अर्थशास्त्रम्/अधिकरणम् १/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ अर्थशास्त्रम्
अध्यायः १४
कौटिलीय:
अध्यायः १५ →

 कृत्य-अकृत्य-पक्ष-उपग्रहः स्व-विषये व्याख्यातः । पर-विषये वाच्यः ।। ०१.१४.०१ ।।

 संश्रुत्यार्थान्विप्रलब्धः । तुल्य-कारिणोः शिल्पे वाउपकारे वा विमानितः । वल्लभ-अवरुद्धः । समाहूय पराजितः । प्रवास-उपतप्तः । कृत्वा व्ययं अलब्ध-कार्यः । स्वधर्माद्दायाद्याद्वाउपरुद्धः । मान-अधिकाराभ्यां भ्रष्टः । कुल्यैरन्तर्हितः । प्रसभ-अभिमृष्ट-स्त्रीकः । कार-अभिन्यस्तः । पर-उक्त-दण्डितः । मिथ्या-आचार-वारितः । सर्व-स्वम् आहारितः । बन्धन-परिक्लिष्टः । प्रवासित-बन्धुः इति क्रुद्ध-वर्गः ।। ०१.१४.०२ ।।

 स्वयं उपहतः । विप्रकृतः । पाप-कर्म-अभिख्यातः । तुल्य-दोष-दण्डेनौद्विग्नः । पर्यात्त-भूमिः । दण्डेनौपनतः । सर्व-अधिकरणस्थः । सहसा-उपचित-अर्थः । तत्-कुलीन-उपाशंसुः । प्रद्विष्टो राज्ञा । राज-द्वेषी च इति भीत-वर्गः ।। ०१.१४.०३ ।।

 परिक्षीणः । अन्य-आत्त-स्वः । कदर्यः । व्यसनी । अत्याहित-व्यवहारश्च इति लुब्ध-वर्गः ।। ०१.१४.०४ ।।

 आत्म-सम्भावितः । मान-कामः । शत्रु-पूजा-अमर्षितः । नीचैरुपहितः । तीक्ष्णः । साहसिकः । भोगेनासंतुष्टः इति मानि-वर्गः ।। ०१.१४.०५ ।।

 तेषां मुण्ड-जटिल-व्यञ्जनैर्यो यद्-भक्तिः कृत्य-पक्षीयस्तं तेनौपजापयेत् ।। ०१.१४.०६ ।।

 "यथा मद-अन्धो हस्ती मत्तेनाधिष्ठितो यद्यदासादयति तत्सर्वं प्रमृद्नाति । एवं अयं अशास्त्र-चक्षुरन्धो राजा पौर-जानपद-वधायाभ्युत्थितः । शक्यं अस्य प्रतिहस्ति-प्रोत्साहनेनापकर्तुम् । अमर्षः क्रियताम्" इति क्रुद्ध-वर्गं उपजापयेत् ।। ०१.१४.०७ ।।

 "यथा लीनः सर्पो यस्माद्भयं पश्यति तत्र विषं उत्सृजति । एवं अयं राजा जात-दोष-आशङ्कस्त्वयि पुरा क्रोध-विषं उत्सृजति । अन्यत्र गम्यताम्" इति भीत-वर्गं-उपजापयेत् ।। ०१.१४.०८ ।।

 "यथा श्व-गणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः । एवं अयं राजा सत्त्व-प्रज्ञा-वाक्य-शक्ति-हीनेभ्यो दुह्यते नऽत्म-गुण-सम्पन्नेभ्यः । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम्" इति लुब्ध-वर्गं-उपजापयेत् ।। ०१.१४.०९ ।।

 "यथा चण्डाल-उद-पानश्चण्डालानां एवौपभोग्यो नान्येषाम् । एवं अयं राजा नीचो नीचानां एवौपभोग्यो न त्वद्विधानां आर्याणाम् । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम्" इति मानि-वर्गं उपजापयेत् ।। ०१.१४.१० ।।

 तथाइति प्रतिपन्नांस्तान्संहितान्पण-कर्मणा ।। ०१.१४.११अ ब ।।

 योजयेत यथा-शक्ति सापसर्पान्स्व-कर्मसु ।। ०१.१४.११च्द् ।।

 लभेत साम-दानाभ्यां कृत्यांश्च पर-भूमिषु ।। ०१.१४.१२अ ब ।।

 अकृत्यान्भेद-दण्डाभ्यां पर-दोषांश्च दर्शयन् ।। ०१.१४.१२च्द् ।।