अर्थशास्त्रम्/अधिकरणम् २/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० अर्थशास्त्रम्
अध्यायः ११
कौटिलीय:
अध्यायः १२ →

 कोश-अध्यक्षः कोश-प्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्-जात-करण-अधिष्ठितः प्रतिगृह्णीयात् ।। ०२.११.०१ ।।

 ताम्र-पर्णिकं पाण्ड्यक-वाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकं ।। ०२.११.०२ ।।

 शुक्तिः शङ्खः प्रकीर्णकं च योनयः ।। ०२.११.०३ ।।

 मसूरकं त्रि-पुटकं कूर्मकं अर्ध-चन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तं ।। ०२.११.०४ ।।

 स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देश-विद्धं च प्रशस्तं ।। ०२.११.०५ ।।

 शीर्षकं उपशीर्षकं प्रकाण्डकं अवघाटकं तरल-प्रतिबद्धं चैति यष्टि-प्रभेदाः ।। ०२.११.०६ ।।

 यष्टीनां अष्ट-सहस्रं इन्द्रच्-छन्दः ।। ०२.११.०७ ।।

 ततोअर्धं विजयच्-छन्दः ।। ०२.११.०८ ।।

 चतुष्षष्टिरर्ध-हारः ।। ०२.११.०९ ।।

 चतुष्-पञ्चाशद्रश्मि-कलापः ।। ०२.११.१० ।।

 द्वात्रिंशद्गुच्छः ।। ०२.११.११ ।।

 सप्त-विंशतिर्नक्षत्र-माला ।। ०२.११.१२ ।।

 चतुर्विंशतिरर्ध-गुच्छः ।। ०२.११.१३ ।।

 विंशतिर्माणवकः ।। ०२.११.१४ ।।

 ततोअर्धं अर्ध-माणवकः ।। ०२.११.१५ ।।

 एत एव मणि-मध्यास्तन्-माणवका भवन्ति ।। ०२.११.१६ ।।

 एक-शीर्षकः शुद्धो हारः ।। ०२.११.१७ ।।

 तद्वत्-शेषाः ।। ०२.११.१८ ।।

 मणि-मध्योअर्ध-माणवकः ।। ०२.११.१९ ।।

 त्रि-फलकः फलक-हारः । पञ्च-फलको वा ।। ०२.११.२० ।।

 सूत्रं एकावली शुद्धा ।। ०२.११.२१ ।।

 साएव मणि-मध्या यष्टिः ।। ०२.११.२२ ।।

 हेम-मणि-चित्रा रत्नावली ।। ०२.११.२३ ।।

 हेम-मणि-मुक्ता-अन्तरोअपवर्तकः ।। ०२.११.२४ ।।

 सुवर्ण-सूत्र-अन्तरं सोपानकं ।। ०२.११.२५ ।।

 मणि-मध्यं वा मणि-सोपानकं ।। ०२.११.२६ ।।

 तेन शिरो-हस्त-पाद-कटी-कलाप-जालक-विकल्पा व्याख्याताः ।। ०२.११.२७ ।।

 मणिः कौटो-मालेयकः पार-समुद्रकश्च ।। ०२.११.२८ ।।

 सौगन्धिकः पद्म-रागोअनवद्य-रागः पारिजात-पुष्पको बाल-सूर्यकः ।। ०२.११.२९ ।।

 वैडूर्यं उत्पल-वर्णः शिरीष-पुष्पक उदक-वर्णो वंश-रागः शुक-पत्त्र-वर्णः पुष्य-रागो गो-मूत्रको गो-मेदकः ।। ०२.११.३० ।।

 इन्द्र-नीलो नील-अवलीयः कलाय-पुष्पको महा-नीलो जम्ब्व्-आभो जीमूत-प्रभो नन्दकः स्रवन्-मध्यः ।। ०२.११.३१ ।।

 शुद्ध-स्फटिको मूलाट-वर्णः शीत-वृष्टिः सूर्य-कान्तश्च इति मणयः ।। ०२.११.३२ ।।

 षड्-अश्रश्चतुर्-अश्रो वृत्तो वा तीव्र-रागः संस्थानवानछः स्निग्धो गुरुरर्चिष्मानन्तर्-गत-प्रभः प्रभा-अनुलेपी चैति मणि-गुणाः ।। ०२.११.३३ ।।

 मन्द-राग-प्रभः सशर्करः पुष्पच्-छिद्रः खण्डो दुर्विद्धो लेख-आकीर्ण इति दोषाः ।। ०२.११.३४ ।।

 विमलकः सस्यकोअञ्जन-मूलकः पित्तकः सुलभको लोहित-अक्षो मृग-अश्मको ज्योती-रसको मालेयकोअहिच्-छत्रकः कूर्पः प्रतिकूर्पः सुगन्धि-कूर्पः क्षीरवकः श्शुक्ति-चूर्णकः शिला-प्रवालकः पुलकः शुक्ल-पुलक इत्यन्तर-जातयः ।। ०२.११.३५ ।।

 शेषाः काच-मणयः ।। ०२.११.३६ ।।

 सभा-राष्ट्रकं तज्जमा-राष्ट्रकं कास्तीर-राष्ट्रकं श्री-कटनकं मणिमन्तकं इन्द्र-वानकं च वज्रं ।। ०२.११.३७ ।।

 खनिः स्रोतः प्रकीर्णकं च योनयः ।। ०२.११.३८ ।।

 मार्जार-अक्षकं शिरीष-पुष्पकं गो-मूत्रकं गो-मेदकं शुद्ध-स्फटिकं मूलाटी-वर्णं मणि-वर्णानां अन्यतम-वर्णं इति वज्र-वर्णाः ।। ०२.११.३९ ।।

 स्थूलं गुरु प्रहार-सहं समकोटिकं भाजन-लेखि तर्कु-भ्रामि भ्राजिष्णु च प्रशस्तं ।। ०२.११.४० ।।

 नष्ट-कोणं निराश्रि पार्श्व-अपवृत्तं चाप्रशस्तं ।। ०२.११.४१ ।।

 प्रवालकं आल-कन्दकं वैवर्णिकं च । रक्तं पद्म-रागं च करट-गर्भिणिका-वर्जं इति ।। ०२.११.४२ ।।

 चन्दनं सातनं रक्तं भूमि-गन्धि ।। ०२.११.४३ ।।

 गो-शीर्षकं काल-ताम्रं मत्स्य-गन्धि ।। ०२.११.४४ ।।

 हरि-चन्दनं शुक-पत्त्र-वर्णं आम्र-गन्धि । तार्णसं च ।। ०२.११.४५ ।।

 ग्रामेरुकं रक्तं रक्त-कालं वा बस्त-मूत्र-गन्धि ।। ०२.११.४६ ।।

 दैवसभेयं रक्तं पद्म-गन्धि । जापकं च ।। ०२.११.४७ ।।

 जोङ्गकं रक्तं रक्त-कालं वा स्निग्धम् । तौरूपं च ।। ०२.११.४८ ।।

 मालेयकं पाण्डु-रक्तं ।। ०२.११.४९ ।।

 कुचन्दनं रूक्षं अगुरु-कालं रक्तं रक्त-कालं वा ।। ०२.११.५० ।।

 काल-पर्वतकं रक्त-कालं अनवद्य-वर्णं वा ।। ०२.११.५१ ।।

 कोश-अगार-पर्वतकं कालं काल-चित्रं वा ।। ०२.११.५२ ।।

 शीत-उदकीयं पद्म-आभं काल-स्निग्धं वा ।। ०२.११.५३ ।।

 नाग-पर्वतकं रूक्षं शैवल-वर्णं वा ।। ०२.११.५४ ।।

 शाकलं कपिलं इति ।। ०२.११.५५ ।।

 लघु स्निग्धं अश्यानं सर्पिः-स्नेह-लेपि गन्ध-सुखं त्वग्-अनुसार्यनुल्बणं अविराग्युष्ण-सहं दाह-ग्राहि सुख-स्पर्शनं इति चन्दन-गुणाः ।। ०२.११.५६ ।।

 अगुरु जोङ्गकं कालं काल-चित्रं मण्डल-चित्रं वा ।। ०२.११.५७ ।।

 श्यामं दोङ्गकं इति ।। ०२.११.५८ ।।

 पार-समुद्रकं चित्र-रूपं उशीर-गन्धि नव-मालिका-गन्धि वा ।। ०२.११.५९ ।।

 गुरु स्निग्धं पेशल-गन्धि निर्हार्यग्नि-सहं असम्प्लुत-धूमं विमर्द-सहं इत्यगुरु-गुणाः ।। ०२.११.६० ।।

 तैल-पर्णिकं अशोक-ग्रामिकं मांस-वर्णं पद्म-गन्धि ।। ०२.११.६१ ।।

 जोङ्गकं रक्त-पीतकं उत्पल-गन्धि गो-मूत्र-गन्धि वा ।। ०२.११.६२ ।।

 ग्रामेरुकं स्निग्धं गो-मूत्र-गन्धि ।। ०२.११.६३ ।।

 सौवर्ण-कुड्यकं रक्त-पीतं मातुलुङ्ग-गन्धि ।। ०२.११.६४ ।।

 पूर्णक-द्वीपकं पद्म-गन्धि नव-नीत-गन्धि वा ।। ०२.११.६५ ।।

 भद्र-श्रियं पारलौहित्यकं जाती-वर्णं ।। ०२.११.६६ ।।

 आन्तरवत्यं उशीर-वर्णं ।। ०२.११.६७ ।।

 उभयं कुष्ठ-गन्धि च इति ।। ०२.११.६८ ।।

 कालेयकः स्वर्ण-भूमिजः स्निग्ध-पीतकः ।। ०२.११.६९ ।।

 औत्तर-पर्वतको रक्त-पीतकः इति साराः । ।। ०२.११.७० ।।

 पिण्ड-क्वाथ-धूम-सहं अविरागि योग-अनुविधायि च ।। ०२.११.७१ ।।

 चन्दन-अगुरुवच्च तेषां गुणाः ।। ०२.११.७२ ।।

 कान्तनावकं प्रैयकं चौत्तर-पर्वतकं चर्म ।। ०२.११.७३ ।।

 कान्तनावकं मयूर-ग्रीव-आभं ।। ०२.११.७४ ।।

 प्रैयकं नील-पीत-श्वेत-लेखा-बिन्दु-चित्रं ।। ०२.११.७५ ।।

 तद्-उभयं अष्ट-अङ्गुल-आयामं ।। ०२.११.७६ ।।

 बिसी महा-बिसी च द्वादश-ग्रामीये ।। ०२.११.७७ ।।

 अव्यक्त-रूपा दुहिलितिका चित्रा वा बिसी ।। ०२.११.७८ ।।

 परुषा श्वेत-प्राया महाबिसी ।। ०२.११.७९ ।।

 द्वादश-अङ्गुल-आयामं उभयं ।। ०२.११.८० ।।

 श्यामिका कालिका कदली चन्द्र-उत्तरा शाकुला चऽरोहजाः ।। ०२.११.८१ ।।

 कपिला बिन्दु-चित्रा वा श्यामिका ।। ०२.११.८२ ।।

 कालिका कपिला कपोत-वर्णा वा ।। ०२.११.८३ ।।

 तदुभयं अष्ट-अङ्गुल-आयामं ।। ०२.११.८४ ।।

 परुषा कदली हस्त-आयता ।। ०२.११.८५ ।।

 साएव चन्द्र-चित्रा चन्द्र-उत्तरा ।। ०२.११.८६ ।।

 कदली-त्रि-भागा शाकुला कोठ-मण्डल-चित्रा कृत-कर्णिकाअजिन-चित्रा वा इति ।। ०२.११.८७ ।।

 सामूरं चीनसी सामूली च बाह्लवेयाः ।। ०२.११.८८ ।।

 षट्-त्रिंशद्-अङ्गुलं अञ्जन-वर्णं सामूरं ।। ०२.११.८९ ।।

 चीनसी रक्त-काली पाण्डु-काली वा ।। ०२.११.९० ।।

 सामूली गो-धूम-वर्णा इति ।। ०२.११.९१ ।।

 सांतिना नल-तूला वृत्त-पृच्छा चौद्राः ।। ०२.११.९२ ।।

 सातिना कृष्णा ।। ०२.११.९३ ।।

 नल-तूला नल-तूल-वर्णा ।। ०२.११.९४ ।।

 कपिला वृत्त-पुच्छा च इति चर्म-जातयः । ।। ०२.११.९५ ।।

 चर्मणां मृदु स्निग्धं बहुल-रोम च श्रेष्ठं ।। ०२.११.९६ ।।

 शुद्धं शुद्ध-रक्तं पक्ष-रक्तं चऽविकम् । खचितं वान-चित्रं खण्ड-संघात्यं तन्तु-विच्छिन्नं च ।। ०२.११.९७ ।।

 कम्बलः कौचपकः कुलमितिका सौमितिका तुरग-आस्तरणं वर्णकं तलिच्छकं वार-वाणः परिस्तोमः समन्त-भद्रकं चऽविकं ।। ०२.११.९८ ।।

 पिच्छिलं आर्द्रं इव च सूक्ष्मं मृदु च श्रेष्ठं ।। ०२.११.९९ ।।

 अष्ट-प्रोति-संघात्या कृष्णा भिङ्गिसी वर्ष-वारणं अपसारक इति नैपालकं ।। ०२.११.१०० ।।

 सम्पुटिका चतुर्-अश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिकाइति मृग-रोम ।। ०२.११.१०१ ।।

 वाङ्गकं श्वेतं स्निग्धं दुकूलं ।। ०२.११.१०२ ।।

 पौण्ड्रकं श्यामं मणि-स्निग्धं ।। ०२.११.१०३ ।।

 सौवर्ण-कुड्यकं सूर्य-वर्णं मणि-स्निग्ध-उदक-वानं चतुर्-अश्र-वानं व्यामिश्र-वानं च ।। ०२.११.१०४ ।।

 एतेषां एक-अंशुकं अध्यर्ध-द्वि-त्रि-चतुर्-अंशुकं इति ।। ०२.११.१०५ ।।

 तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातं ।। ०२.११.१०६ ।।

 मागधिका पौण्ड्रिका सौवर्ण-कुड्यका च पत्त्र-ऊर्णा ।। ०२.११.१०७ ।।

 नाग-वृक्षो लिकुचो बकुलो वटश्च योनयः ।। ०२.११.१०८ ।।

 पीतिका नाग-वृक्षिका ।। ०२.११.१०९ ।।

 गो-धूम-वर्णा लैकुची ।। ०२.११.११० ।।

 श्वेता बाकुली ।। ०२.११.१११ ।।

 शेषा नव-नीत-वर्णा ।। ०२.११.११२ ।।

 तासां सौवर्ण-कुड्यका श्रेष्ठा ।। ०२.११.११३ ।।

 तया कौशेयं चीन-पट्टाश्च चीन-भूमिजा व्याख्याताः ।। ०२.११.११४ ।।

 माधुरं आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठं इति ।। ०२.११.११५ ।।

 अतः परेषां रत्नानां प्रमाणं मूल्य-लक्षणं । ।। ०२.११.११६ ।।

 जातिं रूपं च जानीयान्निधानं नव-कर्म च ।। ०२.११.११७ ।।

 पुराण-प्रतिसंस्कारं कर्म गुह्यं उपस्करान् । ।। ०२.११.११८ ।।

 देश-काल-परीभोगं हिंस्राणां च प्रतिक्रियां ।। ०२.११.११९ ।।