अर्थशास्त्रम्/अधिकरणम् १०/अध्यायः ५
← अध्यायः ४ | अर्थशास्त्रम् अध्यायः ५ कौटिलीय: |
अध्यायः ६ → |
पञ्च-धनुः-शत-अपकृष्टं दुर्गं अवस्थाप्य युद्धं उपेयात् । भूमि-वशेन वा ।। १०.५.०१ ।।
विभक्त-मुख्यां अचक्षुर्-विषये मोक्षयित्वा सेनां सेना-पति-नायकौ व्यूहेयातां ।। १०.५.०२ ।।
शम-अन्तरं पत्तिं स्थापयेत् । त्रि-शम-अन्तरं अश्वम् । पञ्च-शम-अन्तरं रथं हस्तिनं वा ।। १०.५.०३ ।।
द्वि-गुण-अन्तरं त्रि-गुण-अन्तरं वा व्यूहेत ।। १०.५.०४ ।।
एवं यथा-सुखं असम्बाधं युध्येत ।। १०.५.०५ ।।
पञ्च-अरत्नि धनुः ।। १०.५.०६ ।।
तस्मिन्धन्विनं स्थापयेत् । त्रि-धनुष्यश्वम् । पञ्च-धनुषि रथं हस्तिनं वा ।। १०.५.०७ ।।
पञ्च-धनुरनीक-संधिः पक्ष-कक्ष-उरस्यानां ।। १०.५.०८ ।।
अश्वस्य त्रयः पुरुषाः प्रतियोद्धारः ।। १०.५.०९ ।।
पञ्च-दश रथस्य हस्तिनो वा । पञ्च चाश्वाः ।। १०.५.१० ।।
तावन्तः पाद-गोपा वाजि-रथ-द्विपानां विधेयाः ।। १०.५.११ ।।
त्रीणि त्रिकाण्यनीकं रथानां उरस्यं स्थापयेत् । तावत्कक्षं पक्षं चौभयतः ।। १०.५.१२ ।।
पञ्च-चत्वारिंशदेवं रथा रथ-व्यूहे भवन्ति । द्वे शते पञ्च-विंशतिश्चाश्वाः । षट्-शतानि पञ्च-सप्ततिश्च पुरुषाः प्रतियोधारः । तावन्तः पाद-गोपाः ।। १०.५.१३ ।।
एष सम-व्यूहः ।। १०.५.१४ ।।
तस्य द्वि-रथ-उत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१५ ।।
एवं ओजा दश सम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१६ ।।
पक्ष-कक्ष-उरस्यानां मिथो विषम-संख्याने विषम-व्यूहः ।। १०.५.१७ ।।
तस्यापि द्वि-रथौत्तरा वृद्धिरा-एक-विंशति-रथादिति ।। १०.५.१८ ।।
एवं ओजा दश विषम-व्यूह-प्रकृतयो भवन्ति ।। १०.५.१९ ।।
अतः सैन्यानां व्यूह-शेषं आवापः कार्यः ।। १०.५.२० ।।
रथानां द्वौ त्रि-भागावङ्गेष्वावापयेत् । शेषं उरस्यं स्थापयेत् ।। १०.५.२१ ।।
एवं त्रि-भाग-ऊनो रथानां आवापः कार्यः ।। १०.५.२२ ।।
तेन हस्तिनां अश्वानां आवापो व्याख्यातः ।। १०.५.२३ ।।
यावद्-अश्व-रथ-द्विपानां युद्ध-सम्बाधनं न कुर्यात्तावदावापः कार्यः ।। १०.५.२४ ।।
दण्ड-बाहुल्यं आवापः ।। १०.५.२५ ।।
पत्ति-बाहुल्यं प्रत्यापावः ।। १०.५.२६ ।।
एक-अङ्ग-बाहुल्यं अन्वावापः ।। १०.५.२७ ।।
दूष्य-बाहुल्यं अत्यावापः ।। १०.५.२८ ।।
पर-आवापात्प्रत्यावापाच्च चतुर्-गुणादा-अष्ट-गुणादिति वा विभवतः सैन्यानां आवापः ।। १०.५.२९ ।।
रथ-व्यूहेन हस्ति-व्यूहो व्याख्यातः ।। १०.५.३० ।।
व्यामिश्रो वा हस्ति-रथ-अश्वानां चक्र-अन्तेषु हस्तिनः पार्श्वयोरश्वा रथा उरस्ये ।। १०.५.३१ ।।
हस्तिनां उरस्यं रथानां कक्षावश्वानां पक्षाविति मध्य-भेदी ।। १०.५.३२ ।।
विपरीतोअन्त-भेदी ।। १०.५.३३ ।।
हस्तिनां एव तु शुद्धः साम्नाह्यानां उरस्यं औपवाह्यानां जघनं व्यालानां कोट्याविति ।। १०.५.३४ ।।
अश्व-व्यूहो वर्मिणां उरस्यं शुद्धानां कक्ष-पक्षाविति ।। १०.५.३५ ।।
पत्ति-व्यूहः पुरस्तादावरणिनः पृष्ठतो धन्विनः ।। १०.५.३६ ।।
इति शुद्धाः ।। १०.५.३७ ।।
पत्तयः पक्षयोरश्वाः पार्श्वयोः हस्तिनः पृष्ठतो रथाः पुरस्तात् । पर-व्यूह-वशेन वा विपर्यासः ।। १०.५.३८ ।।
इति द्व्य्-अङ्ग-बल-विभागः ।। १०.५.३९ ।।
तेन त्र्-अङ्ग-बल-विभागो व्याख्यातः ।। १०.५.४० ।।
दण्ड-सम्पत्सार-बलं पुंसां ।। १०.५.४१ ।।
हस्त्य्-अश्वयोर्विशेषः कुलं जातिः सत्त्वं वयः-स्थता प्राणो वर्ष्म जवस्तेजः शिल्पं स्तैर्यं उदग्रता विधेयत्वं सुव्यञ्जन-आचारताइति ।। १०.५.४२ ।।
पत्त्य्-अश्व-रथ-द्विपानां सार-त्रि-भागं उरस्यं स्थापयेत् । द्वौ त्रि-भागौ कक्षं पक्षं चौभयतः । अनुलोमं अनुसारम् । प्रतिलोमं तृतीय-सारम् । फल्गु प्रतिलोमं ।। १०.५.४३ ।।
एवं सर्वं उपयोगं गमयेत् ।। १०.५.४४ ।।
फल्गु-बलं अन्तेष्ववधाय वेग-अभिहूलिको भवति ।। १०.५.४५ ।।
सार-बलं अग्रतः कृत्वा कोटीष्वनुसारं कुर्यात् । जघने तृतियिय-सारम् । मध्ये फल्गु-बलं ।। १०.५.४६ ।।
एवं एतत्सहिष्णु भवति ।। १०.५.४७ ।।
व्यूहं तु स्थापयित्वा पक्ष-कक्ष-उरस्यानां एकेन द्वाभ्यां वा प्रहरेत् । शेषैः प्रतिगृह्णीयात् ।। १०.५.४८ ।।
यत्परस्य दुर्बलं वीत-हस्त्य्-अश्वं दूष्य-अमात्यं कृत-उपजापं वा तत्-प्रभूत-सारेणाभिहन्यात् ।। १०.५.४९ ।।
यद्वा परस्य सारिष्ठं तद्-द्वि-गुण-सारेणाभिहन्यात् ।। १०.५.५० ।।
यदङ्गं अल्प-सारं आत्मनस्तद्बहुनाउपचिनुयात् ।। १०.५.५१ ।।
यतः परस्यापचयस्ततोअभ्याशे व्यूहेत । यतोत्वा भयं स्यात् ।। १०.५.५२ ।।
अभिसृतं परिसृतं अतिसृतं अपसृतं उन्मथ्य-अवधानं वलयो गो-मूत्रिका मण्डलं प्रकीर्णिका व्यावृत्त-पृष्ठं अनुवंशं अग्रतः पार्श्वाभ्यां पृष्ठतो भग्न-रक्षा भग्न-अनुपात इत्यश्व-युद्धानि ।। १०.५.५३ ।।
प्रकीर्णिक-आवर्जान्येतान्येव चतुर्णां अङ्गानां व्यस्त-समस्तानां वा घातः । पक्ष-कक्ष-उरस्यानां च प्रभञ्जनं अवस्कन्दः सौप्तिकं चैति हसित्-युद्धानि ।। १०.५.५४ ।।
उन्मथ्य-अवधान-वर्जान्येतान्येव स्व-भूमावभियान-अपयान-स्थित-युद्धानिइति रथ-युद्धानि ।। १०.५.५५ ।।
सर्व-देश-काल-प्रहरणं उपांशु-दण्डश्चैति पत्ति-युद्धानि ।। १०.५.५६ ।।
एतेन विधिना व्यूहानोजान्युग्मांश्च कारयेत् । ।। १०.५.५७अ ब ।।
विभवो यावदङ्गानां चतुर्णां सदृशो भवेत् ।। १०.५.५७च्द् ।।
द्वे शते धनुषां गत्वा राजा तिष्ठेत्प्रतिग्रहे । ।। १०.५.५८अ ब ।।
भिन्न-संघातनं तस्मान्न युध्येताप्रतिग्रहः ।। १०.५.५८च्द् ।।