अर्थशास्त्रम्/अधिकरणम् १०/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ अर्थशास्त्रम्
अध्यायः २
कौटिलीय:
अध्यायः ३ →

 ग्राम-अरण्यानां अध्वनि निवेशान्यवस-इन्धन-उदक-वशेन परिसंख्याय स्थान-आसन-गमन-कालं च यात्रां यायात् ।। १०.२.०१ ।।

 तत्-प्रतीकार-द्वि-गुणं भक्त-उपकरणं वाहयेत् ।। १०.२.०२ ।।

 अशक्तो वा सैन्येष्वायोजयेत् । अन्तरेषु वा निचिनुयात् ।। १०.२.०३ ।।

 पुरस्तान्नायकः । मध्ये कलत्रं स्वामी च । पार्श्वयोरश्वा बाहु-उत्सारः । चक्र-अन्तेषु हस्तिनः प्रसार-वृद्धिर्वा । पश्चात्सेना-पतिर्यायात्निविशेत ।। १०.२.०४ ।।

 सर्वतो वन-आजीवः प्रसारः ।। १०.२.०५ ।।

 स्व-देशादन्वायतिर्वीवधः ।। १०.२.०६ ।।

 मित्र-बलं आसारः ।। १०.२.०७ ।।

 कलत्र-स्थानं अपसारः ।। १०.२.०८ ।।

 पुरस्तादध्याघाते मकरेण यायात् । पश्चात्शकटेन । पार्श्वयोर्वज्रेण । समन्ततः सर्वतो-भद्रेण । एक-अयने सूच्या ।। १०.२.०९ ।।

 पथि-द्वैधी-भावे स्वभूमितो यायात् ।। १०.२.१० ।।

 अभूमिष्ठानां हि स्व-भूमिष्ठा युद्धे प्रतिलोमा भवन्ति ।। १०.२.११ ।।

 योजनं अधमा । अध्यर्धं मध्यमा । द्वि-योजनं उत्तमा । सम्भाव्या वा गतिः ।। १०.२.१२ ।।

 आश्रय-कारी सम्पन्न-घाती पार्ष्णिरासारो मध्यम उदासीनो वा प्रतिकर्तव्यः । संकटो मार्गः शोधयितव्यः । कोशो दण्डो मित्र-अमित्र-अटवी-बलं विष्टि-ऋतुर्वा प्रतीक्ष्याः । कृत-दुर्ग-कर्म-निचय-रक्षा-क्षयः क्रीत-बल-निर्वेदो मित्र-बल-निर्वेदश्चऽगमिष्यति । उपजपितारो वा नातित्वरयन्ति । शत्रुरभिप्रायं वा पूरयिष्यति । इति शनैर्यायात् । विपर्यये शीघ्रं ।। १०.२.१३ ।।

 हस्ति-स्तम्भ-संक्रम-सेतु-बन्ध-नौ-काष्ठ-वेणु-संघातैरलाबु-चर्म-करण्ड-दृति-प्लव-गण्डिका-वेणिकाभिश्चौदकानि तारयेत् ।। १०.२.१४ ।।

 तीर्थ-अभिग्रहे हस्त्य्-अश्वैरन्यतो रात्रावुत्तार्य सत्त्रं गृह्णीयात् ।। १०.२.१५ ।।

 अनुदके चक्रि-चतुष्पदं चाध्व-प्रमाणेन शक्त्याउदकं वाहयेत् ।। १०.२.१६ ।।

 दीर्घ-कान्तारं अनुदकं यवस-इन्धन-उदक-हीनं वा कृच्छ्र-अध्वानं अभियोग-प्रस्कन्नं क्षुत्-पिपासा-अध्व-क्लान्तं पङ्क-तोय-गम्भीराणां वा नदी-दरी-शैलानां उद्यान-अपयाने व्यासक्तं एक-अयन-मार्गे शैल-विषमे संकटे वा बहुली-भूतं निवेशे प्रस्थिते विसम्नाहं भोजन-व्यासक्तं आयत-गत-परिश्रान्तं अवसुप्तं व्याधि-मरक-दुर्भिक्ष-पीडितं व्याधित-पत्त्य्-अश्व-द्विपं अभूमिष्ठं वा बल-व्यसनेषु वा स्व-सैन्यं रक्षेत् । पर-सैन्यं चाभिहन्यात् ।। १०.२.१७ ।।

 एक-अयन-मार्ग-प्रयातस्य सेना-निश्चार-ग्रास-आहार-शय्या-प्रस्तार-अग्नि-निधान-ध्वज-आयुध-संख्यानेन पर-बल-ज्ञानं ।। १०.२.१८ ।।

 तदाआत्मानो गूहयेत् ।। १०.२.१९ ।।

 पार्वतं वन-दुर्गं वा सापसार-प्रतिग्रहं । ।। १०.२.२०अ ब ।।

 स्व-भुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ।। १०.२.२०च्द् ।।