अर्थशास्त्रम्/अधिकरणम् १/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ अर्थशास्त्रम्
अध्यायः १३
कौटिलीय:
अध्यायः १४ →

 कृत-महा-मात्र-अपसर्पः पौर-जानपदानपसर्पयेत् ।। ०१.१३.०१ ।।

 सत्त्रिणो द्वन्द्विनस्तीर्थ-सभा-पूग-जन-समवायेषु विवादं कुर्युः ।। ०१.१३.०२ ।।

 "सर्व-गुण-सम्पन्नश्चायं राजा श्रूयते । न चास्य कश्चिद्गुणो दृश्यते यः पौर-जानपदान्दण्ड-कराभ्यां पीडयति" इति ।। ०१.१३.०३ ।।

 तत्र येअनुप्रशंसेयुस्तानितरस्तं च प्रतिषेधयेत् ।। ०१.१३.०४ ।।

 "मात्स्य-न्याय-अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ।। ०१.१३.०५ ।।

 धान्य-षड्-भागं पण्य-दश-भागं हिरण्यं चास्य भाग-धेयं प्रकल्पयामासुः ।। ०१.१३.०६ ।।

 तेन भृता राजानः प्रजानां योग-क्षेम-आवहाः ।। ०१.१३.०७ ।।

 तेषां किल्बिषं अदण्ड-करा हरन्त्ययोग-क्षेम-आवहाश्च प्रजानां ।। ०१.१३.०८ ।।

 तस्मादुञ्छ-षड्-भागं आरण्यकाअपि निर्वपन्ति "तस्यएतद्भाग-धेयं योअस्मान्गोपायति" इति ।। ०१.१३.०९ ।।

 इन्द्र-यम-स्थानं एतद्राजानः प्रत्यक्ष-हेड-प्रसादाः ।। ०१.१३.१० ।।

 तानवमन्यमानान्दैवोअपि दण्डः स्पृशति ।। ०१.१३.११ ।।

 तस्माद्राजानो नावमन्तव्याः ।। ०१.१३.१२ ।।

 इत्येवं क्षुद्रकान्प्रतिषेधयेत् ।। ०१.१३.१३ ।।

 किं-वदन्तीं च विद्युः ।। ०१.१३.१४ ।।

 ये चास्य धान्य-पशु-हिरण्यान्याजीवन्ति । तैरुपकुर्वन्ति व्यसनेअभ्युदये वा । कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति । अमित्रं आटविकं वा प्रतिषेधयन्ति । तेषां मुण्ड-जटिल-व्यञ्जनास्तुष्ट-अतुष्टत्वं विद्युः ।। ०१.१३.१५ ।।

 तुष्टान्भूयोअर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.१६ ।।

 अतुष्टांस्तुष्टि-हेतोस्त्यागेन साम्ना च प्रसादयेत् ।। ०१.१३.१७ ।।

 परस्पराद्वा भेदयेदेनान् । सामन्त-आटविक-तत्-कुलीन-अपरुद्धेभ्यश्च ।। ०१.१३.१८ ।।

 तथाअप्यतुष्यतो दण्ड-कर-साधन-अधिकारेण जनपद-विद्वेषं ग्राहयेत् ।। ०१.१३.१९ ।।

 विविष्टानुपांशु-दण्डेन जनपद-कोपेन वा साधयेत् ।। ०१.१३.२० ।।

 गुप्त-पुत्र-दारानाकर-कर्म-अन्तेषु वा वासयेत्परेषां आस्पद-भयात् ।। ०१.१३.२१ ।।

 क्रुद्ध-लुब्ध-भीत-मानिनस्तु परेषां कृत्याः ।। ०१.१३.२२ ।।

 तेषां कार्तान्तिक-नैमित्तिक-मौहूर्तिक-व्यञ्जनाः परस्पर-अभिसम्बन्धं अमित्र-आटविक-सम्बन्धं वा विद्युः ।। ०१.१३.२३ ।।

 तुष्टानर्थ-मानाभ्यां पूजयेत् ।। ०१.१३.२४ ।।

 अतुष्टान्साम-दान-भेद-दण्डैः साधयेत् ।। ०१.१३.२५ ।।

 एवं स्व-विषये कृत्यानकृत्यांश्च विचक्षणः ।। ०१.१३.२६अ ब ।।

 पर-उपजापात्सम्रक्षेत्प्रधानान्क्षुद्रकानपि ।। ०१.१३.२६च्द् ।।