सामग्री पर जाएँ

अर्थशास्त्रम्/अधिकरणम् १०/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ अर्थशास्त्रम्
अध्यायः ४
कौटिलीय:
अध्यायः ५ →

 स्व-भूमिः पत्त्य्-अश्व-रथ-द्विपानां इष्टा युद्धे निवेशे च ।। १०.४.०१ ।।

 धान्वन-वन-निम्न-स्थल-योधिनां खनक-आकाश-दिवा-रात्रि-योधिनां च पुरुषाणां नादेय-पार्वत-आनूप-सारसानां च हस्तिनां अश्वानां च यथा-स्वं इष्टा युद्ध-भूमयः कालाश्च ।। १०.४.०२ ।।

 समा स्थिराअभिकाशा निरुत्खातिन्य-चक्र-खुराअनक्ष-ग्राहिण्य-वृक्ष-गुल्म-व्रतती-स्तम्भ-केदार-श्वभ्र-वल्मीक-सिकता-पङ्क-भङ्गुरा दरण-हीना च रथ-भूमिः । हस्त्य्-अश्वयोर्मनुष्याणां च समे विषमे हिता युद्धे निवेशे च ।। १०.४.०३ ।।

 अण्व्-अश्म-वृक्षा ह्रस्व-लङ्घनीय-श्वभ्रा मन्द-दरण-दोषा चाश्व-भूमिः ।। १०.४.०४ ।।

 स्थूल-स्थाण्वश्म-वृक्ष-व्रतती-वल्मीक-गुल्मा पदाति-भूमिः ।। १०.४.०५ ।।

 गम्य-शैल-निम्न-विषमा मर्दनीय-वृक्षा छेदनीय-व्रतती पङ्क-भङ्गुरा दरण-हीना च हस्ति-भूमिः ।। १०.४.०६ ।।

 अकण्टकिन्यबहु-विषमा प्रत्यासारवतीइति पदातीनां अतिशयः ।। १०.४.०७ ।।

 द्वि-गुण-प्रत्यासारा कर्दम-उदक-खञ्जन-हीना निह्शर्कराइति वाजिनां अतिशयः ।। १०.४.०८ ।।

 पांसु-कर्दम-उदक-नल-शर-आधानवती श्व-दण्ष्ट्र-हीना महा-वृक्ष-शाखा-घात-वियुक्ताइति हस्तिनां अतिशयः ।। १०.४.०९ ।।

 तोय-आशय-अपाश्रयवती निरुत्खातिनी केदार-हीना व्यावर्तन-समर्थाइति रथानां अतिशयः ।। १०.४.१० ।।

 उक्ता सर्वेषां भूमिः ।। १०.४.११ ।।

 एतया सर्व-बल-निवेशा युद्धानि च व्याख्यातानि भवन्ति ।। १०.४.१२ ।।

 भूमि-वास-वन-विचयोअविषम-तोय-तीर्थ-वात-रश्मि-ग्रहणं वीवध-आसारयोर्घातो रक्षा वा विशुद्धिः स्थापना च बलस्य प्रसार-वृद्धिर्बाहु-उत्सारः पूर्व-प्रहारो व्यावेशनं व्यावेधनं आश्वासो ग्रहणं मोक्षणं मार्ग-अनुसार-विनिमयः कोश-कुमार-अभिहरणं जघन-कोट्य्-अभिघातो हीन-अनुसारणं अनुयानं समाज-कर्मैत्यश्व-कर्माणि ।। १०.४.१३ ।।

 पुरो-यानं अकृत-मार्ग-वास-तीर्थ-कर्म बाहु-उत्सारस्तोय-तरण-अवतरणे स्थान-गमन-अवतरणं विषम-सम्बाध-प्रवेशोअग्नि-दान-शमनं एक-अङ्ग-विजयो भिन्न-संधानं अभिन्न-भेदनं व्यसने त्राणं अभिघातो विभीषिका त्रासनं-औदार्यं ग्रहणं मोक्षणं साल-द्वार-अट्टालक-भञ्जनं कोश-वाहन-अपवाहनं इति हस्ति-कर्माणि ।। १०.४.१४ ।।

 स्व-बल-रक्षा चतुर्-अङ्ग-बल-प्रतिषेधः संग्रामे ग्रहणं मोक्षणं भिन्न-संधानं अभिन्न-भेदनं त्रासनं औदार्यं भीम-घोषश्चैति रथ-कर्माणि ।। १०.४.१५ ।।

 सर्व-देश-काल-शस्त्र-वहनं व्यायामश्चैति पदाति-कर्माणि ।। १०.४.१६ ।।

 शिबिर-मार्ग-सेतु-कूप-तीर्थ-शोधन-कर्म यन्त्र-आयुध-आवरण-उपकरण-ग्रास-वहनं आयोधनाच्च प्रहरण-आवरण-प्रतिविद्ध-अपनयनं इति विष्टि-कर्माणि ।। १०.४.१७ ।।

 कुर्याद्गव-अश्व-व्यायोगं रथेष्वल्प-हयो नृपः । ।। १०.४.१८अ ब ।।

 खर-उष्ट्र-शकटानां वा गर्भं अल्प-गजस्तथा ।। १०.४.१८च्द् ।।