अर्थशास्त्रम्/अधिकरणम् १/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४ अर्थशास्त्रम्
अध्यायः १५
कौटिलीय:
अध्यायः १६ →

 कृत-स्व-पक्ष-पर-पक्ष-उपग्रहः कार्य-आरम्भांश्चिन्तयेत् ।। ०१.१५.०१ ।।

 मन्त्र-पूर्वाः सर्व-आरम्भाः ।। ०१.१५.०२ ।।

 तद्-उद्देशः संवृतः कथानां अनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् ।। ०१.१५.०३ ।।

 श्रूयते हि शुक-सारिकाभिर्मन्त्रो भिन्नः । श्वभिरप्यन्यैश्च तिर्यग्-योनिभिरिति ।। ०१.१५.०४ ।।

 तस्मान्मन्त्र-उद्देशं अनायुक्तो नौपगच्छेत् ।। ०१.१५.०५ ।।

 उच्छिद्येत मन्त्र-भेदी ।। ०१.१५.०६ ।।

 मन्त्र-भेदो हि दूत-अमात्य-स्वामिनां इङ्गित-आकाराभ्यां ।। ०१.१५.०७ ।।

 इङ्गितं अन्यथा-वृत्तिः ।। ०१.१५.०८ ।।

 आकृति-ग्रहणं आकारः ।। ०१.१५.०९ ।।

 तस्य संवरणं आयुक्त-पुरुष-रक्षणं आ-कार्य-कालादिति ।। ०१.१५.१० ।।

 तेषां हि प्रमाद-मद-सुप्त-प्रलापाः । काम-आदिरुत्सेकः । प्रच्छन्नोअवमतो वा मन्त्रं भिनत्ति ।। ०१.१५.११ ।।

 तस्मादाद्रक्षेन्मन्त्रं ।। ०१.१५.१२ ।।

 "मन्त्र-भेदो ह्ययोग-क्षेम-करो राज्ञस्तद्-आयुक्त-पुरुषाणां च ।। ०१.१५.१३ ।।

 तस्माद्गुह्यं एको मन्त्रयेत" इति भारद्वाजः ।। ०१.१५.१४ ।।

 "मन्त्रिणां अपि हि मन्त्रिणो भवन्ति । तेषां अप्यन्ये ।। ०१.१५.१५ ।।

 साएषा मन्त्रि-परम्परा मन्त्रं भिनत्ति ।। ०१.१५.१६ ।।

 "तस्मान्नास्य परे विद्युः कर्म किंचिच्चिकीर्षितं ।। ०१.१५.१७अ ब ।।

 आरब्धारस्तु जानीयुरारब्धं कृतं एव वा ।। ०१.१५.१७च्द् ।।

 "नएकस्य मन्त्र-सिद्धिरस्ति" इति विशाल-अक्षः ।। ०१.१५.१८ ।।

 "प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ।। ०१.१५.१९ ।।

 अनुपलब्धस्य ज्ञानं उपलब्धस्य निश्चित-बल-आधानं अर्थ-द्वैधस्य संशयच्-छेदनं एक-देश-दृष्टस्य शेष-उपलब्धिरिति मन्त्रि-साध्यं एतत् ।। ०१.१५.२० ।।

 तस्माद्बुद्धि-वृद्धैः सार्धं अध्यासीत मन्त्रं ।। ०१.१५.२१ ।।

 "न कंचिदवमन्येत सर्वस्य शृणुयान्मतं ।। ०१.१५.२२अ ब ।।

 बालस्याप्यर्थवद्-वाक्यं उपयुञ्जीत पण्डितः ।। ०१.१५.२२च्द् ।।

 "एतन्मन्त्र-ज्ञानम् । नएतन्मन्त्र-रक्षणम्" इति पाराशराः ।। ०१.१५.२३ ।।

 "यदस्य कार्यं अभिप्रेतं तत्-प्रतिरूपकं मन्त्रिणः पृच्छेत् "कार्यं इदं एवं आसीत् । एवं वा यदि भवेत् । तत्कथं कर्तव्यम्" इति ।। ०१.१५.२४ ।।

 ते यथा ब्रूयुस्तत्कुर्यात् ।। ०१.१५.२५ ।।

 एवं मन्त्र-उपलब्धिः संवृतिश्च भवति" इति ।। ०१.१५.२६ ।।

 नैति पिशुनः ।। ०१.१५.२७ ।।

 "मन्त्रिणो हि व्यवहितं अर्थं वृत्तं अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ।। ०१.१५.२८ ।।

 स दोषः ।। ०१.१५.२९ ।।

 तस्मात्कर्मसु ये येष्वभिप्रेतास्तैः सह मन्त्रयेत ।। ०१.१५.३० ।।

 तैर्मन्त्रयमाणो हि मन्त्र-सिद्धिं गुप्तिं च लभते" इति ।। ०१.१५.३१ ।।

 नैति कौटिल्यः ।। ०१.१५.३२ ।।

 अनवस्था ह्येषा ।। ०१.१५.३३ ।।

 मन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत ।। ०१.१५.३४ ।।

 मन्त्रयमाणो ह्येकेनार्थ-कृच्छ्रेषु निश्चयं नाधिगच्छेत् ।। ०१.१५.३५ ।।

 एकश्च मन्त्री यथा-इष्टं अनवग्रहश्चरति ।। ०१.१५.३६ ।।

 द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यां अवगृह्यते । विगृहीताभ्यां विनाश्यते ।। ०१.१५.३७ ।।

 तत्त्रिषु चतुषु वा कृच्छ्रेणौपपद्यते ।। ०१.१५.३८ ।।

 महा-दोषं उपपन्नं तु भवति ।। ०१.१५.३९ ।।

 ततः परेषु कृच्छ्रेणार्थ-निश्चयो गम्यते । मन्त्रो वा रक्ष्यते ।। ०१.१५.४० ।।

 देश-काल-कार्य-वशेन त्वेकेन सह द्वाभ्यां एको वा यथा-सामर्थ्यं मन्त्रयेत (अल्तेर्णतिवे विएwसप्प्रोवेद्) ।। ०१.१५.४१ ।।

 कर्मणां आरम्भ-उपायः पुरुष-द्रव्य-सम्पद्देश-काल-विभागो विनिपात-प्रतीकारः कार्य-सिद्धिरिति पञ्च-अङ्गो मन्त्रः ।। ०१.१५.४२ ।।

 तानेकैकशः पृच्छेत्समस्तांश्च ।। ०१.१५.४३ ।।

 हेतुभिश्चएषां मति-प्रविवेकान्विद्यात् ।। ०१.१५.४४ ।।

 अवाप्त-अर्थः कालं नातिक्रामयेत् ।। ०१.१५.४५ ।।

 न दीर्घ-कालं मन्त्रयेत । न तेषां पक्षीयैर्येषां अपकुर्यात् ।। ०१.१५.४६ ।।

 "मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीत" इति मानवाः ।। ०१.१५.४७ ।।

 "षोडश" इति बार्हस्पत्याः ।। ०१.१५.४८ ।।

 "विंशतिम्" इत्यौशनसाः ।। ०१.१५.४९ ।।

 यथा-सामर्थ्यं इति कौटिल्यः ।। ०१.१५.५० ।।

 ते ह्यस्य स्व-पक्षं पर-पक्षं च चिन्तयेयुः ।। ०१.१५.५१ ।।

 अकृत-आरम्भं आरब्ध-अनुष्ठानं अनुष्ठित-विशेषं नियोग-सम्पदं च कर्मणां कुर्युः ।। ०१.१५.५२ ।।

 आसन्नैः सह कर्माणि पश्येत् ।। ०१.१५.५३ ।।

 अनासन्नैः सह पत्त्र-सम्प्रेषणेन मन्त्रयेत ।। ०१.१५.५४ ।।

 इन्द्रस्य हि मन्त्रि-परिषद्-ऋषीणां सहस्रं ।। ०१.१५.५५ ।।

 स तच्चक्षुः ।। ०१.१५.५६ ।।

 तस्मादिमं द्व्य्-अक्षं सहस्र-अक्षं आहुः ।। ०१.१५.५७ ।।

 आत्ययिके कार्ये मन्त्रिणो मन्त्रि-परिषदं चऽहूय ब्रूयात् ।। ०१.१५.५८ ।।

 तत्र यद्-भूयिष्ठा ब्रूयुः कार्य-सिद्धि-करं वा तत्कुर्यात् ।। ०१.१५.५९ ।।

 कुर्वतश्च ।। ०१.१५.६० ।।

 नास्य गुह्यं परे विद्युश्छिद्रं विद्यात्परस्य च ।। ०१.१५.६०अ ब ।।

 गूहेत्कूर्मैवाङ्गानि यत्स्याद्विवृतं आत्मनः ।। ०१.१५.६०च्द् ।।

 यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुं अर्हति ।। ०१.१५.६१अ ब ।।

 एवं अश्रुत-शास्त्र-अर्थो न मन्त्रं श्रोतुं अर्हति ।। ०१.१५.६१च्द् ।।