अर्थशास्त्रम्/अधिकरणम् १३/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:
अध्यायः ३ →

 मुण्डो जटिलो वा पर्वत-गुह-आवासी चतुर्-वर्ष-शत-आयुर्ब्रुवाणः प्रभूत-जटिल-अन्ते-वासी नगर-अभ्याशे तिष्ठेत् ।। १३.२.०१ ।।

 शिष्याश्चास्य मूल-फल-उपगमनैरमात्यान्राजानं च भगवद्-दर्शनाय योजयेयुः ।। १३.२.०२ ।।

 समागताश्च राज्ञा पूर्व-राज-देश-अभिज्ञानानि कथयेत् । "शते शते च वर्षाणां पूर्णेअहं अग्निं प्रविश्य पुनर्बालो भवामि । तदिह भवत्समीपे चतुर्थं अग्निं प्रवेक्ष्यामि । अवश्यं मे भवान्मानयितव्यः । त्रीन्वरान्वृणीष्ण(वृषीष्व)" इति ।। १३.२.०३ ।।

 प्रतिपन्नं ब्रूयात्"सप्त-रात्रं इह सपुत्र-दारेण प्रेक्षा-प्रहवण-पूर्वं वस्तव्यम्" इति ।। १३.२.०४ ।।

 वसन्तं अवस्कन्देत ।। १३.२.०५ ।।

 मुण्डो वा जटिलो वा स्थानिक-व्यञ्जनः प्रभूत-जटिल-अन्ते-वासी वस्त-शोणित-दिग्धां वेणु-शलाकां सुवर्ण-चूर्णेनावलिप्य वल्मीके निदध्यादुपजिह्विक-अनुसरण-अर्थम् । स्वर्ण-नालिकां वा ।। १३.२.०६ ।।

 ततः सत्त्री राज्ञः कथयेत्"असौ सिद्धः पुष्पितं निधिं जानाति" इति ।। १३.२.०७ ।।

 स राज्ञा पृष्ठः "तथा" इति ब्रूयात् । तच्चाभिज्ञानं दर्शयेत् । भूयो वा हिरण्यं अन्तर्-आधाय ।। १३.२.०८ ।।

 ब्रूयाच्चएनं "नाग-रक्षितोअयं निधिः प्रणिपात-साध्यः" इति ।। १३.२.०९ ।।

 प्रतिपन्नं ब्रूयात्"सप्त-रात्रम्" इति समानं ।। १३.२.१० ।।

 स्थानिक-व्यञ्जनं वा रात्रौ तेजन-अग्नि-युक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रम-अभीनीतं राज्ञः कथयेयुः "असौ सिद्धः सामेधिकः" इति ।। १३.२.११ ।।

 तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः "सप्त-रात्रम्" इति समानं ।। १३.२.१२ ।।

 सिद्ध-व्यञ्जनो वा राजानं जम्भक-विद्याभिः प्रलोभयेत् ।। १३.२.१३ ।।

 तं राजाइति समानं ।। १३.२.१४ ।।

 सिद्ध-व्यञ्जनो वा देश-देवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृति-मुख्यानभिसंवास्य क्रमेण राजानं अतिसंदध्यात् ।। १३.२.१५ ।।

 जटिल-व्यञ्जनं अन्तर्-उदक-वासिनं वा सर्व-श्वेतं तट-सुरुङ्गा-भूमि-गृह-अपसरणं वरुणं नाग-राजं वा सत्त्रिणः क्रम-अभिनीतं राज्ञः कथयेयुः ।। १३.२.१६ ।।

 तं राजाइति समानं ।। १३.२.१७ ।।

 जन-पद-अन्ते-वासी सिद्ध-व्यञ्जनो वा राजानं शत्रु-दर्शनाय योजयेत् ।। १३.२.१८ ।।

 प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत् ।। १३.२.१९ ।।

 अश्व-पण्य-उपयाता वैदेहक-व्यञ्जनाः पण्य-उपायन-निमित्तं आहूय राजानं पण्य-परीक्षायां आसक्तं अश्व-व्यतिकीर्णं वा हन्युः । अश्वैश्च प्रहरेयुः ।। १३.२.२० ।।

 नगर-अभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन्वा विदुलानि धमन्तः "स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः । पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः ।। १३.२.२१ ।।

 तदेषां नैमित्तिक-मौहूर्तिक-व्यञ्जनाः ख्यापयेयुः ।। १३.२.२२ ।।

 मङ्गल्ये वा ह्रदे तटाक-मध्ये वा रात्रौ तेजन-तैल-अभ्यक्ता नाग-रूपिणः शक्ति-मुसलान्ययोमयानि निष्पेषयन्तस्तथैव ब्रूयुः ।। १३.२.२३ ।।

 ऋक्ष-चर्म-कञ्चुकिनो वाअग्नि-धूम-उत्सर्ग-युक्ता रक्षो-रूपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः श्व-सृगाल-वाशित-अन्तरेषु तथैव ब्रूयुः ।। १३.२.२४ ।।

 चैत्य-दैवत-प्रतिमां वा तेजन-तैलेनाभ्र-पटलच्-छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः ।। १३.२.२५ ।।

 तदन्ये ख्यापयेयुः ।। १३.२.२६ ।।

 दैवत-प्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः ।। १३.२.२७ ।।

 तदन्ये देव-रुधिर-संस्रावे संग्रामे पराजयं ब्रूयुः ।। १३.२.२८ ।।

 संधि-रात्रिषु श्मशान-प्रमुखे वा चैत्यं ऊर्ध्व-भक्षितैर्मनुष्यैः प्ररूपयेयुः ।। १३.२.२९ ।।

 ततो रक्षो-रूपी मनुष्यकं याचेत ।। १३.२.३० ।।

 यश्चात्र शूर-वादिकोअन्यतमो वा द्रष्टुं आगच्छेत्तं अन्ये लोह-मुसलैर्हन्युः । यथा रक्षोभिर्हत इति ज्ञायेत ।। १३.२.३१ ।।

 तदद्भुतं राज्ञस्तद्-दर्शिनः सत्त्रिणश्च कथयेयुः ।। १३.२.३२ ।।

 ततो नैमितित्क-मौहूर्तिक-व्यञ्जनाः शान्तिं प्रायश्-चित्तं ब्रूयुः "अन्यथा महदकुशलं राज्ञो देशस्य च" इति ।। १३.२.३३ ।।

 प्रतिपन्नं "एतेषु सप्त-रात्रं एक-एक-मन्त्र-बलि-होमं स्वयं राज्ञा कर्तव्यम्" इति ब्रूयुः ।। १३.२.३४ ।।

 ततः समानं ।। १३.२.३५ ।।

 एतान्वा योगानात्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेश-अर्थं ।। १३.२.३६ ।।

 ततः प्रयोजयेद्योगान् ।। १३.२.३७ ।।

 योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ।। १३.२.३८ ।।

 हस्ति-कामं वा नाग-वन-पाला हस्तिना लक्षण्येन प्रलोभयेयुः ।। १३.२.३९ ।।

 प्रतिपन्नं गहनं एक-अयनं वाअतिनीय घातयेयुः । बद्ध्वा वाअपहरेयुः ।। १३.२.४० ।।

 तेन मृगया-कामो व्याख्यातः ।। १३.२.४१ ।।

 द्रव्य-स्त्री-लोलुपं आढ्य-विधवाभिर्वा परम-रूप-यौवनाभिः स्त्रीभिर्दाय-निक्षेप-अर्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः ।। १३.२.४२ ।।

 प्रतिपन्नं रात्रौ सत्त्रच्-छन्नाः समागमे शस्त्र-रसाभ्यां घातयेयुः ।। १३.२.४३ ।।

 सिद्ध-प्रव्रजित-चैत्य-स्तूप-दैवत-प्रतिमानां अभीक्ष्ण-अभिगमनेषु वा भूमि-गृह-सुरुङ्ग-आरूढ-भित्ति-प्रविष्टास्तीक्ष्णाः परं अभिहन्युः ।। १३.२.४४ ।।

 येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयं । ।। १३.२.४५अ ब ।।

 यात्रा-विहारे रमते यत्र क्रीडति वाअम्भसि ।। काक्१३.२.४५च्द् ।।

 धिग्-उक्त्य्-आदिषु सर्वेषु यज्ञ-प्रहवणेषु वा । ।। १३.२.४६अ ब ।।

 सूतिका-प्रेत-रोगेषु प्रीति-शोक-भयेषु वा । ।। १३.२.४६च्द् ।।

 प्रमादं याति यस्मिन्वा विश्वासात्स्व-जन-उत्सवे ।। १३.२.४७अ ब ।।

 यत्रास्यऽरक्षि-संचारो दुर्दिने संकुलेषु वा । ।। १३.२.४७च्द् ।।

 विप्र-स्थाने प्रदीप्ते वा प्रविष्टे निर्जनेअपि वा । ।। १३.२.४८अ ब ।।

 वस्त्र-आभरण-माल्यानां फेलाभिः शयन-आसनैः ।। १३.२.४८च्द् ।।

 मद्य-भोजन-फेलाभिस्तूर्यैर्वाअभिगताः सह । ।। १३.२.४९अ ब ।।

 प्रहरेयुररिं तीक्ष्णाः पूर्व-प्रणिहितैः सह ।। १३.२.४९च्द् ।।

 यथैव प्रविशेयुश्च द्विषतः सत्त्र-हेतुभिः । ।। १३.२.५०अ ब ।।

 तथैव चापगच्छेयुरित्युक्तं योग-वामनं ।। १३.२.५०च्द् ।।