प्राप्यते कोश-भूषणा ।। ०२.१२.३७च्द् ।।