अर्थशास्त्रम्/अधिकरणम् १३/अध्यायः १
अर्थशास्त्रम् अध्यायः १ कौटिलीय: |
अध्यायः २ → |
विजिगीषुः पर-ग्रामं अवाप्तु-कामः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ।। १३.१.०१ ।।
सर्वज्ञ-ख्यापनं तु गृह-गुह्य-प्रवृत्ति-ज्ञानेन प्रत्यादेशो मुख्यानाम् । कण्टक-शोधन-अपसर्प-अवगमेन प्रकाशनं राज-द्विष्ट-कारिणाम् । विज्ञाप्य-उपायन-ख्यापनं अदृष्ट-संसर्ग-विद्या-संज्ञा-आदिभिः । विदेश-प्रवृत्ति-ज्ञानं तदहरेव गृह-कपोतेन मुद्रा-सम्युक्तेन ।। १३.१.०२ ।।
दैवत-सम्योग-ख्यापनं तु सुरुङ्गा-मुखेनाग्नि-चैत्य-दैवत-प्रतिमाच्-छिद्राननुप्रविष्टैरग्नि-चैत्य-दैवत-व्यञ्जनैः सम्भाषणं पूजनं च । उदकादुत्थितैर्वा नाग-वरुण-व्यञ्जनैः सम्भाषणं पूजनं च । रात्रावन्तर्-उदके समुद्र-वालुका-कोशं प्रणिधायाग्नि-माला-दर्शनम् । शिला-शिक्य-अवगृहीते प्लवके स्थानम् । उदक-बस्तिना जरायुणा वा शिरोअवगूढ-नासः पृषत-अन्त्र-कुलीर-नक्र-शिंशुमार-उद्रवसाभिर्वा शत-पाक्यं तैलं नस्तः प्रयोगः ।। १३.१.०३ ।।
तेन रात्रि-गणश्चरति ।। १३.१.०४ ।।
इत्युदक-चरणानि ।। १३.१.०५ ।।
तैर्वरुण-नाग-कन्या-वाक्य-क्रिया सम्भाषणं च । कोप-स्थानेषु मुखादग्नि-धूम-उत्सर्गः ।। १३.१.०६ ।।
तदस्य स्व-विषये कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-इक्षणिक-गूढ-पुरुषाः साचिव्य-करास्तद्-दर्शिनश्च प्रकाशयेयुः ।। १३.१.०७ ।।
परस्य विषये दैवत-दर्शनं दिव्य-कोश-दण्ड-उत्पत्तिं चास्य ब्रूयुः ।। १३.१.०८ ।।
दैवत-प्रश्न-निमित्त-वायस-अङ्ग-विद्या-स्वप्न-मृग-पक्षि-व्याहारेषु चास्य विजयं ब्रूयुः । विपरीतं अमित्रस्य ।। १३.१.०९ ।।
सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः ।। १३.१.१० ।।
परस्य मुख्यान्मित्रत्वेनौपदिशन्तो दूत-व्यञ्जनाः स्वामि-सत्कारं ब्रूयुः । स्व-पक्ष-बल-आधानं पर-पक्ष-प्रतिघातं च ।। १३.१.११ ।।
तुल्य-योग-क्षेमं अमात्यानां आयुधीयानां च कथयेयुः ।। १३.१.१२ ।।
तेषु व्यसन-अभ्युदय-अवेक्षणं अपत्य-पूजनं च प्रयुञ्जीत ।। १३.१.१३ ।।
तेन पर-पक्षं उत्साहयेद्यथा-उक्तं पुरस्तात् ।। १३.१.१४ ।।
भूयश्च वक्ष्यामः ।। १३.१.१५ ।।
साधारण-गर्दभेन दक्षान् । लकुट-शाखा-हननाभ्यां दण्ड-चारिणः । कुल-एडकेन चौद्विग्नान् । अशनि-वर्षेण विमानितान् । विदुलेनावकेशिना वायस-पिण्डेन कैतवज-मेघेनैति विहत-आशान्दुर्भग-अलंकारेण द्वेषिणाइति पूजा-फलान् । व्याघ्र-चर्मणा मृत्यु-कूटेन चौपहितान् । पीलु-विखादनेन करक-योष्ट्रया गर्दभी-क्षीरा-अभिमन्थनेनैति ध्रुव-उपकारिण इति ।। १३.१.१६ ।।
प्रतिपन्नानर्थ-मानाभ्यां योजयेत् ।। १३.१.१७ ।।
द्रव्य-भक्तच्-छिद्रेषु चएनान्द्रव्य-भक्त-दानैरनुगृह्णीयात् ।। १३.१.१८ ।।
अप्रतिगृह्णतां स्त्री-कुमार-अलंकारानभिहरेयुः ।। १३.१.१९ ।।
दुर्भिक्ष-स्तेन-अटव्य्-उपघातेषु च पौर-जानपदानुत्साहयन्तः सत्त्रिणो ब्रूयुः "राजानं अनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः" इति ।। १३.१.२० ।।
तथाइति प्रतिपन्नेषु द्रव्य-धान्यान्यपरिग्रहैः । ।। १३.१.२१अ ब ।।
साचिव्यं कार्यं इत्येतदुपजापाद्भूतं महत् ।। १३.१.२१च्द् ।।