अर्थशास्त्रम्/अधिकरणम् १०/अध्यायः ६
← अध्यायः ५ | अर्थशास्त्रम् अध्यायः ६ कौटिलीय: |
पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूह-विभागः ।। १०.६.०१ ।।
पक्षौ कक्षावुरस्यं प्रतिग्रह इति बार्हस्प्त्यः ।। १०.६.०२ ।।
प्रपक्ष-कक्ष-उरस्या उभयोः दण्ड-भोग-मण्डल-असंहताः प्रकृति-व्यूहाः ।। १०.६.०३ ।।
तत्र तिर्यग्-वृत्तिर्दण्डः ।। १०.६.०४ ।।
समस्तानां अन्वावृत्तिर्भोगः ।। १०.६.०५ ।।
सरतां सर्वतो-वृत्तिर्मण्डलः ।। १०.६.०६ ।।
स्थितानां पृथग्-अनीक-वृत्तिरसंहतः ।। १०.६.०७ ।।
पक्ष-कक्ष-उरस्यैः समं वर्तमानो दण्डः ।। १०.६.०८ ।।
स कक्ष-अतिक्रान्तः प्रदरः ।। १०.६.०९ ।।
स एव पक्ष-कक्षाभ्यां प्रतिक्रान्तो दृढकः ।। १०.६.१० ।।
स एवातिक्रान्तः पक्षाभ्यां असह्यः ।। १०.६.११ ।।
पक्षाववस्थाप्यौरस्य-अतिक्रान्तः श्येनः ।। १०.६.१२ ।।
विपर्यये चापं चाप-कुकुषिः प्रतिष्ठः सुप्रतिष्ठश्च ।। १०.६.१३ ।।
चाप-पक्षः संजयः ।। १०.६.१४ ।।
स एवौरस्य-अतिक्रान्तो विजयः ।। १०.६.१५ ।।
स्थूल-कर्ण-पक्षः स्थूण-अकर्णः ।। १०.६.१६ ।।
द्वि-गुण-पक्ष-स्थूणो विशाल-विजयः ।। १०.६.१७ ।।
त्र्य्-अभिक्रान्त-पक्षश्चमू-मुखः ।। १०.६.१८ ।।
विपर्यये झष-आस्यः ।। १०.६.१९ ।।
ऊर्ध्व-राजिर्दण्डः सूची ।। १०.६.२० ।।
द्वौ दण्डौ वलयः ।। १०.६.२१ ।।
चत्वारो दुर्जयः ।। १०.६.२२ ।।
इति दण्ड-व्यूहाः ।। १०.६.२३ ।।
पक्ष-कक्ष-उरस्यैर्विषमं वर्तमानो भोगः ।। १०.६.२४ ।।
स सर्प-सारी गो-मूत्रिका वा ।। १०.६.२५ ।।
स युग्म-उरस्यो दण्ड-पक्षः शकटः ।। १०.६.२६ ।।
विपर्यये मकरः ।। १०.६.२७ ।।
हस्त्य्-अश्व-रथैर्व्यतिकीर्णः शकटः पारिपतन्तकः ।। १०.६.२८ ।।
इति भोग-व्यूहाः ।। १०.६.२९ ।।
पक्ष-कक्ष-उरस्यानां एकी-भावे मण्डलः ।। १०.६.३० ।।
स सर्वतो-मुखः सर्वतो-भद्रः ।। १०.६.३१ ।।
अष्ट-अनीको दुर्जयः ।। १०.६.३२ ।।
इति मण्डल-व्यूहाः ।। १०.६.३३ ।।
पक्ष-कक्ष-उरस्यानां असंहतादसंहतः ।। १०.६.३४ ।।
स पञ्च-अनीकानां आकृति-स्थापनाद्वज्रो गोधा वा ।। १०.६.३५ ।।
चतुर्णां उद्धानकः काकपदी वा ।। १०.६.३६ ।।
त्रयाणां अर्ध-चन्द्रकः कर्कटक-शृङ्गी वा ।। १०.६.३७ ।।
इत्यसंहत-व्यूहाः ।। १०.६.३८ ।।
रथ-उरस्यो हस्ति-कक्षोअश्व-पृष्ठोअरिष्टः ।। १०.६.३९ ।।
पत्तयोअश्वा रथा हस्तिनश्चानुपृष्ठं अचलः ।। १०.६.४० ।।
हस्तिनोअश्वा रथाः पत्तयश्चानुपृष्ठं अप्रतिहतः ।। १०.६.४१ ।।
तेषां प्रदरं दृढकेन घातयेत् । दृढकं असह्येन । श्येनं चापेन । प्रतिष्ठं सुप्रतिष्ठेन । संजयं विजयेन । स्थूण-आकर्णं विशाल-विजयेन । पारिपतन्तकं सर्वतो-भद्रेण ।। १०.६.४२ ।।
दुर्जयेन सर्वान्प्रतिव्यूहेत ।। १०.६.४३ ।।
पत्त्य्-अश्व-रथ-द्विपानां पूर्वं पूर्वं उत्तरेण घातयेत् । हीन-अङ्गं अधिक-अङ्गेन चैति ।। १०.६.४४ ।।
अङ्ग-दशकस्यएकः पतिः पतिकः । पतिक-दशकस्यएकः सेना-पतिः । तद्-दशकस्यएको नायक इति ।। १०.६.४५ ।।
स तूर्य-घोष-ध्वज-पताकाभिर्व्यूह-अङ्गानां संज्ञाः स्थापयेदङ्ग-विभागे संघाते स्थाने गमने व्यावर्तने प्रहरणे च ।। १०.६.४६ ।।
समे व्यूहे देश-काल-सार-योगात्सिद्धिः ।। १०.६.४७ ।।
यन्त्रैरुपनिषद्-योगैस्तीक्ष्णैर्व्यासक्त-घातिभिः । ।। १०.६.४८अ ब ।।
मायाभिर्देव-सम्योगैः शकटैर्हस्ति-भीषणैः ।। १०.६.४८च्द् ।।
दूष्य-प्रकोपैर्गो-यूथैः स्कन्ध-आवार-प्रदीपनैः । ।। १०.६.४९अ ब ।।
कोटी-जघन-घातैर्वा दूत-व्यञ्जन-भेदनैः ।। १०.६.४९च्द् ।।
"दुर्गं दग्धं हृतं वा ते कोपः कुल्यः समुत्थितः । ।। १०.६.५०अ ब ।।
शत्रुराटविको वा" इति परस्यौद्वेगं आचरेत् ।। १०.६.५०च्द् ।।
एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । ।। १०.६.५१अ ब ।।
प्रज्ञानेन तु मतिः क्षिप्ता हन्याद्गर्भ-गतानपि ।। १०.६.५१च्द् ।।