अर्थशास्त्रम्/अधिकरणम् २/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४ अर्थशास्त्रम्
अध्यायः १५
कौटिलीय:
अध्यायः १६ →

 कोष्ठ-अगार-अध्यक्षः सीता-राष्ट्र-क्रयिम-परिवर्तक-प्रामित्यक-आपमित्यक-संहनिक-अन्य-जात-व्यय-प्रत्याय-उपस्थानान्युपलभेत् ।। ०२.१५.०१ ।।

 सीता-अध्यक्ष-उपनीतः सस्य-वर्णकः सीता ।। ०२.१५.०२ ।।

 पिण्ड-करः षड्-भागः सेना-भक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रं ।। ०२.१५.०३ ।।

 धान्य-मूल्यं कोश-निर्हारः प्रयोग-प्रत्यादानं च क्रयिमं ।। ०२.१५.०४ ।।

 सस्य-वर्णानां अर्घ-अन्तरेण विनिमयः परिवर्तकः ।। ०२.१५.०५ ।।

 सस्य-याचनं अन्यतः प्रामित्यकं ।। ०२.१५.०६ ।।

 तदेव प्रतिदान-अर्थं आपमित्यकं ।। ०२.१५.०७ ।।

 कुट्टक-रोचक-सक्तु-शुक्त-पिष्ट-कर्म तज्-जीवनेषु तैल-पीडन-मौद्र-चाक्रिकेष्विक्षूणां च क्षार-कर्म संहनिका ।। ०२.१५.०८ ।।

 नष्ट-प्रस्मृत-आदिरन्य-जातः ।। ०२.१५.०९ ।।

 विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ।। ०२.१५.१० ।।

 तुला-मान-अन्तरं हस्त-पूरणं उत्करो व्याजी पर्युषितं प्रार्जितं चौपस्थानं इति ।। ०२.१५.११ ।।

 धान्य-स्नेह-क्षार-लवणानां धान्य-कल्पं सीता-अध्यक्षे वक्ष्यामः ।। ०२.१५.१२ ।।

 सर्पिस्-तैल-वसा-मज्जानः स्नेहाः ।। ०२.१५.१३ ।।

 फाणित-गुड-मत्स्यण्डिक-अखण्ड-शर्कराः क्षार-वर्गः ।। ०२.१५.१४ ।।

 सैन्धव-सामुद्र-बिड-यव-क्षार-सौवर्चल-उद्भेदजा लवण-वर्गः ।। ०२.१५.१५ ।।

 क्षौद्रं मार्द्वीकं च मधु ।। ०२.१५.१६ ।।

 इक्षु-रस-गुड-मधु-फाणित-जाम्बव-पनसानां अन्यतमो मेष-शृङ्गी-पिप्पली-क्वाथ-अभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक-इक्षु-काण्ड-आम्र-फल-आमलक-अवसुतः शुद्धो वा शुक्त-वर्गः ।। ०२.१५.१७ ।।

 वृक्ष-आम्ल-कर-मर्द-आम्र-विदल-आमलक-मातुलुङ्ग-कोल-बदर-सौवीरक-परूषक-आदिः फल-आम्ल-वर्गः ।। ०२.१५.१८ ।।

 दधि-धान्य-आम्ल-आदिर्द्रव-आम्ल-वर्गः ।। ०२.१५.१९ ।।

 पिप्पली-मरिच-शृङ्गि-बेरा-अजाजी-किरात-तिक्त-गौर-सर्षप-कुस्तुम्बुरु-चोरक-दमनक-मरुवक-शिग्रु-काण्ड-आदिः कटुक-वर्गः ।। ०२.१५.२० ।।

 शुष्क-मत्स्य-मांस-कन्द-मूल-फल-शाक-आदि च शाक-वर्गः ।। ०२.१५.२१ ।।

 ततोअर्धं आपद्-अर्थं जानपदानां स्थापयेद् । अर्धं उपयुञ्जीत ।। ०२.१५.२२ ।।

 नवेन चानवं शोधयेत् ।। ०२.१५.२३ ।।

 क्षुण्ण-घृष्ट-पिष्ट-भृष्टानां आर्द्र-शुष्क-सिद्धानां च धान्यानां वृद्धि-क्षय-प्रमाणानि प्रत्यक्षी-कुर्वीत ।। ०२.१५.२४ ।।

 कोद्रव-व्रीहीणां अर्धं सारः । शालीनां अर्ध-भाग-ऊनः । त्रि-भाग-ऊनो वरकाणां ।। ०२.१५.२५ ।।

 प्रियङ्गूणां अर्धं सारो नव-भाग-वृद्धिश्च ।। ०२.१५.२६ ।।

 उदारकस्तुल्यः । यवा गो-धूमाश्च क्षुण्णाः । तिला यवा मुद्ग-माषाश्च घृष्टाः ।। ०२.१५.२७ ।।

 पञ्च-भाग-वृद्धिर्-गो-धूमः । सक्तवश्च ।। ०२.१५.२८ ।।

 पाद-ऊना कलाय-चमसी ।। ०२.१५.२९ ।।

 मुद्ग-माषाणां अर्ध-पाद-ऊना ।। ०२.१५.३० ।।

 ।। ०२.१५.३१ ।शौम्ब्यानां अर्धं सारः । त्रि-भाग-ऊनो मसूराणां ।।

 पिष्टं आमं कुल्माषाश्चाध्यर्ध-गुणाः ।। ०२.१५.३२ ।।

 द्वि-गुणो यावकः । पुलाकः । पिष्टं च सिद्धं ।। ०२.१५.३३ ।।

 कोद्रव-वरक-उदारक-प्रियङ्गूणां त्रि-गुणं अन्नम् । चतुर्-गुणं व्रीहीणाम् । पञ्च-गुणं शालीनां ।। ०२.१५.३४ ।।

 तिमितं अपर-अन्नं द्वि-गुणम् । अर्ध-अधिकं विरूढानां ।। ०२.१५.३५ ।।

 पञ्च-भाग-वृद्धिर्भृष्टानां ।। ०२.१५.३६ ।।

 कलायो द्वि-गुणः । लाजा भरुजाश्च ।। ०२.१५.३७ ।।

 ।। ०२.१५.३८ ।षट्कं तैलं अतसीनां ।।

 निम्ब-कुश-आम्रक-पित्थ-आदीनां पञ्च-भागः ।। ०२.१५.३९ ।।

 चतुर्-भागिकास्तिल-कुसुम्भ-मधूक-इङ्गुदी-स्नेहाः ।। ०२.१५.४० ।।

 कार्पास-क्षौमाणां पञ्च-पले पलं सूत्रं ।। ०२.१५.४१ ।।

 पञ्च-द्रोणे शालीनां द्वादश-आढकं तण्डुलानां कलभ-भोजनम् । एकादशकं व्यालानाम् । दशकं औपवाह्यानां नवकं साम्नाह्यानाम् । अष्टकं पत्तीनाम् । सप्तकं मुख्यानाम् । षट्कं देवी-कुमाराणाम् । पञ्चकं राज्ञाम् । अखण्ड-परिशुद्धानां वा तुअण्डुलानां प्रस्थः ।। ०२.१५.४२ ।।

 तण्डुलानां प्रस्थः चतुर्-भागः सूपः सूप-षोडशो लवणस्यांशः चतुर्-भागः सर्पिषस्तैलस्य वाएकं आर्य-भक्तं पुंसः ।। ०२.१५.४३ ।।

 ।। ०२.१५.४४ ।षड्-भागः सूपः अर्ध-स्नेहं अवराणां ।।

 पाद-ऊनं स्त्रीणां ।। ०२.१५.४५ ।।

 अर्धं बालानां ।। ०२.१५.४६ ।।

 मांस-पल-विंशत्या स्नेह-अर्ध-कुडुबः पलिको लवणस्यांशः क्षार-पल-योगो द्वि-धरणिकः कटुक-योगो दध्नुश्चार्ध-प्रस्थः ।। ०२.१५.४७ ।।

 तेनौत्तरं व्याख्यातं ।। ०२.१५.४८ ।।

 शाकानां अध्यर्ध-गुणः । शुष्काणां द्वि-गुणः । स चैव योगः ।। ०२.१५.४९ ।।

 हस्त्य्-अश्वयोस्तद्-अध्यक्षे विधा-प्रमाणं वक्ष्यामः ।। ०२.१५.५० ।।

 बली-वर्दानां माष-द्रोणं यवानां वा पुलाकः । शेषं अश्व-विधानं ।। ०२.१५.५१ ।।

 विशेषो घाण-पिण्याक-तुला । कण-कुण्डकं दश-आढकं वा ।। ०२.१५.५२ ।।

 द्वि-गुणं महिष-उष्ट्राणां ।। ०२.१५.५३ ।।

 अर्ध-द्रोणं खर-पृषत-रोहितानां ।। ०२.१५.५४ ।।

 आढकं एण-कुरङ्गाणां ।। ०२.१५.५५ ।।

 अर्ध-आढकं अज-एडक-वराहाणाम् । द्वि-गुणं वा कण-कुण्डकं ।। ०२.१५.५६ ।।

 प्रस्थ-ओदनः शुनां ।। ०२.१५.५७ ।।

 हंस-क्रौञ्च-मयूराणां अर्ध-प्रस्थः ।। ०२.१५.५८ ।।

 शेषाणां अतो मृग-पशु-पक्षि-व्यालानां एक-भक्तादनुमानं ग्राहयेत् ।। ०२.१५.५९ ।।

 अङ्गारांस्तुषान्लोह-कर्म-अन्त-भित्ति-लेप्यानां हारयेत् ।। ०२.१५.६० ।।

 कणिका दास-कर्म-कर-सूप-काराणाम् । अतोअन्यदौदनिक-अपूपिकेभ्यः प्रयच्छेत् ।। ०२.१५.६१ ।।

 तुला-मान-भाण्डं रोचनी-दृषन्-मुसल-उलूखल-कुट्टक-रोचक-यन्त्र-पत्त्रक-शूर्प-चालनिक-अकण्डोली-पिटक-सम्मार्जन्यश्चौपकरणानि ।। ०२.१५.६२ ।।

 मार्जक-रक्षक-धरक-मायक-मापक-दायक-दापक-शलाक-अप्रतिग्राहक-दास-कर्म-कर-वर्गश्च विष्टिः ।। ०२.१५.६३ ।।

 उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः । ।। ०२.१५.६४अ ब ।।

 मृत्-काष्ठ-कोष्ठाः स्नेहस्य पृथिवी लवणस्य च ।। ०२.१५.६४च्द् ।।