सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् १३/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 श्रेणी-मुख्यं आप्तं निष्पातयेत् ।। १३.३.०१ ।।

 स परं आश्र्त्य पक्ष-अपदेशेन स्व-विषयात्साचिव्य-कर-सहाय-उपादानं कुर्वीत ।। १३.३.०२ ।।

 कृत-अपसर्प-उपचयो वा परं अनुमान्य स्वामिनो दूष्य-ग्रामं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत् ।। १३.३.०३ ।।

 जन-पद-एक-देशं श्रेणीं अटवीं वा सहाय-उपादान-अर्थं संश्रयेत ।। १३.३.०४ ।।

 विश्वासं उपगतः स्वामिनः प्रेषयेत् ।। १३.३.०५ ।।

 ततः स्वामी हस्ति-बन्धनं अटवी-घातं वाअपदिश्य गूढं एव प्रहरेत् ।। १३.३.०६ ।।

 एतेनामात्य-अटविका व्याख्याताः ।। १३.३.०७ ।।

 शत्रुणा मैत्रीं कृत्वाअमात्यानवक्षिपेत् ।। १३.३.०८ ।।

 ते तत्-शत्रोः प्रेषयेयुः "भर्तारं नः प्रसादय" इति ।। १३.३.०९ ।।

 स यं दूतं प्रेषयेत् । तं उपालभेत "भर्ता ते मां अमात्यैर्भेदयति । न च पुनरिहऽगन्तव्यम्" इति ।। १३.३.१० ।।

 अथएकं अमात्यं निष्पातयेत् ।। १३.३.११ ।।

 स परं आश्रित्य योग-अपसर्प-अपरक्त-दूष्यानशक्तिमतः स्तेनऽटविकानुभय-उपघातकान्वा परस्यौपहरेत् ।। १३.३.१२ ।।

 आप्त-भाव-उपगतः प्रवीर-पुरुष-उपघातं अस्यौपहरेदन्त-पालं आटविकं दण्ड-चारिणं वा "दृढं असौ चासौ च ते शत्रुणा संधत्ते" इति ।। १३.३.१३ ।।

 अथ पश्चादभित्यक्त-शासनैरेनान्घातयेत् ।। १३.३.१४ ।।

  दण्ड-बल-व्यवहारेण वा शत्रुं उद्योज्य घातयेत् ।। १३.३.१५ ।।

 कृत्य-पक्ष-उपग्रहेण वा परस्य-अमित्रं राजानं आत्मन्यपकारयित्वाअभियुञ्जीत ।। १३.३.१६ ।।

 ततः परस्य प्रेषयेत्"असौ ते वैरी ममापकरोति । तं एहि सम्भूय हनिष्यावः । भूमौ हिरण्ये वा ते परिग्रहः" इति ।। १३.३.१७ ।।

 प्रतिपन्नं अभिसत्कृत्यऽगतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत् ।। १३.३.१८ ।।

 अभिविश्वासन-अर्थं भूमि-दान-पुत्र-अभिषेक-रक्षा-अपदेशेन वा ग्राहयेत् ।। १३.३.१९ ।।

 अविषह्यं उपांशु-दण्डेन वा घातयेत् ।। १३.३.२० ।।

 स चेद्दण्डं दद्यान्न स्वयं आगच्छेत्तं अस्य वैरिणा घातयेत् ।। १३.३.२१ ।।

 दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाअप्येनं उभयतः-सम्पीडनेन घातयेत् ।। १३.३.२२ ।।

 अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद्राज्य-एक-देशं वा यातव्यस्यऽदातु-कामः । तथाअप्येनं वैरिणा सर्व-संदोहेन वा घातयेत् ।। १३.३.२३ ।।

 वैरिणा वा सक्तस्य दण्ड-उपनयेन मूलं अन्यतो हारयेत् ।। १३.३.२४ ।।

 शत्रु-भूम्या वा मित्रं पणेत । मित्र-भूम्या वा शत्रुं ।। १३.३.२५ ।।

 ततः शत्रु-भूमि-लिप्सायां मित्रेणऽत्मन्यपकारयित्वाअभियुञ्जीत इति समानाः पूर्वेण सर्व एव योगाः ।। १३.३.२६ ।।

 शत्रुं वा मित्र-भूमि-लिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् ।। १३.३.२७ ।।

 ततो मित्र-गतं अतिसंदध्यात् ।। १३.३.२८ ।।

 कृत-प्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाआत्मानं अभियोजयेत् ।। १३.३.२९ ।।

 ततः सम्पीडनेन घातयेत् । जीव-ग्राहेण वा राज्य-विनिमयं कारयेत् ।। १३.३.३० ।।

 मित्रेणऽश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत्सामन्त-आदिभिर्मूलं अस्य हारयेत् ।। १३.३.३१ ।।

 दण्डेन वा त्रातुं इछेत्तं अस्य घातयेत् ।। १३.३.३२ ।।

 तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्य-भूम्या पणेत ।। १३.३.३३ ।।

 ततः परस्परं मित्र-व्यञ्जना वा उभय-वेतना वा दूतान्प्रेषयेयुः "अयं ते राजा भूमिं लिप्सते शत्रु-संहितः" इति ।। १३.३.३४ ।।

 तयोरन्यतरो जात-आशङ्क-आरोषः । पूर्ववच्चेष्तेत ।। १३.३.३५ ।।

 दुर्ग-राष्ट्र-दण्ड-मुख्यान्वा कृत्य-पक्ष-हेतुभिरभिविख्याप्य प्रव्राजयेत् ।। १३.३.३६ ।।

 ते युद्ध-अवस्कन्द-अवरोध-व्यसनेषु शत्रुं अतिसंदध्युः ।। १३.३.३७ ।।

 भेदं वाअस्य स्व-वर्गेभ्यः कुर्युः ।। १३.३.३८ ।।

 अभित्यक्त-शासनैः प्रतिसमानयेयुः ।। १३.३.३९ ।।

 लुब्धक-व्यञ्जना वा मांस-विक्रयेण द्वाह्स्था दौवारिक-अपाश्रयाश्चोर-अभ्यागमं परस्य द्विस्त्रिरिति निवेद्य लब्ध-प्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्राम-वधेअवस्कन्दे च द्विषतो ब्रूयुः "आसन्नश्चोर-गणः । महांश्चऽक्रन्दः । प्रभूतं सैन्यं आगच्छतु" इति ।। १३.३.४० ।।

 तदर्पयित्वा ग्राम-घात-दण्डस्य सैन्यं इतरदादाय रात्रौ दुर्ग-द्वारेषु ब्रूयुः "हतश्चोर-गणः । सिद्ध-यात्रं इदं सैन्यं आगतम् । द्वारं अपाव्रियताम्" इति ।। १३.३.४१ ।।

 पूर्व-प्रणिहिता वा द्वाराणि दद्युः ।। १३.३.४२ ।।

 तैः सह प्रहरेयुः ।। १३.३.४३ ।।

 कारु-शिल्पि-पाषण्ड-कुशीलव-वैदेहक-व्यञ्जनानायुधीयान्व्वा पर-दुर्गे प्रणिदध्यात् ।। १३.३.४४ ।।

 तेषां गृह-पतिक-व्यञ्जनाः काष्ठ-तृण-धान्य-पण्य-शकटैः प्रहरण-आवरणान्यभिहरेयुः । देव-ध्वज-प्रतिमाभिर्वा ।। १३.३.४५ ।।

 ततस्तद्-व्यञ्जनाः प्रमत्त-वधं अवस्कन्द-प्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्ख-दुन्दुभि-शब्देन वा "प्रविष्टम्" इत्यावेदयेयुः ।। १३.३.४६ ।।

 प्राकार-द्वार-अट्टालक-दानं अनीक-भेदं घातं वा कुर्युः ।। १३.३.४७ ।।

 सार्थ-गण-वासिभिरातिवाहिकैः कन्या-वाहिकैरश्व-पण्य-व्यवहारिभिरुपकरण-हारकैर्धान्य-क्रेतृ-विक्रेतृभिर्वा प्रव्रजित-लिङ्गिभिर्दूतैश्च दणड्-अतिनयनम् । संधि-कर्म-विश्वासन-अर्थं ।। १३.३.४८ ।।

 इति राज-अपसर्पाः ।। १३.३.४९ ।।

 एत एवाटवीनां अपसर्पाः कण्टक-शोधन-उक्ताश्च ।। १३.३.५० ।।

 व्रजं अटव्य्-आसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः ।। १३.३.५१ ।।

 कृत-संकेतं अन्न-पानं चात्र मदन-रस-विद्धं वा कृत्वाअपगच्छेयुः ।। १३.३.५२ ।।

 गो-पालक-वैदेहकाश्च ततश्चोरान्गृहीत-लोप्त्र-भारान्मदन-रस-विकार-कालेअवस्कन्दयेयुः ।। १३.३.५३ ।।

 संकर्षण-दैवतीयो वा मुण्ड-जटिल-व्यञ्जनः प्रहवण-कर्मणा मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५४ ।।

 अथावस्कन्दं दद्यात् ।। १३.३.५५ ।।

 शौण्डिक-व्यञ्जनो वा दैवत-प्रेत-कार्य-उत्सव-समाजेष्वाटविकान्सुरा-विक्रय-उपायन-निमित्तं मदन-रस-योगेनातिसंदध्यात् ।। १३.३.५६ ।।

 अथावस्कन्दं दद्यात् ।। १३.३.५७ ।।

 ग्राम-घात-प्रविष्टां वा विक्षिप्य बहुधाअटवीं । ।। १३.३.५८अ ब ।।

 घातयेदिति चोराणां अपसर्पाः प्रकीर्तिताः ।। १३.३.५८च्द् ।।