अर्थशास्त्रम्/अधिकरणम् १०/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ अर्थशास्त्रम्
अध्यायः ३
कौटिलीय:
अध्यायः ४ →

 बल-विशिष्टः कृत-उपजापः प्रतिविहित-ऋतुः स्व-भूम्यां प्रकाश-युद्धं उपेयात् ।। १०.३.०१ ।।

 विपर्यये कूट-युद्धं ।। १०.३.०२ ।।

 बल-व्यसन-अवस्कन्द-कालेषु परं अभिहन्यात् । अभूमिष्ठं वा स्व-भूमिष्ठः । प्रकृति-प्रग्रहो वा स्व-भूमिष्ठं ।। १०.३.०३ ।।

 दूष्य-अमित्र-अटवी-बलैर्वा भङ्गं दत्त्वा विभूमि-प्राप्तं हन्यात् ।। १०.३.०४ ।।

 संहत-अनीकं हस्तिभिर्भेदयेत् ।। १०.३.०५ ।।

 पूर्वं भङ्ग-प्रदानेनानुप्रलीनं भिन्नं अभिन्नः प्रतिनिवृत्य हन्यात् ।। १०.३.०६ ।।

 पुरस्तादभिहत्य प्रचलं विमुखं वा पृष्ठतो हस्त्य्-अश्वेनाभिहन्यात् ।। १०.३.०७ ।।

 पृष्ठतोअभिहत्या प्रचलं विमुखं वा पुरस्तात्सार-बलेनाभिहन्यात् ।। १०.३.०८ ।।

 ताभ्यां पार्श्व-अभिगातौ व्याख्यातौ ।। १०.३.०९ ।।

 यतो वा दूष्य-फल्गु-बलं ततोअभिहन्यात् ।। १०.३.१० ।।

 पुरस्ताद्विषमायां पृष्ठतोअभिहन्यात् ।। १०.३.११ ।।

 पृष्ठतो विषमायां पुरस्तादभिहन्यात् ।। १०.३.१२ ।।

 पार्श्वतो विषमायां इतरतोअभिहन्यात् ।। १०.३.१३ ।।

 दूष्य-अमित्र-अटवी-बलैर्वा पूर्वं योधयित्वा श्रान्तं अश्रान्तः परं अभिहन्यात् ।। १०.३.१४ ।।

 दूष्य-बलेन वा स्वयं भङ्गं दत्त्वा "जितम्" इति विश्वस्तं अविश्वस्तः सत्त्र-अपाश्रयोअभिहन्यात् ।। १०.३.१५ ।।

 सार्थ-व्रज-स्कन्ध-आवार-संवाह-विलोप-प्रमत्तं अप्रमत्तोअभिहन्यात् ।। १०.३.१६ ।।

 फल्गु-बल-अवच्छन्न-सार-बलो वा पर-वीराननुप्रविश्य हन्यात् ।। १०.३.१७ ।।

 गो-ग्रहणेन श्वा-पद-वधेन वा पर-वीरानाकृष्य सत्त्रच्-छन्नोअभिहन्यात् ।। १०.३.१८ ।।

 रात्राववस्कन्देन जागरयित्वा निद्रा-क्लान्तानवसुप्तान्वा दिवा हन्यात् ।। १०.३.१९ ।।

 सपाद-चर्म-कोशैर्वा हस्तिभिः सौप्तिकं दद्यात् ।। १०.३.२० ।।

 अहः-सम्नाह-परिश्रान्तानपर-अह्नेअभिहन्यात् ।। १०.३.२१ ।।

 शुष्क-चर्म-वृत्त-शर्कर-आकोशकैर्गो-महिष-उष्ट्र-यूथैर्वा त्रस्नुभिरकृत-हस्त्य्-अश्वं भिन्नं अभिन्नः प्रतिनिवृत्तं हन्यात् ।। १०.३.२२ ।।

 प्रतिसूर्य-वातं वा सर्वं अभिहन्यात् ।। १०.३.२३ ।।

 धान्वन-वन-संकट-पङ्क-शैल-निम्न-विषम-नावो गावः शकटव्यूहो नीहारो रात्रिरिति सत्त्राणि ।। १०.३.२४ ।।

 पूर्वे च प्रहरण-कालाः कूट-युद्ध-हेतवः ।। १०.३.२५ ।।

 संग्रामस्तु निर्दिष्ट-देश-कालो धर्मिष्ठः ।। १०.३.२६ ।।

 संहत्य दण्डं ब्रूयात्"तुल्य-वेतनोअस्मि । भवद्भिः सह भोग्यं इदं राज्यम् । मयाअभिहितैः परोअभिहन्तव्यः" इति ।। १०.३.२७ ।।

 वेदेष्वप्यनुश्रूयते समाप्त-दक्षिणानां यज्ञानां अवभृथेषु "सा ते गतिर्या शूराणाम्" इति ।। १०.३.२८ ।।

 अपिइह श्लोकौ भवतः ।। १०.३.२९ ।।

 "यान्यज्ञ-संघैस्तपसा च विप्राः स्वर्ग-एषिणः पात्र-चयैश्च यान्ति । ।। १०.३.३०अ ब ।।

 क्षणेन तानप्यतियान्ति शूराः प्राणान्सुयुद्धेषु परित्यजन्तः ।। १०.३.३०च्द् ।।

 "नवं शरावं सलिलस्य पूर्णं सुसंस्कृतं दर्भ-कृत-उत्तरीयं । ।। १०.३.३१अ ब ।।

 तत्तस्य मा भून्नरकं च गच्छेद्यो भर्तृ-पिण्डस्य कृते न युध्येत् इति ।। १०.३.३१च्द् ।।

 मन्त्रि-पुरोहिताभ्यां उत्साहयेद्योधान्व्यूह-सम्पदा ।। १०.३.३२ ।।

 कार्तान्तिक-आदिश्चास्य वर्गः सर्वज्ञ-दैवत-सम्योग-ख्यापनाभ्यां स्व-पक्षं उद्धर्षयेत् । पर-पक्षं चौद्वेजयेत् ।। १०.३.३३ ।।

 "श्वो युद्धम्" इति कृत-उपवासः शस्त्र-वाहनं चानुशयीत ।। १०.३.३४ ।।

 अथर्वभिश्च जुहुयात् ।। १०.३.३५ ।।

 विजय-युक्ताः स्वर्गीयाश्चऽशिषो वाचयेत् ।। १०.३.३६ ।।

 ब्राह्मणेभ्यश्चऽत्मानं अतिसृजेत् ।। १०.३.३७ ।।

 शौर्य-शिल्प-अभिजन-अनुराग-युक्तं अर्थ-मानाभ्यां अविसंवादितं अनीक-गर्भं कुर्वीत ।। १०.३.३८ ।।

 पितृ-पुत्र-भ्रातृकाणां आयुधीयानां अध्वजं मुण्ड-अनीकं राज-स्थानं ।। १०.३.३९ ।।

 हस्ती रथो वा राज-वाहनं अश्व-अनुबन्धः ।। १०.३.४० ।।

 यत्प्राय-सैन्यो यत्र वा विनीतः स्यात्त्(अद्) अधिरोहयेत् ।। १०.३.४१ ।।

 राज-व्यञ्जनो व्यूह-अधिष्ठानं आयोज्यः ।। १०.३.४२ ।।

 सूत-मागधाः शूराणां स्वर्गं अस्वर्गं भीरूणां जाति-संघ-कुल-कर्म-वृत्त-स्तवं च योधानां वर्णयेयुः ।। १०.३.४३ ।।

 पुरोहित-पुरुषाः कृत्य-अभिचारं ब्रूयुः । यन्त्रिक-वर्धकि-मौहूर्तिकाः स्व-कर्म-सिद्धिं असिद्धिं परेषां ।। १०.३.४४ ।।

 सेना-पतिरर्थ-मानाभ्यां अभिसंस्कृतं अनीकं आभाषेत "शत-साहस्रो राज-वधः । पञ्चाशत्-साहस्रः सेना-पति-कुमार-वधः । दश-साहस्रः प्रवीर-मुख्य-वधः । पञ्च-साहस्रो हस्ति-रथ-वधः । साहस्रोअश्व-वधः । शत्यः पत्ति-मुख्य-वधः । शिरो विंशतिकं भोग-द्वैगुण्यं स्वयं-ग्राहश्च" इति ।। १०.३.४५ ।।

 तदेषां दश-वर्ग-अधिपतयो विद्युः ।। १०.३.४६ ।।

 चिकित्सकाः शस्त्र-यन्त्र-अगद-स्नेह-वस्त्र-हस्ताः स्त्रियश्चान्न-पान-रक्षिण्यः पुरुषाणां उद्धर्षणीयाः पृष्ठतस्तिष्ठेयुः ।। १०.३.४७ ।।

 अदक्षिणा-मुखं पृष्ठतः-सूर्यं अनुलोम-वातं अनीकं स्व-भूमौ व्यूहेत ।। १०.३.४८ ।।

 पर-भूमि-व्यूहे चाश्वांश्चारयेयुः ।। १०.३.४९ ।।

 यत्र स्थानं प्रजवश्चाभूमिर्व्यूहस्य तत्र स्थितः प्रजवितश्चौभयथा जीयेत विपर्यये जयति । उभयथा स्थाने प्रजवे च ।। १०.३.५० ।।

 समा विषमा व्यामिश्रा वा भूमिरिति पुरस्तात्पार्श्वाभ्यां पश्चाच्च ज्ञेया ।। १०.३.५२ ।।

 समायां दण्ड-मण्डल-व्यूहाः । विषमायां भोग-असंहत-व्यूहाः । व्यामिश्रायां विषम-व्यूहाः ।। १०.३.५३ ।।

 विशिष्ट-बलं भङ्क्त्वा संधिं याचेत ।। १०.३.५४ ।।

 सम-बलेन याचितः संदधीत ।। १०.३.५५ ।।

 हीनं अनुहन्यात् । न त्वेव स्व-भूमि-प्राप्तं त्यक्त-आत्मानं वा ।। १०.३.५६ ।।

 पुनर्-आवर्तमानस्य निराशस्य च जीविते । ।। १०.३.५७अ ब ।।

 अधार्यो जायते वेगस्तस्माद्भग्नं न पीडयेत् ।। १०.३.५७च्द् ।।