अर्थशास्त्रम्/अधिकरणम् १३/अध्यायः ४
← अध्यायः ३ | अर्थशास्त्रम् अध्यायः ४ कौटिलीय: |
अध्यायः ५ → |
कर्शन-पूर्वं पर्युपासन-कर्म ।। १३.४.०१ ।।
जन-पदं यथा-निविष्टं अभये स्थापयेत् ।। १३.४.०२ ।।
उत्थितं अनुग्रह-परिहाराभ्यां निवेषयेत् । अन्यत्रापसरतः ।। १३.४.०३ ।।
संग्रामादन्यस्यां भूमौ निवेशयेत् । एकस्यां वा वासयेत् ।। १३.४.०४ ।।
न ह्यजनो जन-पदो राज्यं अजन-पदं वा भवतिइति कौटिल्यः ।। १३.४.०५ ।।
विषमस्थस्य मुष्टिं सस्यं वा हन्याद् । वीवध-प्रसारौ च ।। १३.४.०६ ।।
प्रसार-वीवधच्-छेदान्मुष्टि-सस्य-वधादपि । ।। १३.४.०७अ ब ।।
वमनाद्गूढ-घाताच्च जायते प्रकृति-क्षयः ।। १३.४.०७च्द् ।।
"प्रभूत-गुण-बद्ध(वद्ध)-अन्य-कुप्य-यन्त्र-शस्त्र-आवरण-विष्टिरश्मि-समग्रं मे सैन्यम् । ऋतुश्च पुरस्तात् । अपर्तुः परस्य । व्याधि-दुर्भिक्ष-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्च" इति पर्युपासीत ।। १३.४.०८ ।।
कृत्वा स्कन्ध-आवारस्य रक्षां वीवध-आसारयोः पथश्च । परिक्षिप्य दुर्गं खात-सालाभ्याम् । दूषयित्वाउदकम् । अवस्राव्य परिखाः सम्पूरयित्वा वा । सुरुङ्गा-बल-कुटिकाभ्यां वप्र-प्राकारौ हारयेत् । दारं च गुडेन ।। १३.४.०९ ।।
निम्नं वा पांसु-मालयाआच्छादयेत् ।। १३.४.१० ।।
बहुल-आरक्षं यन्त्रैर्घातयेत् ।। १३.४.११ ।।
निष्किरादुपनिष्कृष्याश्वैश्च प्रहरेयुः ।। १३.४.१२ ।।
विक्रम-अन्तरेषु च नियोग-विकल्प-समुच्चयैश्चौपायानां सिद्धिं लिप्सेत ।। १३.४.१३ ।।
दुर्ग-वासिनः श्येन-काक-नप्तृ-भास-शुक-सारिक-उलूक-कपोतान्ग्राहयित्वा पुच्छेष्वग्नि-योग-युक्तान्पर-दुर्गे विसृजेत् ।। १३.४.१४ ।।
अपकृष्ट-स्कन्ध-आवारादुच्छ्रित-ध्वज-धन्व-आरक्षो वा मानुषेणाग्निना पर-दुर्गं आदीपयेत् ।। १३.४.१५ ।।
गूढ-पुर्षाश्चान्तर्-दुर्ग-पालका नकुल-वानर-बिडाल-शुनां पुच्छेष्वग्नि-योगं आधाय काण्ड-निचय-रक्षा-विधान-वेश्मसु विसृजेयुः ।। १३.४.१६ ।।
शुष्क-मत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस-उपहारेण वयोभिर्हारयेयुः ।। १३.४.१७ ।।
सरल-देव-दारु-पूति-तृण-गुग्गुलु-श्री-वेष्टकसर्जरसलाक्षागुलिकाः खर-उष्ट्र-अजावीनां लेण्डं चाग्नि-धारणं ।। १३.४.१८ ।।
प्रियाल-चूर्णं अवल्गु-जमषी-मधु-उच्छिष्टं अश्व-खर-उष्ट्र-गो-लेण्डं इत्येष क्षेप्योअग्नि-योगः ।। १३.४.१९ ।।
सर्व-लोह-चूर्णं अग्नि-वर्णं वा कुम्भी-सीस-त्रपु-चूर्णं वा पारिभद्रक-पलाश-पुष्प-केश-मषी-तैल-मधु-उच्छिष्टक-श्री-वेष्टक-युक्तोअग्नि-योगो विश्वास-घाती वा ।। १३.४.२० ।।
तेनावलिप्तः शण-त्रपुस-वल्क-वेष्टितो बाण इत्यग्नि-योगः ।। १३.४.२१ ।।
न त्वेव विद्यमाने पराक्रमेअग्निं अवसृजेत् ।। १३.४.२२ ।।
अविश्वास्यो ह्यग्निर्दैव-पीडनं च । अप्रतिसंख्यात-प्राणि-धान्य-पशु-हिरण्य-कुप्य-द्रव्य-क्षय-करः ।। १३.४.२३ ।।
क्षीण-निचयं चावाप्तं अपि राज्यं क्षयायएव भवति (इति पर्युपासन-कर्म) ।। १३.४.२४ ।।
"सर्व-आरम्भ-उपकरण-विष्टि-सम्पन्नोअस्मि । व्याधितः पर उपधा-विरुद्ध-प्रकृतिरकृत-दुर्ग-कर्म-निचयो वा । निरासारः सासारो वा पुरा मित्रैः संधत्ते" इत्यवमर्द-कालः ।। १३.४.२५ ।।
स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षा-अनीक-दर्शन-सङ्ग-सौरिक-कलहेषु नित्य-युद्ध-श्रान्त-बले बहुल-युद्ध-प्रतिविद्ध-प्रेत-पुरुषे जागरण-क्लान्त-सुप्त-जने दुर्दिने नदी-वेगे वा नीहार-सम्प्लवे वाअवमृद्नीयात् ।। १३.४.२६ ।।
स्कन्ध-आवारं उत्सृज्य वा वन-गूढः शत्रुं निष्क्रान्तं घातयेत् ।। १३.४.२७ ।।
मित्र-आसार-मुख्य-व्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतं अभित्यक्तं प्रेषयेत् "इदं ते छिद्रम् । इमे दूष्याः" "सम्रोद्धुर्वा छिद्रम् । अयं ते कृत्य-पक्षः" इति ।। १३.४.२८ ।।
तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत् ।। १३.४.२९ ।।
ततो मित्र-आसार-व्यञ्जनो वा सम्रुद्धं ब्रूयात्"मां त्रातुं उपनिर्गच्छ । मया वा सह सम्रोद्धारं जहि" इति ।। १३.४.३० ।।
प्रतिपन्नं उभयतः-सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ।। १३.४.३१ ।।
नगरं वाअस्य प्रमृद्नीयात् ।। १३.४.३२ ।।
सार-बलं वाअस्य वमयित्वाअभिहन्यात् ।। १३.४.३३ ।।
तेन दण्ड-उपनत-आटविका व्याख्याताः ।। १३.४.३४ ।।
दण्ड-उपनत-आटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् "अयं सम्रोद्धा व्याधितः । पार्ष्णि-ग्राहेणाभियुक्तः । छिद्रं अन्यदुत्थितम् । अन्यस्यां भूमावपयातु-कामः" इति ।। १३.४.३५ ।।
प्रतिपन्ने सम्रोद्धा स्कन्ध-आवारं आदीप्यापयायात् ।। १३.४.३६ ।।
ततः पूर्ववदाचरेत् ।। १३.४.३७ ।।
पण्य-सम्पातं वा कृत्वा पण्येनएनं रस-विद्धेनातिसंदध्यात् ।। १३.४.३८ ।।
आसार-व्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् "मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम्" इति ।। १३.४.३९ ।।
प्रतिपन्नं पूर्ववदाचरेत् ।। १३.४.४० ।।
मित्रं बन्धुं वाअपदिश्य योग-पुरुषाः शासन-मुद्रा-हस्ताः प्रविश्य दुर्गं ग्राहयेयुः ।। १३.४.४१ ।।
आसार-व्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् "अमुष्मिन्देशे काले च स्कन्ध-आवारं अभिहनिष्यामि । युष्माभिरपि योद्धव्यम्" इति ।। १३.४.४२ ।।
प्रतिपन्नं यथा-उक्तं अभ्याघात-संकुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत् ।। १३.४.४३ ।।
यद्वा मित्रं आवाहयेदाटव्विकं वा । तं उत्साहयेत्"विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व" इति ।। १३.४.४४ ।।
विक्रान्तं प्रकृतिभिर्दूष्य-मुख्य-उपग्रहेण वा घातयेत् । स्वयं वा रसेन "मित्र-घातकोअयम्" इत्यवाप्त-अर्थः ।। १३.४.४५ ।।
विक्रमितु-कामं वा मित्र-व्यञ्जनः परस्याभिशंसेत् ।। १३.४.४६ ।।
आप्त-भाव-उपगतः प्रवीर-पुरुषानस्यौपघातयेत् ।। १३.४.४७ ।।
संधिं वा कृत्वा जन-पदं एनं निवेशयेत् ।। १३.४.४८ ।।
निविष्टं अस्य जन-पदं अविज्ञातो हन्यात् ।। १३.४.४९ ।।
अपकारयित्वा दूष्य-आटविकेषु वा बल-एक-देशं अतिनीय दुर्गं अवस्कन्देन हारयेत् ।। १३.४.५० ।।
दूष्य-अमित्र-आटविक-द्वेष्य-प्रत्यपसृताश्च कृत-अर्थ-मान-संज्ञा-चिह्नाः पर-दुर्गं अवस्कन्देयुः ।। १३.४.५१ ।।
पर-दुर्गं अवस्कन्द्य स्कन्ध-आवारं वा पतित-परान्-मुख-अभिपन्नं उक्त-केश-शस्त्र-भय-विरूपेभ्यश्चाभयं अयुध्यमानेभ्यश्च दद्युः ।। १३.४.५२ ।।
पर-दुर्गं अवाप्य विशुद्ध-शत्रु-पक्षं कृत-उपांशु-दण्ड-प्रतीकारं अन्तर्-बहिश्च प्रविशेत् ।। १३.४.५३ ।।
एवं विजिगीषुरमित्र-भूमिं लब्ध्वा मध्यमं लिप्सेत । तत्-सिद्धावुदासीनं ।। १३.४.५४ ।।
एष प्रथमो मार्गः पृथिवीं जेतुं ।। १३.४.५५ ।।
मध्यम-उदासीनयोरभावे गुण-अतिशयेनारि-प्रकृतीः साधयेत् । तत उत्तराः प्रकृतीः ।। १३.४.५६ ।।
एष द्वितीयो मार्गः ।। १३.४.५७ ।।
मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतः-सम्पीडनेन साधयेत् ।। १३.४.५८ ।।
एष-तृतीयो मार्गः ।। १३.४.५९ ।।
शक्यं एकं वा सामन्तं साधयेत् । तेन द्वि-गुणो द्वितीयम् । त्रि-गुणस्तृतीयं ।। १३.४.६० ।।
एष चतुर्थो मार्गः पृथिवीं जेतुं ।। १३.४.६१ ।।
जित्वा च पृथिवीं विभक्त-वर्ण-आश्रमां स्व-धर्मेण भुञ्जीत ।। १३.४.६२ ।।
उपजापोअपसर्पश्च वामनं पर्युपासनं । ।। १३.४.६३अ ब ।।
अवमर्दश्च पञ्चएते दुर्ग-लम्भस्य हेतवः ।। १३.४.६३च्द् ।।