अभिज्ञानशाकुन्तलम् (सटीका)/पञ्चमोऽङ्कः

विकिस्रोतः तः
← चतुर्थोऽङ्कः अभिज्ञानशाकुन्तलम् (सटीका)
पञ्चमोऽङ्कः
कालिदासः
षष्ठोऽङ्कः  →

पञ्चमोऽङ्कः ।

( ततः प्रविशत्यासनस्थो राजा विदूषकश्च )

 विदूषकः--( कर्णं दत्त्वा ) भो वअस्स, संगीतसालन्तरे अव धाणं देहि । कलविसुद्धोए गदीिए सरसंजोओ सुणीअदि । जाणे तत्तहोदी हंसवदिआ वण्णपरिअअं करेदि त्ति । [ भो वयस्य, संगीतशालान्तरेऽवधानं देहि । कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ]


भो वयस्य सखे, संगीतशालाभ्यन्तरेऽवधानं देहि । कलबेशुद्धाया गतेः स्वरसंयोगः श्रूयते । कला मधुरा स्फुटध्वनियुक्ता । अनेन सुशारी रेमुक्तम् । ‘ भारी तु ध्वनिमाधुर्यरक्तिगाम्भीर्यमार्दवैः इत्यादिना सुशा रीरस्य गुणा उक्ता रत्नाकरे । अत एवाग्रे ‘ लक्ष्यते रागभरिता ” इति । विशुद्धा शुद्ध नाम गीतिः । ग्रामरागजानेिकेत्यर्थः । तस्याः स्वरसंयोगः । तत्संबन्धी स्वरालाप इत्यर्थः । तदुक्तं तत्रैव-- गीतयः प शुद्धख्य भिन्ना गौडा निवेसरा । साधारणी विशुद्धः स्याद्वलैर्ललितैः स्वैरैः ॥ १ इति । जाने तत्रभवती हंसपादिका वर्णपरिचयं स्थाप्यारोहावरोह्यमिक गानक्रियाभ्यासं करोति । तथा च तत्र -- गानक्रियोच्यते वर्णाः स


 कवरदान स्वस्य महाकवित्वप्रदर्शनार्थं शापजसंमुखविरहं वर्णयिष्यन्कथांतरमारभते । ततः प्रविशतीत्यादि । भो वयस्येत्यादि । ५« गीतं वाद्य तथा नृत्तं त्रयं संगीत मुच्यते ’ इत्युक्तत्वात् । एतत्रयं यत्र शलायां तस्याः शलया अभ्यंतरे अंतराले गीतिर्नाम रायाश्रयः संदर्भविशेषः । तस्या गीतेः कलविशुद्धवं विशेषणम् । यदा निषादः षड्जस्य श्रुतिद्वयं संश्रश्रेत् तदा स स्वरः काकलीमत्युच्यते । यदा गांधारो मध्य मस्य श्रुतिद्वयं संश्रयेत् सांतरकाकली । तदुक्तं “ - श्रुतिद्वयं चेत्पञ्जस्य निषादः संश्रयेद्यदा । सा काफली मध्यमस्य गांधारस्वंतरः स्मृतः ॥ इति । सैव काकली कल इत्युच्यते । “ काकली तु कले सूक्ष्मे ध्वनौ तु मधुरा स्फु " इत्युक्तस्वात् । एतादृगव्यक्तमधुरस्त्ररयोगैन गौतैरयंतभ्राध्यता भवति । यदाह ‘९ गतयः पंच शुद्धाद्या भिन्न गौडी च वैसरा । साधारण विशुद्धा स्यादवदैलें लितैः स्वरैः । भिना सूक्ष्मैः स्वैरैर्बकैर्मधुरैर्गीभकैर्युता । गठेन्निस्थानगमकैरोहर्ट लसितैः स्वरैः ॥ अखंडितास्थितिस्थानत्रये गौडी सता सताम् । ओहाटी कंपितैर्मदैर्घदुद्रुततरैः


 राजा-तूष्णीं भव । यावद्कर्णयामि ।

( आकाशे गीयते )

अर्हिणवमङलोङवो भयं तह परिचुम्विअ यूअमङ्गरिं ।
कमलवसइमेत्तणिव्वुदे महुअर विलरिओ सि णं कहें ॥ १ ॥

[ अभिनवमधुलोलुपे भवांस्तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्दूते मधुकर विस्मृतोऽस्यैनां कथम् ॥ ]

चतुर्धा निरूपितः । स्थाप्यारोहावरोही च संचारी ’ इति । [ अहिण चेति ] अभिनयेत्यपरचक्रम् । अभिनचमथुलोलुप भवांस्तथा परिचुम्ब्य चूतमञ्जरीम् । कमलवसतिमात्रनिर्दूतो मधुकर विस्मृतऽस्येनां [ कथम्] नूतनपुष्परससघृष्णः । नूतनवं प्रत्यग्रत्नेन समयविशेषजातत्वेन च । अत एव तथा तेन प्रकारेण । यथा स्याभिलाषपरिपूर्तिर्भवतीत्यर्थः । चूतमञ्जरीमाघमञ्जरीम् । मच्छरो चह्री स्त्रियाम् ' इत्यमरः । परितः समन्ततश्रुस्त्रित्वा । कमलं सर्वदानुभूतं न त्वपूर्वे चूतमञ्जर्यादे ! वसतिमत्रं न तु मध्वास्वादस्तेनापि निर्दूतः तत्रापि सुखित एनां चूतमञ्जरीं कथं विस्मृतोऽसि । अत एव मधुकरेति साभिप्रा यम् । हेत्वनुप्रासौ । अत्र सारूप्यनिमित्तया प्रशंसया राज्ञो दुष्यन्तस्य


वैरः ॥ हकारौकारयोगेन दृश्यते चुबुके भवेत् । वेगवद्भिः स्वरैर्वर्णचतुष्केऽप्यतिर क्तितः । बैगस्वर रागगतिर्वेसरा चोच्यते बुधैः। वतुगीतिगतं लक्ष्म श्रिता साधा. रणी मता ॥ शुद्धदितियोगेन र/गाः शुद्धादयो मतः । पंचधा भ्रमरागाः स्युः पंचगीतिसमाश्रयात् ॥ " इत्युक्तत्वात् । स्वरयोग इति । यद्यपि स्वरशब्दौ नानार्थकः .तथापि षड्जादिघ्षेत्र रूढः । तदुक्तम्- जनेयेन Ex रसशब्दो मयूरादिसमुत्पनेषु वस्तुषु । षड्जादिध्वेव रूढौऽs. यभित नैघाश्च वर्तते " इति । गीत्यभ्यासे प्रथमतो वर्णपार्वयः कार्येः । आ काशे यत इति । नाट्यै रंगमध्ये नेपथ्यव्यतिरिकस्थानमाझाशमित्युच्यते । अहिणये- त्यादि । अत्र मधुकरवृत्तांतेन प्रकरणादिसहकृतेन दुष्यन्तवृत्तांत ध्वन्यते । अर्थस्तु मधुकरवृत्तांतकथनद्वारा कृच्छापूर्वपरिगृहीतताळूपशकुन्तलविस्मरणाद्राज्ञ उपालंभः क्रियते । मधुकरोपमानेन मधुकरस्य यथा नानापुष्परसग्रहणशीलवं तथा ज्ञान


शकुन्तावस्मरणस्य प्रस्तुतस्य गम्यपादाक्षेपममाङ्गमुपाक्षिप्तम् । तच्छ क्षणं दशरूपके गर्भबीजसमुद्देद्वाक्षेपः परिकीर्तितः' इति । अथ


हुचद्भा इति न्यायेन विविधप्रथिनजतिन्नसंभाषणलंपनड्वनासिरखेचून सूच्यते । न स्वनागरिकतथा नरनतारतम्यानभिज्ञतेति भावः । अभिनत्रमधुळेटपः सन् अभिनत्र पदेन रत्नहरा तु पार्थिव' इति न्यायेन उपर्युपरि ततोऽधिकाननुभूताश्रुतपूर्वलोकोत्त युवतिज्ञभोगलंपटत्वं प्रकाश्यते । मधुपर्देन तद्दर्शनमात्रेण संजातमदभावेन तसंपदे कालाक्षमत्वं प्रतयिते । तेन वस्तुसंदीप्रवक्ष्यादनुरागशृङ्गः कारणमुकम्। लोउपपदेन अंतः पुरःस्रभ्यः शकुन्तलायामधिकळ्पल्लक्ष्यदिगुणबहुयादिदर्शनात् तद्दर्शनानंतरं तसं पर्कजनितसर्वकार्थवैमुख्यात् तत्प्राप्तिनिमित्तकचंतया तत्कालजनिततदेकशरणमना। कुलितत्वादिकं ज्ञाप्यते । त्वमित्यनेन स्वकृतकार्थं स्वयमेव जनासि नान्य इति योत्यते । चूतमंजर्युपमानेन चूतमंजर्या इतपुष्पाणत्र हठाद्दिछखाभावो गम्यते । तथैव पष्ठेऽहे वदिष्यति “ ९ चूतानां चिरनिर्गतापि कलिका वश्नाति न स्वं रजः ११ इति । अनेन गुरु- जनासम्मत्या स्वाभिसरणभीष्टभावेन मायक्रॉपी प्रति हठादायिकानुमतिर्न कृतेति ध्वन्यते ! घृतमंजरीत्यनेन इतरस्त्रीवैलक्षण्यासजातयोत्कृष्टता सूच्यते । तथा पारंभृव्येति तथेत्यनेन तद्दर्शनानंतरं विरहपरंपराजनितस्वनुरस्कार्यवैत्रण्यश्रुपातस्तैभप्रलयदिमरणसमीचीना रमशानुभवातसंगमासंगमयौरेव स्वजोर्जितसद्भावसद्भावनिमित्तत्वबिया गुरुजनास मया स्वाभिसरणे सति स्वकुलकलंकभूतव्यभिचारित्रदोषशंकिन्या नायिकायाः स्वभिः सरणार्थं विश्वासार्थं च हेतुत्वेनोक्तं ‘‘ गांधर्वेण विवाहेन बहुये राजर्षिकन्यकाः इत्यादि ‘पाग्निप्रहृबहुस्वेऽपि ’ इत्यादिवाक्यं च स्मरचित्वा दुष्यन्तस्य तत्कालजनित सदनकातरताया अनिर्वचनीयत्वं प्रकाश्यते । परिनृत्येति । हुँचनशब्देन नायकारब्धः संभोगशृगारः कथ्यते । परितः सर्वैविधयेपु चुंबनं कैवेत्यनेन यावता कालेन सुरतप्रस्त वांगीकारः तावत्क्रमेण नायककृतबहुविधानुनथवशीकरणप्रकारस्चतुरी द्योत्यते । तेन नायकस्य कामतंत्रवैदग्ध्यं नाथिक्रयाः कन्याभावसुलभं मौग्ध्यं च वन्यते । यद्वा सर्व बिषयब्रुवनार्थेनाधरश्रवणह्स्तनेत्रद्यवयवान ब्रुवनरहस्यश्रवणस्तनमुकुलादिसर्वागस्पर्श नालिंगनसवंगदर्शनादिभिर्यथामनोरथपरिपूर्तिर्भवतेि तथा संभोगः कृत इति ज्ञायते । तेन देशस्य विविकतया निरर्गलसुरतक्रिया ध्वनिता । कमलत्रसतिमात्रनिबँत इति ? कमलस्य रात्रं संकोचंवत्सया दिवमात्रदर्शनीयता सूचिता । कमलोपमानेनान्तःपुर खांणां मानुपशरीरसद्भावात् विकारादिसंभत्र कतिपयकाळसंभोगार्हत्वं सूचितम् । शकुन्तलायाः साक्षादप्सरस्संभवत्वेन पूर्वीविरासंभवात् सार्वकालिकसंभोगार्हत्वमु क्तम् । एनां लोकोत्तरस्चमकारका बहुगुणाधारभूतामेनामिति यावत् । कथं केन हेतुन विंस्टुतोऽसीति मधुकरवृत्तांतेन राज्ञ उपालंभः क्रियते । अत्र हेतुर्नामालंकारः । यत्प्रयोजनसामथ्र्याद्वाक्यमिष्टार्थसाधकम् । समसको मनोंग्राहि स हेतुरिति कर्तितः ॥ ' * इति । यद्वाक्यमिष्टसाधकं तत्प्रयोजन ८४  राजा-अहो रागपारिवाहिनी गीतेः ।
 विदूषकः-किं दाव गीदीए अवगओं अक्खरथ । [ किं सावीत्या अवगतोऽक्षरार्थः ।
 राजा-( स्मितं कृत्वा ) सकृत्—तप्रणयोऽयं जनः । तस्या देवीवसुमतीमन्तरेण मदुपालम्भमवगतोऽस्मि । सखे माहव्य, मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धोऽस्मीति ।


चानेन तृतीयं पताकास्थानमुक्तम् । तल्लक्षणमुक्तं मातृगुप्ताचार्यः --‘अथे पक्षेपणं यच्च गूढं सविनयं भवेत् । लिट्प्रत्युत्तरोपेतं तृतीयं तन्मतं तथा । इतेि । “ मधुव्रते मधुकरः सासुकेऽपि प्रकीर्तितः ' इति विश्वः । कमलाया लक्ष्म्या वसतिस्ता निभृत इति । “ दर्जाह्नवे मिथे वृत्तौ ’ इत्यनेन । ह्रस्वत्वम् । आर्मनवं यन्मध्यधरमधु तत्र लोलुप इति सर्वेषां श्लिष्टवम् । रञ्जनं रागस्तपारंवाहिनी । अत्यन्तरलिकेत्यर्थः। अत्र धातुसंबद्धा न तु गीतशब्दाच्या । सकृदेकवारं कृतः प्रणयो याच्या येनेदृशोऽयं जनो हंसपदिकालक्षणः । तस्याः सकाशाद्देवीषसुमतिमन्तरेण विना क्षणमपि न तेष्टमीति मत्संबन्धमुपालम्भमवगतोऽस्मि । क्वचित् ’ तथ दैवीं व्यु


वशात् संक्षेपेणाधृतराषयोग व भवति स हेतुः । अत्र मधुकरवृत्तान्तेन पूर्वपरिगृहीतशकु- न्तलास्मरणात् आश्रमास्वनगरं प्रति सर्वथा नेतव्यः । चूतभंजर्युपमानेन इतरत्रीबिल क्षणकोत्तरवहुगुणवत्ता नायकस्यानुरागविषययोग्यता चेति द्वयमपि संक्षेपेण प्रत्य खादि । किंचन्नान्योतयलंकारेण पताकास्थानमुतम् । तदुकं ‘ प्राकरणिकस्य वस्तुनो भाविनः सूचनं पताकास्थानकम् ’ इति । यथा पताका स्त्रां सेनां सूचयति तद्वदि दमपीति पताकास्थानकम् । तद्विविधं समानैतयुत्तं समानविशेषणं चेति । एतच्चान्योक्ति समासोक्त्यलंकारभेदाद्भवति । अत्र मधुकवृत्तांतेन प्रकरणादिसहकृतेन दुष्यन्तवृत्तांत ध्वन्यते न तु श्लिष्टशब्देनोच्यते । अहो इत्यादि । रागपारैिवाहिनीति गीतेराश्रयत्वेन रागस्यातिशयेन अभिव्यक्तं परीवाह इव भवति । यथा जलाघारभूतै तटाके जलातिः झायै सयुप्रवाह भवति तद्वदित्यर्थः । किमित्यादि । किमिति प्रश्ने । तावत्साकट्ये । सङ्कृतप्रणयः सकृत् एकवारं कुतः प्रणयः विधेभः यस्मिन् स तथोकः । अभिनवैः त्यादिना एतदंतेन भृशौ नामालंकारो व्यज्यते । तदुक्तं ‘‘ वाच्यमर्थं परित्यज्य दृष्टांता


 विदूषकः-जं भद्रे आणवेदि । ( उत्थाय ) भो वअस्स, गही दस ताप परकीएहिं हृत्थेहिं सिझण्डए तडीझमाणस्स अच्छीराए बीदराअस्स विअ णत्थि दाणिं मे सोक्खो । [ यद्यानाज्ञापयति । भो वयस्य, गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताडमान स्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ]
 राजा-गच्छ। नागरिकह्या संज्ञापयैनाम् ।
 विदूषकः-ण जाणे का गई । ( इति निष्क्रान्तः ) [ न जाने का गातेः |
 राजा-{ आमगतम् ) किं नु खङ गीतार्थमाकण्यैष्टजनविरहा हतेऽपि बलवदुत्कण्ठितोऽस्मि । अथवा ।


मतमन्तरेणौपालम्भमुपाकृतोऽस्मि ’ इति पाठः । सुवोध एव । यद्भवाना- ज्ञापयति | गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके काकपक्षके । कोऽ त्यै । ताड्यमानस्य । तया शिखण्डके गृहीतस्त्येति योज्यम् । अप्सरसा वीतरागस्येव नास्तदानों मोक्ष मोचनं कैवल्यं च । अप्सरसा गृहीतस्य वीतरागस्येति योज्यम् ? श्लेषोपमा । नागरिकवृत्त्येते त्रिपताक्रस्य मध्य मातर्जनीभ्यां वक्राभ्यामधोमुखं कम्पिताभ्यामित्यर्थः । का गतिः । राज- वचनमनुकुंचनीयामति भावः । ’ गीतमार्कण्य ' इते पाठः । गीतार्थमा कथं " इति पाठे गीतं चार्थे चेति गोतार्थमाकर्यं श्रुत्वा ज्ञात्वेति व्याख्ये यम् । इष्टजनाविरहादृत इति शापप्रभावाद्वस्तुतस्तस्मादेव बलवधिकम् ।


नैकधा । अन्यस्मिन्नेत्र पंतनादिह भृशः स उच्यते । " इति । अत्र मधुकरवृत्तांतरूपं वाच्यार्थ पारत्यज्य राज्ञा स्वहृत्तांतविचारः कृत इति भृशः । किंच नालका नाम वयंगमुक्तम् । तद्भक्षणं “ सेपहासनिगूढार्थप्रहेलिका नालिका " इति । तदित्यादि । वसुमतीमंतरेण मदुपालंभमत्रगतोऽस्मीत्यनेन भ्रमरोपालंभव्याजात् समनंतरगम्यमान- शकुन्तलावृत्तांतं स्मृतव्रतो दुष्यन्तस्योपालंभः कचिना कृतः । तमजानन् दुष्यन्तौऽस्य । अभिधाया अन्यथाभिप्रायमकल्पयदिति ज्ञातथ्यम् । निपुणं सनडम् । नागारिकवृत्या नागरिकः प्रवीणः प्रौढांगनासंभाषणकुशल इति यावत् । तस्य वृत्तेिः वलेकिवैचित्र्येण वह्निजीवनचातुरी । संज्ञापय आवेदय । कि नु खल्वित्यादि । किं नु खल्विति हेतुजिज्ञा सायाम् । एवंविधार्थम्। उक“कम् । इष्टजनविरहादृते प्रियजनविश्लेपं विना वलव्


 रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दा
  न्पर्युत्सुकभिवति यत्सुखितोऽपि जन्तुः।
 तचेतसा स्मरति नूनमबोधपूर्वं
  भावस्थिराणि जननान्तरसौहृदानि ॥ २ ॥

( इति पर्याकुलस्तिष्ठाते )


रम्याणीति । रम्याणेि वस्तूनि वीक्ष्य । विशेषणेनैव विशेष्यावगतेस्तदनु पादानम् । अत एव प्रक्रमभङ्गः । मधुराक्रुतिसुखदछन्गीतादीनि शम्य श्रुत्वा च सुखितेऽपि । विरहीं भवत्येवेत्यापिशब्दार्थः । जन्तुः प्राणिमात्रं पर्युत्सुकीभवत्युत्कण्ठीभवति ! रम्याणि वीक्ष्येति प्रसङ्गसंग योक्तम् । यद्वा । हृदि स्फुरन्तं चूतमञ्जर्यादिकमर्थं पुरः साक्षादिव कुर्वत इययमुक्तिः । नूनं निश्चितं तद्वैवसनाभिः स्थिराणि निश्चलानि जन्मसहस्त्रैरापि दूरीकर्तुमशक्यानीति भावः । जननानन्तरसौहृदान्यन्यज- मसौदादन्यवोघपूर्व विषयविशेषज्ञानाभावपूर्व चेतसा स्मराति । यतो जननान्तरसौहृमत एव पूर्वमिति हेतुत्वेनेह योज्यम् । सामान्यतो जन्म न्तराणामनुरागं स्मृत्वा समुत्सुकस्वं भवतीत्यर्थः । अत्र स्वस्थ शकुन्तळ- विषये जन्मान्तरीयोऽधुनातनशापाच्छादितोऽनुरागौ गम्यः। यतो विशेषे प्रस्तुते सामान्योक्तेरप्रस्तुतप्रशंसा । तेन स्थायिन्या रतेरावच्छेदो ध्वनि तः । अत्र नूनमित्युत्प्रेक्षायामिते कश्चित्तन्न । अत्र जन्मान्तरीयस्मरणं शाखासिद्धमेव । तस्यासंभवात्संबन्धः क्वचिदुत्प्रेक्षणीयः । अत्र सामाः न्यत उक्तेः क्वचित्कालभावान्न तदुत्प्रेक्षा । अथ समयविशेषेऽसदुत्प्रेक्ष्यत


हृडम् उक्कंठितः पर्युत्सुकः । रम्याणीति । जंतुः जनः । सुखितोऽपि इष्टजनसमेतोऽपि रम्याणि सुभगानि रूपाणीति शेषः । वीक्ष्य मधुरान्मनोहरान् शब्दान् गीतादीन् निशम्य आकण्यै पछुसुक वीडितो भवति यत् तस्माद्रावस्थिराणि आमनेिष्टानि जननांतर सौहृदानि जन्मांतरप्रियाणि चेतसा मनसा । अधपूर्वम् । अज्ञातपूर्वम् । नूनं स्मरती वैद्युत्प्रेक्षितम् । अत्र गीतस्योद्दीपकत्वमुक्तम् । तदुक्तं “ सदृशादृष्टचिंताधैः स्ऋतिशाता- र्थभावनम् । देशांतरेऽनुभूतस्य तथा काब्रांतरेऽपि वा । तद्देशादिविशिष्टस्य चिंता स्मृतेनिरंतरा ॥ ” इति । अत्र गतिश्रवणोनुद्धरतिभावञ्यसनं च श्रृंगाररसपोषणं


इति चेत्तदापि न । रसोत्पादकारणस्योक्तेः । तेन काध्याङ्किङ्गमेव । तयोश्च पदार्थवाक्यार्थरूपत्वात्संमृष्टः | ननु जननान्तराणां नानाविधानामनन्तान संभवात्कथमेतदूपेण स्मरणं तिर्यग्योन्यादिना व्यवधानादिति चेन्न । पात जलशाश्वसिद्धत्वात् । तथाहेि– ततस्तद्विपाकानुगुणानामभिव्यक्तिव- सनानाम् ' इदं सूत्रम् । अस्य भोजकृता वृत्तः--‘ द्विविधा वासनः / स्मृतिफल जात्यायुर्भागफलश्च । जात्यायुभगफया एकानेकजन्मभव इतेि पूर्वमेव कृततन्निश्चयाः । यास्तु स्मृतिमात्रफळस्ततः कर्मणोऽन्याहु शरीरमारब्धं देवमानुषतिर्यगादिभेदं तस्याविपाकस्य या अनुगुणा अनु रूपा वासनास्तासामेव तस्माभिव्यक्तिर्वासनानां भवातेि । अयमर्थः येन कर्मणा पूर्वं देवतादिशरीरमारब्धं जात्यन्तरशतव्यवधाने पुनस्तथा विधस्यैव शरीरस्यारम्भे तद्दशायां नरकादिशरीरोपभोगवासना व्यक्ति मायान्ति । आसामेव वासनानां कार्यकारणभावानुपपत्तिमाशङ्कय समर्थ- यितुमाह--‘ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेक रूपरवात् ' सूत्रम् । इह नानायोनिषु भ्रमतां संसारिणां कांचिद्योनि मनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यन्ते, तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया ओसमः प्रकटीभूता आसन्, तास्तथाविधव्यञ्जकशरीरादिलाभे प्रकटीभवन्ति । जातिदेशकालव्यवधानेऽपि तासां स्वानुरूपस्मृत्या विफले साथन आन न्तर्यमेव । कुतः। स्मृतिसंस्कारयोरेकरूपत्वात् । तथाहि । अनुक्ष्य मामात्कर्मणश्चित्तसत्त्वेन वासनारूपाः संस्काराः समुपद्यते । स च स्वर्गनरकादीनां फलानां चांकुरीभूतः कर्मणां वा यागादीनां शक्तिरूप तयावस्थानं कर्तुर्वा तथाविधभोगमोक्तृत्वरूपं सामर्यम् । संस्काराः स्मृतिः, स्मृतेश्च सुखदुःखोपभोगः, तद्नुभवाच्च पुनरपि संस्कारस्मृत्या दयः । एवं च यस्य स्मृतिसंस्कारादयो भिन्नास्तस्याप्यानंतभावे दुर्दभः कार्यकारणभावः । अस्माकं तु यदानुभव एव संस्कारीभवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकैकस्यैव चित्तस्यासंधातृत्वेन स्थितस्मान्न कार्यकारणभावो दुर्घटः । अत एवात्र श्लोके स्मरणस्य चेतकर्तृकेऽपि पुन स्तदुपादानम् अतश्वासावेव कविः –‘मनो हि जन्मान्तरसंगतिज्ञ' (रघु वंशे ७ ॥१६) इत्याह स्म । भवत्वानन्तर्ये कार्यकारणभावश्च वासना नाम् । यदा तु प्रथममेवानुभवः प्रवर्तते तदा कं वासनानिमित्त उत नान १ ९

( ततः प्रविशति कंचुकी )

कंचुकी-अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
 आचार इत्यवहितेन मया हीता
  या वेत्रयष्टिरवरोधहेषु राज्ञः।
 काले गते बहुतिथे मम सैव जाता
  प्रस्थानविक्लवगतेरवलम्बनार्था ॥ ३ ॥


मित इति शङ्कां व्यपनेतुमाह -- तासामनादित्वं चाशिषो नित्यत्वात् ? सूत्रम् । तासां वासनानमनादित्वम् । न विद्यत आदिर्यस्य तस्य भाव स्तत्त्वम् । आसामादिर्नास्तीत्यर्थः । कुत इत्याह--आशिषो नित्यत्वात् । येयमाशोर्महामोहरूपा सदैव सुखसाधना मे भूयाच्छर्मा()कदाचन तैव योगो भूदितेि यः संकल्पविशेषो वासनानां कारणं तस्य नित्यत्वादनादि त्वमित्यर्थ इति । अबोधपूर्वं स्मरतीति शब्दशक्तिमूलो विरोधाभास व्यङ्गः । भ्याम्यति युसुयत्सु[ इति ] नूनननेति छेकवृत्तिश्रुत्यनुप्रासाः । वसन्ततिलका वृत्तम् । औत्सुक्यलक्षणं सुधाकरे- कालाक्षमत्वमौ क्यामेष्टवस्तुवियोगतः । तद्दर्शनाद्रम्यवस्तुदिदृक्षादैश्च ’ इति । नन्वनौत्सु क्यलक्षणस्य भावस्य शब्दवाच्यत्वं दोष इति चेन्न । अत्र म तथा विभावादेरौत्सुक्यप्रतीतेर्यथा पुनरौत्सुक्यग्रहणात् । एतदभिप्रायेणैव न दोषः “ स्वपदेनोक्तवापि संचारिणः क्वचित् ’ इत्युक्तम् । क्वचित् भावस्थितानि रे इते पाठः । सोऽपि सांप्रदायिक एव । पर्याकुल इति विरहित्वादेव । सत्यपि शापे स्थायेिन्या रतेरविच्छेदार्थमेतादृगुक्तिः । एवमग्रेऽपि ज्ञेयम् । अन्यथा मध्ये विच्छेदान्महान्रसदोषः स्यात् । तत इति । स्वकार्यवशात्सूचनाभकृत्वैव कञ्चुकिनः प्रवेशः । कञ्चुकिरुक्षणं । मातृप्तचयैरुक्तम्-- ये नित्यं सत्यसंपन्नाः कामदोषावेवर्जिताः । ज्ञानविज्ञानकुशलाः कञ्चुकीयास्तु ते स्मृताः ॥ ' इति । ईदृशमिति वृद्धावस्था । आचार इति । अवहितेन


भवति । कंचुकी सौविदल्लाः । “ विदुषां संस्कृतभाषा मंत्रिकंचुकिनामपि ' इति वचनात् संस्कृतभाषा प्रयुक्का । निश्वस्येति । निभ्यासबाहुल्यं तु कंचुकी थस्य स्कूबस्था बस्तुस्वरूपज्ञानाग्निर्वेदे वर्तते । तदेवाह--अहो इत्यादि । अहो आश्चर्ये । ईडशीम- नुभूतवक्ष्यमाणामवस्थां दशाभेदं प्रतिपन्नोऽस्मि संप्राप्तो भवसि । आचा इति ।


टीकाहयसहितम् ।

(२९१) सावधानेन मया । शक्तनापीत्यर्थः । राज्ञोऽवरोधगृहेष्वन्तःपुरेष्वाचार इति रक्षाधिकारिणा वेत्रयष्टिहीतव्येत्याचाराद्या वेत्रयष्टिर्गृहीता बहुतिथे काले ह्यायुर्लक्षणे गते । वहुपूगगणसंघस्य तियुक्' इति तियुक् ! मम सैव वेत्र- यष्टिरवलम्बनार्थी शरीरावलम्वप्रयोजनजाता । अर्थन सह नित्यसमासः स्त्रीलिङ्गता चेति समासः स्त्रीलिङ्गता च । कीदृशो मम । प्रस्थाने गमना- रम्भे विरूवा गतिर्गमनक्रिया यस्य । अत्र पूर्वार्थ उक्तनिमित्ता विभावना। असक्तत्वस्य प्रसिद्ध कारणस्य निषेधोऽवहितेनति तद्विरुद्धमुखेनोक्तः । नि: मित्तं चाचार इत्युक्तम् । उत्तरार्धे वार्धकगमनलक्षणकार्यस्यारम्भे वेत्रयष्टे: सहायतोपादानात्समाहितम् । ' कार्यारम्भे सहायाप्तिः । इति तल्लक्षणात् ! अत्र प्रस्थानगतिशब्दयोरन्यतराग्रहणे विह्वलत्वं मनोगतमपि प्रतीयत इत्युभयग्रहणम् ! गतिशब्दस्य ज्ञानार्थत्वादपि । वृद्धस्य विक्लवगतः । इति वा पठनीयम् । एवमवरोधनियोगकालेन तदष्यर्थपौनरुकत्यं परिहरणी- यम् | त्यतायेति हितेहीतति गृहीगृहेति गतेगत इति छेकवृत्ति अत्यनुप्रासाः। आचारः कुलधर्मः इत्लवाहितेन आप्तेः शिक्षितेन मया अबरोधगृहेषु अंतःपुरगृहेषु । बहुवचनेन राज्ञो बहुवल्लभतया तत्तत्समस्तयुवतिगृहद्धाराणां स्वस्यत्र संरक्षणाधिकारः सूच्यते । तेन च राज्ञः स्वकीयविश्वासपात्रता प्रकाश्यते । वहुतिथे बहुसंख्यापूरके काले शैशवकौमारयौवनादिसमये गते क्योबलात् शुद्धान्तगृहद्वारसंरक्षणविभवकृत्यैरनायासेन नीते सति । अनेन चिरादारभ्य राजगृहावस्यानात् । " शीलं संवसता ज्ञेयं तच्च कालेन भूयसा " इति वचनात् । राजचित्तवृत्त्यभिज्ञतया विश्वस्तया च राज्ञोऽन्तःपुर- विहरणाद्यचितानुचितसमयेऽपि स्वस्य प्रवेशनिवेशनादावनगलत्वं चोत्सते । तेन कण्व- शिष्यागमननिवेदने स्वस्यावसरानपेक्षित्वं ध्वनितमिति भावः । ममेत्येकवचनेन शुद्धान्त: गृहपालनकृत्ये स्वस्यैव प्रेष्यप्रेषकत्वं च ध्वन्यते । न त्वितराधिकारस्येवान्यद्वारा कत्यकरण- मिति भावः । किंच ममेत्येकवचनेन स्वस्य कलत्रपुत्रशून्यत्वं च प्रकाश्यते । खेति । या पूर्व राजद्वारनिवारणसामग्रीकतया गृहीता सेति यावत् । अनेन सार्वकालिकवेत्रधारणेन राजगृह एव जन्मक्षेपात् इतराधिकारानियुक्ततया कदापि विश्रामाभावो गम्यते । प्रस्थानविक्लवगतेः प्रस्थाने संचारे विल्लवा विह्वला गतिर्गमनं यस्य स तथोक्तः । तस्या- वलंबनार्थमाधाराय जायत इति यावत् । अत्र कंचुकी यस्य तत्त्वज्ञानोपजनितनिवेद एव शांतरसस्य स्थायी भावः । अत एव निर्वेदस्य प्रायः - संचारिषु प्रथममुपादनं सर्वैराचार्यैरकार । संचारिणामपि कदाचित् स्थायिता भवति । स्थायिनामपि कदाचित् संचारिता भवति । यथा वीररसस्य धृतिः स्थायी भवति । स एवं शृंगाररसस्य संचारी निर्वेदस्य यदा शांतरसस्थायित्वं तदा रोमोगमानंदाश्रुस्तंभा- दिमिरमिनयो योज्यः । तस्यैव यदा विप्रलंभांगता तदा दैन्यस्वेदश्रमवैवर्यादिभि

भोः, कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेवधर्मा सनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदितुम् । अथवाविश्रमोऽयं लोकतन्त्राधिकारः। कुतः।

भानुः सकृद्युक्ततुरङ्ग एव
 रात्रिंदिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः
 षष्ठांशवृत्तेरपि धर्म एषः ॥ ४ ॥


वृत्तमनंतरोक्तम् । काममिति प्रकाशानुमतौ |अनतिपात्यमनतिक्रमणीयम् । न विद्यते विश्रमो यस्य सोऽविश्रमः । लोके भुवने तन्त्राधिकारः प्रधना धिकारः । विश्रान्तिरहित इत्यर्थः । ‘लोकस्तु भुवने जने’ ‘तंत्रं प्रधाने सिद्धान्ते’ इयमरः । ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ इत्यविश्रमपदे वृद्ध्ययभावः ! भानुरिति । भानुः सूर्यः सकृदेकवारमेव युक्ता योजितास्तुरङ्गा येन सः। एतेन तुरङ्गमात्रयोजनेऽप्यस्याविश्रान्तिर्ध्वनिता । एतादृश एवास्त इति शेषः । यस्य तुरङ्गयोजने विश्रान्त्यभावस्तस्यान्यकार्येऽवि श्रान्तिः किमु वक्तव्येत्यविश्रान्तगमनं ध्वन्यते । केचिद्रात्रिंदिवं याती- त्यत्रापि योजयन्ति तन्न सम्यक्। यतः प्रतिवस्तूपमायां प्रतिवाक्यसामा न्यधर्मस्य भिन्नपदोपादानत्वमपेक्ष्यते तद्धीयेत । किं चैतद्विशेषणोपादानं व्यर्थं स्यात् । भानू रात्रिदिवं प्रयतत्येतावतैवाभिमतार्थसिद्धेः प्रक्रमम ङ्गश्चापद्येत । अग्रिमयोर्विशेषणानुपादानात् । गन्धवहो वायुरावहप्रव हादी रात्रिंदिवं प्रयाति । “ अचतुर–ः इति निपातनाद्रात्रिंदिवमिति सिद्धम् । शेषोऽनन्तः सदैव सर्वदाहितभूमिभारो धृतवसुंधराभारः । अस्तीति शेषः । सामान्यक्रियानिर्देशादध्याहारदोषाभावः । लट्प्रत्ययो नित्यवृत्तत्वं द्योतयति । प्रजाभिरुपार्जितस्य द्रव्यस्य यः षष्ठोंऽशः स


रभिनयः। भो इत्यादि । धर्मकार्यं शिष्टजनागमनप्रयोजनश्रवणकरणादिकं कामं यद्यपि अनतिपात्यम् । अनुल्लंघनीयम् । लोकतंत्राधिकारः लोकानां जनानां तंत्रः प्रयोगः रक्षा- कर्म तस्मिन्नधिकारो योगः अविश्रमः विश्रान्तिरहितः | कुतः प्रश्ने । भानुरिति । भानुः सूर्यः सकृदेकवारमेव युक्ततुरंग: सन्नद्धाश्वः । राज्ञः सूर्यसादृश्यकथनेन भानोर्यथा चक्रवाला- वधितमोनिर्हरणशक्तिमत्वं तथा दुष्यन्तस्यापि जनानामज्ञानजनितामार्गप्रवर्तननिवारकत्वेन


यावन्नियोगमनुतिष्ठामि । ( परिक्रम्यावलोक्य च ) एष देवः

प्रजाः प्रजाः स्वा इव तन्त्रयित्वा
निषेवतेऽशान्तमना विविक्तम् ।
यूथानि संचार्य रविप्रतप्तः
शीतं दिवा स्थानमिव द्विपेन्द्रः । ५ ।


वृत्तिर्वर्तनं यस्य तस्य राज्ञः । अपिशब्दः समुच्चये | एष धर्मः स्वीकृत- भूमिभारत्वम् । अत्र भारो रक्षणरूपः सार्वकालिकत्वलक्षणसमानधर्मस्य सकृद्युक्तपदेन रात्रिंदिवपदेन सदैवपदेन चोक्तेर्मालाप्रतिवस्तूपमा । दुष्य न्तस्येति विशेषे वक्तव्ये सामान्यवचनादप्रस्तुतप्रशंसापि । श्रुत्यनुप्रासः) इन्द्रवज्रा वृत्तम् । नियोगं स्वाधिकारं मुनिनिवेदनलक्षणम् । प्रजा इति । प्रजाः स्वापत्यानीव स्वाः प्रजाः स्वीयलोकांस्तन्त्रयित्वा संव्यवहार्याशा- न्तमना उद्विग्नमनाः सन्विविक्तं विजनं स्थानं निपे(षे)वते । ‘प्रजा स्यात्सं ततौ जने ? ‘ विविक्तौ पूतविजनौ ? इति चामरः । संचार्य चारयित्वा । चर गतिभक्षणयोः’ रविप्रतप्तः सूर्यप्रतप्तो द्विपेन्द्रो गजो दिवा शीतं स्थानमिव । उपमयोश्छेकवृत्त्यनुप्रासयोश्च संसृष्टिः | श्रुत्यनुप्रासः । उपे- न्द्रवज्रावृत्तम् । अत्र दिवेति रात्र्यादिसमयं निवर्तयन्रवितापस्याधिक्यं द्योतयति |शान्तमनाः ? इति तु च्छेदे रवितप्त इत्युपमानेन सह


चक्रवालपर्यंतमाज्ञासंपत्तिर्ध्वन्यते । गन्धवहः पवनः रात्रिंदिवमित्यचतुरेत्यादिना निपातः । कालाध्वनोरत्यन्तसंयोगे" द्वितीया । प्रवाति अविश्रांतं वाति । वर्तमानव्यपदेशेन सर्वजनानुभवप्रसिद्धिरुक्ता । पवनसदृशार्थकथनेन पवनगतेः यथा सर्वत्रानिर्गलत्वं तथा दुष्यन्तरथगतेः सर्वत्राकुंठितत्वं प्रकाश्यते । शेषः फणींद्रः । सदा आहितभूमिभारः । आहितः निहितः भूमिभारो यत्र स तथोक्तः । शेषस्येव राज्ञोऽपि भूमिभरणसामर्थ्यं ध्वनितम् । षष्ठांशवृत्तेः षष्ठांशः रक्षाशुल्कषड्भागः वृत्तिजीवनं यस्य स तथोक्तः । एप(ष) लेकतंत्राधिकारे विश्रामाभावः। धर्मः व्यापारः अत्र पदानां सदृशार्थादुच्चया सालंकारः तदुक्तं ‘‘ बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ " यावदित्यादि । नियोगं शासनम् । प्रजा इति। प्रजाः जनान् स्वाः स्वकीयाः प्रजा इव अपत्यानीव । तंत्रयित्वा तत्तदुचितमार्गे व्यापार्य । शांतमनाः स्वस्थचित्तः । विविक्तं विजनस्थानम् । एकान्तमंतःपुरमित्यर्थः । निषेवते नितरामाश्रयते वर्तमानव्यपदेशेन विविक्तस्थलाश्रयकालस्याव्यवधानं व्यज्यते । प्रातःसायंकालयोः राज्यपालनादिकृत्यकरणचिन्तया मनः शांतं न भवति । मध्याह्नकाले  ( उपगम्य ) जयतु जयतु देवः। एते खलु हिमगिरेरुपत्यकारण्य वासिनः काश्यपसंदेशमादाय सस्त्रीकस्तपस्विनः संप्राप्ताः। श्रुत्वा देवः प्रमाणम् ।

 राजा--( सादरम् ) किं काश्यपसंदेशहारिणः ।

 कंचुकी--अथ किम् ।

 राजा--तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः ।

अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुम र्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रति- पालयामि ।


विरोधः स्यात् । एते क्लान्तमनस इति वक्ष्यमाणेन राजवचनेन विरोधा पत्तिश्च । हिमगिरेर्हिमाचलस्य । क्वचित् ‘ हिमवतो गिरेः ? इति पाठः । तत्र हिमं विद्यते यस्मिन्निति यैगिकत्वमङ्गीकृत्य तेन च तन्निवासिनां दुष्करतपश्चरणं तेन गौरवातिशयो द्योत्यत इति परिहर्तव्यमर्थपौनरुक्त्यम् उपत्यकारण्यं पर्वतासन्नभूमिवनं तद्वासिनः 1 < उपत्यकाद्रेरासन्ना भूमिः ’ इत्यमरः । सोमरात इत्युपाध्यायनाम । श्रौतेन वेदोक्तेन । सत्कृत्य पूजयित्वा । स्वयमेवेत्यनेन गौरवातिशयो द्योत्यते । वेत्रवती प्रतिहारी नाम । द्वारदेशस्थितायास्तस्या राज्ञोऽपि तत्रैव संनिधानादप्रवेशः । प्रतीहारीलक्षणं मातृगुप्ताचार्यैरुक्तम्--‘ संधिविग्रहसंबद्धं नानाकार्यसमु-


अंतःपुरविहरणादिना चित्तं सुखं भवतीति भावः । अत्र दृष्टान्तमाह--यूथानीत्यादिना । यूथानि गजसमूहान् संचार्य तत्तदभीष्टाहारादिक्रीडासु व्यापार्य दिवा मध्याह्ने रविप्रतप्तो द्विपेन्द्रः शीतं शैत्यजनकं स्थानं वृक्षच्छायादिकम् । अत्र विविक्तं निषेवत इति मध्याह्नकालांतःपुरविहरणकथनाद्राज्ञः स्नानदेवपूजाहारादिकरणेन सुस्थचित्ततया आगामिऋषिभिः समं संभाषणादिकं कर्तुमासायमवकाशद्योतनार्थं शकुन्तलायाः पूर्वानुभूतमुखकरचरणादिरूपलावण्यादेः सम्यक् प्रदर्शनार्थं चेत्यवगंतव्यम् । तेन शकुन्तलारूपलावण्यादेरकृत्रिममनोहरत्वं ध्वन्यते । रात्रौ हि मण्डनादिसंस्कारजनित कृत्रिमरूपलावण्यादेरेव सम्यक् प्रदर्शनमिति भावः । उपगम्य उपसर्प्य प्रमाणम्


 कंचुकी--यदाज्ञापयति देवः। ( इति निष्क्रान्तः )

 राजा(--उत्थाय ) वेत्रवति, अग्निशरणमार्गमादेशय ।

 प्रतीहारी-इदो इदो देवो । [ इत इतो देवः |

 राजा-( परिक्रामति । अधिकारखेदं निरूप्य ) सर्वः प्रार्थि तमर्थमधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखान्तरैव

औत्सुक्यमात्रमवसाययति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् ।
नातिश्रमापनयनाय न च श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ६ ॥


त्थितम् । निवेदयन्ति याः कार्यं प्रतीहार्यस्तु ताः स्मृताः ॥ ’ इति । अग्नि शरणमग्निगृहम् ।‘शरणं गृहरक्षित्रोः' इत्यमरः । इत इतो देवः । दुखान्तरैव दुःखावधिकैव । ‘दुखोत्तरा’ इति पाठे दुःखाधिकेत्यर्थः । औत्सुक्येति । प्रतिष्ठा सर्वोत्कृष्टं गौरवम् । ‘प्रतिष्ठा स्थानमात्रके । गौरवे ' इति विश्वः । सा कर्त्री । एनमित्यग्रे वक्ष्यमाणत्वादस्येति विपरिणम्यते । अस्य राज्ञ औत्सुक्यमात्रं य (या व ) द्विषयजन्यामुत्कण्ठामवसाययति समाप्तिं नयति । अन्यजनस्य तु यत्किञ्चिद्विषयिणि ( णी ) समुत्पन्नो त्कण्ठा तथैव तिष्ठति तत्तद्विषयालाभात् । राज्ञा तु ( ज्ञस्तु ) फललाभा


अनन्तरकर्तव्यज्ञः । अथ किमित्यंगीकारे । अग्निशरणमार्गम् । अग्निहोत्रगृहमार्गम् । निरूप्य अभिनीय । सर्वः सर्वो जन: प्रार्थितमीप्सितम् । अधिगम्य संप्राप्य । सुखी संपद्यते । अव्याकुलो भवति । राज्ञां नृपाणां न तु स्वस्यैकस्यैव भवतीति यावत् । तु पुनरन्यथा । कुतः कस्माद्धेतोरित्यत आह । औत्सुक्यमित्यादिना । प्रतिष्ठा आस्पदं राज्यलाभ इत्यर्थः । औत्सुक्यमात्रं तत्तत्पदार्थोत्कंठामात्रम् । अवसादयति नाशयति तत्तद्वस्तुलाभे सति तत्तद्विषयकेच्छाया निवृत्तेरिति भावः । लब्धपरिपालनवृत्तिः


( नेपथ्ये )

 वैतालिकौ-विजयतां देवः ।


दुत्कण्ठापरिपूर्तिः । एतावदाभिमानिकं (?) मुखमिति भावः । लब्धस्य प्राप्तस्य फलस्य यत्परितः सर्वतोभावेन पालनं रक्षणं तत्र या वृत्तिर्वर्तना कदाचित्सर्वरात्रिजागरणं तत्रैव कदाचिदच्छिन्नधारावृष्ट्यनुभव इत्यादि- कमेनं राजानं क्लिश्नाति । अतः कारणाद्राज्यम् । कर्तृ । अत्यन्तं यः श्रमस्तदपनयनायेति न । अपि त्वतिश्रमापनयनायैव मुखदत्वात् । श्रमापनयायेति ( श्रमायेति ) न अपि तु श्रमायैव क्लेशदत्वात् । कि मिव | स्वहस्ते धृतो दण्डो यस्य तदातपत्रं छत्रमिवेति । अत्र राज्यं पक्षः श्रमापनयश्रमौ साध्यौ । पूर्वार्धं हेतुः । चतुर्थचरणो दृष्टान्त इत्यनुमानालंकारः । उपमानानुमानयोरङ्गाङ्गिभावः संकरः। यच्छ्रमाप नयनाय तच्छ्रमायेति विरोधाभासः । यथासंख्यमपि । अथ च संबन्धेऽ- संबन्धरूपासंबन्धे संबन्धरूपाद्वय्यतिशयोक्तिरपि । श्रमाश्रमेति नयना येति यनायनेति वा छेक [ वृत्त्य] नुसुप्रासयोः संसृष्टिः। श्रुत्यनुप्रासोऽपि । एकान्तसुखायतनत्वभ्रमेण राज्य आसक्ततया न भवितव्यमित्युपदेशो व्यज्यते । वसन्ततिलका वृत्तम् । अधिकारखेदं निरूप्येत्यादिन यः खेदो निबद्धः स निरुप(पा)धिपरोपकारप्रवृत्तानां भवदादीनामेतत्स्वभावान्नायं


लब्धस्य प्राप्तस्य राज्यादेः परिपालनाय रक्षणाय वृत्तिर्व्यापारः । एवकारेणानुभव विषयता कथ्यते । क्लिश्नाति । यदि सुखं नास्ति तर्हि सर्वैः कथं राज्यं प्रार्थ्यत इत्यत आह-नातिश्रमापनयनायेति । राज्यमतिदुःखनिरसनं कर्तुं न प्रभवतीति यावत् । दिवारात्रं जनविषयकविनयाधानरक्षणभरणादिराज्यपरिपालनचिन्तायाः विद्यमानत्वादिति भावः । यदि राज्यलाभेऽपीतरजनविलक्षणसुखानुभवो नास्ति तर्हि तल्लाभालाभयोः किं फलमित्यत आह-न च श्रमायेति । श्रमार्थमपि न भवति विषयाद्युत्कंठाया निवृत्तेरिति यावत् । अनुभवैकवेद्यः सुखदुःखानुभव इति दृष्टांतेन विशदयति स्खहस्त धृतदंडमातपत्रमिवेति । वर्षातपस्पर्शजनितदुःखनिरसनार्थं स्वहस्त एव छत्रधारणे सति वहनपरिश्रमो वर्षातपादिस्पर्शरहितसुखं चेति यावत् । नेपथ्य इत्यादि । वैता लिकलक्षणं भावप्रकाशे कथितम् । तथाहि « तत्तत्प्रहरकयोग्यै रागैस्तत्काल- वाचिभिः श्लोकैः । सरभसमेव वितालं गायन्वैतालिको भवति । " इति । प्रथमः

स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥ ७ ॥


खेद इति वैतालिकवचसा स्तौति--स्वसुखेति । नैकाहं न पञ्चषाहमपि तु प्रतिदिनं प्रत्यहम् । निरन्तरमित्यर्थः । त्वं चैकहेतोर्लोककारणात् । लोकनिमित्तामिति यावत् । ‘हेतुर्ना कारणं बीजम्' इत्यमरः। खिद्यसे परेि तप्यसे तत्रार्थं हेतुमाह-स्वस्मिन्यत्सुखं तत्र निरभिलाषो निर्गतवाञ्छः । प्रासङ्गिकसुखायापि न प्रवृत्तिरिति भावः । अत्र खिद्यस इति खिद परि तापे अस्य तुदादिकस्य कर्मकर्तरि प्रयोगः । तथा च वामनः-कर्म कर्तरीत्यनुवर्तमाने खिद्यस इति च खिद्यत इति च प्रयोगो दृश्यते । सो ऽपि कर्मकर्तर्येव द्रष्टव्यो न कर्तर्यदेवादिकत्वात्खिदेः' इति । दुर्गसिंहस्तु खिद दैन्ये ’ इति दैवादिकत्वं मन्यते । तथा च क्षीरतरङ्गिण्याम् ’ पद गतावेतदनन्तरमंत्रैव खिद दैन्य इति दुर्गः ’ इति । अत एव मल्ल भट्टेनाख्यातचन्द्रिकायामुक्तम् --' ताम्यति श्राम्यति ग्लानौ खिन्ते खि न्दति खिद्यते ’ इति । अथवेति पूर्वाक्षेपे । एवंविधैव ते वृत्तिर्वर्तनम् । हि


स्वसुखेत्यादि । प्रतिदिनं दिने दिने न त्वेकदिन इति यावत् । अनेन सार्वकालिक- जनसंरक्षणजागरूकता सूच्यते । स्वसुखनिरभिलाषः स्वस्य सुखेषु सुखनिमित्तकतत्तदृतु योग्यसार्वकालिकान्तःपुरविहरणादिक्रीडाभेदविषये निरभिलाषः अतिमात्राभिलाषशून्यः । लोकहेतोः प्रजानिमित्तम् । अनेन जनसंरक्षणनिमत्तक एव खेदानुभवः न तु प्रतिपक्षनिमि- त्तक इति राज्ञः कृतकृत्यतया निष्कंटकं सार्वभौमत्वं ध्वन्यते । खिद्यसे दिवारात्रं तत्तद्वर्णो- चितमार्गप्रवर्तकतया दूयसे । वर्तमानव्यपदेशेन अद्यापि खिद्यस इति । आतपवाहुल्या- त्संचारायोग्यतया सर्वजंतूनां विश्रमस्थलापेक्षिककाले मध्याह्नेऽपीत्यनवरतजनसंरक्षणै- कपरता द्योत्यते । तव राजशब्दश्च आज्ञामात्रं जागर्ति सुखानुभवस्तु जनानामेवेति भावः । ते रक्षाशुल्कषड्भागादातुस्तवेति यावत् । त इत्येकवचनेन तवैव नान्यस्येति इतरराजवैलक्षण्यमुक्तम् । वृत्तिर्मरणपर्यंतं व्यापारः । एवंविधैव सुखदुःखानुभवपूर्वक- जनसंतापशमनपूर्वैव । एतद्दृष्टान्तेन स्फुटयति-अथवा अनुभवतीत्यादिना । अथवा तथाहीति संभावनायाम्। पादपः वृक्षः अचेतनसामान्य इति यावत् । पादपशब्देन बहुजंत्वाधारता प्रकाश्यते । चेतनेतरपुरुषविलक्षणासाधारणत्वद्विधं प्रति सकलजनाधारतायां द्वितीयः

नियमयसि कुमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ ८ ॥

यस्मात्पादपो वृक्षः । पादांश्चरणान्पाति रक्षतीति च अत एव नः वृक्षादिपदोपादानम् । मूर्ध्नाग्रभागेनाथवोत्तमाङ्गेन । तीव्रमुष्णं मध्याह्नसं भवमनुभवति । संश्रितानामध उपविष्टानामथ चाश्रितानां छाययातपाभा वेन पालनेन च परितस्तापमौष्ण्यं तापं खेदं च शमयतीति चेन्न । व्यवहारसमारोपात्समासोक्तिः । “ छाया स्यादातपाभावे प्रतिबिम्बार्क- योषितोः । पालनोत्कोचयोः ? इत्यादि विश्वः । तापोऽभितापे दवथौ खेदे च ’ इत्यजयः । काव्यालिङ्गाक्षेपदृष्टान्ताः । वृत्तिश्रुत्यनुप्रासौ । मालिनीवृत्तम् । नियमयसीति । आत्तदण्डो गृहीतदण्डः प्राप्ताभिमानश्च ’अभिमाने ग्रहे दण्डः ’ इति विश्वः । कुमार्गप्रस्थितानुद्धतान्नियमयासि विनीतान्करोषि । मार्गस्थान्करोषीत्यर्थः । तत्स्वरूपं भृगुसंहितायाम्- ’तदर्थं सर्वभूतानां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पर मेश्वरः ॥ ’ इति । तत्प्रयोगविषये विशेषोऽपि तत्रैव --'स्वराष्ट्रे न्याय- वृत्तिः स्याद्भृगु (दुग्न ) दण्डश्च शत्रुषु । सुहृत्सु तिलस्निग्धेषु ब्राह्मणेषु


किमुतेति भावः । मूर्ध्ना शिरसा । सर्वस्य गात्रस्य शिरः प्रधानम् ” इति सर्वावय वप्रधानभूतेन शिरसा । तीव्रं कूरं पत्रशाखापक्शोषणकरणसमर्थमिति यावत् । उष्णम् अनुभवति निर्विकारं वहति । वर्तमानव्यपदेशेनाद्याप्यनुभवतीति प्रातःकालादारभ्य सायंकालपर्यंतं निरंतरतापानुभवः सूच्यते राज्ञस्तु मध्याह्ने अंतःपुरविहरणदिना किंचिद्विश्रांतिरस्ति वृक्षस्य न तथेति भावः । संसृतानां जंतूनां परितापं परितः सर्वावयवतापम् । च्छायया च्छाययेत्येकवचनेन प्रभातमध्याह्नसायंकालेषु स्वस्य मंदतीव्रातपानुभवसमयेऽपि स्वकीयच्छायागुणस्यैकरूपता द्योत्यते । शमयति नाशयति । हिशब्दश्चकारार्थः । शमयति चेति यावत् । अनेन तीव्रोष्णानुभवसमयस्य संंसृतजंतुपरि- तापशमनकालस्य चाव्यवधानं द्योत्यते । नियमयसीत्यादि । आत्तदंड: गृहीतनीतिः। विमार्गप्रस्थितान् विरुद्धमार्गगतान् अन्यायवर्तिन इति यावत् । नियमयसि निवारयसि तदुक्तं मानसोल्लासे अनुगृहे निग्रहे च दाने चादानकर्मणि । प्रवृत्तौ च निवृत्तौ च


 राजा--एते क्लान्तमनसः पुनर्नवीकृताः स्मः । (इति परिक्रामति)

 प्रतीहारी-अहिणवसम्मज्जणसस्सिरीओ सण्णिहिदहोमधेणू अग्गिसरणालिन्दो । आरुहदु देवो । [ अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः। आरोहतु देवः |

 राजा---( आरुह्य परिजनांसावलम्बी तिष्ठति ) वेत्रवति, किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः।


क्षमान्वितः ॥ ' इति । विवादं परस्परकलहं शमयसि । रक्षणाय कल्पसे प्रभवसि । भयात् ’ शत्रुभ्यो धनदानेन ' इत्यादि रक्षणं बहुप्रकारम् ! अतनुषु बह्वीषु संपत्सु । नामेति संभावनायाम् । ज्ञातयः सन्तु भवन्तु । बन्धुकृत्यकारिण इत्यर्थः । तुः पूर्वतो विशेषे । सति विभवेऽसति च विभवे । प्रजानां प्रजासु विषये । षष्ठीसप्तम्योरभेदाद्बन्धूनां ज्येष्ठबन्धूनां कृत्यममार्गान्निवर्तनं कलहशमनं रक्षणं च तत्त्वयि परिसमाप्तं त्वयैव निष्पाद्यते । नान्येनेत्यर्थः । पूर्वार्धार्थो हेतुत्वेनोपात्तः। काव्यलिङ्ग- व्यतिरेकानुप्रासाः । पूर्वार्धे यमकं च । वृत्तमनन्तरोक्तम् । अनेन च पद्येन पूर्वं लोकहेतोरिति यदुक्तं तदेव विवृतम् । नवीकृताः । अधिका रचिन्तन इति शेषः । अत एवास्माभिस्तत्र ’ अशान्तमनाः ’ इति व्याख्यातम् । यतस्तस्यैवानुवादोऽयम् ‘क्लान्तमनसः ’ इति । अभिनवं नूतनं यत्संमार्जनं तेन सश्रीकः सशोभः । संनिहितहोमधेनुरिति । विशे षणद्वयेन पावित्र्यातिशयो द्योत्यते । अग्निशरणालिन्दोऽग्निहोत्रगृहबहि र्द्वारप्रकोष्ठः । ‘ प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ' इत्यमरः । स्वभावोक्तिः । तस्य खेदविनोदं द्योतयति । आरोहतु देवः । परिजनां


ग्रहणे मोक्षणे तथा ॥ स्वयं समर्थो यः सोऽयं राजा साक्षान्निरर्गलः ॥ " इति विवादं कलहं प्रशमयसि रक्षणाय कल्पसे समर्थो भवसि । अनुग्रहस्य राज्ञ एवाधिकारित्वादिति भावः। अतनुषु प्रचुरेषु विभवेष्यै(ष्वै)श्वर्येषु सत्सु ज्ञातयो बांधवाः संतु भवंत्विति संभावना- याम्। नाम प्रसिद्धौ । किं तैर्निग्रहानुग्रहासमर्थैरिति वाक्यशेषः । प्रजानां जनानां बंधु- कृत्यं विमार्गनियमनेष्टप्रापणानिष्टनिवारणादिकम् । त्वयि तु त्वय्येव परिसमाप्तम् । एते इत्यादि । क्लांतमनसः श्रमभरेण क्लिष्टमानसाः पुनर्नवीकृताः वैतालिकयोः


किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधा
मित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ ९ ॥

 प्रतीहारी-—सुचरिदणन्दिणो इसीओ देवं सभाजइदुं आअ- देत्ति तक्केमि ।[ सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि ]


सावलम्बीति खेदानुभाव एव । किं तावदिति । व्रतिनां नियमवतामत ए- वोपोढमत्यूढमधिकं तपो येषाम् ।’ उपोढः कथितोऽत्यूढे समासन्ने विवा हिते ’ इति धरणिः । ईदृशां तपस्विनाम् । विशेषणेनैव विशेष्यप्रतिप त्तेर्न तदुपादानम् । तपो विघ्नैर्विघ्नकर्तृभी राक्षसादिभिः । साध्यवसानेयं लक्षणा । तस्या विघ्नातिशयः फलं दर्शितम् । किमिति वितर्के । उत धर्मारण्यचरेषु धर्मवनगेषु प्राणिषु जन्तुषु । धर्मपदेन ऋषीणां महत्त्व(त्त्वं) सूचयता चेष्टितस्यात्यन्तमनुचितत्वं ध्वन्यते । अत एव केनचित्पामरा दिनासत् । वाचापि वक्तुमशक्यमिति भावः । चेष्टितं कृतम् । आहो- स्विन्ममापचरितैर्वीरुधां लतानां प्रसवः पल्लवपुष्पादिर्विष्टम्भितः प्रति- बद्धः। ’ पुष्पं फलं पत्रं च वृक्षाणां प्रसवं विदुः’ इति धरणिः । तदु क्तम्--’ राज्ञोऽपचारात्पृथिवी स्वल्पसस्या भवेत्किल । अल्पायुषः प्रजाः सर्वा दरिद्रा व्याधिपीडिताः ॥ ’ इति । तपतप इति स्विसवो इति छेकानु प्रासवृत्तिश्रुत्यनुप्रासाः । शार्दूलविक्रीडितं वृत्तम् । षष्ठीसप्तम्योरभेदान्न विभक्तिप्रक्रमभङ्गः । विशेषणप्रक्रमभङ्गोऽपि नाशङ्कनीयः । आदौ विशे- षणद्वयं ततस्तदभाव इत्येव क्रमस्य विवक्षितत्वात् । सुचरितनन्दिन


प्रियसत्यवचनैः राज्यभरणजनितशोकान्मुक्तां(क्ता?) भवामः । तदुक्तं "शोकान्मुक्तः पुनर्नवः “ इति । किमित्यादि । उपोढतपसां संप्राप्ततपसां व्रतिनामृषीणाम् । विघ्नैः ईप्सितार्थान् विशेषेण घ्नन्तीति विघ्नाः प्रतिबंधकाः तैः । तपः स्वधर्मानुवर्तनं -दूषितं नाशितम्। किं वितर्के । धर्मारण्यचरेषु तपोवनवर्त्तिषु विषये केनचिदज्ञाततपः- प्रभावेन येनकेनचिद्धूर्तेन असत् अन्याय्यं कर्म चेष्टितमाचरितम् । वीरुधां प्रसवः


( ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः पुरश्वषां कंचुकी पुरोहितश्च )

कंचुकी–इत इतो भवन्तः ।

शार्ङ्गरवः--शारद्वत,

महाभागः कामं नरपतिरभिन्नस्थितिरहो
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥ १० ॥


ऋषयो देवं सभाजयितुमागता इति तर्कयामि । महाभाग इति । न भिन्ना त्यक्ता स्थितिर्मर्यादा येन स नरपतिः । काममतिशयेन महाभागः श्रेष्ठ इतेि विधेयम् । अहो इत्याश्चर्ये । वर्णानां ब्राह्मणानां मध्येऽपकृष्टो हीनोऽपि कश्चिदपथममार्गं न भजते । 'अपथं नपुंसकम् ' इति नपुंसकत्वम् । इति यद्यपि तथापीदं जनाकीर्णं जनव्याप्तं स्थानं शश्वन्निरन्तरं परिचितं विविक्तं विजनस्थानं यस्य तेन मनसोपलक्षितोऽहं मनसा हेतुना वा हुतवहपरीतं गृहमिव मन्ये । अत्र पूर्वार्धे यत्कारणमुक्तं विजनस्य तत्सम्यक्त्वं कार्यं तदभावस्तद्विरुद्धमुखेनोक्त इति [ वि } शेषोक्तिः । अथ च यदग्निपरीतत्वं कार्यं तत्कारणाभावस्य तद्विरुद्धमतेन पूर्वार्धं उक्तेन विभावना । उभे अप्युक्तनिमित्त्ते शश्वत्पारचितेत्याद्युक्तेः । साधकबाधकप्रमाणाभावात्संदेहसंकरः--‘ मन्ये शङ्के ध्रुव ( वं) प्रायो


शारद्वतः-जाने भवान्पुरप्रवेशादित्थंभूतः संवृत्तः । अहमपि
अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ ११ ॥
शकुन्तला-( निमित्तं सूचयित्वा ) अम्महे, किं मे वामेदरं णअणं विष्फुरंदि । [ अहो, किं मे वामेतरन्नयनं विस्फुरति ]

नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥ " इत्युक्तेर्मन्येशब्दस्योत्प्रेक्षाद्यौतकस्वेऽप्यत्र न तथा । तत्सामस्यभावात् । उपमयैव गतार्थत्वात् । तेनात्र मन्येशब्दस्य बुद्धित्वमात्रमर्थः । तदुक्तं राजानकरुचकेन—‘ अस्याश्वेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किंतून्प्रेक्षासामस्यभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति । यथा---‘अहं त्विन्दुं मन्ये' [इति]। अनुप्रासाः । वक्तुर्वैराग्यं ध्वन्यते । शिखरिणीवृत्तम् । अहमपीति श्लोकेनान्वेति । अभ्यक्तमिति । अहं सुखसङ्गिनं जनमीदृशमवैमि । त्वं त्वग्निपरीतगृहामिव जानासि । अहमप्येतादृशमित्यपिशब्दार्थः । एतादृक्त्वं च विशिष्टोपमारूपम् । कः कमेव । स्नातोऽभ्यक्तं तैलाभ्यक्तमिव । अनेन पापश्लिष्टत्वं ध्वन्यते । शुचिरशुचिमिवेत्यनेन पत्यादिषु स्नेहादिविद्धत्वं (?) ध्वन्यते । प्रबुद्धः सुप्तमित्यवेत्यनेनाज्ञानाविद्धत्वं व्यज्यते । स्वैरगतिर्बद्धमिवेत्यनेन प्रयत्नसहस्रानयने परवशंवदत्वं ध्वन्यते । मालोपमेयम् । तेन पारतंत्र्यलक्षणो भिन्नोऽव (त्र ) गम्यः (?) सामान्यधर्मः। छेकवृत्यनुप्रासौ । स्नातोऽभ्यक्तमिव शुचिरशुचिमिव प्रबुद्धः सुप्तमिव स्वैरगतिः संहि (य ) तमिव' इति पठित्वा प्रक्रमभङ्गद्वयं परिहरणीयम् । निमित्तमपशकुनम् । अम्महे इति निर्वेदे । ‘अम्महे हर्षे इति सूत्रे ‘हीमाणहे विस्मयनिर्वेदयोः इतेि सूत्रान्निर्वेद इत्यनुवर्तते । कि मे वामेतरदक्षिणं नयनं विस्फुरतेि । किं मे वामं दाक्षिणं नयनम् ’ इति पाठे वामं प्रतीपम् । विरोधाभासः ।


चितविविक्तेन सार्वकालिकासेवितविजनेन मनसा उपलक्षितः जनाकीर्णं प्रजासंकुलं हुतवहपरीतमनलाक्रान्तमिव प्रवेष्टुं दुःसहमिति यावत् स्थाने युक्तम् । अभ्यक्तमिवेति। शुचिः सद्वृत्तः अशुचिमसद्वृत्तम् । सुखसंगविषयासक्तम् । सुखसंगिनमित्यनेन राजरक्षित


 गौतमी-जादे, पडिहदं अमङ्गलं। सुहाईं दे भत्तुकुल्देवदाओ वितरन्दु ( इति परिक्रामति)[ जाते, प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु ]

 पुरोहितः--( राजानं निर्दिश्य ) भो भोस्तपस्विनः, असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।

 शार्ङ्गरवः-भो महाब्राह्मण, काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः ।

 भवन्ति नम्रास्तरवः फलागमै-
  र्नवाम्बुभिर्दूरविलम्बिनो घनाः।
 अनुद्धताः सत्पुरुषाः समृद्धिभिः
  स्वभाव एवैष परोपकारिणाम् ॥ १२ ॥


जाते, प्रतिहतममङ्गलम् । सुखानि ते भर्तुः कुलदेवता वितरंतु । अत्र भवान्पूज्यो वर्णाश्रमाणां रक्षितेत्यनेन भवदादीनामस्मदादीनां च सर्वदा पालनासक्तत्वम् । प्रागेव मुक्तासन इत्यनेन विनयातिशयः | वः प्रतिपालयतीति भक्त्यतिशयो व्यज्यते । महाब्राह्मणेति राजपुरोहितत्वात्तं प्रति मुनेरुक्तिरिति नानौचित्यम् । काममतिशयेनैतद्विनयातिशयत्वादिकमभिनंदनीयं स्तुत्यं यद्यपि तथापि वयमत्र मध्यस्था निस्पृहाः । एतदस्माकं वर्णनीयं न भवतीति भावः । वर्णनीयत्वाभावे च स्वाभाव्यं हेतुत्वेनोद्दिशति--कुत इति । भवन्तीति । तरवो वृक्षाः फलानामासमंताद्गमनं गमः प्राप्तिस्तैः । अनेन समृद्धिकाष्ठा तेषां द्योतिता । नम्रा अधोमुखा विनीताश्च भवंति । अत्र तरुशब्देन सामान्यविशेषभावसंबंधेन


प्राणिनामैश्वर्यबाहुल्यमुकम् । महाब्राह्मणेत्यादि। कामं यद्यप्येतत्प्रत्युत्थानादिकं राजपुरोहितत्वादभिनन्दनीयं तथापि वयमत्र प्रत्युत्थानादौ मध्यस्थाः पक्षपातरहिताः । वदाम इति शेषः । भवन्तीत्यादि । फलोद्गमैर्हेतुभिः दूरविलंचिनः अत्यर्थमवनताः समृद्धिभिरैश्वर्यैः अनुद्धता अनहंकारिणः नम्रा इति यावत् । एष नम्रत्वादिः ।


प्रतीहारी-देव, पसण्णमुहवण्णा दीसन्ति । जाणामि विस्सद्धकज्जा इसीओ [ देव, प्रसन्नमुखवर्णा दृश्यन्ते'। जानामि विश्रब्धकार्या ऋषयः ]
राजा--( शकुन्तलां दृष्ट्वा ) अथात्रभवती
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ १३ ॥

चूतप्रभृतयो विशेषा लक्ष्यंते । तत्सजातीयबहुत्वप्रतिपत्तिश्च फलेषु वनस्पतिप्रभृतिषु । तदभावादर्थसंगतिः । किं च सत्पुरुषाणां विशिष्टानामेवोमेयत्त्वात्तैः सहोपमानतापि न संगच्छते । तर्ह्युत्तरवाक्येऽप्येतद्दोषावकाश इतेि चेन्न । मेघादिपदत्यागेन घनपदोपादानात् । तथा च व्याख्यास्यते । केचनैतादृशस्थले ‘वाच्य एवार्थो न लक्षणा ' इति मन्यंते | घना मेघा अथ च नि'बिडाः। नवाम्बुभिरिति वर्षाकालारम्भो ध्वन्यते । तेषां तत्रैव समृद्धत्वाद्दूरोवलिम्बनोऽतिशयवर्षुकाः | अथ च विनीता भवन्तीत्यनुषज्यते । अत्र तरुघनयोरचेतनयोर्नम्रत्वाभ्यां (त्व ) दूरविलम्बित्वाभ्यां च वस्तुतो भिन्नाभ्यामभेदेनाध्यवासिताभ्यामतिशयोक्तिः । सत्पुरुषाः समृद्धिभिरनुद्धता नम्रा भवन्तित्यनुषज्यते । तेन क्रियाद्वीपकम् । विनयस्य साधारणधर्मस्य नम्रदूराविलम्ब्यनुद्धतशब्देनोक्तेर्माला परिवर्तूपमा च । अत्र दुष्यंतलक्षणे विशेषे प्रस्तुते सत्पुरुषस्य वचनादप्रस्तुतप्रशंसापि । स्वभाव इयादिस्तु ह्रिशब्दानुपादानेऽप्यर्थांतरन्यासः ।‘क्व नासि शुभप्रदः’ इतेिवत् । हेत्वनुप्रासौ च । वंशस्थवृत्तम् । देव, प्रसन्नमुखवर्णा दृश्यंते । जानामि विस्रब्धं शांतमक्रूरं कार्यं येषां ये तादृशा ऋषयः । विस्रब्धस्तूद्भटे व्यर्थे शान्तविश्वस्तयोरपि ’ इति विश्वः । का स्विदिति । स्विदिति वितर्के । ‘ विदिति प्रश्ने


अथात्रभवतीत्यादि । अत्रभवती सुशीला अनेनागमनसमये शकुन्तलायाः नम्राननत्वं परपुरुपनिरीक्षणाभावश्च राज्ञा सूच्यते । तत्राप्यवगुंठनवतीत्यनेन तापसस्त्री न भवति कन्या काचिदिति सूच्यते । तापस्याः सर्वत्र समबुद्धिभावेन विकाराद्यभावादवगुंठनमनुचितमिति यावत् ।, तत्रापि नातिपरिस्फुटशरीरलावण्येत्यनेनापन्नसत्वेति व्यज्यते । आसन्नप्रसवसमयतया शरीरलावण्यमत्यर्थे न दृश्यत इति भावः । एतादृश्याः


प्रतिहारी–देव, कुतूहलगब्भोपहिद ण मे तक्को पसरदि । णं दंसणीञा उणसे आकिदी लक्खीञदि। [देव,कुतूहलगर्भोपहित न मे तर्कः प्रसरति । ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ॥
राजा--भवतु । अनिर्वर्णनीयं परकलत्रम् ।

वितक च' इत्युक्तेः । सशिरोमुखप्रावरणमवगुण्ठनं तद्वती । अत एव नातिपरिस्फुटे शरीरलावण्ये यस्याः सा । नञ्समासः ! इदमनूद्यम् । तपोधनानां मध्ये का स्विदितेि विधेयम् । अत एवैतन्मात्र उपमा । पाण्डुपत्राणां मध्ये किसलयं कोमलपल्लवमिवेति । अस्याश्च भिन्नलिङ्गत्वेऽपि कोमलत्वादेः साधारणधर्मस्य गम्यत्वात्सहृदमनोनुरञ्जकत्वमेव । हेत्वनुप्रासः । ननु नातिपरिस्फुटेत्यादौ शरीरमात्रग्रहणेऽप्युभयलाभ इति चेत्सत्यम् । स्यादेवं यदि निषेधमात्रे तात्पर्यं स्यात्किन्त्वत्र विधौ तात्पर्यम् । अत एवातिपर्योरुपादानम् । तेनेषद्व्यक्ते इत्यर्थः। अत्र चोभयग्रहणमन्तरेण विवक्षितार्थालाभात् । यत आद्यमात्रोपादाने द्वितीयाप्राप्ते द्वितीयमात्रग्रहणे कनकचम्पकामतनुवर्णाप्तेः । लावण्यलक्षणं सुधाकरे । 'मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥' इति एवंभूतैतदवलोकनेन स्थायिन्या रतेरनुसंधानम् । देव कुतूहलेन गर्भे मध्य उपहितो युक्तो न मे तर्कः प्रसरति | त्वत्परिगृहीतेन पूर्वत्वेन कुतूहलगर्भत्वं प्रभुसमक्षत्वात्तुन्यानातत्वं (?) चाप्रसरणे हेतुः । क्वचिद्रतपुस्तके ‘कुतूहलगल्भोपहृद् इत्यादि पाठः । क्वकित्पुस्तके तु नास्त्येवायं पाठः। ननु दर्शनीया सुन्दरा पुनरस्य आकृतिर्लक्ष्यते । भवत्विति निषेधे । “ अस्तु भवतु पूर्यत इति निषेधे ’ इत्युक्तेः । अनिर्व


खनिकटमागमनं किमर्थंकमिति । काखिदिति वितर्के । अत्र दृष्टान्तमाह-किसलयमित्यादिना । पांडुपत्राणां रागरहितशुष्कपर्णानां मध्ये किसलयमिव कोकिलादिभिः स्पृहणीयं रागयुक्तपल्लवमिव । देवेत्यादि । तर्को विचारः । कुतूहलगर्भः । अरण्ये परिमिताहारादिक्लिष्टतपस्विनामेतादृशरूपलावण्याद्यतिशयवत्या सहागमनजनिततर्कस्ताश्चर्यगर्भ इति यावत् । तदेव विशदयति-दर्शनीयेति । दर्शनीया स्पृहणीया । निरुपपदेन स्त्रीणामपि वस्तुसौंदर्यबलात् स्पृहणीयेति व्यज्यते । नतु पुरुषाणामेवेति भावः ।


 शकुन्तला-( हस्तमुरसि कृत्वा ।आत्मगतम् ) हिअअ, किं एव्वं वसि । अज्जउत्तस्स भावं ओहारेिअ धीरं दाव होहि । [ हृदय, किमेवं वेपसे । आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव ॥

 पुरोहितः--( पुरो गत्वा ) एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसंदेशः । तं देवः श्रोतुमर्हति ।

 राजा--अवाहितोऽस्मि ।

 ऋषयः--( हस्तानुद्यम्य ) विजयस्व राजन् ।

 राजा–सर्वानभिवादये ।

 ऋषयः--इष्टेन युज्यस्व ।

 राजा--अपि निर्विघ्नतपसो मुनयः ।

 ऋषयः

  कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
  तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ १४ ॥

 राजा--अर्थवान्खलु मे राजशब्दः । अथ भगवांल्लोकानुग्रहाय कुशली कण्वः ।


णेनीयमद्रष्टव्यम् । हस्तमुरसि कृत्वेति स्वभावोक्तिः । हृद्य, किमेवं प्रवेपसे । आर्यपुत्रस्य भावं चित्ताभिप्रायमवधारय (र्य ) धीरं तावद्भव । कुत इति । त्वयि रक्षितरि सति कुतो धर्मक्रियाविघ्नः। सर्वमेत्द्विधेयम्। त्वं रक्षिता । त्वयि रक्षितरि सर्वे सन्तः । तेषां क्रियामात्रविघ्नोऽपि न संभाव्यते सुतरां धर्मक्रियाविघ्न इत्यर्थः । तम इति । घर्मांशौ सूर्य उदयाद्रिमारूढ एव तमोनाशः । अपि तु तस्मिन्सुतरामाविर्भावाभाव(?) इत्यर्थः । दृष्टान्तालंकारः । हेत्वनुप्रासौ । अर्थवान्सप्रयोजनः ।


भवतीत्यंगीकारे । सकलजनस्पृहणीया तादृशाकृतिरेवेत्यंगीकारः । हिअएत्यादि । भावोऽभिप्रायः परकलत्रमिति सामान्येनोक्तत्वात् मा वेपस्वेति यावत् । कुत इत्यादि। सतां सज्जनानां न दुष्टानाम् । रक्षितरि परिपालके । अर्थवान् रंजनाद्राजेति राजश


 ऋषयः--स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह ।  राजा--किमाज्ञापयति भगवान् ।

 शार्ङ्गरवः--यन्मिथः समयादिमां मदीयां दुहितरं भवानुपा- यंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः ।

 त्वमर्हतां प्राग्रसरः स्मृतोऽसि य
  च्छकुन्तला मूर्तिमती च सत्क्रिया ।
 समानयंस्तुल्यगुणं वधूवरं
  चिरस्य वाच्यं न गतः प्रजापतिः ॥ १५ ॥


तापयुक्तत्वादिति भावः ( ?) । योकानुग्रहाय जनानुग्रहाय । भुवनानुग्रहाय चेत्यर्थः । ' लोकस्तु भुवने जने ' इत्यमरः । त्रिभुवनानुग्राहकत्वेन लोकोत्तरा तपःसिद्धिर्ध्वनिता । तदभिप्रायेणैवोत्तरयन्ति - स्वाधीनेति । अनामयप्रश्नपूर्वमितेि तस्य क्षत्रियत्वात् । तदुक्तं भृगुसंहितायाम्-- 'ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च } 'इति मिथःसमयात् । गान्धर्वेण विवाहेनेत्यर्थः । उपायंस्त विवाहितवान् । ‘उपाद्यमः स्वीकरणे ' इत्यात्मनेपदम् । त्वमिति । यद्यस्मात्त्वमर्हतां पूज्यानां प्राग्रसरो


ब्दार्थवान् । यद्यपि राजशब्दो राजृ दीप्तवित्यर्थात् कनिन्प्रत्ययान्तः नतु रंजेः । तथापि धातूनामनेकार्थत्वादुपपद्यते । अथेति प्रश्ने । कुशलीति । कुशलप्रश्नस्तु «" ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शङ्कमारोग्यमैव च ॥ " इति मनुवचनादित्यवगंतव्यम् । यन्मिथ इत्यादि । मिथः समयात् परस्परकृतसंकेतात् गांधर्वविवाहादिति यावत् । इमामनागरिकाम् । दुहितरं वात्सल्यविषयभूताम् । भवान् सकलवर्णाश्रममर्यादापरिपालको राजा भवानित्यर्थः । भवच्छब्दप्रयोगस्तु जामातृभूतदुष्यन्तं प्रति पूज्यवाचकः । उपायंस्तेति यत् तत्कर्म मयेत्यनेनारण्यवासित्वादनुरूपचरसंघटनार्थे नानदेशभ्रमणकरणासमर्थेन मयेति व्यज्यते । नीतिमता अनायासेन अनुरूपवरप्राप्त्या परितोषवता । प्रीतिकरणे उभयोरनुरूपत्वमेव हेतुरिति यावत् । अत एवोक्तं उभयोरिति । एतदेव विशदयति--तत्तस्माद्धेतोरनुज्ञातमिति । कुत इत्यादिना । त्वमिति । अर्हतां कुलाभिज्ञादिमतां पूज्यानां प्राग्रसरः मुख्यतमः।


तदिदानीमापन्नसत्त्वा प्रतिगृह्यतां सहधर्मचरणायेति ।

 गौतमी---अज्ज, किंपि वक्तुकामह्मि । ण मे वअणावसरो अत्थि। कहंति । [ आर्य, किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति ]


मुख्यः स्मृतोऽसि । लोकैरिति शेषः । क्वचित् ‘स्मृतोऽसि नः' इति पाठः । सरतीति सरः “ नन्दिग्रहिपचादिभ्यः इत्यत्र पचादेराकृतिः गणत्वाद्च् । ततः प्रकर्षेणाग्रे सरतीति प्राग्रसरः । संज्ञाया अभावात् हलन्तात् ’ इत्यादिनालुङ् । न । ‘त्वमर्हतां प्राग्रहरः इतेि वा पाठः । ‘ पराध्यया प्रश्नहरा " इत्यमरः यद्यस्माच्खुकुन्तल मूर्तिमती शरीरधारिणीं । सती पूज्य चास क्रिया च सत्क्रिया । इवे त्युत्प्रेक्षा । अनया चाखिलजनपूज्यत्वमस्या ध्वनितम् । अत एव तुल्य गुणत्वम् । तत्तस्मादित्यर्थेन तच्छब्देनान्वयः । ‘न ' इति पाठे तूभा वाध्यायै । तुल्पगुणं समानगुणं वधूवरं समामयन् । चिरस्य चिरकालेन प्रजापतिर्वाच्यं निन्दां न गतो न प्राप्तः । वाच्यं वक्तव्यमित्येते प्रव तंते प्रपादने । वचे हे कुत्सिते हीने दूषणेऽभिधयोदिते ॥ ९ इति धराणः चिरस्येति विभक्तिप्रतिरूपकमव्ययम् । चिराय चिररात्राय चिरस्या द्यश्चिरायैकाः ' इत्यमरः । अन्यत्र यत्र वधूवरं मेरुयति तत्र तत्राः ल्यगुणम् । जगतीदमेवेति भावः । अत एव चिरस्येत्युक्तः । प्रजापति रैत साभिप्रायम् । समहेत्यनुप्रासाः । वंशस्यं वृत्तम् । ‘ स्मृतोऽसि सक्रियेब यन्मूर्तिमती शकुन्तला ' इते पीत्वा क्रमलक्षणो दोषः परिं हरणीयः । आपन्नसत्त्वा गर्भवती । आपन्नसत्वा स्याद्भर्विण्यन्तर्वत्नी गर्भिणी ' इत्यमरः । धर्मचरणायेत्यनेन विधिबदूढत्वं व्यज्यते । आर्य,


अमिल्चेकवचनेन पूज्याघ्रगण्यतायामाङ्कितयित्वं व्यज्यते । सक्रिया सौशल्यादिः समानयन् सम्यग्यजयत् चिरायाद्यदृष्टिकर्मारभ्य वर्तमानम् । वाच्यम् असमानगुण धूवरसंघटनजनितापवादं न गतः । अत्र शकुन्तलादुष्यन्तसंघटनेन प्राप्त इत्यर्थः । अत्र वर्तमानार्थकाद्यादिपदानुपादानात् प्रजापतिर्मुद्धिर्दूर्वकानुरूपवरसंघटनया लोकापवादं न गत इति न किंतु दैवान्न गत इति प्रजापतेरपि अनुकूलविद्यन्तरापेक्षा ज्वभ्यते । अन्न समालंकारः । तदुक्तं । समं यौग्यतया यौगों यदि संभावितः क्वचित्


  णावेक्खिओ गुरुञणो इमाए ण हु पुच्छिदो अ बन्धुञणो ।
  एक्कक्कमे व्व चरिए भणामि किं एक्कमेक्कस्म ।। १६ ।।

  [ नापेक्षितो गुरुजनोऽनया न खलु पृष्टश्च बन्धुजनः ।
 ::परस्परस्मिन्नेव चरिते भणामि किमेकैकम् ।]

 शकुन्तला--( आत्मगतम् ) किं णु क्खु अज्जउत्तो भणांदि ।[ किं नु खल्वार्यपुत्रो भणति ]

 राजा--किमिदमुपन्यस्तम् ।

 शकुन्तला--( आत्मगतम् ) पाव क्खु डु बञणोवण्णासो ।[ पावकः खलु वचनोपन्यासः ॥


किमपि वक्तुकामास्मि | न मे वचनावसरोऽस्तीति भविष्यदाक्षेपः । तस्यैवोपादानं कथामिति । [ णावेक्खिओ इति ।] नापेक्षितो गुरुजनो ऽनया न खलु पृष्टश्च बन्धुजनः क्वचित्पुस्तके ’ इमाए तुइ पुच्छिदो [ण ] बन्धुजणो ’ इति पाठः। त्वया पृष्टो न बन्धुजन इत्यर्थः ) उभयोरप्यपराधाविष्करणम् । एक्कक्कमे परस्परस्मिन् व्व एव चरिते भणामि किमेकमेकम् । परस्परानुरागेण भवद्भ्यामिदं विहितम् । तत्रैकः पर्यनुयोज्यो न भवतीति भावः । “ एक्कक्कमण्णोण्ण ’ इति देशीकोशः ‘ णश्चे अवि अव्वे अवधारणे ' इति सूत्रेण व्यकारोऽवधारणे । एक्कस्येति ‘ क्वचिद्वितीयादेः इतेि द्वितीयार्थे षष्ठी । गाथेयम् । तेन ' इमाए ' ' इत्येकारस्य ' एओ सुद्धापआवसाणंमि लहू ’ इति लघुत्वम् । किं नु खल्वार्यपुत्रो भणतेि । पावकोऽग्निः खलु वचनोपन्यास इति


इदमनयोः श्लाघ्यमिति योग्यतया संबंधस्य नियतविषयमध्यवसानं चेत्ससं भवति । प्रकृते शकुन्तलादुष्यन्तयोः संबंधस्य समत्वकथनात्समं भवति । अज्जेत्यादि । णावेखीओ इति । चरिते विवाव्यापारे ‘‘ कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः । इति न्यायेन बहुजनानुज्ञापेक्षिते विवाहकर्मणीत्यर्थः । अत एवोक्तं नापेक्षितो गुरुजन बन्धव इति । एकैकमेव केवलावक्वेयुषाम् । एकैकस्य किं भणामः न किमपि वक्तव्यमस्ति । मिथः समयं युवामेव जानीथः । तथैव परस्परं वर्तेथामित्यभिप्रायः । तत्कथमिति । किमिदमुपन्यस्तमिति


 शार्ङ्गरवः-- कथमिदं नाम । भवन्त एव सुतरां लोकवृतान्तनिष्णाताः।

सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियप्रिया च प्रमदा स्वबन्धुभिः१७॥


भिन्नरूपकम् । क्वचित् ' सावलेपः ’ इति पाठः । निष्णाताः कुशलाः । ' निष्णातः कुशलेऽपि च ' इत्यजयः । ‘ निनदीभ्यां स्नातेः कौशले ' इति णत्वम् । सतीमिति । जनो लोको भर्तृमतीं विद्यमानधवां प्रमदां सतीं पतिव्रतामपि ज्ञातिकुलं पेितृगृहं तत्संश्रयामथ च सगोत्रगणसंश्रयामन्यथा दोष इत्यु ( दोषयु ) क्तत्वेन विशंकते । अनौचित्यपरिहाराय कविना दोषादिपदत्यागेनान्यथापदं दत्तम् । ‘ ज्ञातिः सगोत्रे पितरि कुलं जनपदे गृहे । सजातीयगणो गोत्रः ’ इति च विश्वः । अतः कारणात्प्रियाप्रिया वा । अर्थाद्भर्तुः प्रमदा स्त्रीमात्रम् । अथ च प्रकृष्टो मदस्तारुण्यमदो यस्याः । सैतादृशी स्वबन्धुभिर्वधूबन्धुभिः परिणेतुः समीप इष्यते । ‘प्रियाप्रिया च ’ इति समीचीनः पाठः। ' तदप्रियापि ’ इति पाठे तस्य भर्तुरप्रिया । अपिशब्दात्प्रियापीति व्याख्येयम् । अत्र शकुन्तलायास्त्वत्समीपे स्थितियोग्यतेति विशेषे प्रस्तुते यत्सामान्यवचनं तेनाप्रस्तुतप्रशंसा । हेत्वनुप्रासौ । वृत्तमनन्तरोक्तम् । अत्र स्त्रीसामान्ये वक्तव्ये यत्प्रमदेति विशेषवचनं तेन विशेषपरिवृत्तलक्षणं दूषणामिति चेन्न । शब्दशक्त्युद्भावध्वनेः सत्त्वात्तदभिप्रायेणैव व्याख्यातम् । अनेनार्थविशेषणनामा नाट्यालंकार उपाक्षिप्तः। तल्लक्षणं तु-- ' उक्तस्यार्थस्य यत्तु स्यादुत्कीर्तनमनेकधा। उपालम्भस्वरूपेण तस्यादर्थविशेषणम् ॥ ’ इति ।


यदुक्तं तत्कथमिति हेतुप्रश्ने । लोकतंत्रनिष्णाताः लोकसिद्धान्तनिपुणाः । “ तन्त्र कुटुंबकृत्ये स्यात्कारणेऽपि परिच्छदे । शास्त्रे प्रधाने सिद्धान्ते तन्तुवाये गदोत्तमे ॥ " इति विश्वः । सतीमित्यादि । सतीमपि साध्वीमपि । तर्हि साध्व्याः सर्वत्रावस्थानं दुष्टं किमित्यत आह-ज्ञातिकुलैकसंश्रयामिति । अत्राप्यपिशब्दोऽनुषज्यते । ज्ञातीनां जननपोषणकारणभूतपितॄणां कुलं एकः केवलः संश्रयो यस्याः सा तथोक्ता ।


राजा-किं चात्रभवती मया परिणीतपूर्वा ।

शकुन्तला--( सविषादम् । आत्मगतम् ) हिअअ संपदं दे आसङ्गा । [ हृदय, सांप्रतं त आशङ्का ]

शार्ङ्गरव-- किं कृतकार्यद्वेषो धर्मे प्रति विमुखता कृतवज्ञा ।

राजा–कुतोऽयमसंत्कल्पनाप्रश्नः ।।

हृदय, सांप्रतं त आशङ्का । किमिति । कृतं यत्कार्यं गान्धर्वो विवाहस्तत्र द्वेष:किम् । धर्मं प्रति विमुखता किम् । कृते विदितेऽनुभूतेऽवज्ञा किम् । यावदनुभूतं तावदेव तद्दुर्लभमिति भावः । “ कृतं युगेऽपि पर्याप्ते विहिते इति विश्वः । असत्कल्पनामुत्तरार्धेन निरस्यति--ऐश्वर्यमत्तेषु संपदुद्धतेषु


एकग्रहणेन पितृगृहे काचित्कावस्थानं न दुष्टमिति एव व्यज्यते । तर्हि किं रूपभर्तृमत्या एवं पितृहावस्थानं शंकास्पदमित्याशंक्याह-भर्तुमतमिपीति । नवसाफल्यहेतुभूत संभाषणालिंगनचुंबनसंभोगगभोर्पत्यादिकारणभूतभर्तृमतीमपि । मतुप् प्रत्ययेन प्रशस्ततरकान्तवतीत्वं सूच्यते । जनः बन्धुशत्रुमप्यस्थभूतर्लोकः न तु शत्रुमात्रजन: अन्यथा अन्यप्रकारेण । असतीमिति यावत् । विशंकते । यद्यपि अनुपभर्तृमतीत्वम्। तथापि सार्वकालिकपितृगृहावस्थानादसतीति विशेषेण तर्कयति । वर्तमानव्यपदेशेन सकलजनसंवाद उक्तः । अतः कारणात् प्रमदा युवतिः न तु वृध्दा। स्वबन्धुभिः स्वस्यहितैषिभिरप्ततमैः परिणेतुः भर्तुः समीपे इष्यते वांछयते । सहधर्मचारिणी भूत्वा तया भर्तुसमीपस्थया भाव्यमिति वांछयत इति यावत् । तर्हि भर्तुरप्रिया चेत् किं कर्तव्यमित्यत आह-तदश्रियापीति । तस्य भर्तुरप्रियापि अनिष्टापीत्यर्थः । आत्मगत मित्यादि । आतंको भयम्। किमित्यादि । कृते निर्वर्तिते कार्ये शकुन्तलापरिणयव्यापारे

द्वेषः असहनत्वम् । किमिति प्रश्ने । “ सप्रत्यवायदुर्लभनिषेधविषयश्च यो विषयः । कामः स्वभाववामः प्रसरति तत्रैव दुर्वार: । ” इति न्यायेन तात्कालिकसुखार्थं 

यात्किंचित् तत्किमर्थमान्तमनुष्ठेयमिति स्वप्रयोजने निवृत्ते सति तत्र गुणाभावात् जुगुप्सया द्वेषः किमीति भावः । धर्मं प्रति विमुखता वैमुख्यम् । किमिति प्रश्ने । विध्युक्तगान्धर्वविवाहेन धर्मप्रजार्थं परिणीय तत्परित्यागेन नाद्यप्रभृति तत्रधर्मेच्छा नास्ति किमिति यावत् । अवज्ञा अवधीरणा कृता किम्। एते तपस्विन:राज्ञा इत्यवमानना कृता किमित्यर्थः। कुतः कस्मात्कारणात् । असत्कल्पनाप्रश्नः असतः अविद्यमानार्थस्य कल्पना संपादनेन कृतः प्रश्नः । शार्ङ्गरवः --

मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ १८ ॥ राजा-विशेषेणाधिक्षिप्तोऽस्मि ।

गौतमी-जादे,मुहुत्तअं मा लज्ज। अवणइस्सं दाव दे ओउण्ठं । तदो तुमं भट्टा अहिजाणिस्सदि । ( इति यथोक्तं करोति ) [ जाते, मुहूर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति ।


प्रायेण बाहुल्येनामी विकारा उक्ता मूर्च्छन्ति वर्धन्ते । ‘ मूर्च्च्छा मोहसमुच्छ्ययोः' इति विश्वः । आदिकारकदीपकसंशयहेत्वर्थान्तरन्यासानुप्रासाः । अनेन तोटकं नामाङ्गमुपाक्षिप्तम् । तल्लक्षणं तु--' संरम्भवचन प्रायं तोटकं त्विह संज्ञितम्’ इति । जाते पुत्रि, मुहूर्तं मा लज्जस्व। अपनेष्यामि तावत्तेऽवगुण्ठनम्। ततस्त्वां भर्तीभिज्ञास्यति परिचेष्यते यथोक्तमवगुण्ठनापनयनम् । इत आरभ्य षष्ठाङ्कसमाप्तिपर्यन्तमवमर्शसंधिः । तल्लक्षणं तु सुधाकरे--'यत्र प्रलोभनक्रोधव्यसनाद्यैर्विमृश्यते ।बीजादौगर्भनिर्भिन्न: सोऽवमर्श इतीर्यते ॥' इति । अत्र शापलक्षणव्यसनेन विमर्शः यथा “ इदमुपनतम् ' इत्यादि प्रकरीनियताप्त्यानुगुण्यादनङ्गकल्पना। अपवादोऽर्थसंफुटौ विद्रवद्रवशक्तयः । द्युतिप्रसङ्गौ छलनं व्यवसायो निरोधनम् । प्ररोचनं विचलनमादानं च त्रयोदश ॥ इति । अत्राङ्गानां लक्षणं व्याख्यानावसरे तत्र तत्र वक्ष्यामः । प्रकरीलक्षणं भावप्रकाशिकायाम्--' शोभायै वैदिकादीनां यथा पुष्पाक्षतादय: । अथर्तुवर्णनादिस्तु प्रसङ्ग प्रकरी भवेत् ॥ इति । यथात्रैव षष्ठेऽङ्के ‘ ततः प्रविशति चूतांकुरम्-' इत्यादिना ‘नेपथ्ये ’ इत्यन्तेन । अनेन तु ‘ फलं तु कल्प्यते यस्याः परार्थायैव केवलम् । अनुबन्धविहीनानां प्रकरी श्रूयते यथा ॥ ' इति लक्षणानुसारेण मातलिवृत्तान्तं प्रकरीवृत्तमाहुस्तन्न । संधिसमाप्तिविषये तस्योद्देशादङ्गानां तदनुगामित्वं नायाति नियताप्तिलक्षणमादिभरते--‘ नियतां तु फलप्राप्तिं यदा भावेन पश्यति । नियतां तु फलप्राप्तिं


मूर्च्छन्ति। अमी विकाराः कृतकार्यद्वेषादयः मूर्च्छन्ति  आप्नुवन्ति । वर्तमानव्यपदेशेन त्वय्यनुभवरूपेण दृष्टा इति भावः । अधिक्षिप्तः सोपहासं न्यक्कतः । 

राजा-( शकुन्तलां निर्वर्ण्य | आत्मगतम् )

इदमुपनतमेवं रूपमक्लिष्टकान्ति 'प्रथमपरिगृहीतं स्यान्न वेति व्यवस्यन् । भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु पारिभोक्तुं नैव शक्नोमेि हातुम् ॥ १९ ॥

( इति विचारयन्स्थितः ) प्रतीहारी–अहो धम्मवेक्खिआ भट्टिणो । ईदिसं णाम सुहो वणदं रूवं देक्खिअ को अण्णो विआरेदि। [अहो धर्मापेक्षिता भर्तुः। ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति ।


सगुणः परिचक्षते॥” इति । निर्वर्ण्य दृष्ट्वा । इदमिति। एवमुपनतमयत्नप्राप्तम् । न क्लिष्टा कान्तिर्यस्य तत् । अनेन प्रथमं तारुण्यं ध्वनितम् । इदं रूपं प्रथमगृहीतं स्यान्न वा स्यादिति व्यवस्यन्विचारयन् । ’ अध्यवस्यन् ' इति पाठे स्वव्यवसायंं न जानन् । खलु निश्चयेन । परिभोक्तुं न शक्नोमि निश्चयेन हातुं नैव शक्नोमीत्येवं प्रकारेण रतेरनुसंधानं ध्वनिंतम् । कः किमिव । विभाते प्रभाते भ्रमरः अन्तस्तुषारो हिमं यस्य तादृक्कुन्द पुष्पमिव । उपरि हिमस्याच्छादकस्य शापस्थानीयत्वात्त्यागाभावः । ससंदेहोपमानुप्रासाः अत्र प्र (वि ) भात इत्युक्तेस्तदनन्तरं रविकिरणैर्हिमे नीते मकरन्दभोगोऽवश्यम् ( श्यः) एवमिहाप्यभिज्ञानदर्शनेन शापे गते तत्स्वीकारोऽवश्यमिति द्योतयन्योपमया रतेः स्थायित्वदार्ढ्यं ध्वनितम् । मालिनी वृत्तम् । एतेन संशयनामकं भूषणमुपक्षिप्तम् । तल्लक्षणं तु –- अनिश्चयान्तं यद्वाक्यं संशयः इदमित्यादि । इदमित्यनेन सर्वावयवप्रत्यक्षता कथिता । उपनतमुपस्थितम् । अक्लिष्टकान्ति अनवद्यसौन्दर्यम् । अनेन ‘‘ रत्नहारी तु पार्थिवः ” इति न्यायेनापरित्याज्यत्वमुक्तम् । अव्यवस्यन् । अनिश्चिन्वन् । कुन्दं कुन्दकुसुमम् ।अंतस्तुपारमित्यनेन भ्रांतिहेतुरुक्तः । अत्र विपर्ययो नामालंकारः । तदुक्तं तद्विपर्ययो विचार इव विपर्ययः । विचारस्यान्यथा भावः तथा दृष्टोपयोगतः । सन्देहात्कल्पते वस्तु स विज्ञेयो विपर्ययः ।। दृष्टोपयोगिनो वस्तुनः संदेहादन्यथा कल्पनं विपर्ययः । अत्र दुष्यन्तस्य शकुन्तलां प्रतेि परिग्रहसंदेहात् विपर्ययः । अहो इत्यादि ।


शाङ्गरवः--भो राजन्, किमिति जोषमास्यते ।

राजा--भोस्तपोधनाः,चिन्तयन्नपि न खलु स्वीकरणमत्र भवत्याः स्मरामि । तत्कथमिभामाभिव्यक्तसत्वलक्षणां प्रत्यात्मानं क्षोत्रिणमाशंकमानः प्रतिपत्स्ये ।

शकुन्तला-( अपवार्य ) अज़स्स पारिणए एव्व संदेहो कुदो दाणिं मे दूराद्दिरोहिणी आसा । [ आर्यस्य परिणय एव संदेहः । कुत इदानीं से दूराधिरोहिण्याशा]

शाङ्गरव-मा तावत् कृताभिमर्षामनुमन्यमानः सुतां त्वया नाम सुनिर्विमान्यः । मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृत दस्युरिवासि येन ॥ २० ॥


स निगद्यते ? इति । विचारयन्नित्युक्षिप्तैकभ्रूभावादिना । अहो साश्चर्ये।धर्मापेक्षता भर्तुः । ईदृशम् । नाम प्रकाश्ये । प्रकटं सुखोपनतं रूपंदृष्ट्वा कौऽन्यो विचारयति । जोषं तूष्णीम् | अभिव्यक्तसस्वलक्षणां प्रकटगर्भचिह्नम् । क्षेत्रं पत्नी यस्यासौ क्षेत्री तं क्षेत्रिणम् ।‘ क्षेत्रं पत्नीशरीरयोः ' इत्यमरः । एतादृशमात्मानं शङ्कमानः । यत इयं गर्भिणीं मया चेदधुना प्रतिगृह्येत तत्तदाहं क्षेत्री स्यां न तु बीजी । अत एतज्जातापत्यं नौरसमपि तु क्षेत्रजम् । तच्चौरासाध्दीनमिति शङ्का अथ चान्येनोढाया परिग्रहे मत्क्षेत्रत्वमेव स्यान्न तु धर्मपत्नीत्वमिति शङ्का । क्षेत्रियम्’ इति पाठे परदारासक्तम् । क्षेत्रियं क्षेत्रजतृणे परदाररतेऽपि च' इति विश्वः ।कथमिमां प्रतिपत्स्येऽङ्रगिकरिष्यामि । अपवार्येति ? ‘ रहस्य कथ्यतेऽन्यस्य परावृत्यापवारितम् । आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्याशा । दूरमत्यर्थं तत्र गत्वा महिषपदं प्राप्स्यामीत्याद्यधिरोढुं

शीलं यस्याः सा । मा तावदिति श्लोकेन संबध्यते । कृतेति ।

जोषं तूष्णीम्।' तूष्णीं जोषं भावे नूनम्” इत्यव्ययेषु हलायुधः । क्षेत्रिणं कलत्रवन्तम् ।आशा जातेति शेषः। मा तावदित्यादि। तवत्साकल्ये। परिग्रहपरिग्रहरूपशकुन्तलाविषयमकस्माद्भवदुक्तवृत्तादिकं वृत्तादिकं सर्वमित्यर्थः । माङ् निषेधे । कृतेति । सुतां सदसद्यवहाराभ्यां शारद्वतः--शार्ङ्गरव, विरम त्वमिदानीम् । शकुन्तले, वक्तव्यमुक्तमस्माभिः। सोऽयमत्रभवानेवमाह की दीयतामस्मै प्रत्ययग्र तिवचनम् ।


त्वयेत्येवमपराधं कृत्वाप्यधुना स्मरणक्लेशाभाववतेत्यर्थान्तरसंक्रमितम्। कृतोऽभिमर्षो वलद्धर्षणं यस्याः सा अनेन सातिशयपराधकृत्वं ध्वन्यते । ईदृशीं सुतामनुमन्यमानोऽनुमोदमान इत्यनेनैव सापराधेऽपि मयि मुनित्वेन तादृशकृपा युज्यत इति ध्वनितम् । अत एव मुनिः । तावत्साकल्येन । नामेति क्रोधे । मा विमान्यो न विमाननीय: । अत एव । सुताभिमर्षलक्षणोऽपरधः सोढो विमाननीय: नालक्षणक्षु न सोढव्य इति दण्ड उक्तः । तेन सूक्ष्मालङ्कार उक्तः ।केचित्तु निषेधमेव विधेयत्वेन मन्यते तन्न समीचीनम् । निषेधनियोग्यस्य मध्यस्थेन राजकीयेन वा वक्तुमुचितत्वान्न मुनिपक्षीयैः अत एव निवर्हणांते ‘राजा-अतः खलु मम नातिक्रुद्धो मुनेः ' इति । अथ च तस्योचिं. ता विमाननेयाङ्कमुष्टमिति । स कः । येन त्वं दस्युश्चेरुः इव पात्री- कृतोऽसि । कीदृशेनैव येन मुखं चोरितं स्वमर्थं प्रतिग्राहयता तद्वनं कारयता पुरुषेणेवेति । विशेषणेनेव विशेष्यलाभः यथा चौर्येणपहृतं द्रव्यं पुनस्तस्मा एवार्पणमशुहृन्विमाननां जनयति तथेत्यर्थः । क्वचित् मुष्टं स्वमर्थम् ? इति षष्ठः । तदा चरितमित्यर्थः । एवमपराधेनः कन्यादानेन संतोषार्थं प्रवृत्तस्य स संतोषो नास्ति । परं विमानना । लक्षणानौंपादाद्विषमालंकारः । एकेवशब्दवाक्यार्थोपमान उपमन्येति (?)। स्युसिये इति छेकडूयनुम्नसौ च । तृतीयोपजातिर् न्द्रवद्रोपेन्द्रवज्ञयोः । प्रत्ययजनकं विश्वासजनकं प्रतिवचनमुत्तरम् ।


स्वकृतकीर्तिकलंककारणभूतां पुत्रं त्वया कृताभिमर्शां कृतसंस्पर्श कुतसंग्रहणामित्यर्थः । अनुमन्यमानः अनायासेननुहृवरप्राप्तिर्जातिति बहुमन्वानः । मुनिः मननान्मुनिरिति सार्वकालिकात्मस्वरूपमननैन लोकवृत्तान्तानभिज्ञः काश्यपः । नामावधारणे मुनिरेवेति यावत् । विमान्यः जसदृत्त इतेि तिरस्कार्यः। विमान्यतायां हेतुमाहू-मुत्रमित्यादिना। सुष्टं चोरितं न तु स्वारसिकया दत्तम् । स्वं स्वकीयं न तु परकीयम् अर्थम् । अर्थो बहिश्चरा: प्राणाः ” इति न्यायेन त्यागभोगगेष्टापूर्तादकारणहेतुभूतं धनं प्रति ग्राहयता ‘ देही देहमपि वात्रागतम् ” इत्यभिधानाद्विलंवे सति समुचितकालदेशद्रव्यातिक्रमाधिया दानरूपेणगीकारचता धनिना दस्युरिव बहुबिधदंडार्हश्चोर इव चैन मुनिन  शकुन्तला--( अपवार्य ) इमं अवत्थन्तरं गदे तारिसे अणु राए कि व सुमराविदेण । अत्ता दाण में सअणओ त्ति चबासिद्धे एदं । ( प्रकाशम् ) अजउत्त, ( इत्यर्थोक्ते ) संसइदे दाणिं परिणहा ण एस समुदाआरो । पौरव, ण जुत्ते णाम दें तह पुरा अस्समः यदे सहावुत्ताणहिअअं इमं जणं समअपुव्वं पतारों ईदिसेहि अक्खरेहिं पचचक्खिटें । [ इदमवस्थान्तरं गते तादृशेऽनुरागे कि व स्मारितेन । आत्मेन में सूचनय इति व्यवसितमेतत् आर्यपुत्र, संशयित इदानीं परिणये नैष समुदाचारः । परख, नं युक्तं नाम ते तथा पुराश्रमपदे स्वभावचानहृदयमिमं जनं समय पूर्व प्रतायैदृशैरक्षरैः प्रत्याख्यातुम् ।


मध्यमपदलोपी समासः । इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मृतेन । आमैदानीं शौचनीय इति व्यवसेतमेतत् | आर्यपुत्र इत्य घृक्ते । संशयित इदानीं नैष समुदाचारः । पौरवेति राजवंश उत्पन्नो राजेत्यत्यन्तवघनचातुरीं धत्ते | न युक्तम् । नामेति कुत्सायाम् । ‘ नाम प्राकाश्यसंभाव्यबोधोपगमकुत्सने' इत्यमरः । तथा पुराश्रमपदे स्वभावो तानह्यमित्यनेनात्मनोऽतिमुग्धवं तेन च परवश्चनानभिज्ञत्वं पराभजः नविवेकशून्यत्वं ध्वनितम् । इमं जनं समयपूर्वे संकेतपूर्वम् । गान्धर्वेण विवहेनेत्यर्थः । `गान्धर्वः समयान्मिथः ? इति स्मरणात् । अथ च सम यपूर्व शपथं कृतवानसीत्यर्थः। अथ च समयपूर्व कालनियमपूर्वं निच सुरदिनमध्ये पञ्चदिनमध्ये वा पुरुषः प्रेष्यत इति प्रकारेण । अत एव वक्ष्यति--एकैकमत्र दिवसे, दिवसे मदीयं नामाक्षरं गणय गच्छास


पात्रीकृतः दानाहंकृतः । `वामिति विशेष्यपदानुपादानात् कुतनजननाम चरणायोग्यत भिप्रायः । स मुनिरिति संबंधः । अज उत्तेत्यदि । पैरेवेति । तत्कृतकृतन्नघ योग्यवर्णनाविस्तरसंरंभेण फणेतिः । तव कुप्रसिद्धा विश्वसनीयस्य तादृश नुरागप्रकटनवतस्तवेते यावत् । न युक्तं कृतज्ञतया विश्वस्तजनर्वचनं न योग्यम् । नामवधारणे । युक्तमेव न भवतीत्यर्थः । पुरेति कालज्ञापमेन चिरविश्यैषादन्तः धुरत्र यो मां विस्मृतोऽसीति ज्ञष्यते । आश्रमपदे शान्तिप्रधान ग


 राजा--( कर्णं पिधाय ) शान्तं पापम् ।

व्यपदेशमाविलयितुं किमीहसे जनामिमं च पातयितुम् ।
कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥ २१ ॥


यावदुन्तम् । तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्य तीति ॥१ इति । अथ च समयपूर्व ज्ञानपूर्वं प्रतार्य । ‘समयाः शपथाचार कालसिद्धान्तसंविदःइत्यमरः । ईदृशैरतिक्रूरैर्हदयविद्रक्षरैः प्रय ख्यातुं न युक्तमिति संबन्धः । इदं प्रत्याख्यानं वाङ्मात्रेण, न तत्त्वतोऽग्रे परिग्रहस्य वक्ष्यमाणत्वादिति रतेरनुसंधायककवैरक्षरैरित्युक्तिः । व्यपदे शमिति । व्यपदिश्यतेऽनेनेति व्यपदेशः । कुलुमाविलयितुं मलिनीकर्तु


द्वेषादिरहितजनावस्थानयोग्यधर्मारण्ये दुष्टजनप्रवेशानर्हविशेषप्रदेश इतेि यावत् । प्रवेशद रज्यपरिपालनभ्रमणका नही तु पार्थिवः ” इति न्यायेन कामवशविकिचित्कृतकार्यं ‘‘ राजान बहुवद्भः * इति न्यायेन पुनः पुनः त्रीरत्नसंपद्विस्तृतं भवति । बरयुवतिप्रायमुत्रिताविलक्षण बिशेषभदेशे कृतकार्यं कथं विस्मृतमिति भावः । मिस्मरणकार्यं खस्या एव दोष इत्याह भावौतानहृदयमिति । अरण्यवासित्वादनागरिकतया परकृतवचननभिज्ञत्वेन नद्वचन अवणमाश्रविवस्ताचित्तम् । अनेन तदोः स्वस्याः कृन्याभावसुलभमप्रागल्भ्यं प्रति निन्दा व्यन्यते । जनमितेि । अरण्ये मृगजातिभिः सह वर्धिततया तादृग्विदग्धनागरिक- सभावात् । जननमात्रफलकं जनमित्येकवचनेन विविले एक किन मामेव वंचितवानसि न तु मत्पित्रादन् वंचयित्वा तदनुज्ञया मां परिणीत वानसौति भावः । किंच ' जनशब्देन स्वदपारग्रहेण इतः परं भर्तृपितृकुलभ्रष्टता स्वस्याः सूच्यते । समयपूर्वे संकेतपुरःसरं प्रतिज्ञापूर्वं च । अनेन यद्यपि त्वत्कृतवंचनाफळस्य अत्र लोके राज्ञस्तव शिक्षकजनो न विद्यते तथापि शपथपरित्यागजनितदौपस्य परलोकानुभव’तिर्नास्ति किमिति व्यज्यते । प्रतार्यं प्रकर्षेण वंचयित्वा । प्रतारणायाः प्रकर्षकथनेन विश्लेषासहानुरागप्रकटनार्थम् एकैकमत्र दिवसे दिवसे मदीयं नामाक्षर मित्यादि बहुव्रीविलक्षणपद्महिषभावकरण ‘‘ परिग्रहबहुत्वेऽपि वै प्रतिष्ठे कुलस्य मे ’’ इत्यादिरजकथितबद्धाभ्यासकरणखंचनावचनचातुरी सूच्यते । सांप्रतमिदानीं स्खप्रयोजने निवृत्ते सतीत्यर्थः । ईदृशैः लोकविलक्षणतनींतनानुरागप्रट्नानुचितैरसैरैः ममॅव्यथा कारिवर्णसमूहैः प्रत्याख्यातुं निराकर्तुं न युकमिति संबंधः । व्यपदेशमित्यादि । व्यपदेशं परदाराभिमर्शविमुखकुळप्रसिद्धिम् । आविलयितुं कलुषयितुम् । इमं जन मात्मानं पातयितुं पतितं कर्तुं किमीहसे इच्छासि किमिति प्रश्ने । तत्र दृष्टान्तमाह


 शकुन्तला-होदु । जइ परमत्थतो परिपारेिग्गहसंकिण तुए एब्बे वनं पउत्तं ता आहिण्णाणेण इमिणा तुह आईकं अवणइस्सं । [ भवतु । यदि परमार्थतः परपरिग्रहशकिना त्वयैवं वसुं प्रवृत्तुं तभिज्ञानेनानेन तवाशंकामपनेष्यामि ]
 राजा-उदारः कल्पः ।
 शकुन्तला–( मुद्रास्थानं परामृश्य ) हदें । अंगुलीअअसुण्णा में अंयुी । ( इतेि सविषादं गैौतमीमवेक्षते ) [ हा धिया । अंगुली यकशून्या मैंऽशुलिः ॥
 गौतमी-थूणं दे सकावदारभन्तरे सचीतिस्थसलिलं बन्द- माणए पब्भी अंगुलीअमी । [ नूनं ते शक्रावताराभ्यन्तरे शुची तीर्थसलिलं वन्दमानायाः प्रभ्रष्टमंगुलीयकम् ।
 राजा- ( सस्मितम् ) इदं तत्प्रत्युत्पन्नमति वैणमिति यदुच्यते।


मिमं जनं मछुक्षणं पातयितुं च पतितं कर्तुं किमीहसे चेष्टसे । त्वं विहा गमनेनैव पतितासीति णिचा ध्वन्यते | कूलंकषा तटसंघर्षणी सिन्धुर्नदी प्रसन्नमम्भो यथा कछुषयाति तप्ततुं च पातयति तद्वदित्युपमा । अत्र भिनेअपि गुणक्रिये अतिशयोक्याभेदेनाध्यवसिते । अत्रोपमेये प्रकृत मन्तर्वर्तिविशेषणमस्येवेत्युपमाने कूटंकषेति विशेषणम् । पूर्वार्धे गुणक्रि ययोः समुच्चयः ‘दोषप्रसंख्यापनयादपवादर स्तु स स्मृतः ’ इति । भवतु पूर्यताम् । अनेन दोषप्रख्यापनेनेत्यर्थः। यादिं परमार्थतः परपरिग्रहशांहून स्वयैवं वचनं प्रवृत्तम् । ता तर्लभिज्ञानेन मुद्रिकारूपचेद्धेन तवाशङ्कमपने ध्यामि । उदारः कल्पो मुख्यो न्यायः।‘ कल्पः स्यात्प्रत्यये न्याये ’ इति विश्वः । महान्विश्वसो वा । हा धिङ् । अंगुलीयकन्या मेंऽगुलिः । नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं घन्मानायाः प्रभ्रष्टमंगुलीयकम् । प्रत्युत्पन्नमति त्रैणं स्त्रीसमूह इतेि यज्जगाति प्रसिद्धं तदिदं पार्डिश्यमा


कूलंकषेवेत्यादि । कूलंकषा उकूलप्रवाहा मर्यादालंधिनीति यावत् । उदारः कपः उन्नतः प्रकारः । संदेहापनयनक्षम इत्यर्थः । त्रैणं व्रजातिः । प्रत्युत्पन्नमतिः प्रत्युत्पन्न तात्कालिका मतिर्यस्य तत्तथोकम् । यदुच्यते लोकैरिति शेषः तद्ययनुभवात्


 शकुन्तला-एथ दाव दिहिण दंसिदं पत्तणं । अवरं दे कहिस्सं । [ अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथ यिष्यामि ।

 राजा-–श्रोतव्यमिदानीं संवृत्तम् ।

 शकुन्तला--णं एकस्सि दिअहें गोमालिआमडवे पाठिणीप तभाअणगी उअअं तुह हत्थे सण्णिहिदं आसि । नन्वेकस्मि न्दिवसे नवमालिकमण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् ।

 राजा-मस्तावत् ।

 शकुन्तला-तक्खणं स मे पुत्तकिदओ दीझपङ्गो णाम मिअ पोदओ उवडिओ । तुएं अअं दाव पढभं पिअ त्ति अणुअपिणा उपच्छान्ददो उअएण । ए उणें दे अपारचआदो हथव्भासं उव गदो । पच्छा तसिंस एव्व मए गहिदे सलिले गेगें कि पणओ तदा तुम इत्थं पहसिबो सि । सव्व सगन्धसु विस्ससिदि । दुवेवि


नम् । ६ तात्कालिकी तु प्रतिमा प्रत्युत्पन्नमातेः स्मृता ' इति प्रत्युत्पन्न- रूक्षणं सुधाकरे । अत्र तावद्विधिना दांतं प्रभुत्वम् । अपरं ते कथयेि ष्यामि । श्रीतव्यमिदानीं संवृत्तामिति भवतीभिः कल्पनासहनं विधाया लीकवचनोपन्यासः कर्तव्यः । स चेन्मया न श्रोतव्यो ममाश्रवणापराध एष स्यादिति प्रयोजनाभावेऽपि श्रवणमात्रे विधिरिति संवृत्तपद्योत्यम् । नन्वेकस्मिन्दिवसे नवमालिकाभण्डथे नलिनीपत्रभाजनगतमुदकं तच


सत्यमिति यावत् । अनेन प्रत्युत्पन्नमतिर्नाम सन्ध्यंगमुक्तमित्यवगन्तीयम् । तदुक्तं २४ तात्कालिका मतिर्या स्याद्धे परिजिहीर्षया प्रत्युत्पन्नमतिः सा ” इति । श्रोतव्य मित्यादि । इदानीं सांप्रतं संदेहापनयनार्थं दर्शनीयांगुळीयकं गते भेतव्यं श्रोतुमुचितं संवृत्तं संपादितम् । णमित्यादि । नन्विति संवधने । एकदिवसे एकपदेन पुनरपि


एत्थ आपणआ त्ति । [ तत्क्षणे स मे पुत्रकृतक दीर्घापाङ्ग नाम मृगपोतक उपस्थितः। त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनो पच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्यासमुपगतः पश्चा- तस्मिन्नेव मया यहीते सलिलेऽनेन कृतः प्रणयः । तदा वमित्थं प्रहसितोऽसि । सर्वः सगन्धेषु विश्वसति । द्वावप्यत्रारण्यकावितेि]

राजा--एवमादिभिरात्मकार्यनिर्वर्तिनीनाममृतमयवाङ्मधुभिरा-

कृष्यन्ते विषायिणः ।

गौतमी- महाभाअण अरुहसि एव्वं मन्तिहुँ । तवेवणसंब-

इढिदों अणभिण्णो अअं जणो कइवस्स । महाभाग, नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोंऽनभिज्ञोऽयं जनः कैतवस्य ॥

राजा--तापसवृद्धे,

स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत
या प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात्स्वमपत्यजा
तमन्यैर्दिजैः परभृताः खलु पोषयान्ति ॥ २२ ॥


हस्ते संनिहितमासीत् । तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृग- पोतक उपास्थितः । त्वयायं तावत्प्रथमं पिबन्वित्यनुकम्पिनोपच्छन्दि तोऽभ्यर्थित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्यासमुपगतः। पश्चा तस्मिन्नेव मया गृहीते सलिलेऽनेन कुतः प्रणयः प्रीतिः । तदा त्वामिस्थं प्रहसितोऽसि । सर्वः सगन्धेषु स्वयूथ्येषु विश्वसिति । द्वावप्यत्रारण्यका विते । आत्मकार्यस्य निर्वर्तिनीनां संशदिकानां रूमानाम् । विशेषणा देव विशेष्यप्रतिपत्तेः । अत्रानृतमयवाङ्मधुभिरियेकदेशविवर्ति रूप कम् । तेन तासां रुतात्वं विषयिणां कामुकानां भ्रमरत्वं रूप्यत इति ज्ञेयम् । महाभाग, नार्हस्येवं मन्त्रयितुं वक्तुम् । तपोवनसंवर्धितोऽनभि ज्ञोऽयं जनः कैतवस्य । स्त्रीणामिति । स्त्रीणां मध्येऽमानुषीषु मानुषव्य


दिवसान्तरसंसर्गाभावान्भां विस्मृतोऽसीति ज्ञाग्रते । दिवसपदेन सर्वावयवप्रदर्शन त्वमेवेति निश्चितज्ञानात् त्वत्रिकटगमनं न तु पुरुषान्तरसाम्यभ्रान्त्यागमनमिति भावः । द्वावप्यारण्यकाविति भृगसाम्यकथनेन नागरिकौढाँगनासंसर्गाभावात् संभोगसमये स्खस्याः कामतंत्रसामर्थाभावान्नायकारब्धशुगारः सूचितः । एवमित्यादि। योषितां न तु शकुन्तलाया एकस्या एव भवति । विषयिणः विषयशीलः । खणामित्यादि ।

शकुन्तल-( सरोषम् ) अणज्ज, अत्तणो हिअआणुमाणेण

तिरिक्तासु । वञ्चकवागादिव्यवहाररहितास्वपीति भावः । तास्वप्यशिक्षितपटुत्वमनुपदिष्टकौशलम् । अर्थाद्वंचने सम्यग्दृश्यते । तेनैतिह्यभ्रान्तिज्ञाननिरासः । याः प्रतिबोधवत्यो वागादिव्यवहारकुशलास्ताः किमु वक्तव्याः । तासामनुपदिष्टवञ्चकत्वकौशलं किमु वक्तव्यमित्यर्थः । खलु ह्यर्थे । परभृता इति साभिप्रायम् । कोकिलाः । ’ वनप्रियः परभृतः इत्यमरः । अन्तरिक्षगमनादाकाशगमनादुड्डयनात्प्राक्स्वं स्वीयमपत्यजातमर्भकसमूहम् । ‘ जातं जात्यौघजन्मसु इति विश्वः। अन्यैर्द्विजैः पक्षिभिः प्रसिद्ध्या काकैः परितः सर्वप्रकारेण पोषयन्ति । अत्र शकुन्तलालक्षणे विशेषे प्रस्तुते स्त्रीसामान्यस्योक्तत्वादप्रस्तुतप्रशंसा । किमुतेत्यनेन व्यतिरेकः । अर्थान्तरन्यासोऽपि । तयाः त्यः इति मनामन्यैरािति छेकवृत्यनुप्रासाः । अनेन हेत्ववधारणनामकं संध्यन्तराङ्गमुपक्षिप्तम् । तल्लक्षणं तु रसार्णवसुधाकरें -- निश्चयौ हेतुनार्थस्य मतं हेत्ववधारणम् इति । अत्र परभृतादिदृष्टान्तेन त्रींल्वेन हेतुना मृषाभाषणलक्षणस्यार्थस्य निश्चयाद्धेत्ववधारणम् । अनार्य, आत्मनो ह्यनुमानेन पश्यासि जा-


स्त्रीणां कामिनीनां न तु शकुन्तलाया एकस्या एव भवति । अशिक्षितपटुत्वम् नासंवत्सरवासिने ब्रूयात् ” इति न्यायेन यस्य कस्यचित्तविद्यानिपुणजनस्य सहवासशुश्रूषादिभिरुपदेशराहित्येन पटुत्वं गूढवंचनाकरणप्रकारचातुर्यस्य अमानुषीषु मनुष्यजातिव्यतिरिक्तेषु तिर्यग्जातिष्विति यावत् । वहुवचनेन देयादेकत्र दृष्टमिति संभावनया सर्वत्र नारोप्यते किंतु बहुस्थलेष्विति भावः । संदृश्यते सम्यक् स्फुटं समस्तलोकसंमत्या विभाव्यते । वर्तमानव्यपदेशेन पुराणादिप्रसिद्धिर्न भवति किंत्वद्यापि दृश्यत इति भावः । याः स्त्रियो बोधवत्यः । ‘‘ ज्ञानं विशेषो गदितो नराणाम् ” इति न्यायेन ताः प्रत्यशिक्षितकैतवपाटी यस्य इत्यत्र किमाश्चर्यमित्यर्थः । अप्रसिद्धं प्रसिद्धेन बोधनीयमिति न्यायादुक्तार्थं दृष्टान्तेन विशदयति । परभृताः कोकिलाः खं स्वकीयम् अपत्यजातं पुत्रसमूहम् । अन्यैर्द्विजैरभ्यजातीयैः पक्षिभिर्वायसैरित्यर्थः । पोषयन्ति वर्धयन्ते । खलु प्रसिद्धौ । अनेन सर्वलोक उक्तः । अत्र विच्छेदारकबीजानुगुणं काव्यार्थोऽपि द्योत्यते । तथाहि--अंतरिक्षगननात् प्रादुश्यन्तस्य मातलिना सह स्वर्गगमनापूर्वं स्वमपत्यजातं स्वकीयं पुत्रम् । अन्यैर्द्विजैर्मारीच्यादिभिः पोषयन्तीति प्रकृतार्थो न परित्यज्यते । अत्र हेत्ववधारणं नाम सन्ध्यंगमुक्तम् । उक्तं च – " निश्चयो हेतुनार्थस्य मतं हेत्ववधारणम् " इति । अत्र परभृतनिदर्शनोपबृंहितेन स्त्रीत्वहेतुना मृषाभाषणलक्षणस्यार्थस्य निश्चयाद्धेत्ववधारणं भवति । अणज्जेति । अनार्येति स्वप्र २१ पे[१]क्खसि। को दाणिं अण्णो धम्मकंचुअप्पवेसिणो तिणच्छण्णकूवीववमस्स तव अणुकिदिं पडि[२]वदिस्सदि। [अनार्य, अत्मनो हृदयानुमानेन पश्यसि । क इदानीमन्यो धर्मकंचुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ]
 राजा-(आत्मगतम् ) संदिग्धबुद्धिं सां कुर्वन्नकैतव इवास्याः कोपो ल[३]क्ष्यते । तथ ह्यनया

मय्येव विस्मरणदारुणचित्तवृत्तौ
 वृत्तं रहः प्रणयमप्रतिपद्यमाने ।
भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या
 भीग्नं शरासनमिवातिरुषा स्मरस्य ॥ २३ ॥


नासि। यथा तव हृदयं वञ्चनापरं तथान्यहृदयान्यपि जानासीत्यर्थः । क इदानीमन्यो धर्मकंचुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते । कोऽन्य इति संबन्धः । मयीति । अतिरुषाधिकक्रोधयााधकक्रोधेन वात एवातिलोहिताक्ष्यात्यारक्तनयनया । विगतं स्मरणं यस्य तदत एव दारुणं याच्चित्तं तेन वृत्तिर्वर्तनं यस्य तस्मिन्नत एव रह एकान्ते वृत्तं संपन्नं प्रणयं स्नेहमप्रतिपद्यमानेऽजानाने । मय्येवेत्येवकारेण कोपस्य तात्त्विकत्वं ध्वनितम् । कुटिलयोर्वक्रयोर्भ्रुवोर्मेदाद्भ्रूभङ्गात्स्मरस्य शरासनं कंदर्पस्य धनुर्भग्नमिवेत्युत्प्रेक्षा । अनया च तथास्याः कोपो यथोपायशतै-


चोजनमात्रपरतया परदुःखकरणशीलेति संरंभसंवधनम् । यस्तु कुटिलाशयः स स्वभिन्नमपि समस्तजनं कुटिदमेव पश्यतीत्यर्थः । इदानीं सांप्रतं स्वप्रयोजने निवृत्ते सतीत्यर्थः । धर्मकंचुकप्रवेशिन इत्यनेन लोकविश्वासार्थं परस्त्रीपरिग्रहविमुखताभिनयः क्रियते अन्तरधर्मो नास्तीति भावः । तृणच्छन्नकूपोपमस्येनेन विश्वस्तजनघातार्थं प्रच्छन्नदुःशीलत्वं सूच्यते । संदिग्धबुद्धिमित्यादि । अकैतव इव अकृत्रिम इव । मयीति । विस्मरणदारुणचित्तवृत्ता विस्मरणेन कृतकार्यस्य संस्कारपर्यन्तं स्मरणराहित्येन दारुणा परस्त्रीस्पर्शदोषवुध्धा संग्रहणरूपदयाकरणचैमुख्येन कूरा चित्तवृत्तिर्यस्य स स्थोक्तः तस्मिन् । अनेन यद्यपि मम संग्रहेच्छा विद्यते । तथापि चित्ते तु तद्विषये स्वारसिकवृत्तिर्नं भवतीति व्यज्यते । रहोवृत्तं रहःसंजातं तनयं प्रेमविषयमप्रतिपद्यमाने (प्रकाशम्) भद्रे, प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न लक्ष[४]ये।
 शकुन्तला-सुट्ठु दाव अत्त सच्छन्दचारिणी किदह्मि। जा अहं इमस्स पुरुवंसप्पच्चएण मुहमहुणो हिअअट्ठिअविसस्स हत्थब्भासं उवगदा । (इतेि पठान्तेन सुखमावृत्य रोदेति) सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि । याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयस्थितविषस्य हस्ताभ्यासमुपगता ]


रप्यनुनयिमाना कोपं न मुञ्चेत् । तावत्कामस्य शरासनभङ्गमेव व्यर्थत्वमेतदनुनयाभाव (?) इति तात्विकः कोप इतेि वस्तु ध्वन्यते । अनेन च स्थायिन्या रतेरनुसंधानम् । काव्यलिङ्गम् । रणरुणेति वृत्तौ वृत्तमिति प्रपेति स्मरस्येति छेकानुप्रासो वृत्त्यनुप्रासश्च । वृत्तं तयोर्वसन्ततिलकम् । 'शकुन्तला-सरोपम्' इत्यादिनैतदन्तेन संफेटं नामाङ्गमुपक्षितम् । तल्लक्षणम्-'रोषप्रथितवाक्यं तु संफेटः परिकीर्तितः' इति । इदं वञ्चकत्वम् । सुष्टु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशे प्रत्ययो विश्वासस्तेन मुखमधोर्हृदयास्थितविषस्य । तत्र सत्वं द्योतयितुं स्थितपदम् (?)। विषस्येत्यनेन कापट्यनिगरणादातिशयोक्तिः । हस्ताभ्यासं करसमीपमुपगता । विशेषणद्वयेनातिखलस्वभावत्वं ध्वनितम् ।


मयि विषये कुटिलयोर्धक्रयोः भ्रवोर्भेदाद्भंगात् अनेन भ्रुबोर्बकताया उपरिभेदकथनेनाकृत्रिभतयातिशयितकोपो व्यज्यते । यथाह भरतः "उत्क्षेपः पातनं चैव त्रुकुटी चतुरं भ्रुवोः । कुंचितं रेचितं चैव सहजं चैव सप्तधा ॥ भ्रुवोः सहज़विक्षेपाद्घ्रुकुटी परिकीर्तिता । क्रोधस्थानेषु दीप्तेषु योजयेद्भ्रुकिटीं वुधः ॥" इति । भ्रुवोर्मृलमुत्क्षेपात् भ्रुफुट्याः कुटिलत्वं भवतीत्यर्थः । अतिलोहिताक्ष्येति । अत्यर्थमरुणाक्ष्या । अनेन कृत्रिमश्चेत्कोपस्तदाक्षणोरतिलोहितत्वं न भवतीति प्राक्तनदृष्टान्तापह्नवजनितरोपेणातिलोहितस्वं भवतीत्यकुत्रिम एव कोप इति व्यज्यते । अतिरुपा अत्यर्थकोपतया स्मरस्य स्त्रीपुरुपयॉः संयोजकारणभूतस्य शरासनं प्रधानसाधनं चापं भग्नमिव त्रुटितमिव यद्यपि स्वविपयकाकृत्रिभानुरागातिशयातिरस्कारजनितकोपजनितधूभेदो। न वस्तुसौंदर्यवलात् स्वीकरणाशाजनकस्तयापि प्राक्तनवृत्तान्तस्मरणाभावेन परस्त्रीबुद्ध्या च तद्दर्शनजनितविकारो न जायत इति भावः । भद्र इत्यादि । भद्रे प्रसन्नमुखी प्रथितं प्रसिद्धं चरितम् । तथापि प्रसिद्धमपि

 शार्ङ्गरवः--इत्थमात्मकृतं परिह[५]तं चापलं दहति ।
  अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः ।
  अज्ञातहृदयेष्वेवं वैरोभवति सौहृदम् ॥ २४ ॥

 राजा--अयि भोः, किमत्रभवतीप्रस्ययादेवास्मान्संयुत[६]दोषाक्षरैः क्षिगुथ ।


आत्मकृतं चापलं कदाचिद्दैवानुकूल्येन सम्यक्तया परिणमति । परिहतं केनाचद्रुद्धं सद्दहति । अत इति । अतः कारणात्संगतं भैत्र्यं परीक्ष्य कर्तव्यम् । रह एकान्ते संगतं विशेषात्परीक्ष्य कर्तव्यमित्यनुषज्यते । अत्र शकुन्तलादुष्यन्तयोः संगतस्य कर्तव्ये विशेषे प्रस्तुते यत्सामान्यसंगतमात्रस्याप्रस्तुतस्य वचनं साप्रस्तुतशंसा । अज्ञातहृदयेषु व्यवहारादिनाज्ञातचित्तेषु सौहृदं मैत्री वैरीभवति । अयं वैधर्म्येणार्थान्तरन्यासः अत्रभवतीप्रत्ययात्पूज्याविश्वासात् । भवद्धियेयं पूज्यैव । तद्वचनविश्वासादित्यर्थः। एवकारेण युक्त्यन्तरनिरासः । अस्मानितिं पुरुवंशोत्पन्नान्सर्वधर्मनिष्ठानिन्द्रादिभिरप्युपचारेण गृहीतानित्यादिधर्मशतं व्यनक्ति । सम्यक्, न त्वीषत् । युतः संपृक्तः, न तु स्मृष्टः दोषो येषु तान्यक्षराणि येषु वचनेषु


इदं परिणयरूचरतं न लक्ष्यते न केनापि प्रमाणेनावगम्यते अस्य पुरुवंशस्य । इत्थमित्वादि । इत्थननुभूयमानप्रकारेण आत्मकृतं पित्राद्यनुज्ञां विना स्वकृतं चापम् अनालोचितं कर्म । अत इति । अतः उक्तकारणात् कर्तव्यं कर्तुमर्हं कर्म परीक्ष्य इष्टजनैः सह्यलोच्य कर्तव्यम् । रहःसंगतम् एकान्तसंगमः विशेषात् विशेषेण परीक्ष्य अनेन सभमिद योग्यमयोग्यं वेति नानाप्रकारेण चिचर्य कर्तुमुचितम् । वैपरीत्ये दोषं दर्शयति अज्ञातहृदयेषिति । "शीलं संवसता ज्ञेयं तच्च कालेन भूयसा" इत्यनवगतस्वरूपेषु जनेषु सौहृदं मैत्रम् । एवं राजनि यथा तथा वैरी भवति तदप्यहितं भवतीत्यर्थः । अयीत्वादि । अत्रभवती प्रत्ययादेव शकुन्तला वचनमात्रविश्वासादेव । एवकारेण वचनाविश्वासमात्रमेवान्यत् ज्ञापकप्रमाणान्तरं नास्तीत्वर्थः । क्षिणुथ नाशयथ दूपयथेत्यर्थः । अनेन ओजो नाम सन्ध्यंगमुक्तम् । तदुक्तं "अधिक्षेपाद्यसहनमोजः प्राणात्ययेष्वपि " इति । अत्र राज्ञा शार्ङ्गवाधिक्षेपासहनमयि भो इत्याक्षेपोक्त्या प्रकटीकृतम् ।  शाङ्गरवः-( सासूयम् ) श्रुतं भवद्भिरधरोत्तरम् ।

  आ जन्मनः शाठ्यमशिक्षितो य-
   स्तस्याप्रमाणं वचनं जनस्य ।
  परातिसंधानमधीयते यै-
   र्विद्येति ते सन्तु किलाप्तवाचः ॥ २५ ॥

 राजा-भोः सत्यवादिन्, अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसंधाय लभ्यते ।


तैर्वचनौरिति विशेष्यमुन्नेयम् । क्षिणुथ हिंस्य । अधरं हीनं च तदुत्तरं चाधरोत्तरम् । स्वदोषाज्ञानादिति भावः । अधरमधस्तात्प्रथममिमुत्त रमूर्ध्वं न किंचिदिष्यतीति (?) न ज्ञायत इति भावः । 'अधरो दन्तवसनेऽनूर्ध्वे हीनेऽधरोऽन्यवत्' इति विश्वः । आ जन्मन इति । यो जनआ जन्मनो जन्मन आरभ्य शाठ्यं धौर्त्यमशिक्षितः । स्वेनान्येन वेत्यर्थः । तस्य जनस्य वचनमप्रमाणम् । यैर्जनैः परातिसंधानं परवञ्चनं विद्येति विद्यरूपत्वेन । यथा विद्या सद्वरोः सत्संप्रदायासुदिने मङ्गलपूर्वकमनध्यायनिवृत्तिपूर्वकं नियतात्मभिस्तद्वदियमप्यधीयते । न तु शिक्ष्यते त आप्तवाचः सत्यवचनाः । किलेति संभावनायाम् | 'किलशब्दस्तु वर्तायां संभाव्यानुनयार्थयोः' इति विश्वः । अत्र शकुंतलावचनं सत्यं दुष्यन्तवचनमसत्यमिति विशेषे प्रस्तुते यत्सामान्यवचनं सा वैधर्म्येणाप्रस्तुतप्रशंसा । अथवाप्रमाणमापि तु न, त आप्तवाचोऽपि तु नेति काकौ साधर्म्येणैवाप्रस्तुतप्रशंसा । रूपकानुप्रासौ च । चतुर्थ्युपजातिः । 'शाकुन्तला-सुष्टु दाव' इत्ये ( त्याद्ये ) तदन्तेन द्रवो नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-'गुरुव्यतिक्रमो यस्तु विज्ञेयोऽथ द्रवस्तु सः’ इति । सत्य बादिन्निति सोलुण्ठनम् । अतिसंधाय वञ्चयेित्वा 'राजा-भोः सत्यवा-


श्रुतमित्यादि। अधरोत्तरम् । अधरस्य निकृष्टस्य ममेत्यर्थः । उत्तरं प्रतिवचनम् । भवद्भिरिति बहुवचनमुपहासे । अहं निकृष्टस्त्वमेत्र पूज्य इत्यर्थः । तदेवाह-आजन्मन्-इत्यादि । आजन्मनः जन्मारभ्य शाठ्यं परवंचनाचातुर्यम्। अशिक्षितः अरण्यवासित्वाद्दुष्टजनसहवासाभावादनुपदिष्टः तस्य तादृष्रागद्वेषादिरहितस्य जनस्यानागरिकस्य वचनमप्रमाणं प्रमेयनिश्चायकं न भवति । परातिसंधानं 'रत्नहारी तु पार्थिवः' इति न्यायेन परवंचनं यैर्विद्येति जीवनोपायशास्त्रमिति अधीयतै पठ्यते ते किल त एव आप्तवाचः प्रमाणगिरः संतु भवंत्वित्यर्थः । सत्यवादिन्निति । तपस्वी भवान् कथमसत्यं वदतीत यावत् ।  शार्ङ्गरवः-विनिपातः ।

 राजा-विनिपातः पौरवैः प्रार्थ्यते इति न श्रद्धेय[७]म् ।

 शा[८]रद्वतः-शार्ङ्गरव, किमुत्तरेण । अनुष्ठितो [९]गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । ( [१०]राजानं प्रति )

तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ २६ ॥

गौतमि, गच्छाग्रतः । ( इति प्रस्थिताः )

 शकुन्तला-कह इमिणा किदवेण विप्पलद्ध ह्मि । तुह्मे वि मे परिच्चअह । (इत्यनुप्रतिष्ठते) [कथमनेन कितवेन विप्रलब्धास्मि । यूयमखि मां प[११]रित्यजथ]


दिन्' इत्यादिना 'न श्रद्धेयम्' इत्यन्तेनाक्षमा नाम नाट्यालंकारो निबद्धः । तल्लक्षणम्- 'अक्षमा सा परिभवः स्वल्पोऽपि न विषह्यते' इति । तदिति । तदित्युपसंहरे । एषा भवतः कान्ता । एनां त्यज वा गृहाण वा । अर्थान्तरन्यासमाह-उपेति । सर्वतोमुखी त्यागे ताडने स्वीकारे दान इत्यादि । तेन त्वं यथेच्छं कुर्विति भावः । कथमनेन कितवेन धूर्तेन विप्रलब्धास्मि । यूयमपि मां त्यजथ । तस्कथमिति


तावत् सर्वे सार्वकालिकपरवंचननैपुण्यमेव जीवनोपायविद्येति यदुक्तं तत्सर्वंभित्यर्थः। अस्माभिरिति बहुवचनेन स्वस्य नागरिकतया प्ररोक्तिवैचित्र्याभिज्ञनानैपुण्यं सूच्यते । वयं तादृशा एव भवाम् इति भावः । इमामनागरिकां तापसीं अतिसंधाय स्वप्रयोजनार्थंग्रतार्य । इमामित्यगेन शकुन्तलाव्यतिरक्तस्थलेऽन्यत्र यत्किंचित्प्रयोजनवशाद्राज्ञो मम परातिसंधानं संभावयन्तु प्रकृते तदभावात् प्रतारणया किं प्रयोजनमिति यावत् । विनिपातः घर्मप्रजार्थे स्वोकृतसहधर्मचारिणीपरित्यागेन प्रत्यवायः गुरुनिदेशः काश्चपाज्ञा । तदित्वादि । कान्ता । सहधर्मचारिणी । दारेषु कलत्रेषु सर्वतोमुखी गुणदोषाभ्यामुपादेयहेयादिनानारूपा प्रभुता स्वातंत्र्यम् उपपन्ना । प्रत्यवायाभावाद्युक्ता हि धर्मशास्र गौतमी-(स्थित्वा) वच्छ सङ्गरव, अणुगच्छदि इअं क्खुणो करुणपरिदेविणी सउन्दला । पच्चादेसपरुसे भत्तुणि किं वा में पुत्तिआ करेदु[१२] । [वत्स शार्ङ्गरव, अनुगच्छतीयं खलु नः करुणपारिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ]

 शार्ङ्गरवः-(सरोषं[१३] निवृत्य) पुरोभा[१४]गे, किं स्वातन्त्र्यमव लबसे ।

(शकुंतला भीता वेपते)

 शर्ङ्गरवः-शुकुन्तले,

यदि यथा वदति क्षितिपस्तथा
 त्वमसि किं पितुरुत्कलय् त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः
 पतिकुले तव दास्यमपि क्षमम् ॥ २७ ॥

तिष्ठ[१५] । साधयामो वयम् ।


संबन्धः । वत्स शार्ङ्गरव, अनुगच्छतीयं खलु नोऽस्मान्करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे निराकृतिनिष्टरे । 'प्रत्यादेशो निराकृतिः' इत्यमरः । भर्तरि किं वा मे पुत्रिका करोतु । पुरोभागे दोषदर्शिानि । 'दषैकदृक्पुरोभागी' इत्यमरः। यदीति । क्षितिपो राजा यथा वदति तथा त्वमस्युत्कुलयातिक्रान्तकुलमर्यादया त्वया पितुः किं प्रयोजनमित्यर्थः । तुः पूर्वतो व्यतिरेके । अथात्मनः शुाचि पवित्रं व्रतं नियमं वेत्सि यादे तदा पतिकुले भर्तृगृहे तव दास्यमपि क्षमं समीचीनम् ।


प्रसिद्धिरित्यर्थः । पुरोभागिनि दोपमात्रदंर्शिनि तिरस्कररूपदोषमैव गृह्णासि अपरित्यज्य भर्तृत्वगुणं न गणयसीत्यर्थः । स्वातंत्र्यं स्वच्छंदवृत्तिम् । यदीत्यादि । क्षितिपो राजा अनेन क्षितिप एव न्याय्यान्यय्यविचारणाभ्यां निग्रहानुग्रहकर्ता स एवं करोति चेद स्माभिः किं कर्तव्यमिति भावः । यथा वदति मदीयकलत्रं न भवतीति तथा त्वमसि ।  राजा–भीस्तपस्विन्, किमत्रभवतीं विप्रलभसे ।

कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ २८ ॥

 शार्ङ्गरवः-यदा तु पूर्ववृत्तमन्यसङ्गादिस्मृतो भवांस्तदा[१६] कथमधर्मभीरुः ।


हेत्वनुप्रासौ । द्रुतविलम्बितं वृत्तम् । कुमुदनीति । नापराणीत्युभयत्रैव कारार्थः । हि निश्चितं वशिनां जितेन्द्रियाणां वृत्तिर्वर्तनं परस्यान्यस्य परिग्रह आयातं वस्तु कलत्रं च तस्याश्लेषः संपर्कस्तस्मात्सम्यगतिशयेन पराङ्मुखी निवर्तनशीला । परकलत्रपराङ्मुखत्वं नापि तु तत्संपर्कपराङ्मुखत्वम्, तदापि तन्मात्रं नापि तु सम्यगिति । तेन सम्शब्दः परा मुखविशेषणतया योज्यः। 'परिग्रहः परिजने पत्न्याम्' इति विश्वः। अत्र दुष्यन्तशकुन्तलानङ्गीकारे विशेषे प्रस्तुते सामान्यवचनेनाप्रस्नुतप्रशंसा । यूर्वार्धेवैधर्म्येण भालादृष्टान्तालंकारे । अत्र पूर्वमुपमेयं पश्चात्तत्प्रतिविग्बत्वेनोपमानं निबद्धव्यमिति नायं नियमः । 'दृष्टान्तः पुनरेतेषांसर्वेषां प्रतिबिम्बनम्' इति लक्षणात् । उदाहृतं च रुचकेन--'अब्धि-


यदि तस्य भार्या न भवासि चेदसती चोदेति यावत् । तदा उत्पथया स्वकुलकलंकभूतयाऽस्मत्पथगामिन्या त्वया पितुः "पिता रक्षति कौमारे" इति न्यायेन इतः पूर्वे त्वत्पोषणैकपरस्य काश्यपस्य । किमाक्षेपे न किमपि प्रयोजनमस्तीत्यर्थः । तर्हि स एव पतिरिति निश्चितज्ञानवत्यस्यहं तेनैव तिरस्कृता चेत् किं विधेयमित्याशंक्याह-अधत्विति । अथानंतरम् । तु प्रकारान्तरमस्ति । आत्मनः स्वस्य वृत्तं चरितं शुचि युद्धम् । अव्यभिचरितमिति यावत् । "शुचिः शुद्धेऽनुपहते शृंगाराषाढयोरपि" इति विश्वः । वेत्सि भ्रमराहित्येन जानसि । दास्यमपि दासीकर्मापि क्षमं युक्तम् । येनकेनापि प्रकारेण साध्या पतिकुल एव स्थातव्यं कालान्तरे क्रमण भर्तागीकरिष्यति भावः । कुमुदानीयदि । शशांको निशाकरः कुमुदान्येव एकसरःस्थितान्यपि स्वास्तमयोदयाभ्यां संकोचविकासवन्ति कुमुदान्येव बोधयति । सूर्यास्तमयप्राप्तिधिया न तु पंकजानि । सविता सूर्यः चंद्रे अस्तंगते पंकजान्येव कुमुदानां पंकजानामेकत्रावस्थानेऽपि पंकजान्येव बोधयति । वर्तमानव्यपदेशेन सर्वलोकप्रसिद्भिरुक्ता । वशिनां जितेंद्रियाणां न तु ममैकस्यैव करपरिग्रहसंश्लेषपराङ्मुखी अन्यकलत्रसंगमविभुखी । हिरवधारणे । पूर्ववृत्तं पूर्वकृतचरित्रम् । अन्यासंगात् पुनः कलत्रान्तरसंगममधिगम्य । अत्र परिग्रहपरिग्रहविषये ।  राजा–(पुरोहितं प्रति) भवन्तमेवात्र गुरुलाघवं पृच्छामि ।

मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याही परस्त्रीस्पर्शपांसुलः ॥ २९ ॥

 पुरोहितः-(विचार्य) यदि तावदेवं क्रियताम् ।

 राजा-अनुशास्तु मां भवान् ।


र्लंवित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्नपीवरवपुर्जानातेि मन्थाचलः । देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ॥' इति । अत्र ज्ञानाख्यधर्मेणौपम्यं किं तु बिम्बभावेनैवोते (?) कश्चित्वालंकारिकः पूर्वार्धे वैधर्म्येण मालाप्रस्तुतप्रशंसोत्तरार्धे तत्समर्थनरुपोऽर्थान्तरन्यास इत्यवदत्तत्र । यतोऽयमप्रस्तुते विशेषः सामान्यं वोधयेदिति वक्तव्यं तत्र (?) । प्रस्तुतस्य विशेषरूपत्वादेव । नापि तयोः कार्यकारणभावः । नाप्यत्र सारूप्यं तादृशधर्माभावात्कुमुदानीति पङ्कजानीत नपुंसकोपादानञ्च । तेन पूर्वोक्तमेव साधु । ननु तवापि कथं बिम्बप्रतेिबिम्बभाव इति चेदुच्यते । वशिनः शशाङ्कसवितारौ प्रतिबिम्बत्वेनोपात्तौ । परपरिग्रहस्य कुमुदपङ्कजे (?) पराङ्मुखस्य वैधर्म्येण विकास इतेि सर्वं समञ्जसम् । अङ्काङ्केति न्येवन्येति परपरीति छेकवृत्त्यनुप्रासौ । एतदभिप्रायेणैव शार्ङ्गरववचनम् 'यदा तु --' इतेि । अन्यस्यालौकिकस्य शापस्य सङ्गः सक्तिः संबन्धस्तस्मात् । अथ चन्यस्या वसुमत्या देव्याः प्रसङ्गात् । अथवान्यस्या लोकोत्तराया राजलक्ष्म्याः सङ्गादित्यादि योज्यम् । विस्मृतं विद्यते यस्य स विस्मृता । अर्शआदित्वादच् । विस्मरणयुक्त इत्यर्थः । अनेनोत्प्रासनामा नाट्यालंकार उपक्षिप्तः । तल्लक्षणं तु- 'उप्रासनं रूपहासो योऽसाधौ साधुमानिनि' इति । मूढ इति । आहो पक्षान्तरे । यांमुळेः पुंश्वलः' इति विश्वः । 'राजा--भोः सत्यवादिन् इत्यादिनैतदन्तेन विरोधनामकमङ्गमुपक्षिप्तम् । 'उत्तरोत्तरवाक्यं तु विरोध इति संज्ञितः' इति । अनुशास्तु शिक्षयतु । शुद्धान्तन्मतःपुरम् ।


मूढ इत्यादि । अहं चा सूडः कृतकार्यंस्मरणाभावेनाज्ञः । एषा वा मिथ्या असत्यं स्वप्रयोजनार्थं वदेत् । इति उक्तविकल्पद्वयप्रकारेण संशये संभाविते सति परीस्त्रीस्पर्शपांसुलः पुरोहितः-अत्रभवती तावदा प्रसवादस्म[१७]द्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् । त्वं साधुभि[१८]रुद्दिष्टः प्रथममेव चक्रवर्तिनं । पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्य[१९]ति आभिनन्द्य शुद्धान्तयेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः समी[२०]पनयनमवस्थितमेव ।

 राजा--यथा गुरुभ्यो रोचते ।

 पुरोहितः--वत्से, अनुगच्छ माम्।

 शकुन्तला-भअवदि वमुहे, देहि मे विवरं । (इति रुदती आस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च) [भवतेि वसुधे; देहि में विवरम्]

(राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयाते)
(नेपथ्ये)

 मह[२१]दाश्चर्यम्।

 राजा--(आकर्ण्य) किं नु खलु स्यात् ।

(प्रविश्य)

 पुरोहितः-(सविस्मयम्) देव, अद्भुतं खलु संवृत्तम् ।

 राजा--किमिव ।

 पुरोहितः-देव, परावृत्तेषु कण्वशिष्येषु

सा निन्दन्ती स्वानि भाग्यानि बाला
बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।


वसुधे, देहि मे विवरं छिद्रम् । प्रवेशयेत्यार्थम् । शापव्यवाहितस्मृतिरिति कविवचनमनुवादेऽन्तर्भूतम् । सा निन्दन्तीति । यतो वालत एव वाहूत्क्षेपं यथा स्यात्तथा क्रन्दितुं प्रवृत्तेति बालास्वभावोक्तिः इवं ज्ञातमेवेति


कामवशात् परकलत्रसंगमपापीयन् । भगवति वसुधे देहि मे विवरं सीताया इव विवरं देहाति यावत् । सोत । बाहूत्क्षेपं बाहू उत्क्षिप्य । अप्सरतीर्थमिति तस्य तीर्थस्य नाम

राजा--किं[२२] च ।
पुरोहितः--
स्त्रीसंस्थानं चाप्सरस्तीर्थमारा-
दुत्क्षि[२३]प्यैनां ज्योतिरेकं जगा[२४]म ॥ ३० ॥

( सर्वे विस्मयं रूपयन्ति )

राजा--भगवन्, प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं

वृथा तर्केणा[२५]न्विष्यते । विश्राम्यतु भवान् ।

पुरोहितः--( विलोक्य ) विजयस्व । ( इति निष्क्रान्तः )
राजा--वेत्रवति, पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी--इदो । इदो देवो । ( इति प्रस्थि[२६]ता ) [ इत इतो देवः]

राजा पृच्छति--'किं च' इति । स्त्रीति । स्त्रीसंस्थानं ललनाकारम् । तेजोरूपत्वेन स्पष्टमदृश्यमानमत एव संस्थानशब्दप्रयोगः । देवेन नीतापि स्त्र्याकारेणैवेति परपुरुषासंस्पर्शित्वं ध्वनितम् । एकं केवलं ज्योतिरेनामारादुत्क्षिप्याप्सरस्तीर्थं शचीतीर्थं जगामेति संबन्धः । क्रिययोः समुच्चितत्वात्समुच्चयालंकारः । हेत्वनुप्रासौ च । शालिनी वृत्तम् । ‘नेपथ्ये’ इत्याद्येतदन्तेन शक्तिर्नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- 'विरोधप्रशमो यस्तु सा शक्तिरिति कीर्तिता' इति । अनेनाद्भुतरसोऽपि ध्वनितः । तल्लक्षणम्--'दुर्लभाभीष्टसंप्राप्तिः खेचराणां विलोकनम् । एते यत्र विभावाः स्युरनुसंचारिणस्त्वमी । स्तम्भः स्वेदश्च रोमाञ्चः प्रलयो गद्गदं वचः । आवेगसंभ्रमौ जाड्यमिति यत्राथ विस्मयः ॥ स्थायी तमद्भुतं प्राह' इति । पर्याकुलत्वं शापावसानस्य नैकट्यात् । इत इतो देवः ।


आरादन्तिके आक्षिप्यादाय । शयनभूमिमार्गमादेशय आदर्शय अनेन सर्वकार्यानुत्साह


 राजा--

 
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवतु दूयमानं प्रत्याययतीव मे हृदयम् ॥ ३१ ॥

( इति निष्क्रान्ताः सर्वे )

इति पञ्चमोऽङ्कः


काममिति । काममतिशयेन प्रत्यादिष्टां निराकृतां मुनेस्तनयां परिग्रहं पत्नीं न स्मरामि । तु पुनः । बलवदधिकं दूयमानं पीड्यमानं मे मम हृदयं प्रत्याययति विश्वासमुत्पादयतीवेत्युत्प्रेक्षा । अनया स्थायिन्या रतेरनुसंधानं ध्वनितम् । पीडायाः कारणस्य स्मरणस्याभावेऽपि पीडेति विभावनालंकारः । अनुमानालंकारोऽपि । तत्प्रत्यायनस्य साध्यत्वं हृदयपीडाहेतुत्वादनुमानम् । तदुक्तम् -- यत्साध्यसाधनयोर्वचः ? इति तल्लक्षणात् । अनेन प्रसङ्गनामाङ्गमुपक्षिप्तम् तल्लक्षणम्-’ प्रसङ्गश्वैव विज्ञेयो गुरूणां कीर्तनं हि यत् ।' इति । अत्र मुनेस्तनयेते गुरुकीर्तनम् । इति श्रीमदभिज्ञानशाकुंतलटीकायामर्थद्योतनिकयां पञ्चमोऽङ्कः समाप्तः ।।


उक्तः । काममित्यादि । प्रत्यादिष्टां निराकृतां मुनेस्तनयां शकुन्तलां परिग्रहं कलत्रत्वेन स्वीकृतां कामं यद्यपि न स्मरामि तथापि मे हृदयं तु बलवद्दूयमानं निराकरणे नाधिकतरं क्लिश्यमानं प्रत्याययतीव विश्वासं जनयतीव । तत्परिग्रहवृत्तान्तस्मरणाभावेऽपि वासनाबलात् तत्परित्यागनिमित्तहृदयसंतापबाहुल्येनानुमीयत इति भावः । अत्र शकुन्तलादेशेन वस्तुविच्छेदे सति दुष्यन्तस्य चित्तक्षोभ एव पुनः प्राप्तिं प्रतिर्विदुरित्यवगंतव्यम् । इतिहासस्येव साक्षाद्विस्मरणं नायिकापकर्षहेतुतया रसपरिपोषणं न भवतीति शापरूपविस्मरणं कविना कल्पितम् ।

इति श्रीरमणवेंकटाचलेश्वरपादाराविंदसमाराधकवैखानसकुलतिलककौशिकगोत्र-

श्रीवेंकटभट्टइतिगोत्रमागतभट्टविरुदश्रीतिरुमलाचार्यस्य पुत्रेण ध्वनिप्रस्था-

नपरमाचार्याष्टभाषाचक्रवर्तिश्रीनिवासाचर्येण विरचितायां शकुन्त-

लव्याख्यायां पंचमोऽङ्कः ।


  1. सष्व ( सर्वं ) इत्यधिकं क्क० पु० ।
  2. पविस्सदि ( प्रविशति) इति क्क० पु० पाठः ।
  3. उपलक्ष्यते इति क्क० पु० पाठः ।
  4. लक्ष्यते इति क्क० पु० पाठः ।
  5. चापलमप्रतिहतमात्मानं इति क्क० पु० पाठः।
  6. संभृतरोषाक्षरेण वचसा इति क्क० पु० पाठः ।
  7. एतत् इत्यधिकं क्क० पु० ।
  8. शार्ङ्गरवः-भो राजन्, किमुत्तरोत्तरेण इतेि क्क० पु० पाठः ।
  9. गुरुनिदेशः इति क्क० पु० पाठ० ।
  10. ( राजानं प्रति ) इति क्क० पु० नास्ति ।
  11. दाब ( तावत् ) इत्यधिकं क्क० पु० ।
  12. करेदि ( करोति ) इति क्क० पु० पाठः ।
  13. सन् इत्यधिकं क्क० पु० ।
  14. आः पुरोभगिनेि किमिदं इति क्क० पु० पाठः ।
  15. तिष्ठ तिष्ठ इति क्क० पु० पाठः ।
  16. तत् इतेि क्क० पु० पाठः ।
  17. मम इति क्क० पु० पाठः ।
  18. आदिष्टपूर्व एव इति क्क० पु० पाठः।
  19. भवेततः प्रतिनन्द्य इति क्क० पु० पाठः।
  20. गमनमुपस्थितं इति क्क० पु० पाठः ।
  21. आश्चर्यमाश्चर्यम् इति क्क० पु० पाठः।
  22. किं ततस्ततः इति क्व० पु० पाठः ।
  23. आक्षिप्य इति क्वo पु० पाठः ।
  24. तिरोऽभूत् इति क्व० पु० पाठः ।
  25. आकृष्यते इति क्व० पु० पाठः ।
  26. ( परिक्रामति ) इति क्व० पु० पाठः ।