अर्थशास्त्रम्/अधिकरणम् १३/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ अर्थशास्त्रम्
अध्यायः ५
कौटिलीय:

 द्विविधं विजिगीषोः समुत्थानं अटव्य्-आदिकं एक-ग्राम-आदिकं च ।। १३.५.०१ ।।

 त्रिविधश्चास्य लम्भः नवो । भूत-पूर्वः । पित्र्य इति ।। १३.५.०२ ।।

 नवं अवाप्य लाभं पर-दोषान्स्व-गुणैश्छादयेत् । गुणान्गुण-द्वैगुण्येन ।। १३.५.०३ ।।

 स्व-धर्म-कर्म-अनुग्रह-परिहार-दान-मान-कर्मभिश्च प्रकृति-प्रिय-हितान्यनुवर्तेत ।। १३.५.०४ ।।

 यथा-सम्भाषितं च कृत्य-पक्षं उपग्राहयेत् । भूयश्च कृत-प्रयासं ।। १३.५.०५ ।।

 अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति । प्रकृति-विरुद्ध-आचारश्च ।। १३.५.०६ ।।

 तस्मात्समान-शील-वेष-भाषा-आचारतां उपगछेत् ।। १३.५.०७ ।।

 देश-दैवत-स्माज-उत्सव-विहारेषु च भक्तिं अनुवर्तेत ।। १३.५.०८ ।।

 देश-ग्राम-जाति-संघ-मुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः । माहाभाग्यं भक्तिं च तेषु स्वामिनः । स्वामि-सत्कारं च विद्यमानं ।। १३.५.०९ ।।

 उचितैश्चएनान्भोग-परिहार-रक्षा-अवेक्षणैर्भुञ्जीत ।। १३.५.१० ।।

 सर्व-देवता-आश्रम-पूजनं च विद्या-वाक्य-धर्म-शूर-पुरुषाणां च भूमि-द्रव्य-दान-परिहारान्कारयेत् । सर्व-बन्धन-मोक्षणं अनुग्रहं दीन-अनाथ-व्याधितानां च ।। १३.५.११ ।।

 चातुर्मास्येष्वर्ध-मासिकं अघातम् । पौर्णमासीषु च चातूरात्रिकं राज-देश-नक्षत्रेष्वैकरात्रिकं ।। १३.५.१२ ।।

 योनि-बाल-वधं पुंस्त्व-उपघातं च प्रतिषेधयेत् ।। १३.५.१३ ।।

 यच्च कोश-दण्ड-उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तदपनीय धर्म्य-व्यवहारं स्थापयेत् ।। १३.५.१४ ।।

 चोर-प्रकृतीनां म्लेच्छ-जातीनां च स्थान-विपर्यासं अनेकस्थं कारयेत् । दुर्ग-राष्ट्र-दण्ड-मुख्यानां च ।। १३.५.१५ ।।

 परा-उपगृहीतानां च मन्त्रि-पुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत् ।। १३.५.१६ ।।

 अपकार-समर्थाननुक्षियतो वा भर्तृ-विनाशं उपांशु-दण्डेन प्रशमयेत् ।। १३.५.१७ ।।

 स्व-देशीयान्वा परेण वाअपरुद्धानपवाहित-स्थानेषु स्थापयेत् ।। १३.५.१८ ।।

 यश्च तत्-कुलीनः प्रत्यादेयं आदातुं शक्तः । प्रत्यन्त-अटवीस्थो वा प्रबाधितुं अभिजातः । तस्मै विगुणां भूमिं प्रयच्छेत् । गुणवत्याश्चतुर्-भागं वा कोश-दण्ड-दानं अवस्थाप्य । यदुपकुर्वाणः पौर-जानपदान्कोपयेत् ।। १३.५.१९ ।।

 कुपितैस्तैरेनं घातयेत् ।। १३.५.२० ।।

 प्रकृतिभिरुपक्रुष्टं अपनयेत् । औपघातिके वा देशे निवेशयेत् इति ।। १३.५.२१ ।।

 भूत-पूर्वे येन दोषेणापवृत्तस्तं प्रकृति-दोषं छादयेत् । येन च गुणेनौपावृत्तस्तं तीव्री-कुर्यात् इति ।। १३.५.२२ ।।

 पित्र्ये पितुर्दोषांश्छादयेत् । गुणांश्च प्रकाशयेत् इति ।। १३.५.२३ ।।

 चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् । ।। १३.५.२४अ ब ।।

 प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् ।। १३.५.२४च्द् ।।