अर्थशास्त्रम्/अधिकरणम् १०/अध्यायः १
अर्थशास्त्रम् अध्यायः १ कौटिलीय: |
अध्यायः २ → |
वास्तुक-प्रशस्ते वास्तुनि नायक-वर्धकि मौहूर्तिकाः स्कन्ध-आवारम् । वृत्तं दीर्घं चतुर्-अश्रं वा भूमि-वशेन वा । चतुर्-द्वारं षट्-पथं नव-संस्थानं मापयेयुः खात-वप्र-साल-द्वार-अट्टालक-सम्पन्नं भये स्थाने च ।। १०.१.०१ ।।
मध्यमस्यौत्तरे नव-भागे राज-वास्तुकं धनुः-शत-आयामं अर्ध-विस्तारम् । पश्चिम-अर्धे तस्यान्तः-पुरं ।। १०.१.०२ ।।
अन्तर्-वंशिक-सैन्यं चान्ते निविशेत ।। १०.१.०३ ।।
पुरस्तादुपस्थानम् । दक्षिणतः कोश-शासन-कार्य-करणानि । वामतो राज-औपवाह्यानां हस्त्य्-अश्व-रथानां स्थानं ।। १०.१.०४ ।।
अतो धनुः-शत-अन्तराश्चत्वारः शकट-मेथी-प्रतति-स्तम्भ-साल-परिक्षेपाः ।। १०.१.०५ ।।
प्रथमे पुरस्तान्मन्त्रि-पुरोहितौ । दण्षिणतः कोष्ठ-अगारं महानसं च । वामतः कुप्य-आयुध-अगारं ।। १०.१.०६ ।।
द्वितीये मौल-भृतानां स्थानं अश्व-रथानां सेना-पतेश्च ।। १०.१.०७ ।।
तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ।। १०.१.०८ ।।
चतुर्थे विष्टिर्नायको मित्र-अमित्र-अटवी-बलं स्व-पुरुष-अधिष्ठितं ।। १०.१.०९ ।।
वणिजो रूप-आजीवाश्चानु-महा-पथं ।। १०.१.१० ।।
बाह्यतो लुब्धक-श्व-गणिनः सतूर्य-अग्नयः । गूढाश्चऽरक्षाः ।। १०.१.११ ।।
शत्रूणां आपाते कूप-कूट-अवपात-कण्टकिनीश्च स्थापयेत् ।। १०.१.१२ ।।
अष्टादश-वर्गाणां आरक्ष-विपर्यासं कारयेत् ।। १०.१.१३ ।।
दिव-आयामं च कारयेदपसर्प-ज्ञान-अर्थं ।। १०.१.१४ ।।
विवाद-सौरिक-समाज-द्यूत-वारणं च कारयेत् । मुद्रा-रक्षणं च ।। १०.१.१५ ।।
सेना-निवृत्तं आयुधीयं अशासनं शून्य-पालो बध्नीयात् ।। १०.१.१६ ।।
पुरस्तादध्वनः सम्यक्-प्रशास्ता रक्षणानि च । ।। १०.१.१७अ ब ।।
यायाद्वर्धकि-विष्टिभ्यां उदकानि च कारयेत् ।। १०.१.१७च्द् ।।