अभिज्ञानशाकुन्तलम् (सटीका)/चतुर्थोऽङ्कः
← तृतीयोऽङ्कः | अभिज्ञानशाकुन्तलम् (सटीका) चतुर्थोऽङ्कः कालिदासः |
पञ्चमोऽङ्कः → |
चतुर्थोऽङ्कः।
विष्कम्भकः।
( ततः प्रविशतः कुसुमावचयं नाट्यन्त्यौ सख्यौ )
अथ चतुर्थाङ्कादिपञ्चममध्ये ‘यथोक्तं करोति' इत्यन्तेन गर्भसंधिरुक्तः। । तल्लक्षणमादिभरते- उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव च । पुनश्चान्वेषणं यत्र स गर्भः परिकीर्तितः ॥ ’ इति । पूर्वसंध्युपाक्षिप्ताप्तिः । दुर्वाससः शापादप्राप्तिः । पुनस्तस्य प्रसादेनाभिज्ञानदर्शनेन पुनः प्राप्तिरिति । अत्राप्त्याशापताकानुरोधादङ्गानि कल्पयेत् ।‘अभूताहरणं मार्गे रूपोदाहरणे क्रमः । संग्रहश्चानुमानं च तोटकादिवले तथा ॥ । उद्वेगसंभ्रमाक्षेपा द्वादश ' इति । एषामङ्गानां व्याख्यानावसरे तत्र तत्र लक्षणं वक्ष्यामः । तत्र पताकाया अनित्यत्वात् । अत्र पताका नास्ति । तदुक्तं धानिकेन--' पताका स्यान्न वा स्यात्प्राप्तिसंभवे ' इति । प्राप्त्याशायानियतत्वमुक्तं सुधाकरेऽपि- 'पताकायास्त्ववस्थानं क्वचित् ’ इति । तेनप्राप्त्याशालक्षणमेव लिख्यते । तल्लक्षणं सुधाकरे -- प्राप्त्याशा तु महार्थस्य सिद्धिसद्भावभावना’ इति । अत्रापि दुर्वाससः प्रसादेन महार्थस्य शकुन्तलारूपस्य राज्ञः प्राप्तिसद्भावनेति ज्ञेयम् । कुसुमावचयं नाट्यन्त्या
कविरिदानीं कथान्तरमारभमाणो वस्तुसंवटनार्थे विष्कंभं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रविशत इत्यादि । तदुक्तं ‘‘ सूच्यं श्राव्यं दृश्यामिति तत्र वस्तु त्रिधा मतम् । नीरसानुचितं चस्तु सदा संसूच्यमेव तत् । श्राव्यं तु युद्धसंक्षोभपुत्रजन्मादिकं स्मृतम् । दृश्यं तु मधुरोदात्तरसभावनिरंतरम् । अर्थोपक्षेपकैः सूच्यं पंचभिः प्रतिपादयेत् । विष्कंभचूलिकांकास्यांकावतारप्रवेशकैः । अतीतानां, भाविनां च कथाशांनां प्रदर्शक । मध्यमेनैकपात्रेण द्वाभ्यां त्रिभिरथापि वा । प्रयोज्यो वस्तुविस्तारो विष्कंभस्तु द्विधा भवेत् । शुद्धसंकीर्णभेदेन शुद्धः केवलमध्यमैः । पात्रैः प्रयोज्यो भाषैक्यात्संकीर्णो नीचमध्यमैः। वाक्यैः स्याद्भिन्नभाषायैः संस्कृतप्राकृतादिभिः । आदौ विष्कंभकं कुर्यान्नाटकेषु महाकविः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् । यदा संदर्शयेच्छेषं कुर्याद्विष्कंभकं तदा । यदा तु सरसं वस्तु मूलादेव प्रवर्तते । आदावेव तदांकांशादा । अनसूया --- पिअंवदे, जइ वि गन्धव्वेण विहिणा णिच्युतकल्लाणा सउन्दला अणुरूवभत्तुगासिणी संवुत्तेति णिव्वुदं मे हिअअं, तह वि एत्तिअं चिन्तणिज्जं । [प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयम्, तथाप्येतावच्चिन्तनीयम् ]
प्रियंवदा–कहं विअ । [ कथमिव |
विति वामहस्तेनोत्तानेनारालेन दृक्षिणेन पुरःपार्श्वादिस्थितेनौचित्यच्यु तसंयुक्तेन हंसास्येन । तल्लक्षणं यथा -‘ तर्जन्यादिष्वंगुलीषु प्राच्याः प्राच्याः परापराः । दूरस्थोर्ध्वा मनाग्वक्त्रा धनुर्वक्त्रा तु तर्जनी ॥ अंगुष्ठः कुञ्चितो यत्र तमरालं प्रचक्षते । ' इति। “ लग्नास्त्रेताग्निसंस्थानास्तर्जन्यंगु- ष्ठमध्यमाः । शेषे यत्रोऽर्धविरले स हंसास्योऽभिधीयते ॥ औचित्याच्यु तसंयुक्तं कुसुमावचयादिषु ’ इति । ‘हस्तादाने चेरस्तेये ’ इतेि घञि कृते अवचाय इति भाव्यम् । तथा च वामनसूत्रम् -‘‘ अवतारावचायशब्दयोर्दीर्घव्यत्यासो बालानाम् ' इति । अत्रोच्यते—‘ हस्तादानग्रहणे प्रत्त्यासत्तिरादेयस्य लक्ष्यते ’ इति वृत्तिकारेण व्याख्यातम् । हस्तान इतेि किम् ।'वृक्षशिखरे पुष्पप्रचयं करोति' इति प्रत्युदाहृतम् । इदं च पदमञ्जरीकारेण व्याख्यातम् । आरुह्य हस्तादानेऽप्यादेयस्य प्रत्यासत्त्यभावाद्धञभावः । एवमत्रापि तासां बालत्वात् ।आदेयस्य प्रत्यासत्त्यभावाद्धञभाव इति ज्ञेयम् । प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा जातमङ्गला । 'कल्याणं मङ्गलेऽपि च ' इति विश्वः । शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति मे निर्वृतं सुखितं हृदयम्, तथाप्येता
मुखाक्षेपसंयुतम् । ययोचितं तु विष्कंभं सर्वांकेषु प्रकल्पयेत् ॥" इति । हलेल्यादि । सखि प्रियंवदे यद्यपि गन्धर्वेण विवाहविधिना निवृत्तकल्याणा शकुन्तला अनुरूप भर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयम् । अनेन पुनः पूर्वोंकार्थ उक्त इत्यवगंतव्यम् । तह वीत्यादि । अनेनोत्तरांकार्थसूचनं कृतमिति ज्ञातंव्यम् । अनसूयाप्रियंवदयोर्नायिका प्रियसखत्वाम्मध्यसपत्रवं देयत्वाभावत् । अत्र पूवतर्कवृत्तर्तिष्यमाणवस्तु
१ हला ( सखि ) इत्यधिकं ई०पू० २ जइ वि ( यद्यपि ) इति कo पु‘ नास्ति । ३ विवाह इत्यधिकं क० पू० र ४ एदं ( एतत् ) इति ई० पू० पाठः ।
अनसूया-अज्ज सो राएसी इट्ठिं परिसमाविअ इसीहिं विसज्जिओ अत्तणो णअरं पविसिअ अन्तेउरसमागदो इदोगदं वृत्तन्तं सुमरोदि वा ण वेत्ति । [ अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मराति वा न वेति ]
प्रियंवदा --वीसद्धा होहि । ण तादिसा आकिदिविसेसा गुण- विरोहिणो होन्ति । एतिअं उणचिन्तणीअं, तादो दाणिं इमं वृत्तन्तं सुणिअ ण आणो किं पडिवज्जिस्सदि त्ति । [ विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । एतावत् पुनश्चिन्तनीयं, तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ]
अनसूया–जह अहं देक्खामि, तह तस्स अणुमदं भवे । [ यथाहं पश्यामि, तथा तस्यानुमतं भवेत् ]
प्रियंवदा—कहं विअ [ कथमिव ]
वञ्चिन्तनीयम् । कथमिव | अद्य स राजर्षिरिष्टिं परिसमाप्य प्रहितः ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरे स्त्रीसमाजे समागतो मिलित इतोगतं वृत्तान्तं स्मरति वा न वा । अनेन वक्ष्यमाणेन दुर्वाससः शापेन राज्ञो नायिकाविस्मरणकारणं सूचितम् । विस्रब्धा भव विश्वासयुक्ता भव न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । ' यत्राकृतिस्तत्र गुणा वसन्ति ’ इत्युक्तेः । तेन तस्मिन्दुष्यन्ते वचञ्चनाविस्मरणदिकं न संभाव्यत इति भावः । तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । यथाहं पश्यामि । अत्र दृशिर्ज्ञानार्थः । जानामीत्यर्थः । यथाशब्दो योग्यतायाम् । योग्यतयाहं जानामि। तस्यानुमतं भवेदातेि । यथेति ‘ योग्यतावीप्सापदार्थानुवृत्तिसादृश्येषु ’ इति
१ तादिसी गुणविरोहिणी पकिदी ( तादृशी गुणविरोधिनी प्रकृतिः ) इति क्व०पु०पाठः। २ हेन्ति । एतिअं उणचिन्तणीअं ( भवन्ति । एतावत्पुनश्चिन्तनीयम् ) इति क० पू० नास्ति । ३ भवे ( भवेत् ) इति क्व० पु० नास्ति ।
अनसूया--गुणवदे कण्णआ पडिवादणिज्जे त्ति अमं दाव पढमो ' संकप्पो। तं जइ देव्वं एव्व संपादेदि में अप्पाआसेण किदत्थो गुरुअणो ।[ गुणवते कन्यका प्रतिपादनीयेत्ययं तावत् प्रथमः संकल्पः। तं यदि दैवमेव संपादयति नन्वप्रयासेन कृतार्थे गुरुजनः |]
प्रियंवदा-( पुष्पभाजनं विलोक्य ) सहि, अवइदाई वंलिक स्मपज्जत्ताई कुसुमाइं । [ सखि, अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ]
अनसूया–णं सहीए सउन्दलाए सोहग्गदेवआ अच्चणीआ । [ ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ॥]
प्रियंवदा–जुज्जदि । [ युज्यते ।
( इति तदेव कर्मारभेते )
( नेपथ्ये )
अयमहं भोः ।
अनसूया-(कैरीं दृत्त्वा | ) साहि, अदिधीणं विअ णिवेदिदं । [ साखि, अतिथीनामिव निवेदितम् ।
दण्डनाथः । कथमिव । गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमो मुख्यः संकल्पो मानसं कर्म । तद्य ( तं य ) दि दैवमेव संपादयति । नन्ववघारणे । अप्रयासेन प्रयासाभावेन कृतार्थो गुरुजनः। सखि, अवचितानि बलिकर्म पूजाकर्म तत्पर्याप्तानि कुसुमानि। ननु परमताक्षेपे । सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया । युज्यते । तदेव कुसुमाव -
सूचनमात्रत्वान्नीरसत्वेन विष्कंभत्वम् । बलिफकर्मपर्याप्तानि पूजाक्रियापरिपूर्णानि । सैौभाग्यदेवता यया देवतया अनुरूपवरसंघटना कृता सा देवता अर्चनीयेत्यर्थः। भोः
१ तादस्स ( तातस्य ) इत्यधिकं क्व० पु० ।। २ अप्पाअसेण ( अल्पायासेन ) इति क्व० पु० पाठः । ३ खु ( खलु ) इत्यधिकं क्व० पु° । ४ सहीए ( सख्याः ) इति क्व० पु० नास्ति । ५ आकर्ण्य इति क्व० पु• पाठः ।
प्रियंवद्-णं उडजसंणिहि सउन्दला । ( आत्मगतम् ) अज्ज उण हिअएण असंणिहिदा। [ ननूटजसंनिहिता शकुन्तला। अद्य पुनर्हृदयेनासंनिहिता ।
अनसूया-होदु । अलं एत्तिएहिं कुसुमेहिं । [ भवतु । अलमेतावद्भिः कुसुमैः ।
( इति प्रस्थिते )
( नेपथ्ये )
- आः ’ अतिथिपरिभाविनि,
विचिन्तयन्ती यमनन्यमानसा
तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि
सन्कथां प्रमत्तः प्रथमं कृतामिव ॥ १ ॥
चयलक्षणमेव । सखि, अतिथीनामिव निवेदितम् । भावे क्तः । ननु संबो धने । उटजसंनिहिता शकुन्तला । अद्य पुनर्हृदयेनासंनिहिता । दुष्यन्तग- तहृदयेत्यर्थः । भवतु । अलमेतावद्भिः कुसुमैः। विचिन्तयतीति । यं विचिन्तयन्त्यनन्यमानसा त्वं मां दुर्वाससमुपास्थितमागतं तपोधनम् । त्रयं विधेयम् । न वेत्सि स त्वां स्वयं न स्मरिष्यत्येव परंतु बोधि तोंऽपि ज्ञापितोऽपि न स्मरिष्यतीस्यापिशब्दार्थः । कः कामिव । प्रकर्षेण
इति स्वगुणतारतम्यानभिज्ञजनसंबोधने अयमहमागत इत्यनेन निकटे आगते इत्यर्थः । नेपथ्य इत्यादि। आः इति अपमानजनितपीडायां निपातः। "अस्तु स्यात्कोपपीडयोः ” इत्यमरः । तेन पीडाजनितः कोपः सूचितः । कोपे करणमाह-अतिथिपरिभाविनीति । आगंतुकावमानिनि । अतिथिपरिभाविनीत्यनेनातिथिस्तु सत्कारयोग्यः बहुधूरागत- क्षुत्पीडितातिथिः केनोपाधिना स्वकृतावमानं सहत इति भावः । स्वकृतावमानस्यानु- भूयिष्यमाणफलमाह-विचिन्तयन्तीयमित्यादि । इयं स्वभिलाषविषयकं पुरुषमनन्य- मानसा तदेकतानचित्ता अनेन नायकस्मरणेऽपि तत्संपर्कजनितानन्दसमानसुखानुभवः सूच्यते । तेन च विगलितवेद्यान्तरत्वेन उचितकार्येऽपि प्रवृत्त्यभावे व्यज्यते ।
१ तपोनिधिं इति क्व० पु० पा० ।
प्रियंवदा -हैद्धी । अप्पिअं एव्व संवृत्तं । कस्सि पि पूआरुहे अबरद्धा सुण्णहिअआ । सउन्दला । ( पुरोऽवलोक्य. ) ण हु जस्सिं कस्सिं पि । एसो दुव्वासो सुलहकोवो महेसी । तह सविअ वेऊँवलुफुल्लाए दुब्बराए गईए पडिणिवुत्तो । को अण्णो हुदवहादो
मत्तः प्रथमं पूर्वं कृतां कथामिव | स राजा कीदृशः ? प्रमत्तोऽवधानराहितः । ‘प्रमादोऽनवधानता ? इत्यमरः । तेनासमर्थदोषः परिहृतः । त्वां कीदृशीम् । पूर्वं कुतामङ्गीकृताम् । काव्यलिङ्गोपमाश्लेषाः । तयतीयेति मनमानेति नससन्निति प्रप्रैति छेकवृत्त्यनुप्रासः । वंशस्थं वृत्तम् । हा धिक् । अप्रियमेव संवृत्तम् । कस्मिंश्चिदपि पूजार्हेपराद्धा शून्यहृदया
विचिन्तयंती विशेषेण चिन्तयंती त्वमिति शेषः । अत्र त्वमिति विशेष्यपदो- पादानाभावस्त्वागन्तुकावमानकरणादश्लीलनामोच्चारणायोग्यताभिप्रायः । मां न वेत्सि । मामित्यनेन स्वस्य इतरऋषिवैलक्षण्येन शीघ्रकोपोदयत्वमानासहिष्णुत्वं च व्यज्यते । तर्हि विप्रकृष्टं कथं चेद्दीयत आह-उपस्थितं सन्निहितं न तु दूरस्थमित्यर्थः । उपस्थितमित्यनेन स्ववावस्थितिस्थलं प्रति बहुदूरमप्यागस्य जनैः सस्कारयितुं योग्यस्ताशं निकटवर्तिनं मां न जानातीति व्यज्यते । तर्हि प्रसादार्तिचित्पापमुपनतं परलोके अनुभबिंख्यामीत्यत आह तपोनिधिमिति । अनेन स्वस्य पप्रसादयेः सद्यः फलप्रदत्वं इष्यते । न वेत्सति वर्तमानव्यपदेशेनाद्यापि न वेत्सति स्वकृतबहुनिवेदनं व्यज्यते । तेन शापदाने स्वस्मिन् दोषाभाव उक्तः ? स त्वां न स्मरिष्यति सः स्वचिन्ताविष यस्त।शवद्विषयकसुरायातिशयवान्पुरुषः स्वां तादृशानुरागवतीभननुभूतां त्वामित्यर्थः । न स्मरिष्यति त्वद्विषयकस्मरणं न कार्याति। तर्हि तेन तेन स्मारक(लंगेन, वध्यते चेत् मारिष्यतत्यत आह चोधितोऽपीति । बोधितोऽपत्यनेन निकटेन त्वा स्मारितोsपि स्खतूर्त वृत्तान्तं न स्मरिष्यति दूरे स्मारकपत्रलेखदिनेषणेन स्मरणं कुत इति भावः। न स्मरिष्यतीत्य. नेन स्मरणमेव नास्ति तसंपदकं कुत इत्यभिप्रायः । स्मरिष्यतीति भविष्यद्वयपदेशेनेदानीं दायि तस्य गाढानुरागातिशयो विद्यते । इतःपरं भच्छापबलान्न स्मरिष्यतीति व्यज्यते । न ह्यन्तःपुरस्त्रीगणापहृताचित्ततया विरविश्लेषेण च तव स्मरणभावः किंतु मच्छया पबलादिति भावः । अत्र दृष्टतमाह-प्रमत्त इति । यथा मदनीयद्यसेवया प्रकर्षेण मत्तः प्रथमं कृतां पूर्वेक्षणतां कथां वार्ता योधितोऽप्यकथितपूर्वामित्र उत्तरक्षणे न स्मरिष्यति तथेत्यर्थः । यथा मया बहुधा वेध्यमनापि त्वन्निकटवर्तिने मां न वेत्सि तथा त्वां दुष्यन्त इति भावः । हद्धत्यादि । प्रकृतिवक्र इत्यनेन शापान्ताकथनशंकया सविषादमि
१ हृद्धी ही तदेव संवृत्तं जस्सि कस्सि वि ( हा धिङ् हा धिङ् तदेव संवत्तं यस्मिन्कस्मिन्नपि ) इति क्व० पु० पाठः । २ बडुल (चदुल ) इति ई० पु• पाठः ।
अनसूया-गच्छ । पादेसु पणमिअ णिवत्तेहि णं जाव अहं अग्घोदअं उब[१]कप्पेमि । [गच्छ । पादयोः प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि]
प्रियंवदा-तह [तथा]।(इति निष्क्रान्ता)
अनसूया—(पदांतरे स्खलितं निरूप्य) अव्यो । [२]आवेअक्खलिदाए गईए पव्भटं मे[३] अग्गहत्थादो पुप्फभाअणं। (इति पुष्पो च्चयं रूपयति) [अह। आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम्]
न खलु यस्मिन्कस्मिन्नपि | एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः। कोऽन्यो हुतवहाइग्धुं प्रभवति । दृष्टान्तालंकारः। गच्छ । पादेषु प्रणम्य निवर्तयैनम् । पादेष्विति द्वितीयार्ये सप्तमी । यावदहमर्घोदकमुपकल्पयामि । तथेति निष्कान्ता । अव्वो इति दुःखे । 'अव्वो सूचनादुःखसंभाषण-' इत्यादिसूत्रेण निपातः । आवेगस्खालितया संभ्रमस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तापुष्पभाजनम् । अनेनापशकुनेन दुर्वाससोऽनिवृत्तिः सूचिता । अत्राग्रः स चासौ हस्तश्चेति सामानाधिकरणे विशेषणसमासेऽवयवावयविसंबन्धेन लक्षणा । उक्तं च वामनेन - ‘हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्' इति । अन्ये स्वग्रहस्त इत्यखण्ड एवायं शब्दो हस्ताग्रवाचक इत्याहुः । अपरे तु हस्तस्याप्रमित्येव विगृह्याग्रशब्दस्याहिताग्न्यादिपाठापूर्वनिपातमाहुः । इतरं तु प्रकृते पूर्वनिपातनियमाभावाद्ध
(प्रविश्य)
प्रियंवदा-सहि, पकिदिवक्को सो[४] कस्स अणुणअं पडिगेण्हदि । किं[५] वि उण साणुक्कोसो किदो। [सखि, प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किमपि पुनः सानुक्रोशः कृतः]
अनसूया-(सस्मितम्) तस्सिं बहु एदं पि। [६]कहेहि । [तस्मिन्बह्वेतदपि । कथय]
प्रियंवदा–जदा[७] णिवत्तिदुं ण इच्छदि तदा विण्णविदो मए[८] । भअवं, [९]पढमं त्ति पेक्खिअ अविष्णादतब[१०]प्पहावस्स दुहिदुजणस्सभअवदा एक्को अवराहो मरिसिदव्वोत्ति । [यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भगवन, प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य बृहतृजनस्य भगवतैकोऽपराधो मार्षितव्य इति]
अनसूया-तदो तदो । [ततस्ततः]
स्ताग्रशब्दमेवाहुः । पुष्पोच्चयं रूपयतीति पूर्ववत् । सखि, प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किंचित्पुनः सानुक्रोशः सकृपः कृतः । 'कृपा दयानुकम्पा स्यादनुक्रोशोऽपि' इत्यमरः । तस्मिन्वह्वेतदपि । कथय । यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भगवन्, प्रथम इतेि प्रेक्ष्य विचार्य । अत्र कोपः कर्तुं [युक्तो] न वेति विचार्येत्यर्थः । अवज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षित्व्य इति । अयमर्थः-यथा सा कण्वदुहिता तद्वत्तव दुहिता । अथ च दुहिता बालिकातएवाविज्ञाततपःप्रभावा । अतोऽस्याः प्रथम एकोऽपराध इति
त्युच्यते । सानुक्रोशः दयासहित इत्यनेन हर्षात्स्मितम् । तस्मिन्तादृशसुलभकोपे ऋषौ प्रियंवदा—त[११]दो मे वअणं अण्णहाभविदुं णारिहदि । किंदु अहिण्णाणाभरणदंसणेण साबो णिवत्तिस्सदित्ति मन्तअन्तो [१२]सअं अन्तरिहिदो । [ततो मे वचनमन्यथाभवितुं नार्हति । किंत्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयन्स्वयमन्तर्हितः ।
अनसूय-सक्कं दाणिं अस्ससिदुं । अत्थि तेण राएसेिणा संपत्थिदेण सणामहेअङ्किअं अङ्गुलीअअं सुमरणीअंत्ति सअं पिणद्धं । [१३]तस्सिं साहीणोबाआ सउन्दला भविस्सदि। [शक्यमिदानीमाश्वासयितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति]
प्रियंवदा-सहि, एहि । देवकज्जं दाव[१४] णिव्वत्तेह्म । [सखि, एहि । देवकार्यं तावन्निर्वर्तयावः]
(इति परिक्रामतः)
प्रियंवदा-(विलोक्य ।) अणसूए, पेक्ख दाव[१५] । वामहत्थोवहिदव[१६]अणा आलिहिदा विअ पिअ[१७]सही । भत्तुदाए चिन्ताए अत्ताणं पि ण एसा विभावेदि । किं उण आअन्तुअं । [अनसूये, पश्य तावत् । वामहस्तोपहितवदनालिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम्]
सोढव्यः ततो मे वचनमन्यथाभवितुं नार्हति । किंत्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयन्कथयन्स्वयमन्तर्हितः । शक्यमिदानीमाश्वासयितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितमंगुली यकं स्मरणीयमिति स्वयं [पिनद्धं] परिधापितम् । अस्तीत्यन्वयः । तस्मिन्स्वाधीनोपाया शकुन्तला भाविष्यति । देवकार्यं तावान्निर्वर्तयावः । विलोक्येति । शकुन्तलामिति शेषः । अनसूये, पश्य तावत् । वामहस्तो अनसूया-पिअंवदे, दुवेणं एव्व णं णो मुहे एसो वुत्तन्तो चिट्ठदु । रक्खि[१८]दव्या क्खु पकिदिपेल[१९]वा पिअसही । [प्रियंवदे, द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी]
प्रियंवदा-को णा[२०]म उण्होदएण णोमालिअं सिञ्चेदि । [को नामोष्णोदकेन नवमालिकां सिञ्चति]
(इत्युभे निष्क्रान्ते)
विष्कम्भः ।
(ततः प्रविशतेि सुप्तोत्थितः शिष्यः)
शिष्यः–वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्र[२१]काशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्यः च ।) हन्त प्रभातम् । तथा हि ।
पहितवदना । अत्र वामहस्तग्रहणं स्त्रीस्वभावात् । आलिखितेवेत्युत्प्रेक्षः अतिनिश्चलस्वं सादृशं गम्यम् । प्रियसखी शकुन्तला । भर्तुगतया चिन्तयात्मानमापि नैषा विभावयाति जानाति । काहं किं करोमि कुत्र तिष्टामीत्याद्यात्मविषयकमापि ज्ञानं नास्तीत्यर्थः । किं पुनरागन्तुकम् । विभावयतीत्यनुषज्यते । तज्ज्ञानं दूरापास्तमित्यर्थः । द्वयोरेव । नन्वनुमतौ । आवयोर्मुख एष वृतान्तस्तिष्ठतु । स्थितेः प्राप्तकालतेत्यर्थः । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी । पूर्ववाक्यं प्रत्या [र्थो] हेतुः । को नामो ष्णोदकेन नवमालिँका सिञ्चति । वैधर्म्यदृष्टान्तः । 'द्वयोः' इत्यादिनैतदन्तेन शकुन्तलां प्रति शापाकथनच्छद्मनाभूताहरणमङ्गशुपक्षिप्तम् ।तल्लक्षणं तु-'कपटाश्रयं यद्वाक्यमभूताहरणं विदुः' इति । विष्कभलक्षणं पूर्वोक्तम् । अयमपि शुद्धवैष्कम्भः केवलं प्राकृतेन कृतत्वात् । वेलोपल
एतत्सानुक्रोशत्वं बह्वधिकं एतदेवलमिति यावत् । ततः प्रविशतीत्यादि । वेलोपलक्षणार्थं कालपरिज्ञानार्थम् । प्रवासादुपवृत्तेन सोमतीर्थात् प्रतिनिवृत्तेन आदिष्टोऽस्मि आज्ञ-
यात्येकतोऽस्तशिखरं पतिरोषधीना- |
क्षणार्थं समयज्ञानार्थम् । 'वेला काले च जलधेस्तीरनीरविकारयोः' इति विश्वः । यातीति । ओषधानां पातिश्चन्द्रः । अतिदुःसहमरणादिविपत्तिसहस्रविनाशका ओषधयस्तासां पतिरप्यस्तशिखरं यातीति । इममर्थमभिद्योतयितुमेतत्पदव्यपदेशः। शिखरपदेनात्युच्चैः पतनायेति सूचितम् । अरुणोऽनूरुः पुरःसरो यस्य स तादृशोऽर्क एकतः पूर्वत आविष्कृतः प्रकटीभूतः । तेजोद्वयस्य चन्द्रसूर्यरूपस्य युगपदेकदैकसमयोभयदर्शनेनैव नियमः कर्तुं शक्यते । न तु क्रमिकदर्शनेनेतेि युगपदित्युक्तः । स्वव्यसनोदयाभ्यामस्तसमयोदयाभ्यां विपरसंपद्भ्यां च हेतुभ्याम् । 'व्यसनं विपदिं भ्रंशे' इत्यमरः । उदयः संपदुत्पत्त्योः पूर्वशैले समुन्नतौ' इत्यजयः । लोको जनः । आत्मदशान्तरेषु स्वदशाविशेषेषु । अन्तरशब्दो विशेषवाची । नियम्यत इवेत्युत्प्रेक्षा । स्वस्वविपत्तिदशायां केनापि दुःखहर्षो न कार्याविति भावः । अत्र पूर्वार्धे यः कश्चितेिसमृ
तौऽस्माति यत्तस्मादित्यर्थः । प्रकाशं प्रकाशस्थानं विवृतप्रदेशमित्यर्थः । हन्तेतेि खेदे । यात्येकत इत्यादि । एकतः एकत्र पश्चिमभाग इति यावत् । ओषधीनां पतिः चन्द्रः अस्तशिखरं याति हाससमयतया निस्तेजस्को जात इति भावः। यातीति क्रियापदस्य वर्तमानव्यपदेशेन क्षयिष्णोश्चंद्रस्य दृष्टिपथ एव पूर्वं यथा स्वस्य तेजस्वित्वमुदयश्च ततोऽधिकं द्वयमप्यन्यस्य भवतीति व्यज्यते । न तु परोक्ष इति भावः । ओषधीनां पतािरित्येकवचनेन क्षयशीलं पुरुषं सर्वे परित्यजन्तीति व्यज्यते । एकतः एकत्र पूर्वभाग इति यावत् । अर्कः सूर्यः अरुणपुरःसरः अरुणः अनूरुः पुरस्सरोऽग्रेसरो यस्य स तथोकः। आविष्कृत आविर्भूतः वृद्धिसमयतया तेजस्वी दुष्ट इति भावः । अरुणपुरःसर इति विशेषणेन उदयशीलजनस्य सर्वे सहाया भवन्तीति व्यज्यते । आविष्कृत इति भूतार्थेन वर्धिष्णोः सूर्यस्य पुरस्तादेव कस्याचिदन्यतेजस्विनः निष्प्रभत्वं नाशश्च भवतीति व्यज्यते । तेजोद्वयस्य चंद्रसूर्ययोः युगपदेकदा एकस्मिन् क्षण इति यावत् परस्परदृष्टिपथ एवेति भावः । व्यसनोदयाभ्यां ह्णासवृद्धिभ्यां लोकः सुखदुःखवान् जनः । जात्यैकवचनम् । आत्मदशान्तरेषु स्वस्य सुखदुःखावस्थाभेदेषु नियम्यत इव सखदुःखयो- द्धभृत्योऽपि नाशं यात्यन्यो यं कंचनासमर्थं सर्वदा स्वाश्रितमुदयन्नेव स्वयमुदयं गच्छतीतेि सत्पुरुषद्वयव्यवहारसमारोपात्समासोक्तिः । उत्तरार्धे च नियम्यत इतेि तरसर्वाचरणे प्रयोगात्सेनवद्वस्तुसंबन्धसामर्थ्याद्बिम्बप्रतिबिम्बकल्पनरूपा निदर्शना व्यङ्ग्या । उत्प्रेक्षाया वाच्यत्वात् । वाच्या निदर्शना यथा -'चूडामणिपदे धत्ते यो देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥' इति । अत्र प्रभातवर्णने प्रकृत उभयोरपि प्राकरणिकत्वादरुणपुरःसरत्वस्य समानतया तुल्ययोगितापि । तेजोद्वयस्य व्यसनोदयाभ्यामिति यथासंख्यमपेि । हेतुश्च । कतोकतोइति द्वयद्वयेति छेकवृत्त्यनुप्रासौ । वसन्ततिलका वृत्तम् । उद्देश्यप्रतिनिर्देश्ययोरेकपदोपादाननियमे सत्यप्यत्रौषधिपत्यर्कशब्दोद्देश्यत्वेऽपि सर्वनाभवत्तेजोद्वयस्य प्रतिनिर्देशेऽपि तत्र तयोरिति तेजोरूपस्फुराणाज्जगत्स्थितिकारणस्य तेजोद्वयस्येदृशी गतिरन्यस्य किमु वक्तव्यमित्यर्थस्फुरणाच्च सहृदयानामर्थपौषेण चमत्कारमेवावहतीत्येतादृशस्थले न दोषा-
रनियतत्वात्तयोः प्राप्तयौः सतोः तदवस्थानुभवविकारो न कर्तव्य इत्युपदिश्यत इत्यर्थः ।नाटकनिबद्धनिखिलवर्णनादीनां प्रकृतोपियोगितया योज्यत्वादत्र श्लोके चन्द्रसूर्ययोर्दुःखसुखानुभवकथनेन दुष्यन्तबिश्लेषादात्रौ चंद्रकिरणजनितदुःखं शकुन्तलया सोढुमुचितमिति व्यज्यते । तथा नायकसंगमसमये सुखं तद्वत्तद्विश्लेषेऽपि दुःखमुचितमिति शकुन्तलाया सोढव्यामित्युपदिश्यत इत्यभिप्रायः । नाटकस्य काव्यस्येव यथा तथा बहुवर्णनं प्रकृताश्रयतया कर्तुं न शक्यते किन्तु निखिलपदवाक्यपदैकदैशरचना वर्णनार्थानां वाच्यलक्ष्यव्यंगतात्पर्याणां चन्द्रोदयसूर्योदयवर्णनानामपि प्रकृतोपयोगित्वं महाकविना कर्तव्यम्। नाटकांतं कवित्वमिति नाटकस्य बहुभारतीयादिलक्षणग्रंथलक्ष्यत्वादिति भावः । महाकविप्रणीतकाव्यस्य व्यंगमेव भूषणं न तु वाच्यालंकारादि हि । तदुक्तम् "मुख्या महाकविगिरामलंकृतिमृतामपि । प्रतीयमानच्छायैव भूषा लज्जैत्र योषिताम् ॥" इति । यथा केयूरहारनूपुराद्यनेकालंकारालंकृतानामपि स्त्रीणां लज्जैव मुख्या भूषा भवति । तथा चित्रयमकश्लेपाद्यनेकालंकारालंकृतामपि काव्यानां महाकविसंबधिनां प्रतीयमानार्थच्छायैव मुख्या भूषा भवति । भवतु च्छायामात्रेणापि ध्वनेर्यत्रावस्थानं तत्र तस्य मुख्यत्वमपि । चित्रयमकश्लेषोपमाद्यलंकृते व्युत्पत्तिमात्रप्रदर्शनफले काव्ये कथमाविभर्वतु व्यंग्यच्छायेति वादिनं प्रत्युच्यते "निर्गुणं न भवेत् काव्यं गुणाश्च रसगोचरः । तस्माद्रसेन केनापि भाव्यं चित्रेऽप्यनुज्झता ॥ अनुल्वणत्वाद्व्यंग्यानामव्यंग्यं चित्रमीरितम् । व्यंग्यस्यात्यन्तविच्छित्तिः काव्ये कुत्रापि नेष्यते ॥" काव्येन तावत्सर्वथा गुणबत् इव भवितव्यम् । गुणाश्च रसधर्मा भवन्ति तस्माचित्रेऽपि काव्ये अनुज्झता केनापिं रसेन भवितव्यम् । अन्यथा काव्यशब्दविषयत्वाभावत् तत्कथं काव्यप्रकाशकारेणाव्यंग्यमिति प्रतिपादितमित्याशं- अपि च ।
अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्रसुदुःसहनि ॥ ३ ॥
वकाश इति ज्ञेयम् । अन्तरिति । शशिनि चन्द्रेऽन्तर्हिते व्यवहिते । 'अन्तर्धा व्यवधा' इत्यमरः । यतः स शशयुक्तः कलङ्की, अतस्तस्यान्तर्धानमुचितमिति भावः । या पूर्वे विकसितकुसुमा कमलोपहारकारिणी सैव तत्रापि या काचन न भवति । अपि तु पृथिवोहर्यकारिणी मे तापसस्य विषयादिविवेकशून्यस्य दृष्टिं न नन्दयति न हर्षयति । तत्रार्थे हेतुः । कीदृशी । संस्मरणीयादृश्या शोभा यस्याः सा । इष्टः प्रियस्तस्य प्रवासो देशान्तरस्थितिस्तेन जनितानि दुःखानि ।अबलाजनस्येति सुदुःसहत्वेनोक्तम् । अन्यथा स्त्रीजनस्येत्येव ब्रूयात् । जनशब्देन जाति-
क्योक्तम् "अनुल्वणत्वाद्व्यंग्यानामव्यंग्यं चित्रमीरितम् ।" तस्माद्व्यंग्यार्थस्यात्यंतविच्छित्तिः कुत्रापि काव्ये नेष्यते । यथा व्यंग्यत्वेन प्रतिपादिते चित्रकाव्ये व्यंग्यार्थच्छायानुवृत्तिस्तथानलंकारे उक्तकाव्ये ध्वनावप्यलंकारच्छायानुवृत्तिरिति प्रतिपादयन्ति । "अव्यंगे तु यथा काव्ये व्यंग्यच्छायानुवर्तते। ध्वनावप्यनलंकारे तथालंकारवसना ॥" इति । काव्यत्य केनचिद्रसेन भवितव्यम् । रसो व्यंग्यः रस एव काव्यस्य आत्मा भवति । दोपगुणालंकाराणां व्यंग्यस्यापि शब्दार्थायत्तत्वे समाने कथं ध्वनेरात्मत्यमित्याशंक्येदमुच्यते । "दोषा गुणा अलंकाराः सर्वेऽपि रसगोचराः । काव्यस्यात्म रसो यस्मादात्मधर्माश्च ते ग्रतः ।" इति सर्वथा ध्वन्यमानस्वरूपतया रस एव काव्यस्यात्माआत्मनो धर्माश्च दोषा गुणा अलंकाराः यस्मात्तस्मात्ते च धर्मा एव नतु काव्येषु शब्ददोषाः अर्थदोषः शब्दगुण अर्थगुणाः शब्दालंकारा अर्थालंकार इति व्यवहारः कथमिति चेदुच्यते "गदशौर्योगदादीनामंगधर्मतया तथा । शब्दार्थगोचरतया तथा तेषां च कीर्तनम् ॥" यथा लोके आत्मधर्माणां व्याधिरूपाणां शौर्यादिरूपाणां च गुणानमंगदादिरूपाणामलंकाराणां च शरीरधर्मत्वेनावस्थानम् । तथात्राप्यात्मभूतरसधर्माणां धृतिकटुकत्वादिदोषाणां माधुर्यादिगुणानामनुप्रासाद्युपमाद्यलंकाराणां च शब्दार्थगतत्वेन प्रति- पादनमिति ज्ञातव्यम् । अपिचेत्यादि । आपिच किंच प्रातःकालसंवेध्येव किंचिदुच्यत इत्यर्थः । अंतर्हित इति । शशिनि चंद्रे अंतर्हिते अतर्धानं गते सति सैव कुमुद्वती या रात्रौ चंद्रकिरणस्पर्शाद्विकासवत्तया दर्शनीया दृष्टा सैव कुमुद्वतीति यावत् । संस्मरणी-
( प्रविश्यापैटीक्षेपेण । )
अनसूया-जइ वि णाम विसअपरम्मुहस्स वि जणस्स एदं ण विदिअं तह वि तेण रण्णा सउन्दलाए अणजं आअरिदं ।
मात्रग्रहणम् । नूनं निश्चितम् । आतिमात्रमत्यर्थं सुदुःसहानि ? अतिमात्रसुशब्दौ दुःसहवस्याप्यशक्यानुष्ठानं बोधयतः । अत्र पूर्वार्ध नायकेऽन्तर्हिते नायिका दृष्टिं न नन्दयतीति नायकयोर्व्यवहारसमारो पात्समासोक्तिः । उत्तरार्धेन सामान्येन विशेष्यस्य समर्थनार्थान्तरन्यासः । इष्टेति जानिजनेति मतिमात्रेति छेकवृत्त्तिश्रुत्यनुप्रासाः । काव्यलिङ्गं च । वृत्तमनन्तरोक्तमेव । अथ च कौ पृथिव्यां मुद्वती हर्षयुक्त्वा सैव पूर्वं दृष्टा शकुन्तला शशिनीति दुष्यन्ते विषयनिगरणात्तद्वंशोद्वाहान्तर्हितेऽसंनिहिते इत्यादि पूर्वार्ध सर्वं योज्यम् । तेनास्या राजगृहं प्रति प्रस्थापनसूचकं तृतीयं पताकास्थानमुपाक्षिप्तम् । तल्लक्षणमुक्तं मातृगुप्ताचायैः-‘अर्थोपक्षेपणं यत्र न गूढं सविनं भवेत् । श्लिष्टा प्रत्युत्तरोपेतं तृतीयं तन्मतं तथा ॥ ' इति । शिष्येतार्थान्तरन्यासश्रवणान्तरं प्रबुद्धः सख्या अनसूयायाया अपटक्षेपेण प्रवेशः ‘ नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि च' इयुक्तेः । अपणी जबानका । ‘अपनी काण्ड-
यशोभा अवर्थ चिन्तनीयप्रभा संकेचवतया वतशोभेति यावत् । डटिं रम्यपदार्थसाफल्यहेतुमिंद्रियं न नन्दयति न प्रीणयति । वर्तमानत्रप्रयोगेण कुमुद्वत्याः सुभगसुभगस्वयोरव्यवधानं व्यज्यते । चंद्रास्तमयानंतरक्षण एवेति भावः । दृष्टिमित्येकवचनेन बीतशोभतया पुनस्तदीयदर्शनवैमुख्यं व्यज्यते । इष्टप्रवासेल्यधृतरन्यासः । अबलाजनस्य स्त्रीजनस्य इष्टप्रवासजनितानि प्रियविरहजनितनि दुःखानि विरहपरंपराजनितकार्श्यवेवर्ण्यादीनि अतिमात्रसुदुःसहानि अतिमात्रं प्रमाणाधिकं सुतरामविपह्याणि मरणान्तफलानीति यावत् । तेन स्ंर्तिगुणगुणेद्गदिमदनदशाभेदः सूच्यन्ते । यैन विना न जीव्यते तत्रैवेष्टशब्दप्रयोगः क्रियत इति महाकवनां संकेतः । नूनमिति संभावनायाम् । दुःखानीति बहुवचनेन विरहपरंपराजनित सौंकायलसतादिविविधदुःखानुभवः सूच्यते । तेन च स्तंभप्रलयादिभावाः सूचिताः । अवलाजनस्येत्यनेनानन्यगत्या विरहदुःखासहिष्णुतायां पराकाष्ठा सूचिता । पुरुषस्य बहुवल्लभताया युतत्वान्न तथा दुःखानुभव इति भावः । अनेन चन्द्रस्तमयात्कुमुद्वत्वा निष्प्रभत्वकथनेन शकुन्तलाया अपि दुष्यन्तविश्लेषजनितबहुदुःखानुभवोऽस्तीति सूच्यते । प्रविश्येत्यादि। पटक्षेपेण यवनिका-
[ यद्यपि नाभ विषयपराङ्मुखस्यापि जनस्यैतन्न विदितं तथापि तेन राज्ञा शकुन्तलायामनार्यमाचरितम्]
शिष्यः- यावदुपस्थितां होमवेलां गुरवे निवेदयामि । ( इतेि निष्क्रान्तः )
अनसूया--पडिबुद्धा वि किं करिस्सं । ण में उइदेसु वि णिअकरणिजेसु हृत्थंपाआ पसरन्ति । कामो दाणिं सकामो होदु ।
पटीका प्रतिसीरा जवनिका तिरस्करिणी’ इति हलायुधः । यद्यप्येवमपि नाम विषयपराङ्मुखस्यापि जनस्याप्येतन्निवेदितमपि न विदितमेवेति योज्यम् । अथेरवधारणार्थत्वात् । तथापि तेन राज्ञा शकुन्तलायमनार्यमाचरितम् । होमवेलानिवेदनार्थं गते शिष्येऽस्यास्तत्र संमार्जनादि कर्तृमार्याया एव प्रबोधकाल इति वदति । प्रतिबुद्धोत्थितापि किं करिष्ये । न म उचितेष्वपि निजकार्येषु हस्तपादं प्रसरति । काम इदानीं
पनोदनेन । सूचनं विनैव प्रविश्येत्यर्थः । हर्षशोकादिजनितसंभ्रमयुक्तस्य पात्रस्य प्रवेशः पटाक्षेपेण क्रियत इति काव्यव्यवहारः । एवमित्यादि । विषयपराङ्मुखस्येति विषयेषु स्रक्वंदनाद्युपभोगार्थेषु पराङ्मुखस्योदासनस्य । " विषयः स्यादिंद्रियार्थे देशे जनपदेऽपि च ।" इति विश्वः । विषयरसानभिज्ञस्य वीतरागस्यापति यावत् । जनस्येति जनशब्देन जननमात्रमुच्यते न तु लौकोत्तरनस्त्रीरत्नसंभोगविषयक्रीडाविरहजनितसुखदुःखानुभवज्ञस्येति भावः । एतादिष्टजनप्रवासदुःखं कांताजनस्यासहमिति यदेतदित्यर्थः । तथाविधेनेत्यनेन " परिग्रहबहुत्वेऽपि " इत्यादिना धर्मप्रजार्थमेव शकुन्तला परिगृह्यत इति दुष्यन्तकृतशपथादिकं सूच्यते । राज्ञेत्यनेन नागरिकतया राज्ञो वंचनाप्रकारसामर्थ्यमुक्तम् । शकुन्तलायामित्यनेनारण्यवासितया नागरकजमसंसर र्गाभावाद्राजकृतवचनाभिज्ञत्वासाभर्येमुकम् । अन्याय्यं स्वग्नयोजने निवृत्ते स्वविश्लेषदुःखितां शकुन्तलां न स्मरतीति यत्तदन्याय्यमनुचितमिति यावत् । तथाविधेनेत्यनेन तृतीयेऽके ‘‘ तपति तनुगात्रि ” इत्यादिना दुष्यन्तस्य स्वशरीरकार्शवैवण्यदीनां शकुन्तलाविरहनिमित्तत्वकथनं स्वप्रयोजनार्थं कृत्रिमं न तु स्वाभाविकमिति भावः । अहवेत्यादि । अथवेति पक्षांतरे। प्रतिबुद्धपि ज्ञानवत्यपि । यद्यपि राज्ञस्ताक्प्रागातिशयस्तथाप्यन्तःपुरस्रीगणहृतचततया विस्मरणकारणं ज्ञातवत्यपीति यावत् । उचितेषु
जेण असच्चसंधे जणे सुण्णहिअआ मही पदं कारिद । अहवा दुव्वाससो कोवो एसो विञरेदि । अण्णह कहं सो राएसी तारिसणि मन्तिअ एतिअस्स कालस्स देहमेत्तं पि ण विंसीदि । ता इथे अहिण्णणं अङ्गुलीअर्ज से विसज्जेम। दुक्खसीले तवस्सिजणेको अव्भत्थीअदु । णं सहीगामी दोसो त्ति व्ववसिदा वि ण
सकामो भवतु । अयमर्थः । सवद् बौऽनार्येष्वेव प्रवर्तत इति साभि षो भवतु । तस्याभिपः पूयेततमिति । येन कमेनसत्यसंधेऽसत्यप्रतिजे । ‘संधा प्रतिज्ञा मयीदा ' इत्यमरः । जने शून्यहृदया सखी पदं स्थानं कारिता । शून्यहृदयपदं हेवुत्वेनोपत्तम् । अथवा दुर्वाससः कोप एष विकारयत्यन्यथाकारयति । ‘वर्णासहर्षा अन्यथात्वपरिणामेपु ’ इति गणपाठात् । अन्यथा कथं स राजर्षिरिति साभिप्रायम् । तादृशानि मन्त्रयित्वैतावत्कालस्य लेश (ख)मात्रमपि न विसृजति । तदितोऽभिज्ञानमंगुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थते ।
राजानं प्रति स्मारकपत्रलेखादिनिर्माणेषु कृत्येषु । हस्तपादा न प्रसरन्ति । सामप्यभवात्सखीदुःखवशाच्च न प्रवर्तत इति भावः । इदानीं सांप्रतं तादृग्रागातिशयवतो राज्ञः स्वविश्लेपासहनशीलशकुन्तलाविषयकस्मरणाभावे सति सखीभूतायाः स्वस्या अपि तत्स्मारकपत्रलेखनादिनिर्माणसमर्थाभावे सति च सांप्रतमित्यर्थः। कामः रूपलावण्यादिभिरप्रतिभटः सकामो भवतु फलितमनोरथपरंपरासहितो भवतु । रूपलावण्यादिविषये स्वशत्रुभूतदुष्यन्ताविषयकानुरागाद्यतिशयवतीं शकुन्तलामरविन्दाशोकादिविशोषणमोहनादिबाणैः संहर्तु विशेषरूपरंध्रप्राया मदनस्य सकामस्वामिति भावः । शकुन्तलाया चंद्रातपकोकिलालापादिस्मरोद्दीपनविभावजनितदुःखेन मरणमेव शरणमित्यभिप्रायः । अहवेत्यादि । दुःखशलि इति । आश्रमवासित्वाद्रूपलावण्याद्यपोषकपरिमिताहारादिक्लिष्टे तपास्विजने अनागरिकजनविपये शकुन्तलायामित्यर्थः । कः अभ्यर्ध्यते को वा जनः प्रार्थ्यते प्रार्थनां कुरूत इति यावत् । राजव्यतिरिक्तो जनः प्रार्थनां न कुरुते । "रत्नहारी तु पार्थिवः" इति न्यायेन लोकोत्तरवहुत्रोपरिभावी राजा कथं प्रार्थ्यत इति भावः । अभ्यर्थ्यत इति वर्तमानव्यपदेशेन अनुरागभावे कथं संभोगादिकं कृतमित्याशंक्य तात्कालिकमदनवाधानिवृत्यर्थमेव तृतीयेऽङ्के अनुरागप्रकटनं राज्ञा कृतं नत्वांतमनुद्धेयमिति व्यज्यते ।
पारोमि पवासपडिणिउत्तस्य ताटकस्सवस्त दुस्सन्तपरेिणीदं आदण्णसत्तं सउन्दलं णिवेदिदुं । ञह्नोहिं अंगेहिं किं कराणिजं । [ प्रतिबुद्धाषि किं करिष्य । न न उचितेष्वपि निजकार्येषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु । येनासत्यसंधे जने शून्यहृदया सखी पदं कारिता । अथवा दुर्वाससः कोप एष बिकारयति । अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावत्कालस्य लेखमात्रमपि न विसृजति । तदितोऽभिज्ञानमङ्गुलीयकं तस्य विंसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम्। ननु सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्वां शकुन्तलां निवेदयितुम् १ इत्थंगतेऽस्माभिः किं , करणीयम् ]
( प्रविश्य )
प्रियंवदा-( सहर्षम् ) सहि, तुवर सउन्दलाए पत्थाणकोदुअं णिव्वत्तिदुं [ सखि, त्वरस्व शकुन्तलायाः प्रस्थाकौतुकं निर्वर्तयितुम् ]
तत्र गन्तुमिति शेषः । ननु सखीगाम दोष इते व्यवसितापि जातव्यवसायापि न पारयामि पुवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां गुर्वीणीम् । ' अपन्नसत्वा स्यादुर्विण्यन्तर्वत्नी च गर्भिणी ' इत्यमरः । शकुन्तलां निवेदयितुं संपादयितुम् । सखीगामी दोष इति निवेदयितुं न पारयामीति संबन्धः । अनेन देववाण्यास्या अन्तर्वत्नीत्वं श्रावयिष्यत इति सूचितम् । इत्थंगतेऽस्माभिः किं करणीयम् । सखि, त्वरस्व शकुन्तलायाः प्रस्थाने गमनसमये कौतुकं पारम्प
यद्यनुरागातिशयोऽस्ति तर्हि कथमेनां म स्मरति तादृग्राजाद्यस्मारकांगुलीयकप्रेषणेनापि शकुन्तलां न स्मरतीति भावः । यद्वा दुःखशीले राजानं प्रति स्मारकांगुलीयकं नेतुम सभर्थे शृंगारसानभिज्ञ इति यावत् । तपस्विजने सर्वविपयोदासीनजनविषये कः अभ्यर्थ्यते दैन्यपुरःसरं याच्यते इत्थं गते एवं प्राप्ते कर्मणियर्थः । प्रविश्येत्वादि । प्रस्थान-
अनसूया--सहि, कहं एदं [सखि, कथमेतत् ]
प्रियंवदा---सुणाहि | दाणि सुहसेइदपुच्छिआ सउन्दलासआसं
गदाह्नि । तेदो जाव एणं लज्जरणदमुहिं परिस्साजिअ तादकस्सवेण
एव्वं अहिणन्दिदं ? दिट्टिआ धूमाउलिददिट्टिणो वि जअमाणस्स्स
पाअए एव्व आहुदी पडिदा ? वच्छे, सुसित्सपरिदिण्णा विज्ज
विअ असोअणिज्जा संवुत्ता । अज्ज एव इसिरक्खिदं तुमं भत्तुणो
सआसं विसज्जेमि त्ति । [ श्रृणु । इदानीं सुखशयनपृच्छिका शकुन्तलासकाशं गतास्मि। ततो यावदेनां लज्जावतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलिप्तदृष्टेरपि
यजमानस्य पावक एवाहुतिः पतिता । वत्से, सुशिष्यपरिदत्ता
विधेवाशोचनीया संवृत्ता । अद्यैव ऋषिगक्षितां त्वां भर्तुः सकाशं
विसर्जयामीति ]
र्यागतमङ्गलं निर्वर्तयितुं संपादयितुम् । ' कौतुकं नमेणच्छायामुत्सवे कुतुके मुदि । पारम्पर्यागतख्यातमङ्गलोद्वाहमूत्रयोः ॥ ’ इति हैमः । कथमेतत् । श्रृणु । इदानीं सुखशयनपृच्छिका शकुन्तलाया सकाशं गतास्मि । प्रातर्गत्वा रात्रौ तव लुखशयनं जातमिति या पृच्छाति सा सुखशयनपृच्छेत्युच्यते । तेन प्रातः सुखशयनं प्रष्टुं गतास्मत्यिर्थः । ततो यावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दतम् | दिष्टया दैवेन धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । अनेन दृष्टान्तेन स्वस्य कृतकृत्यता ध्वनिता । ममायासं विनैव वाञ्छितस्थले संबन्धो जात इत्यर्थः । वत्से, सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता
कौतुकं प्रयाणमंगलं निर्नर्तयितुं ममापयितुन् । ततस्तत इति श्रोतव्यौत्मुक्यद्यौतिका
अनसूया-अह केण सूइदो तादकस्सवस्स वुत्तन्तो । [ अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ॥
प्रियंवदा-अग्गिसरणं पविद्वस्स सरीरं विणा छन्दोमईए वाणिआए । ( संस्कृतमाश्रित्य ) [ अग्निशरणं ग्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ]
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः।
अवेहि तनयां ब्रह्मन्नग्नेगर्मी शमीमिव ॥ ४ ॥
अनेन तस्याः कृतकृत्यता ध्वनित । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयमीति ? ‘ वर्तमानसमीप्ये-' इति लट् । अथ केन सूचितः कथितस्तातकाश्यपस्य वृत्तान्तः | अग्निशरणमाग्निहोत्रगृहम् ! ‘शरणं गृहरक्षित्रोः ' इत्यमरः । प्रविष्टस्य शरीरं विनशरीरिण्या छन्दोमय्य वाण्या सूचित इत्येव (त्यर्थः) संस्कृतमाश्रित्येति । उक्तं च मातृगुप्तचार्यैः-“योज्यं विदूषकोन्मत्तवार्तापसयोषिताम् । नीचानां पण्डकानां च नीचग्रहकारिणाम् । विद्वद्भिः प्राकृतं कार्ये कारणात्संस्कृतं क्वचित् । इति । अत्र चाशरीरिणवाण्यनुवाद एव कारणम् । यथास्थितस्यैवानुवाः स च संस्कृतमन्तरेण न संभवतीति संस्कृताश्रयणम् । दुष्यन्ते नेति । नामानुकीर्तनेन सोमवंशोद्भवत्वेन किमष्यामिजायमौदार्यघैर्य
वीप्सा प्रस्तुतकथनीयशेषं कथयेत्यर्थः । दुष्यतेनेति । दुष्यन्तपदेन राजर्षिकन्यायाः शकुन्तलयाः राजर्षिवरगामितायाः युक्तत्वाद्राजर्षिदुष्यन्तपारिग्रहादनुरूपवरप्राप्तिः सूच्यते । तर्ह्यस्मदनुमत्या कथं दुष्यन्तेन पर्गृहातेत्यद अह आहितं निषिक्तं तेजो वीर्ये दधानामिल्यनेन गान्धर्वविवाहः सूचितः । गान्धर्वविवाहस्य पित्राद्यननुमत्यापि परस्परसंकेतिततात्कालिकसंभेगस्य युक्तत्वात् । सद्योगर्भधारणेन दुष्यन्तस्यामोघवीर्येत्वं ज्ञाप्यते । ब्राह्मर्षादिविवाहृविधिविवाहितायाः कन्यायाः ऋतुसंगमनादिकालांतरेऽपि संभोगस्थ युक्त्वादिति भावः । भुवः भूमेः भूतये समृद्धय इत्यनेन शकुन्तला एव पमहिषीत्वं तज्जनितपुत्रस्यैव साम्राज्यमिति च ज्ञाप्यते । धर्मग्रजार्थमेव परिणीता न तु भौगार्थमिति भावः । किंच भुवो भूतय इत्यनेन जनिष्यमाणो गर्भः पुत्रः न तु पुत्रीति व्यज्यते । स्रिया राज्याधिकाराभावादिति भावः । भूशब्देन भूमिस्थजना लक्ष्यंते
अनसूया-( प्रियंवदामाश्लिष्य ।) सहि, पिअं मे। किंदु अज्ज
एव्व सउन्दला णीअदित्ति उकण्ठासाहरणं परितोसं अणुहोमि ।
[ सखि, प्रियं मे। किंत्वद्यैव शकुन्तला नीयत इयुत्कण्ठासाधारणं
पारितोषमनुभवामि |
प्रियंवदा-सहि, वअं दाव उक्कण्ठं विणोदइस्सामो । स तवस्तीिणी णिव्वुदा होदु)।[ सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः।
सा तपस्विनी निर्वृता भवतु |
अनसूया-तेण हि एदसिंस चूदसहावलम्विदे पारिएरसमुग्गए
एतण्णिमित्तं एव्व कालन्तरक्खमा णिक्खित्ता मए केसरमालिआ।
विनयादिगुणसंपन्नत्वं च व्यज्यते । भुवः भूतय ऐश्वर्यायेति । अनेन तस्य भाविचक्रवर्तित्वं ध्वन्यते । आहितं निषिक्तं तेजो दूधानाम् । तेज इत विषयनिगरणेनातिशयोक्तिः । तेन तेजस्रयरूपत्वं गर्भस्य ध्वनितम् । तनयामवेहि जानीहि। अग्निगर्भा शमीमिवेति सहजपूतत्वं ध्वनितम् । उपमानुप्रासौ । अनेन भार्गलक्षणभङ्गमुपक्षिप्तम् । तल्लक्षणं तु-‘ भूतार्थवचनं चैष मार्ग इत्यभिधीयते’ इति । अशरीरिण्या वाचा सत्यार्थकथनात्प्राप्त्याशानुगमत्वम् । प्रियं मे तेनोत्कण्ठा परितोषश्च । उभयमप्यनुभवाभीयर्थः ! वयं तावदुत्कण्ठां विनोदयिष्यामः परिहरिष्यामः । सा तपस्विन्यनुकपार्हा निर्वृता सुखिता भवतु । ! तपस्वी चानुकम्पार्हः ' इत्यमरः । तेनैतस्मिश्वूतशाखावलम्बिते नालिकेरस्य समुद्भके संपुटके तन्निमित्तमेव कान्तरक्षमा निक्षिप्ता मया केसरमालिका वकुलमाला । तदिमां हस्त-
तत्समृद्विकथनेन उत्पत्स्यमानस्य भरतस्य षष्था ष्ष्ठांशकरप्रहाद्युचितराजधर्मानुष्ठानन्यायप्रवृत्तित्वं सूचितम् ।
तेन च “ सुराज्ञि देशे राजन्वान् ’ इत्यभिधानात् भुवो
राजन्वतीत्वं ज्ञापितम् । शमीमिवेति । शम्युपमानेन यज्ञादिकर्मार्हपत्नीत्वं व्यज्यते ।
अग्निगर्भामित्यनेन भरतस्य तेजस्वित्वेन महारथतया चप्रतिरथत्वं गम्यते ।
हे ब्रह्मन् सकलवेदांतादिशास्त्रार्थे तात्पर्यवेदिन् ब्रह्मर्षे इति यावत् । अनेन ब्रह्मन्निति
संबोधनेन ब्रह्मर्षेः काश्यपस्य राजर्षिकन्यायाः शकुन्तलायाश्वसवर्णत्वं सूचितम् ।
अनुरूपराजर्षिकृतगान्धर्वविवाहस्य शास्त्रीयत्वाच्छापो न देयः । किंतु बहुमतिरेव कर्तव्येति भावः।
अवेहि एतावन्तमनेहसं त्वत्कृतपोषणादिरूपप्रयासस्यानायासेन सफलत्वमवगच्छ । अत्र प्राकृतभाषैच वक्तव्या कथं संस्कृतभषाश्रयणमति नाशंकनीयम् ।
कार्यवशाद्भाषाविपर्ययस्याप्युक्तत्वात् । तदुक्तं कार्यतश्वोत्तमादीनां कार्यो भाषाधिपैः
ता इमं हत्थसंणिहिदं करेहि । जाव अहंषि से मअलोअणं तित्थभित्तिअं दुव्याकिसलअणित्ति मङ्गलसमालम्भणाणि विरएमि ।
[ तेन हेतस्मिश्रूतशाखावलम्बिते नालिकेरसमुद्रक एतन्निमित्तमेव
कालान्तरक्षमा निक्षिप्ता मया केसरमालिका। तदिमां हस्तसंनिहितां
कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूवकिसलयानीति मङ्गलसमालम्भनानि विरचयामि |
प्रियंवदा-तह करीअदु । [ तथा क्रियताम् ॥
(अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्वाति )
( नेपथ्ये )
गौतमि, आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा -( कर्णं दत्वा ) अनसूए, तुवरसु । एदे क्खु हस्थिणाउरगामिणो इसीओ सदावीअन्ति । [ अनसूये, त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषय आकार्यन्ते ।
( प्रविश्य समालम्भनहस्ता )
अनसूया-सहि, एहि । गच्छह्न । [सखि एहि । गच्छावः]
( इति परिकामतः )
संनिहितां कुरु । गृहणेत्यर्थः । यावदहमपि तस्यै तदर्थम् । “ तादर्थ्ये डिच्च ' इति विकल्पेन षष्ठीविधानात् 1 मृगरोचनां गोरोचनाम् । “ मृगः पशौ कुरङ्गे च ’ इति विश्वः । तीर्थमृत्तिकां दूकिसल्यानि दूर्वाकुरा इत्येतदूपाणि मङ्गलसमालम्भनानि मङ्गलालंकरणानि विरचयाम्येकत्र करोमीत्यर्थः । ‘ समालम्भनमालेपे तिलकेऽनुकृतावपि १ इति यादवप्र-
“यः । देशौचित्याद्रसौचित्याकार्या विषक्रियाभिसदा ।। " इति । प्रविश्येत्यादि । समालं
प्रियंवदा -( विलोक्य ) एसा सज्जोदए एव्व सिहामज्जिदायडिच्छिदणीवरहत्थाहिं सोत्थिवाअणहिं तावसीहिं अहिणन्दीअमाणा सउन्दला चिद्दइ । उवसप्पह्न णं।[ एषा सूर्योदय एव शिखामज्जिता प्रतिष्ठितनीवरहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिराभिनन्द्यमाना शकुन्तला तिष्टति उपसर्पाव एताम् ]
( इत्युपसर्पतः )
( ततः प्रविशते यथाद्दिष्टव्यापसनस्था शकुन्तला )
तापसीनामन्यतमा-(शकुन्तलां प्रति ) जादे, भत्तुणो बहुमाणसूअअं महादेईसदृं लेहेहि [ जाते, भर्तुर्बहुमानसूचकं महदेवीशब्दं लभस्व |
द्वितीया-वच्छे, वीरप्पसविणी होहि ।वत्से वीरप्रसविनी भव]
तृतीया-वच्छे, भत्तुणो बहुमदा होहि। [वत्से,भर्तुर्बहुमता भव ।
( इयाशिषो दत्त्र गौतभीवर्ज निष्क्रान्ताः )
सख्यौ-( उपसृत्य ) सहि, सुहमज्जनं दे होदु । [ सखि, सुखमज्जनं ते भवतु ]
काशः | तथा क्रियताम् । त्वरस्य । एते खञ् हस्तिनापुरगामिन ऋषय आकार्यन्ते । साखि, एहि । गच्छत्रः एषा सूर्योदय एव शिखामज्जिता मज्जनं स्नानं कारिता |अभ्यङ्गस्नानं कारितेति यावत् । प्रतिष्ठिता गृहीता नीवारा यैरेवभूता हस्ता यासां ताभिः । शून्यहस्तानामागमनमनुचितमिति नीवारेत्याद्युक्तिः । स्वस्तिवाचनिकाभिः पारम्पर्येण स्वस्तिवाचनाधिकारिणीभिस्तापसीभिस्तपस्विसुवासिनीभिराशीर्भिरनुगृह्यमाणा (रभिनन्द्यमाना ) शकुन्तला तिष्ठति । उपसर्पाव एताम् । जाते पुत्रि, भर्तुबहुमानसूचकं महादेवीशब्दं लभस्व । वत्से, वीरप्रसविनी भव । वत्से,
भनं नाम लैपनविशेषः । शिखा मार्जितेत्यनेन अभ्यक्तस्नातेति यावत् ।
शकुन्तला-साअदं में सेहीणं। इदो णिसीदइ। [स्वागतं मे
सख्योः । इतो निषीदतम् ]
उभे--( मङ्गलपात्राण्यादाय । उपविश्य ) हला, सज्जा होहि ।
जाव मङ्गलसमालम्मणं विरएम । हला, सज्जा भव । यावन्मङ्गलसमालम्भनं विरचयावः |
शकुन्तला-इदं पि बहु मन्तव्यं। दुल्लहं दाणिं मे सहीमण्डणं
भविस्सदि त्ति । ( इते बाष्पं विसृजति) [ इदमापि बहु मन्तव्यम् ।
दुर्लभमिदानीं मे सखमण्डनं भविष्यतीति |
उभे--सहि, उइयं ण दे मङ्गलकाले रोइदुं।( इत्यश्रूणि प्रमृज्य
नाट्येन प्रसाधयतः ) [ सखि, उचितं न ते मङ्गलकाले रोदितुम् ॥
प्रियंवदा–आहरणोइदं रूवं अस्समसुलहेहिं पसाहणेहिं विप्पअरीअदि । आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ]
भर्तुर्बहुमता भव | सुखमज्जनं सुस्नानं ते भवतु । स्वागतं मे सख्योः । इतो निषीदतम् । सज्जा भव । वन्मङ्गलसमालम्भनं विरचयावः । इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे सखीमण्डनं भविष्यतीति । उचितं न ते मङ्गलकाले रोदितुम् । अनेन भविष्यद्वियोगः सूचितः। अश्रूणि विसृ ( प्रमृ ) ज्येति त्रिपताकानामिकया नेत्रदेशगतया । त्रिपताकलक्षणमुक्तं प्राक् । नाट्येनेति त्रिपताकानामिकया तिलकं पार्श्वमुखसंदंशाभ्यामुभयकरस्थाभ्यां मालाभ्रमराभ्यां तालपत्रद्वयं कर्णपूरद्वयमियादि । तल्लक्षणानि तु---‘ अरालागुष्ठतर्जन्यौ लग्नाग्रे निम्नतां गतः । किंचिच्चेतनमध्यः स्यात्तदा संदंश उच्यते । स त्रेधा स्यादग्रतश्च मुखतः पाश्र्वतः क्रमात् । प्राङ्मुखः पार्श्वभुखः इत्यस्य लक्षणम् ॥ ' इति । अंशरूलक्षण मुक्तं प्राक्-- अंगुष्ठमध्यभांगुल्यौ श्लिष्टाग्रे तर्जनी नता । यत्रोर्वे विरले शेषं मकरो भ्रमणं भवेत् । कर्णपूरै तालपत्रे कंट्कोद्धरणादिषु । ’ इति । आभरणोचितं रूपमाश्रममुलभैः प्रसाधनैर्विप्रकार्यते । विकृतं क्रियत
(प्रावेश्योपायनहस्तौ ) ऋषिकुमारकौ-इदमलंकरणम् । अलंक्रियतामत्रभवती । सर्वा विलेक्य विस्मिताः। गैौतमी-वच्छ णारअ, कुदो एदं । [ वत्स नारद, कुत एतत् ] प्रथमःतातकाश्यपप्रभावात् गैौतमी-किं माणसी सिद्धी । [ किं मानसी सिद्धिः ] द्वितीयः-न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ता: शकुन्तलाहेतोर्वैनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं
क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं निष्ठयूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् । अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै- दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥ ८ ॥
इत्यर्थः । आभरणोचितमित्यनेन सूचितमाभरणम् । तद्वारा तदानयनकर्तृणामपि
सूचनमार्थम् । इयूषिकुमारयोः प्रवेशः। विस्मिता इतेि |
अकस्मादलंकारदर्शनेन तेषां चातिरमणीयत्वदर्शनेन । वत्स नारद, कुत एतत् । किं मानसी सिद्धिः । न खल्विति पूर्वस्योत्तररूपं भिन्नं वाक्यम् । क्षौममिति । केनचित्तरुणेन्दुवत्पांडु श्वेतम् । मङ्गलकर्मणि साधु माङ्गल्यम् । अनुपहतदशं गोरोचनाचित्रितपर्यन्तं युगलं चेत्यर्थः।
क्षौमेति । केनचितसृणावॄक्षेण मांगल्यं मंगलार्थं क्षौममाविष्कॄतमुद्भावितं नतु शोभार्थम्। प्रथमेंऽके ‘‘इयमधिकमनोज्ञा वल्कलेनापि तन्वी’ इति वक्कलस्यापि शोभाकरत्वकथनानात्। किंतु राजगृहगमने स्त्रियाः वल्कलधारणस्यामंगलत्वान्मंगलार्थमेव अतः युकं मांगल्यमिति । इन्दुपांड्विति विशेषणेन नैर्मल्यकथनादितः पूर्वे केनाप्यनुपभुक्ततया क्षालननैरपेक्ष्यादविलंबेन धर्तव्यमिति ज्ञाप्यते । केनचित्तरुणा चरणोपभोगसुलभः चरणोपभोगाय प्रियंवदा--( शकुन्तलां विलोक्य ) इला. इमाए अभुषवचीए सूइआ दे भतुणो गेहे अणुर्हदव्या राअलच्छि त्ति । [ हला, अनयाभ्युपपत्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीरिति]
शकुन्तला व्रीडां रूपयति)
अतएवाग्रे ‘ परिधेहि संपदं खोमजुअलं ? [ इति ]। क्षौमं दुकूलमाविष्कृतं
दत्तम् । केनचित्तरुणेत्यनुषज्यते । चरण उपभोगो रञ्जनादिस्तत्र
सुलभो योग्यः । अनेन विशेषणेनानेकप्रयत्नजनितचरणालेपनयोयतायत्नसिद्धेति ध्वनितम् । लाक्षारसोऽलक्तद्रवो निष्ठयूतो दत्तः । पूर्वोक्तरीत्यात्राप्श्लेषपरिहारः यात्रायद्वीलपरिहारः । अन्येभ्यो वृक्षेभ्यः किसलयोद्भेद उद्भिद्यमाना: पल्लवा: । लक्षणया रक्ततरत्वकोमलत्वादि व्यङ्ग्यम् । तत्प्रतिद्वन्द्विाभिस्तत्प्रतिस्पर्धिभि:। तादृशैरिति यावत् । पर्वभागं मर्यादीकृत्योत्यितैर्वनदेवताकरतलैराभरणानेि
दत्तानीत्यन्वयः अत्र वनदेवताकरतलदत्ताभरणेन
तस्या आजन्मोवैधव्यसौभाग्ये आभरणानामनर्घत्वादि च व्यज्यते । तत्किसलयेति। विशेषणावकाशदानाय तलग्रहणम् । आपूर्वेतिविशेषणेन वनदेवतानामदृश्यत्वं सूचयता करतलभागस्यैव दृश्यत्वं वदता तासामेव करणत्वमस्तु किंतद्धस्ततलैरिति शङ्का निरस्ता । स्वभावोक्तिपर्यवसितेन तकिसलयेति तद्विशेषणेन तेषूद्भेदयोग्यता ध्वनिता । उपमयोः संसृष्टिः। श्रुतिवृत्यनुप्रासौ । अर्थावृत्तिहेतुश्च शार्दूलविक्रीडितं वृत्तम् । “ अन्यैस्तैः’
इति पठित्वा कर्तृप्रक्रमभङ्गः परिहर्तव्यः करतलैरित्यस्य करणत्वा
पादालंकरणाय सुलभः सुखेन लभ्यः अनुरूपकांतेन सह क्रीडानां येग्य इति यावत् । अनेनानुरूपवरप्राप्तिर्वनदेवताभिरपि ज्ञाप्यत इति व्यज्यते । लाक्षारसः वाचकरसः निष्ठ्यूतः उद्गीर्ण: । अन्येभ्य इतरेभ्यः आपर्वभोगोत्थितै: पर्वभागपर्यन्तं निस्सृतैः वनदेवताकरतलैः।
पुनः कीदृग्विधै: तात्क्रिसलयोद्भिदप्रतिद्वंद्विभिः तेषां वृक्षाणां किसलयोद्भेदस्तेषां
प्रतिद्वंद्विभिः प्रतिपक्षै: सदृशैरिति यावत् । आभरणानीति बहुवचनेन तत्तदवयवोचितभूषणविशेषाः
कथ्यते । अनेन नैपथ्यशृंगार: सूचितः । भूषणादिराहित्येऽपि प्रथमःगौतम, एवृद्दि । अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः
द्वितीय:-तथा ( इति निष्क्रान्ते )
संख्यौ–अए, अणुवजुत्तभूसण अअं जणो । चित्तकम्मप अएण अङ्गेसु दे आहरणविणिओअं करेह्म। [ अयेअनुपयुक्तूभ्रूषणोऽयं
जनः। चित्रकर्मपरिचयेनाङ्षुगेषु त आभरणविनियोगं कुर्वः ]
शकुन्तला-जाणे वो णेउणं। [ जाने वां नैपुणम् ] (उभे नाट्येनालंकुरुत: )
केचनात्र समादधते । पूर्वार्धे वृक्षाणां सेवासूचनमुत्तरत्र वनदेवतानामिति
तत्कृर्तृकत्वमेवोचितामाते तन्न सम्यक् । करणत्वेनापि तदुपपत्तेः ।
अन्यथा पूर्वार्धवत्करणानुपादानेऽपे तत्संभवात् । किं च पूर्वत्र ९ वनस्पतेिभ्यः पुष्पाण्याहरत ' इत्युत्तरत्र काश्यपाय वनस्पतिसेवां निवेदयावः ?. इति शिष्ययोर्वाक्येन विरोधः स्यात् । अतः पूर्वोक्तमेव न्याय: । शब्दानुपादान एकपर्वमात्रः प्रत्ययः स्याद्गशब्दोपादानेऽपि
तु पर्वत्रयमपि प्रतीयत इति नामकरत्वम् । तेन विना
दानासंभवादौपासंगतेश्च । अनयाभ्युपपत्यानुग्रहेण सूचिता भर्तुरैहेऽनुभावितव्या राजलक्ष्मीरितेि । “ प्रविश्योपायनहस्तौ ’ इत्यादिनैतदन्तेनोदाहरणमङ्गमुपाक्षिप्तम्। तल्लक्षणं तु-‘यत्तु सातिशयं वाक्यं तदुदाहरणं
स्मृतम् ? इति । वृक्षाणां चेतनवद्वनदेवताहस्तैरलंकारदानवचनात्सातिशयत्वप्राप्त्याशानुगमत्वं प्रकटमेव । अनुपयुक्तभूषणोऽधृतालंकारोऽयं जनः । चित्रकर्मपरिचयेनार्थेष्वाभरणविनियोगं कुर्वः ! जाने
वां नैपुणम् । नाट्येनेते कर्तरीमुखेनालक्तकेन पादरञ्जनम् । हंसास्येनच्युतसंदंशेनोर्मिकापरिंधापनम्।
एवमन्यदप्यनुसंधेयम् । कर्तरीमुखलक्षणं- यथा–’ अश्लिष्टा मध्यमा पृष्ठे संस्थिता तर्जनी यदा । त्रिषता
कस्य हस्तस्य तदा स्यात्कर्तरीमुखः। अलक्तकादिनां पादरञ्जने ’ इति । |( ततः प्रविशति ’स्नानोत्तीर्णः काश्यपः ) 'काश्यपः -
यास्यत्यद्य शकुन्तलेते हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषाश्चन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः । पीड्यन्ते गृहिणः कथं नै तनयाविश्लेषदुःखैर्नवैः ॥ ६ ॥
'इति परिक्रमति)
हंसास्यलक्षणमुक्तं प्राक् । यास्यतीति । अद्यधुना शकुन्तला यास्यतेि । न तें याता नापि याति, अपि तु यास्यतीति मनसि कृतमात्र एवेति भावः । इति कृत्वा हृदयमुत्कण्ठया संस्पृष्टम् । समातिशयो द्योत्यते । अत्रोद्देश्यप्रतिनिर्देश्यप्रक्रम इन्द्रियाणां स्वावेषयाग्राहकत्वं च हृदयदोषादानमन्तरेण
न स्फुरतीति तत्पदोपादानम् । तेन नार्थपौनरुक्त्यम् ।
स्तंभिता या बाष्पस्य वृत्तिः प्रवृत्तिः । आरम्भ इति यावत् तया कलुष: स्वरभङ्गवान्कण्ठः । स्तम्भितत्वे कारणं पुरुषगतधैर्यम् । तेन निर्हेतुत्वं न शङ्क्यम् । हेत्वलंकारस्य गम्यत्वम् । प्रवृत्तस्य स्तम्भयितुमशक्यत्वाद् वृत्तिपदोपादानम् । एतेन स्फुटं वाचोऽप्रवृत्तिर्ध्वनिता । दर्शनं तत्तदिन्द्रियजं
ज्ञानम् । चिन्तया जडं स्वस्वविषयाग्राहकम् । मनसश्चिन्तयाग्रस्तत्वात्तेन विना तदग्राहकत्वं तेषाम् | मम तावदादावेवेदृशमनिर्वचनीयमिदमनुभूयमानं स्नेहाप्रतिभावाद्वैक्लव्यं विह्वलिता। कीदृशो मम । अरण्यौकसो वनवासिनः । अनेन तद्योग्यताप्यसंभावनीयेति व्यज्यते । गृहिणे
गृहनिवासिनः । तदुःखाभिज्ञा इति भावः । नवैः प्रथमोत्पन्नैः । द्विती
चित्ताकर्षणशीलं वपुराभरणयुक्तं चेद्रमणीयतायां किं वदाम इति भावः । यास्यतीत्यादि। शकुन्तला यास्यातेि गमिष्यति पतिगृहं प्रतीते वक्तव्ये विश्लेषसंभावनाजनितदुःखवशात्तदुच्चारणं
न निसृतमिति भावः । यास्यतीति भविष्यद्व्यपदेशेन भविष्यद्गमनं संभाव्य
अद्य सांप्रतं गमनात्पूर्वकल एवेति यावत् । हृदयं सर्वकरणानां प्रधानभूतं चित्तम् । उत्कण्ठया विश्लेषासहनतया संस्पृष्टमनुसक्तम् । आवेगयुक्तं जातमिति यावत् । अनेनांतरिन्द्रियस्यपारवश्यमुक्तम् । तत्सहकारितया प्रवृत्तनिवृत्तानामन्येन्द्रियाणां स्ववशता कुत सख्यौ -हला सउन्दळे, अवसिदमण्डणासि । परिधेहि संपदं खोमजुअलं। [ हला शकुन्तले, अवसितमण्डनासि । परिधत्स्व सांप्रतं क्षौमयुगुलम् ] (शकुन्तलोत्थाय परिधत्ते। )
यत्रारादौ पूर्वानुभूतत्वान्न तथा दुःखमिति भावः गृहिण इति व्यतिरेकः । वृत्यनुप्रासच्छेकानुप्रासौ। इतिश्ब्दोपादानाद्धेतुरपि । अनन्तरोक्तमेव वृत्तम् । “ दृष्टिर्जडा चिन्तया' इति पठित्वोद्देश्यप्रतिनिर्देश्यप्रक्रमभङ्गः परिहर्तव्यः । ‘दृष्टिज्ञानेऽक्ष्णिदर्शने’ इति कोशार्थः स एव । ‘कथं न तनया ? इति काक्वा योज्यम् । अवासितमण्डना समाप्तभूषणासि । परिधत्स्व धत्स्व सांप्रतं क्षौमयुगुलम् । जाते, एष त आनन्दपरिघाहिना ( ण ) चक्षुषा परिष्वजन्निवेत्युत्प्रेक्षा । गुरुः कण्व उपस्थित: प्राप्तः । आचारमः
इति भावः दर्शनमिति । इश्यतेऽनेनेति दर्शनं दृष्टिः । दर्शनेन समस्तसुन्दरवस्तुसाफल्य हेतुभूता दृष्टिरिति यावत् । कंठस्तंभितबाष्पवृत्तिकलुषं दुःखवशात् । स्वच्छस्यापि बाष्पस्य निस्सरणे सत्यंगस्यधिया धैर्येण कंठ एवोपरोधाद्बाष्पनिःसरणभावेन कलुषमाविलम् । बाष्पो नेत्रजलोष्मणः इति विश्वः । उचितेष्वपि पुरोवर्तिषु विषयेषु न प्रवर्तत इति भावः । चिंताजडं एतावंतमनेहसं तत्कृतवृक्षसेचननीवारवल्यादिषुधूपात्स्मरणेन राजगृहगमने सति पुनर्दर्शनाभावरूपचिंतया च जडं व्यापाररहितम् । अनेन सर्वकरणानां
स्वस्वषयव्यापारशून्यता सूच्यते । कंठस्तंभितबाष्पवृत्तिकलुष इत्यपि पाठः ।
अस्मिन्पाठे कंठशब्देन स्वर: कथ्यते । तदुक्तं ? स्तनभौगे स्तनभरः स्वरे कंठः प्रकीर्त्यते ’ इति । कंठः स्तंभितवाष्पवृत्तितया कलुष: सगद्गद इत्यर्थः । अरण्यौकसः अरण्यवासिनः। अनेन वीतरागतया सर्वविषयविमुखत्वं ज्ञाप्यते । गमेत्यनेन स्वस्येतर बिलक्षणरागद्वेषादिराहित्यमुच्यते । अत्र तावद्गहणमवधारणे । ममैवेत्यर्थ:। ईदृशमुक्त नानाप्रकारमिदमनुभवैकवेद्यम् । वैक्लव्यं शोकवशादिन्द्रियादिपारवश्यम् । पुत्रीविश्लेष समये कस्य वा वैक्लव्यं नास्तीत्यत आह स्नेहादिति । अनेन जन्यजनकभावसंबंधो निरस्यते
किन्तु शरोरपोषणादिमात्रस्नेहाद्धेतोरिति यावत् । अत एव शकुन्तला’ यास्यतीति
प्रयुक्तं न तु पुत्रीति। तथा प्रयोगे सति पितुः पुत्र्यां स्नेहस्य सर्वलोकप्रसिद्धत्वात् तदभिधानमनुचितंस्यात् ।गृहिणः गृहस्थाः अनेन प्रत्ययविशेषेण सर्वविषयशीला इति कथ्यन्ते ।
स्यात् । पृहिणः गृहस्थाः अनेन प्रययविशेषेण सर्वविषयशला इति कथ्यन्ते ।
नवैर्नूतनैरनावृत्तैरिति यावत् । तनयाविश्लेषदु:खैः धर्मप्रजार्थं स्वीकृतभार्याजनितपुत्री विश्लेषजनितदेहशोषणकरदशाभेदैदु:र्खैरिति बहुवचनेन संस्कारपर्यंतं विवेकराहित्येन मरणसप्राचीनदशानुभव:सूच्यते । कथं असंख्यातानिर्वचनीयप्रकारेण पीड्यन्ते बाध्यन्ते । 'गौतमी'–जदे, एसो दे आणन्दपरिवहिणा चक्खुणा परिस्ससन्तो
विअ गुरू उवट्टिदो । आआरं दाब पडिवञ्जस्स । [ जाते,
एष त आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः। आचारं तावत्प्रतिपद्यस्व] शकुन्तल-( सव्रीडम् ' ) ताद, वन्दामि । [ तात वन्दे ] कश्यपः-वत्से ,
'ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव । सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ।। ७ ।।
भ्युत्थानवन्दनादिकं प्रतिपद्यस्व । तात,वन्दे । ययातेरिति । अनेन क्रमरुक्षणमङ्गमुपक्षिप्तम् । ‘तत्त्वोपलब्धारिष्टस्य क्रम इत्यभिधीयते’ इति । आशीर्वादव्याजेन तस्य वरत्वेन च कथमादाशीर्लक्षणो नाट्यालंकारोऽ
नु जिज्ञासायाम् । व्यभिचारादीनां वाच्यत्वं यद्यपि दोषः तथापि यत्र तैरन्योऽर्थ: प्रतिपाद्यते तत्र वाच्यत्वेऽपि न दोषः । यथा प्रकृते उत्कण्ठचिन्ताविश्लेषवशब्दवाच्यावेग विश्लेषदुःखशब्दवाच्यशोकानां वाच्यत्वेऽपि मुनित्वे स्वाभाविकवैराग्योपबृंहतधैर्यलक्षण भावस्य शांतेर्व्यंगत्वेन न दोषः । उत्कंठादीनामपि व्यंग्यत्वे भावशांतेरपि व्यवहितत्वेन चमत्कारो न स्यात्। तथाच सहृदयरंजनं झटिति न भवतीति अथ उत्कंठादीनां वाच्यतैवोचिता।
जाद इति। चक्षुषस्तावदानंदपरिवाहित्वं यथाजलाधारभूते तटां जलातिशये
सत्युकूलप्रवाहः तद्वदानन्दस्याप्रीत्यर्थ : । आचारः प्रत्युत्थानवंदनादिः ॥ ययातेरित्यादि ययातिर्नामनहुषपुत्रः सोमवंशी राजा। शर्मिष्ठेति वृषपर्वनाम्नोऽसुरराजस्य पुत्री । वहुमता जाता मत गरविता भवैःयाशिषि लोट् । यश्च पूर्वपरिपीतद्देवयान्यां वैमुख्येन यत्रतैः शर्मिष्ठ
तथा स्वांत:पुरस्त्रीषु वैमनस्याद्दुष्यन्तस्य पट्टमहिषी भवेति यावत् ।
तर्हि भोगार्थे वा दुष्यन्तेन परिणतेत्याशंक्याहृ सम्राजं चक्रवर्तिनं पुत्रमित्यनेन धर्म प्रजार्थमेव त्वं पारगृहीता त्वजनितपुत्रस्यैव साम्राज्यमिति भावः । अत्र निदर्शनालंकारः तदुक्तं यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परापेक्षाव्युदासार्थं तन्निदर्शनमुच्यते॥'
इति । अत्र काश्यपेन स्वस्मिन् शकुन्तलायाः स्नेहव्यपगमाय ययाति
शर्मिष्ठापूरुर्निदर्शनं कृतम् । पूरुनिदर्शनेन शकुन्तलापुत्रस्य भरतस्यासाधारणराज्यप्राप्ति सूच्यते । प्रसंगादलंकारसामान्यस्वरूपमुच्यते । ”‘ये त्वंगभूतशब्दार्थद्वारा तं संतमेकदा । अलण्कुर्वन्त्यलंकारा हाराद्या इत्व ते पुनः । ’ प्रस्तुतेऽस्मिन्काव्ये ये पुनर्हराद्या इव शरीरभूतशब्दार्थद्वारेण संयोगवृत्या वर्तमानं विद्यमानं रसं कदाचिदलंकुर्वते ते त्वलंकराः ।
गुणास्तु आत्मीयस्थानीयं रसं समवायवृत्या नियतस्थितयो ये धर्मे उत्कर्षमा
गौतमी-भअवं, वैरो क्खु एसो । ण आसिसा ।[ भगवन्, वरः खल्वेषः। नाशी: ] काश्यपः-वत्से, इतः सद्योहुताग्नीन्प्रदक्षिणीकुरुष्व । ( सर्वे परिक्रामन्ति )
पि । ‘आशीरिष्टजनाशंसा’ इति तल्ल्क्षणात् । वरः खल्वेषः । नाशिष: ।
पादयंति यथा मानवशरीरे रवात्मानं शौर्यादयस्तै गुणाः तस्मात्समवयवृत्त्या वर्तमानेभ्यो गुणेभ्यः संयोगवृत्त्या वर्तमाना अलंकारा बहिरंगाः । ननु रसव्यंजकत्वे तदुत्कर्षधाराभ्यामाश्रमधर्मत्वं भवत्वलंकाराणां पुनरंगभूतशब्दार्थविषयाणां रसादिप्रतीतिशून्यकेवल शब्दार्थनिष्टानां कथमात्मधर्मत्वमिति चेदुच्यते । शरीरवृत्तिभिर्हारादिभिरात्मैवालंकार्य: । न त्वचेतनं शरीरं हारादिभिरलंकृतं शवशरीरमनौचित्वाद्धात्यावहं भवति न चेदस्य किंचिदनौचित्यादात्मैवालंकार्य: अहमलंकृत इत्यभिमानदर्शनाच्च । ननु यत्र रसो नास्ति तत्र किमलंकाराणां कृत्वमित्यत्राह-यत्र चित्रकाव्ये स्फुटप्रतीतिको रसो नास्ति तत्र चित्रफणितिमात्रविश्रान्तः । यथा चित्रवर्तिनो राजादेरलंकाराः रसस्य सत्वेsपि कदाचिदलंकाराणामनुपयोग इत्युक्त्वात् । तस्मादलंकारोपकृतसौंदर्यैस्वीकारमंतरेणापि रसः सहृदयचमत्कारी भवति । विद्यमानरससंबंधीकरणेन स्वतंत्रवृत्या वर्तमानाः पुनरलंकाराःस्वामिनि विरुद्धवृत्तयो भृत्या इव द्वेष्या भवति । अलंकाराणां पुनः सहृदयहृदयचमत्कारित्वं रसानुवतर्ननेवैति सर्वं निरवद्यम् । अथवा तेषां गुणालंकाराणां शब्दार्थगतत्वेन व्यपदेश उपचारेणेति प्रतिपादयति । “ एषां शब्दार्थयोवृर्तिर्गुणवृत्त्यैव संमता " इति । अलंकारस्वरूपमुक्तम् । भअवमित्यादि । भगवन् वरौ खल्वेतौ नाशिषौ। एताविति द्विवचनेन भर्तुर्बहुमता भव सम्राज्यं पुत्रमाप्नुहीत्येतद्वयं गृह्यते । वरौ वरकल्पावघवचनेनाशीषौ वमेधवचनेनाशीपौ नतु प्रियभाषणे । ‘ आशीरुरगदंष्ट्रायां प्रियवाक्याभिलापयोः ।” इति यादव: । वरकल्पावित्यनेन यथा महता तपसा परितुष्टव्रह्मादिभिर्दत्तवरस्वमोघ: सन्नविद्यमानमपीप्सितार्थं प्रयच्छति तद्वकाश्यपवाक्यमपीति यावत् । नाशिषावित्यनेन स्वानुग्रहाः फलंतु वा न वा महास्नेहात्सर्वे जना आशी: प्रदानं कुर्वन्ति । वरप्रदाने कतिचिदेव
माहात्म्यवंतः प्रभवंत्यिर्थः । भर्तुर्बहुमता भव सम्राज्यं पुत्रमाप्नुहीति काश्यप:
कश्यपः-( ऋक्छन्दसाशास्ते ।)
अमी वेदिं परितः क्लृप्तधिष्ण्या समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । अपनन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥ ८ ॥ वत्से, प्रतिष्ठस्वेदन । ( सदृष्टिक्षेपम् ) क्व ते शार्ङ्गरवमिश्रा: । ( प्रविश्य) शिष्यः-भगवन्, इमे स्म:। काश्यपः-भगिन्यास्ते भार्गमादेशय ।
शार्ङ्गरव-इत इतो भवती ।
( सर्वे परिक्रामन्ति ।) कश्यपः-भो भोः संनिहितास्तपोवनतरव:, पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ९ ॥
ऋक्छन्दस्तेन ऋक्छन्दोग्रथितेन वाक्येनेते यावत् । अमी इति।अमी पुरतः परिदृश्यमानाः कृतधिष्ण्याः क्लृप्तस्थानाः 'धिष्ण्यं स्थाने गृहे भेऽग्नौ इत्यमरः । अनेन त्रित्वमुक्तम् । समिद्वन्तः ससमिधः । पदसंज्ञायां जश्त्वम् । प्रान्तसंस्तीर्णेति च विशेषणद्वयेन सद्योङ्गतत्वेन प्रकाशमान त्वाच्छुभसूचकत्वं ध्वन्यते । अपघ्नन्तो नाशयन्तः । वैताना यज्ञसंबन्धिनः । परिकरालंकारः । तपोवनतरव इत्यस्य श्लोकेन संबन्धः । पातुमिति । न
प्रोक्तलोढव्यपदेशस्य विधिरेवार्थः नाशीरिति भावः । अमीः इत्यादि । प्रांतसंस्तीर्णदर्भाः प्रांतेषु चतुर्दिक्षु संस्तीर्णा दर्भा येषां ते तथोक्ता: । अनेन त्वत्प्रेषणार्थं मयापि प्रातः कालकर्तव्याग्निहोत्रकर्मादिकं सर्वं निर्वर्तितमिति व्यज्यते । विताने। यागस्तत्संबंधिनो वैतानाः । अहो इत्यादि । सन्निहितदेवता मिलितदेवताः । अहो इति संबुद्धिः । सन्निहितदेवतात्वकथनेन बहुवचनेन चाधमस्य सार्वकालिकवसंतादिसर्वेतुसान्निध्यं गम्यते । पातुमिति । या शकुन्तला युष्मासु प्रथमं जलमपीतेषु न विद्यते पीतं पानं
१शार्ङ्गरव इत्यधिकं क्व।पु।२शकुन्तल परिक्रामति क्व।पु।पाठ:। ३अहो सन्निहितदेवता:इति क्व।पु।पाठ:। विद्यते पीतं पानमेषां तेऽपीताः । “ अर्शआदित्वादच् ? । तथा च महाभाष्ये-- ‘अकारो मत्वर्थीयो विभक्तमेषामस्तीति विभक्ताः, पीतमेषामस्तीति पीताःइति ।अथोत्तरपदलोपो द्रष्टव्यः ।“ विभक्तधना विभक्ताः,पीतोदकाः पीताः ’ इति । तत्र लोपशब्दार्थमाह कैयट:-‘गम्यमानस्यप्रयोग एव लेपोऽभिमतः । विभक्ता भ्रातर इत्यत्र धनस्य यद्विभक्तत्वं भ्रातृषूपचर्यते ? पीतोदका गाव इत्यत्राप्युदकस्य पीतत्वं गोप्यारोच्यते ' इति । तदभिप्रायेणैव पूर्वव्याख्या ! युष्मास्वपीतेषु सा जलं पातुं नव्यवस्यतीत्येतावत्युच्यमाने पूर्वाकालाताया: प्राप्तत्वात्प्रथममिति पदमनर्थकमिति चेन्न । तदायमर्थः संपन्नः । यदा यदास्या जलपानव्यवसायस्तदातदा युष्मास्वपीतेषु नेति । अयं चार्थो नाभिप्रेतः । ततः प्रथममितेि पान- क्रियाविशेषणम् । तेन युष्मास्वपीतेषु प्रथमं जलं पातुं न व्यवस्यति। भवत्सूदकव्यतिरेकेण प्रथमं जलपानं न करोतीत्यर्थः । व्यवस्यतीति वर्तमानप्रत्ययेनाधुनाप्येतंवस्थाया अपि तान्निर्वाह इति ध्वन्यते । एवमग्रिमत्रवर्तमानप्रत्यययोरपि व्यञ्जकत्वं बोद्धव्यम् । प्रियमण्डनापीत्यनेन ग्रहणयोग्यता सूचिता । भवतां पलुवमवतंसादि कर्तृ स्नेहेन नादत्ते । वो युष्माकमाद्ये प्रथमे कुसुमप्रसूतिसमये पुष्पोत्पत्तिकाले यस्या उत्सवो भवति ।
“शांते तथोक्ताः तेषु पीतमिति भावे क्तः पातुं न व्यवस्यति नेच्छति किंतु पीतेष्वेव पातुमं व्यवस्यतीत्यर्थः । पातुमिति पानक्रियाकमीर्भूतं जलमाक्षेपादेव जाघटीति । अनेन स्वशरीरसौख्यभविचार्य सूर्योदयात्प्रागेवगेवोत्थाय वृक्षाणां जलं प्रयच्छतीति व्यज्यते । जलं पातुं न व्यवस्यतीतेि शकुन्तलपक्षे जलाशब्दस्तु फलमूलाद्युपलक्षकः । वृक्षाणां जलं दत्त्वैव पक्षाफलमूलादिस्वीकरोतिति भावः । तेन च ' वृक्षजलप्रदानादिदुष्करकर्मणि स्ववचनानुकरणतया स्त्रीत्वेऽपि ि ऋषिक्रियमणतत्त्सौशीश्ल्यादिप्रशंसा द्योत्यते । व्यवस्यतीति वर्तमानप्रयोगेण सार्वभौमानुरूप वरप्राप्तावपि न गर्वः । किंत्वद्यापि गमनदिवसेपि स्ववचनानुकरणशीला जलं प्रयच्छतीति व्यज्यते । वृक्षपक्षेऽपि जलशब्देन कीटदिनिवारणकरपदानादितत्संरक्षकसामग्री गृह्यते। तर्हि तपस्विपुत्रथस्तत्कर्मोचितमेव कथं तत्प्रशंसा क्रियत इत्यत आह-प्रियमंडनापीति इष्टालंकारापि अनेन राजपुत्रीति व्यज्यते ब्रह्मर्षिपुत्र्याः परिमिताहारादिक्लिष्टव्रताविशेषानुष्ठानतत्परतया स्वदेहालंकारादौवैमनस्यं संवोभवीति तादृशकर्मानर्हेति यावत् । भवतां युष्माकं पल्लवं नवदलं स्नेहेनाहेतुपक्षपातेन हेतुना नतु स्वदेहालंकरणविमुखतयेति यावत् । नादत्ते न याति । पल्लवमित्येक वचनैननवधानेनलीलया च कदाप्येकपल्लवभंगभीरुता व्यज्यते । भवतामिति बहुवचनेन बहुवृक्षलतानां जलप्रदानांदिसंरक्षणक्रियया कदापि शकुन्तलाया विश्रम्भ (कोकिलरवं सूचयित्व ।)
अनुमतगमना शकुन्तलातरुभिरियं वनवास बन्धुभिः । परभृतविरुवं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥ १० ॥
फलसमयजो हर्षातिशयो वक्तुमेव न शक्यत इत्याशयः । सेयं प्रत्यक्षपरिदृश्यमाना शकुन्तला पतिगृहं याति । सर्वैः । संभूयेत्यर्थः । अनुज्ञाप्यताम् । प्रत्येकानुज्ञादाने कायविलम्बो भावेष्यतीत्याशयः । पतिगृहामेत्यनेनानुज्ञानस्योचितसमयत्वं ध्वनितम् । चेतनव्यवहारसमारोपात्समासोक्तिः । वृत्तिश्रुतिच्छेकानुप्रासाः । हेतुश्च । वृत्तमनन्तरोक्तम् । कोकिलारवं सूचयित्वेतेि नेपथ्यगतनष्ठत्वेन । ते हि सुशिक्षिताः सर्वे शकुन्तशब्दं कुर्वन्ति । अनुमतेति । इयं शकुन्तला वनवासबन्धुभिरिते रूपकम् । तरुभिरनुमतगमना यथा कलं परभृतविरुतं कोकिलकूजितं तरुभि
भवस्तेन च सुखोचिततादृग्रजदपिपुण्या: स्वपोषितशकुन्तलायाः स्वाश्रमे कदापि सुखानुभवो नास्तीति ऋषेराशयो व्यज्यते ।व: युष्माकम्। आद्ये प्राथमिके कुसुमप्रसूतिसमये यस्या उत्सवो भवति। उत्सूते हर्षमित्युत्सवः जलप्रदानादिना स्वपरिवर्धितवृक्षाणां स्वदृष्टिपथ एव पुष्पोद्गमसाफल्यदर्शनाद्धर्पप्रकाशकाभ्युदयिककर्म प्रवृत्तं भवतीति यथावत् । नतु प्रत्यहं देवपूजार्थे पुष्पानयनपरिश्रमधिया वैमनस्यं जायत इतिभावः । तेन च प्रत्यहं शकुन्तलाकृतवत्यर्थपुष्पनयनादिशुश्रूषाविशेषश्च द्योत्यते । सेयमिति या युष्माकं ममापि जलप्रदनादिशुश्रूषापरा सेयमिति यावत् । ‘‘ पिता रक्षति कौमारे भर्ता रक्षति यौवने । " इति न्यायेन पतिगृहं याति सहधर्मचारिणी सतीधर्मप्रजाजननार्थं व्रजति । सर्वैर्भवद्भिरनुज्ञयतामनुमन्यताम् । पतिगृहमित्यनेन लज्जया शकुन्तला न वदति तस्ममयोच्यत इति भावः । कोकिलरुतमित्यादि ।रुतं शब्दम् । आ इति हर्षे। अनुमतेत्यादि । अनुमतगमन अनुज्ञातगमना वनवास-बन्धुभिः वनवासपरिचितैः अनेनाश्रमवृक्षसहवासमात्रकथनेन प्रगल्भजनसहवासाभावादनागरिकतया कैतवानभिज्ञता शकुन्तलाया द्योत्यते । एतादृशी लोकवृत्तान्तानमिज्ञा राज्ञो वहुवल्लभत्वानगरिकस्त्रीजनभूयिष्ठे राजगृहे समर्था सती कथं वत्स्यतीति ऋषेश्चिन्ता व्यज्यते । कलमव्यक्तमधुरम् । पंचमस्वरलक्षणमिति यावत् । अनेन वसंतसमयः सूच्यते । वसंतकाल एव हि पिकस्वराणां विकस्वरता संवोभवीति ।
१ रुतं इति क्व।पु। पाठ:।
( आकाशे )
रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः
शान्तानुकूल पवनश्च शिवश्च पन्थाः ॥ ११ ॥
रीदृशं प्रत्यक्षतोऽनुभूयमानं प्रतिवचनीकृतं विरुतस्य प्रतिवचनेन रूपणे प्रतिरूपयोगात्परिणामः । एवं पूर्वत्रापि । अनुप्रासश्च अपरवक्त्रं वृत्तम् । रम्यान्तर इति । कमलिनीभिर्हरितैः श्यामलैरिति तद्गुणालंकारः । अनेन कमलिनीव्याप्तवं ध्वन्यते कमलिनीशब्देन कमलसंयोगोऽपि । अत एव न विसिन्यादिपदप्रयोगः । एतादृशैः सरोभी रम्याण्यन्तराणी मध्यानि यस्य सः । एतेन कोमलाङ्ग्यास्तन्व्याः कदाचनादृष्ट- शरण (?) स्तृषादिपीडाभावो ध्वन्यते । सरोभिरिति बहुवचनेन प्रतिपदं सरसः सत्त्वं सूचितम् छायाप्रधाना दुमास्तैः । तरुमात्रे णार्कतापनिरासः कर्तुं न शक्यत इति छायाप्रधानत्वविशेषणं वहुवचनमपि । तेन विश्रान्तिस्थलसत्त्वं व्यज्यते । विशेषणप्रक्रमभ ङ्गश्च निरस्तः । नियमितो निषिद्धोऽर्कस्य मयूखा दीप्तयस्तासां तापो यत्र सः “ मयूखस्त्विट् करज्वालासु ’ इत्यमरः । अत्रार्कस्य दीप्त्यविनाभा वेऽपि पुनर्दीप्तिग्रहणेन मध्याह्नस्था दीप्तिर्लक्ष्यते । तापाधिक्यं फलम् । अर्कमरीचितापसः? इति पाठे उष्णमरीचिः ’ इति पठनीयम् । अनेन पूर्वव्यङ्ग्यसहकृतो गमने दुःखाभावो व्यज्यते । कुशेशयस्याम्बुजस्य रजो वन्मृदू रेणुर्यत्र सः । अनेन चरणानुपघातो व्यज्यते । शान्तो मन्दोऽनुकूलः पवनो यत्र सः । अत एव शिवः शुभः पन्था अस्या भूयात् । अत्रै कश्चकारो विशेषणानां समुच्चये द्वितीयस्त्वनुपपन्नः । शिवश्चेत्यस्य समु च्चये भविष्यतीति चेत्तर्हि पूर्वविशेषणचतुष्टयेऽपि चकार उपादातव्यः स्यान्न चोपात्तः । तेनायमर्थः | शान्तोऽनुकूलश्चासौ पवनश्च स पन्थाश्च
यथा शब्द इवार्थकः प्रतिवचनीकृतमिवेति यावत् । रम्यांतर इत्यादि । रम्यांतरः उपभोग्यांतरालः छायाद्रुमैः च्छायाप्रधानैर्वृक्षैः शांतो मन्दः अनुकूलो गमनानुवर्ती पवनःयत्र स तथोक्तः । कुशेशयानां शतपत्राणां रजांसीव मृदुरेणवो यस्मिन् स तथोक्तः ।
( सर्वे सविस्मयमाकर्णयन्ति )
गौतमी-जादे, ण्ण्णादिजणसिणिद्धाहिं अणुण्णादगमणासि
तवोवणदेवदाहिं । पणम भअवदीणं [ जाते, ज्ञातिजनस्निग्धाभिर
नुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः ]
शकुन्तला-( सप्रणामं परिक्रम्य । जनान्तिकम् ) हला
पिअंवदे,णंअज्जउत्तदंसणुस्सुआएवि अस्समपदं परिच्चअन्तीए
दुक्खेण मे चलणा पुरदो पवट्टन्ति । [ हला प्रियंवदे, नन्वार्य-
पुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ।
पुरतः प्रवर्तेते ]
शिवो माङ्गल्यरूपः सुखप्रदश्च । “ अर्शआदित्वादच् । भूयादिति । शिवं मोक्षे सुखे भद्रे ? इति विश्वः । वायुमार्गयोरुभयोः प्राकरणिक त्वात्तुल्ययोगिता । विशेषणत्रयमत्रापि योज्यम् । अत एव शान्त्येत्यादि पदं समस्तं कृतम् । तत्राद्यविशेषणद्वयेन सौगन्ध्यं शीतलत्वं चोक्तम् । शान्तेति मन्दत्वम् । अनुकूलेति शकुनसूचकम् । कुशेशयेत्यनेन वायो र्यातुमुक्तम् । तेन किंचिदशकुनसूचकत्वम् । योग्येन वायुना यो ग्यस्य पथः संबन्धद्योतनात्समालंकारो व्यङ्ग्यः । परस्परोपकरणादन्यो- न्यालंकारोऽपि । वृत्तिश्रुत्यनुप्रासौ । उपमाहेतुपरिकरालंकाराः । वस- न्ततिलकावृत्तम् । पांसुलत्वेन राजकन्याङ्गानानुमानादनुमानलक्षणमङ्गमुप क्षिप्तम् । तल्लक्षणं दशरूपके– अभ्यूहो लिङ्गतोऽनुमा ’ इति जाते, ज्ञातिजनवत्स्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः प्रणम भगवतीः । नन्वार्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते । अनेन वधूनां नाभिगृहत्यागे दुःखातिशयो व्यज्यते ।
शिवः शुभः । चशब्दः समुच्चये । जाद इत्यादि । जाते वत्से । हलेत्यादि अनेन स्वस्या
प्रियंवदा-ण केवलं तवोवणविरहकादरा सही एव्व । तुए उचट्ठिदविओअस्स तवोवणस्स वि दाव समवत्था दीसइ । [ न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थित वियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते ]
उग्गलिअदब्ध(ब्भ)कवला मिआ परिच्चत्तणच्चणा मोरा ।
ओसरिअपण्डुपत्ता मुअन्ति अस्सू विअ लदाओ ॥ १२ ॥
[ उद्गलितदर्भकवला मुग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रुणीव लताः ॥ ]
न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य संप्राप्तविरह स्यापि । न तु भूतवियोगस्य, न च भवद्वियोगस्येत्यपेरर्थः। तपोवनस्याचेतनस्यापि समवस्था दृश्यते । अवस्थामेव गाथिकया कथयति—उग्गलि एति । उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः। अपसृतपाण्डु पत्रा मुञ्चन्त्यश्रूणीव लताः । उद्गलिताश्चर्विता अपि । मुखाद्बहिर्निर्मि (र्निःसृ ) ता इत्यर्थः । णिचा दुःखातिशयो ध्वन्यते । उभयोस्तिर्यक्त्वेऽपि सहवासिनाभ्यासात्तथोक्तम् । अनेन वध्वाः पतिगृहगणने पितृकुलजनस्य दुःखातिशयो व्यज्यते । बन्धुव्यवहारसमारोपात्समासोक्तिः । उत्प्रेक्षानु
श्रमावस्थानलब्धशरीरपोषणादिव(ब)हुसौख्यानुभवकृतज्ञता प्रकाश्यते । उद्गलितेति । अत्र शकुन्तलाविश्लेषसमयजनितदुःखवशान्मृगाणां दर्भकवलभ्रंशकथनेन सार्वकालिक मुगस हवासाच्छकुन्तलाया दृष्टिचांचल्यसौभाग्यं ताटस्थ्येन द्योत्यते । एतावत्पर्यंतं विजातीय मृगैः सह समयक्षेपः इतः परं बहुपरिचारिकाजनसंकुलराजकुलसहवासात्सखीभूताय मम विस्मरणं त्वया न कर्तव्यमिति सख्युपालंभगर्भितोक्तिरपि ज्ञाप्यते । मयूराणां नर्ता(र्त) नपरित्यागकथनेन मयूरसहवासान्मंदगमनादिगतिविशेषः सूच्यते । लतानां पांडुपत्रापस रणकथनेन वसंतकालः सूच्यते । वसंतसमये लतानां पचेलिमपत्राणि भ्रश्यंति ततः सुकु मारांकुरपुष्पोद्गमोत्पत्तिः । अनेन विरहिजनासह्यस्मरोद्दीपक्र(कर)मृगमिथुनक्रीडामयूरनर्तनसप ल्लवपुष्पादिभूयिष्ठाश्रमावस्थित्यपेक्षया वसंतसमये पतिगृहगमनमेवोचितमिति ज्ञाप्यते । तेन च पूर्ववाक्ये आर्यपुत्रदर्शनोत्सुकाया अपि दुःखदुःखेन मे चरणौ पुरो मुखौ वर्तेते इत्यादिना पतिगृहगमनसमयजनितहर्षादिगोपनार्थं शकुन्तलाकथितस्य
शकुन्तला-( स्मृत्वा !) ताद, लतावहिणिअं वणजोंसिणिं
दाव आमन्तइस्सं । [ तात, लताभगिनीं वनज्योत्स्नां तावदा
मन्त्रयिष्ये ]
काश्यपः -अवैमि ते तस्यां सोदर्यस्नेहम् । इयं तावद्दक्षिणेन ।
शकुन्तला-( लतामुपेत्य ) वणजोसिणि, चूदसंगता वि में
पच्चालिंग इतोगदाहिं साहाबाहाहिं । अज्जप्पहुदि दूरपरिवत्तिणी
भविस्सं । [ वनज्योत्स्ने, चूतसंगतापि मां प्रत्यालिंगेतोगताभिः
शाखाबाहाभिः। अद्यप्रभृति दूरपरिवर्तिनी भविष्यामि ]
काश्यपः-
संकल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेय
मस्यामहं त्वयि च संप्रति वीतचिन्तः ॥ १३ ॥
इतः पन्थानं प्रतिपद्यस्व ।
प्रासश्च । तात, लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये । लताभगिनी मिति परिणामालंकारः। वनज्योत्स्ने, चूतसंगतापि मां प्रत्यालिङ्गेतोग- ताभिः शाखाबाहाभिः । एकदेशविवर्ति रूपकम् । चूतसंगतापीत्यत्र भर्तुः स्नेहादप्यधिकः सोदर्यस्नेह इत्यपिना ध्वन्यते । अद्यप्रभृति दूरम त्यर्थं परिवर्तनं व्याघुट्य गमनं यस्याः सा तादृशी भविष्यामि । संकल्पि- तमिति । मया तपोनिधिना सदा तवार्थे त्वत्प्रयोजननिमित्तम् । प्रयोजनं
सख्या प्रत्युत्तरं दत्तमिति भावः । स्मृत्वेत्यादि । अत्राचेतनलतालिंगनव्याजेन शकु न्तलायाः सार्वकालिकस्वहृदयस्थितचेतनरूपसखीविषयकस्नेहप्रकर्षः कैमुतिकन्यायेन ज्ञाप्यते । संकल्पितमित्यादि । तवारण्यवासिन्यास्तवेत्यर्थः । अर्थे कृते । अर्थे कृते च तादर्थ्ये ‘’ इत्युक्तत्वादनुरूपवरप्राप्त्ययोग्यस्थलवासिन्यास्तवार्थ इति यावत् । मयेति वीतरागत्वादरण्यवासितयानुरूपवरसंघटनार्थं नानादेशपर्यटनायेग्येन मयेति यावत् । प्रथममेव मेनकाविश्वामित्रपरित्यागानंतरं त्वदानयनसमय एवेत्यर्थः । संकल्पितमनुरूपवर
शकुन्तला-( सख्यौ प्रति ) हला, एसा दुवेणं वो हत्थे
णिक्खेवो । [ हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ]
सख्यौ–अअं जणो कस्स हत्थे समप्पिदो। (इति वाष्पं विकिरतः)
[ अयं जनः कस्य हस्ते समर्पिताः(तः) ]
काश्यपः -अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेष स्थि
रीकर्तव्या शकुन्तला ।
( सर्वे परिक्राम्यन्ति )
च योग्यसमागम एव । प्रथममेव संकल्पितं मनसाभीप्सितं त्वं सुकृतैः पुण्यैर्मत्कृतैः स्वयं पूर्वजन्मोपार्जितैर्वात्मसदृशमभिजनगुणैः सौन्दर्येण च वयसा च । केवलं त्वद्भरणान्नापि तु त्रिभुवनभरणाद्भर्तारं गता प्राप्तासि । योग्यसमागमश्चिन्तितोऽपि पुण्यातिशयादेव भवतीति भावः । इयं पुरतो दृश्यमाना सुष्ठु कृतैः करणैर्निकटरोपणैरालवालादिपूरणैर्नवमालिका चूतेन सह संश्रितवती । अत्र नायकव्यवहारारोपात्समासोक्तिः । उभयोः प्रा करणिकत्वात्तुल्ययोगिता च । अत एवाह-संप्रत्यस्यां त्वयि वीतचिन्तो विशेषेण गतचिन्तः । योग्येन योग्यसमागमात्समालंकारः । परस्परोपक रणादन्योन्य(न्या?)लंकारो व्यङ्ग्यः । हेत्वनुप्रासौ । वृत्तमनन्तरोक्तम् । शकु न्तलापरिगृहीता सेति तस्याः संतोषोत्पादनार्थमस्यामिति पूर्वनिर्देशः । तेन क्रमप्रक्रमभङ्गः परिहृतो भवति ।’ त्वय्यत्र चाहमिति संप्रति ’ इतेि पठित्वा वा परिहर्तव्यः । अस्मिन्पाठे यथासंख्यालंकारः । एषा वनज्यो त्स्ना द्वयोर्ननु निश्चितं युवयोर्हस्ते निक्षेपः । इति परिणामः । अयं जनः
प्रदानेन लोकाविरुद्धसमुचितं कुर्यामिति प्रतिज्ञातम् । आत्मसदृशं कन्या वरयते रूप मिति न्यायेन त्वत्सौंदर्ययौवनकुलोचितम् । आत्मसदृशमित्यनेन यद्यप्यस्मदननुमत्या त्वं दुष्यन्तेन परिणीता तथाप्यनुरूपवरप्राप्तिहेतुना मयापि प्रीतिरेव कृतेति व्यज्यते । भर्तारं « पतिरेव स्त्रिया देवः ’ इति न्यायेन स्वस्त्रीत्वरूपलावण्यादिसाफल्यहेतुभूतं सहचरम् । अत्र भर्तुशब्दप्रयोगेण धर्मप्रजार्थमेव त्वं परिणीता नतु भोगार्थमिति
शकुन्तला--ताद, एसा उडजपज्जन्तचारिणी गब्भमन्थरा
मञवहू जदा अणघप्पसवा होइ तदा मे कंपि पिअणिवेदइत्तअं
विसज्जइस्सह । मा एदं विसुमरिस्ससि । [ तात ,एषोटजपर्यं
न्तचरिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा भवति तदा मह्यं
कमपि प्रियनिवेदयितृकं विसर्जयष्यथ । मा इदं विस्मरिष्यसि ।
काश्यपः--नेदं विस्मरिष्यामः ।
शकुन्तला-( गतिभङ्गं रूपयित्वा ) को णु क्खु एसो णिवसणे
मे सज्जइ । ( इति परावर्तते ) [ को नु खल्वेष निवसने मे सज्जते ।
कस्य हस्ते समर्पितः ! तात, एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा सुप्रसन्ना भवति तदा मह्यं कमपि प्रिय निवेदयितृकं विसर्जयिष्यथ । गतिभङ्गं रूपयित्वेति । ऊरूद्धृत्तया चार्या । तल्लक्षणं तु--‘पार्ष्णिः पादस्य चेदग्रतलसंचरसंज्ञितः ! अन्यांघ्रिपृष्ठाभि- मुखो विपर्यासोऽथवा भवेत् ॥ आभ्यन्यजंघनमिता जङ्घा चेन्नतजानुका । तज्जेर्ष्यागतिभङ्गेषु चार्यूरूद्धृत्तसंज्ञिता ॥ ’ इति । को नु खल्वेष निवसने मे सज्जते । परावर्तत इति । अपक्रान्तया चार्या । तल्लुक्षणं तु बद्धां विधाय चारो चेदुद्धृर्त्योघ्रिं च कुञ्चितम् । पार्श्व विनिक्षिपेच्चारी मपक्रान्तां तदादिशेत् ॥ ऊरुद्वयस्य वलनं जङ्घास्त्रस्तिकसंयुतम् । भंक्त्वा वा स्वस्तिकं पादतलाग्रे मण्डलभ्रमम् ॥ कृत्वा पार्श्वगतं स्वं स्वं यत्र
पट्टमहिषीत्वं ज्ञाप्यते । अत एव दयितः कांतः । प्रिय इति शब्दो न प्रयुक्त इति ज्ञात व्यम् । सुकृतैः पुण्यविशेषैः । बहुवचनेनानेकजन्मांतरोपार्जितसुकृतविशेषा गृह्यन्ते । त्वं गतेत्यनेन सुकृतविशेषैरिव गता । न तु स्वयत्नविशेषैरिति यावत् । अनेन अनुरूप वरप्रदानुरूपस्वसंकल्पस्यानायासेन साफल्यादघटनाघटकं स्वस्य दैवानुकूल्यं सूच्यते । आश्रमपरित्यागlद्दुःखं न कर्तव्यं किं त्वनुरूपवरगृहगमनेन हर्ष एव त्वया कर्तव्य इति भावः । अस्यां नवमालिकायाम् अचेतनायामिति यावत् । त्वयि च चेतनायां त्वयि चेत्यर्थः संप्रति इदानीं वीतचिन्तः परस्परमुचिताश्रयलाभाच्चिंतारहितः । अत्र . चेतनाचेतनयोः शकुन्तलानवमालिकयोः समानबुद्धिकथनेन काश्यपस्य शकुन्तला दुष्यन्ताभ्यां प्रत्युपकारलक्षणरत्नधनपश्वादिलाभनैरपेक्ष्यं प्रतीयते ।तादेत्यादि । अनघ प्रसवा व्यसनरहितप्रसूतिरित्यर्थः ।प्रियनिवेदयितृकं शोभनज्ञापनपत्रलेखादिकम् ।
काश्यपः-वत्से,
यस्य त्वया व्रणविरोपणमिङ्गदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥ १४ ॥
शकुन्तला-वच्छ, किं सहवासपरिच्चाइणिं मं अणुसरसि ?
बद्धेति सा मता ॥ ’ इति } यस्येति । त्वयात्यन्तदयार्द्रया मातृभूतयेत्यर्थान्तरसंक्रमितम् । यस्य कुशानां सूचिभिः सूच्याकारैरग्रै- र्विद्धे कृतक्षते । सूचीशब्दस्तीक्ष्णाग्रत्वेन संबन्धेनाग्रं लक्षयन्वेधयोग्य- तातिशयं ध्वनति । कश्चित्तु वेधस्याग्रेणैव संभवादवकरत्वं मन्यते । तदा कुशा एव सूचय इति रूपकसमासेन व्याख्येयम् । वेधस्य साधकस्य सत्त्वात् । ननूपमासमासेऽपि स न बाधक इति स एवास्त्विति चेन्न । एतस्मिंस्तु समासे पूर्वपदप्राधान्यात्तत्कृतवेधस्य दारुणत्वं न प्रतीयते । रूपकसमासे तूत्तरपदप्राधान्याद्वेधानां बुद्धिपूर्वकपदत्वेन दारुणत्वप्रतीतेः स एव ज्यायान् । मुखे व्रणविरोपणं व्रणशमकमिंगुदी तापसतरुस्तत्फल तैलं न्यषिच्यत सिक्तम् । दत्तमिति यावत् । सोऽयमग्रे दृश्यमानो मृगः श्यामाको धान्यविशेषस्तन्मुष्टिभिः परिवर्धितः | कः समासान्तः । स्वय मत्तुमसमर्थस्य श्यामाकान्मुष्टौ गृहीत्वा मुखेऽर्पितवतीत्यादि पोषणप्रकारं सूचयितुं मुष्टिपदोपादानम् । सोऽयमित्यादिना जन्मारभ्य यावन्मृगत्वं प्राप्तस्तावत्वयैवं पोषित इतेि व्यज्यते । ते तव पुत्रकृतकः कृत्रिमपुत्रः । आहिताग्निपाठात्परनिपातः । पदवीं मार्गं न जहाति । त्वदनुगामी भव तीत्यर्थः । मृगस्वभावोक्तिः । ब्रविरोतकोतक इति छेकश्रुतिवृत्त्यनु- प्रसाः । वृत्तमनन्तरोक्तम् । वत्स, किं सहवासपारित्यागिनीं मामनुस
किंन्वित्यादि । यस्येति । यस्य मुखे कुशसूचिविद्धे दर्भांकुरक्षते व्रणविरोपणं व्रणस माधायकम् । न्यषिच्यत नितरामसिच्यत । निरित्युपसर्गेण व्रणावसानपर्यंतं तदेकतानचि त्तत्वं द्योत्यते । श्यामाकमुष्टिपरिवर्धितकः धान्यविशेषमुष्टिभिः पोषितः । मुष्टिपरिवर्धि- तक इत्यनेन भूसंसर्गेण व्रणे तृणादिकं लग्नं स्यादिति हस्तेनैवाहारादिकं दत्तमिति यावत् । वर्धितक इति कप्रत्ययेनानुकंपया वर्धित इति द्योत्यते । अनुकंपायां क इत्यु अचिरप्पसूदाए जणणीए विणा' वड्ढिदो एव्व । दाणिं पि मए विरहिदं तुमं तादो चिन्तइस्सदि । णिवत्तेहि दाव । ( इति रुदती प्रस्थिता ) [ वत्स, किं सहवासपरित्यागिनीं मामनुसरसि । अचिर प्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् |
काश्यपः-
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
बाष्पं कुरु स्थिरतया विहतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति ॥ १९ ॥
शार्ङ्गरवः-भगवन् , उदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुमर्हसि ।
रसि । अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विर हितमपि त्वाम् । इत्यनेन स्वस्य मातृतुल्यस्नेहत्वं ध्वनितम् । तातश्चिन्त यिष्यति । निवर्तस्व तावत् । उत्पक्ष्मणोरिति । ऊर्ध्वं पक्ष्मणी ययो- र्लोचनयोर्विषय उपरुद्धा वृत्तिः प्रवर्तनं यस्य तं बाष्पं स्थिरतया स्थैर्येण । धैर्येणेति यावत् । विहतो दूरीकृतोऽनुबन्धः पुनः पुनरुत्पत्तिर्यस्य तं कुरु । उत्पन्नमश्रूर्ध्वीकृतैः पक्ष्मभी रुद्धं तदधिकं चेत्तदधःपतनेऽमङ्गल मिति त्वं निरुन्द्धीति भावः । उत्पक्ष्मणोरिति विशेषणदानार्थं नयनप दम् । अन्यथा वाष्पस्य तदविनाभावित्वादार्थं पौनरुक्त्यं स्यात् । अत्र
क्तत्वात् । पुत्रकृतक इति बालार्थे क प्रत्ययः । उत्पक्ष्मणोरिति । खलु यतो हेतोः अलक्षितनतोन्नतभूमिभागे अदृष्टनिम्नोन्नतभूमिप्रदेशे विषमीभवंति विपरीतानि भवंति । त्स्वलंतीति (स्खलन्तीति) भावः । ततो हेतोः उपरुद्धवृत्तिः उपरुद्धा अंतरिता वृत्तिर्व्यापारो येन
काश्यपः--तेन हीमां क्षीरवृक्षच्छायामाश्रयामः ।
( सर्वे परिक्रम्य स्थिताः )
काश्यपः-( आत्मगतम् ) किं नु खलु तत्रभवतो दुष्यन्त
स्य युक्तरूपमस्माभिः संदेष्टव्यम् । ( इति चिन्तयति )
शकुन्तला-(जनान्तिकम् ) हला, पेक्ख। णलिणीपत्तन्तरिदं
वि सहअरं अदेक्खन्ती आदुरा चक्कवाई आरडदि दुक्करं अहं करेमि
त्ति । [ हला, पश्य नलिनीपत्रान्तरितमपि सहचरमपश्न्त्यातुरा (सहचरमपश्यन्त्यातुरा)
चक्रवाक्यारौति दुष्करमहं करोमीति ]
हेतुमाह--अस्मिन्निति ! खलु यस्मादर्थे न लक्षितो दृष्टो नतोन्नतो भूमिभागो यत्र तस्मिन्मार्गे ते तव पदानि विषमीभवान्ति । उच्चावचेषु निपतन्तीत्यर्थः । अत्र यात्रासमयेऽमङ्गलशब्दोच्चारणमपि नोचितमिति तच्छ्रवणेन तस्या आशंका भविष्यत इति विषमपदत्वं हेतुत्वेनोक्तम् । पदार्थवाक्यार्थरूपयोः काव्यलिङ्गयोः संसृष्टिः । छेकवृत्त्यनुप्रासौ । वृत्त मनन्तरोक्तम् । क्षीरवृक्षेति प्लक्षादेरुपलक्षणम् । तेन छायाधिक्यं ध्वनि-
तत्तथोक्तं रहितानुबंधं रहितः त्यक्तः अनुबंधः संबंधो येन तथोक्तम् । किंनु खल्वि- त्यादि । युक्तरूपं योग्यतरं कुलगोत्रचरित्रानुरूपमिति यावत् । प्रशंसायां रूपप्प्रत्ययः । हलेत्यादि । अत्र चक्रवाकीशब्देन पक्षिजातेर्वात्स्यायनादिमदनशास्त्राभिज्ञताधिकाराभा- वात् संभोगमात्रसुखाभिज्ञता सूच्यते । न तु नैपथ्यात्मकक्रियात्मकबहुविधशृङ्गारोचितेति यावत् । तादृशी चक्रवाकी सहचरं प्रियं सहचरशब्दप्रयोगेण पक्षिजातेर्विधिनिषेधात्मक- शास्त्रपाठानुष्ठानानधिकारतया कर्मपारवश्याभावात् सार्वकालिकसंभोगादिक्रीडापरतां व्यज्यते । न तु कार्यांतरचिकीर्षया कदापि मनुष्य इव विदेशगमनोद्योगपर इति यावत् । अत एव सहचरशब्दप्रयोगः न तु कांतः प्रिय - इति प्रयुक्तः । नलिनीपत्रान्तरितं नलिनीपत्रमात्रव्यवहितं न तु भित्त्यादिव्यवहितं विदेशस्थं वा । अपश्यंतीत्यनेन दर्शनाभावमात्रमेव किंतु तदीयप्रतिस्वरादिकं ज्ञायत इत्यर्थः । आरसति आसमन्ताच्छब्दायते वर्तमानव्यपदेशेन तस्य बहुविधदुःखावि- ष्करणं प्रदृश्यते । अहमित्यनेन पूर्वोक्तगुणविलक्षणा स्रक्चंदनवस्त्रभूषणादिविषयार्हा मानुषी लब्धैकवारप्रियसंभोगा च तादृश्यहमित्यर्थो दृश्यते । दुष्करं दुष्कृत्यम् । अनु-
अनसूया-सहि, मा एव्वं मन्तेहि ।[ सखि, मैवं मन्त्रय ]
एसा वि पिएण विणा गमेइ रअणिं विसाअदीहअरं ।
गरुअं पि विरहदुक्खं आसाबन्धो सहावेधि ॥ १६ ॥
[एषापि प्रियेण विना गमयति रजनीं विषाददीर्घ तराम् । गुर्वपि विरहदुःखमाशाबन्धः साहयति ] काश्यपः-शार्ङ्गरव, इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
शार्ङ्गरवः--आज्ञापयतु भवान् ।
तम् । प्रशस्तं युक्तं युक्तरूपम् । पश्य । नलिनीपत्रान्तरितमपि सहचर मपश्यन्त्यातुरा चक्रवाक्यारौति दुष्करमहं करोमीति । एतावद्दिनं भर्त्रा विना स्थितास्मीति भावः । सखि, एवं मा मा मन्त्रय। एषेति । गाथा । एषा चक्रवाकी क्षणमपि तेन विना तिष्ठन्ती । सापीत्यपिशब्दार्थः । न नाथो न कान्तोऽपि तु प्रियस्तेनापि नागमयत्येव नापि मध्ये रजनीयवि च्छेदो नापि तस्याः कथाशोच्यत्वमिति भावः । रञ्जयति लोकानिति रजनीमात्रम् । अपि तु विषादेन दुःखेन दीर्घतराम् । अथ च विषादो येषां ते विषादा विरहिणः । अर्शआद्यच् । तेषां दीर्घा केवलं न । दीर्घतराम पीति पञ्चसु स्थानेष्वपिर्योज्यः ।गुर्वपि विरहदुःखमाशाबन्धः साहयति ।
चितमिति यावत् । युवतिकृत्यं न भवतीति भावः । करोमि अनुतिष्ठामि । स्ववश- गेन्द्रियगणा जीवामीत्यर्थः । प्रियस्य चिरविश्लेषेण मरणे समुचिते सति स्वयं तद्विपरीत- मेव करोमीति भावः । मैवमिति । एवमिति उक्तनिर्वेदवचनं मेति प्रतिषेधे । कदापि न वदेत्यर्थः । एसेति । एषा क्षणमपि प्रियविश्लेषासहनशीला तादृश्येषा चक्रवाकीति यावत्। प्रियेण कांतेन यद्दर्शनादर्शने एव जीवितमरणयो हेतू तत्रैव प्रियशब्दप्रयोगः क्रियत इति महाकवीनां संकेतः । तादृशप्रियेण विना प्रियसंसर्गमन्तरेणापि रजनीं चन्द्रातपमलयमारु तादिसन्निधानेनाखंडितमदनप्रचुराद्यूनोर्बहुविधक्रीडोचितसमयां निशामित्यर्थः । गमयति बुद्धिपूर्वकं प्रत्यहं नयति न तु दैवात्कदाचित्कप्रियसंसर्गशून्यां रजनीं गमयतीत्यर्थः। दीर्घतरं बहुकालव्यापकं विरहिजनासह्यषडृतुव्यापकमपीत्यर्थः । गुरुकं प्रमाणधिकं स्मृतिगुणोद्वेगादिक्रमेण मरणांतफलकमपीत्यर्थः । विरहदुःखम् इष्टजनविप्रयोगजनितदुः खम् आशाबंधः प्रियसमागमप्रत्याशा सहयति मर्षयति । तथा मेघसंदेशे “ आशाबंधः अङ्कः ४] टीकाद्वयसहितम् । (२७१)
काश्यपः-- अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतःपरं न खलु तद्वाच्यं वधूवन्धुभिः ॥ १७ ॥
अर्थान्तरन्यासः । अस्मानिति । संयम एव धनं येषां तानस्मान्साधुसम्यक्तया विचिन्त्य । मुन्यादिपदत्यागेन संयमधनपदग्रहणभङ्गीकारान- ङ्गीकारयोर्भयानुग्रहौ दर्शयति । आत्मन उच्चैः कुलम् । साधु विचिन्त्ये- त्यनुषज्यते । तादृशकुलोत्पन्नस्यालीकप्रतारणादिसंभावना नास्तीति भावः। अस्यास्त्वयि ज्ञां स्नेहप्रवृत्तिं स्नेहप्रवाहम् । आधिक्यमिति यावत् । साधु विचिन्त्येत्यनुषज्यते । । प्रवृतिः कथिता वृत्तौ प्रवाहोदन्तयोरपि ' इति विश्वः । तेनात्र कारकक्रियादीपकम् । तामित्ति सर्वनाम्ना पूर्वकविरहे तत्तत्कामाद्यवस्थापिनुभवनम् (?) ततः समागमजानन्दाम्बुधि- मज्जनादि व्यज्यते । एतद्वयङ्ग्यावकाशदानाय प्रवृत्तिपदम् । अस्यास्त्वयीत्यनेन भवद्दर्शनमारभ्य प्रतिक्षणोपचीयमानरागसागरत्वं ध्व- नितम् । अत एव तवास्यार्मिति नोक्तम् । यद्यपि नायकयोः परस्परानुराग-
कुमुमसदृशं प्राणम्" इत्यादौ । अस्मानित्यादि । अस्मानिति बहुवचनेन पुत्रीभूत- शकुन्तलायाः अनायासेनानुरूपवरप्राप्त्या स्वस्य कृतार्थता सूच्यते । तेन राजकृतगांधर्व- विवाहं प्रति स्वस्य हर्षजनितप्रीतिश्च प्रकाश्यते । तर्हि सर्वत्र कन्यकाया वर्णानुरूपवरः किंदुर्लभ इत्यत आह-संयमधनानिति । संयमधनान् तपोधनानित्यनेन स्वस्य सार्वका- लिकात्मस्वरूपमननपरत्वादरण्यवासित्वाच्चानुरूपवरविचारार्थे नानादेशभ्रमणासामर्थ्ये व्यज्यते । किंच संयमधनानित्यनेनास्मदसंनिधानेऽपि त्वत्कृतगांधर्वविवाहादिवृत्तान्तस्त- पोमहिम्ना ज्ञात इत्यपि ज्ञाप्यते । साधु विचित्य । यद्यपि राज्ञः सार्वकालिकराज्यपरिपालन- रतंत्रता तथाप्यस्मदनुरोधेन क्षणमात्रं समवधाय सम्यग्विशेषेण चिंतयित्वा । संयमध- नानित्यनेन स्वस्य राजनिमित्तकधनवस्त्रादिनैरपेक्ष्यं ज्ञाप्यते किंतु राज्ञ एव तपोधनानु- ग्रहापेक्षेति भावः । अनेन स्वाश्रमपरिपोषितशकुन्तलायाः तादृड्नागरिकजनसहवासा- भावात् कैतवानभिज्ञतया सौशील्यादिगुणाः प्रकाश्यन्ते । गांधर्वविवाहं प्रति स्वकृतानु- ज्ञायां हेतुमाह-उच्चैः कुलमित्यादि। आत्मनः स्वस्य वचैः कुलं वंशोमतिं साधु विचिन्त्य स्वाभिजात्यकलंकभूतपरदाराभिमर्शनकृतम्नतादिविरहितं कुलं सम्यक् गणयित्वा आत्मन इत्येकवचनेन कुलाभिजात्यादावद्वितीयत्वं राज्ञः सूच्यते । (२७२) अभिज्ञानशाकुन्तलम् । [ चतुर्थः जीवातुरेव रतिस्तथाप्यस्याः प्रेषणेन प्रकृतत्वात्तथोक्तिः । स्नेहप्रवृत्ति विशिनष्टि-कथमपि वचनेन परद्वारेङ्गितेन वा न बान्धवैः कृतामन्यकर्तृकतां प्रयत्नेन निषेधता कविनास्याः स्नेहप्रवृत्तेः स्थायित्वं स्थिरीकुर्वता कोऽपि लोकोत्तरश्चमत्कारातिशयो व्यज्यते । इयं सामान्या साधारणी या प्रतिपत्तिर्गौरवं तत्पूर्वकं दारेषु स्त्रीषु । बहुवचनेन पूर्वोक्तस्य युक्तता ध्वन्यते । स्वया प्रसिद्धगुणवता सता तादृशकुलोत्पन्नेन सुजनताजन्मना धर्मधुरीणेनेत्यर्थान्तरसंक्रमितम् । दृश्या ज्ञातव्या न तु कर्तव्या । अस्माकं तत्र नियोगसंभवात् । ' प्रतिपत्तिः पदे प्राप्तौ प्रवृत्तौ गौरवेऽपि च ' इति विश्वः । नन्वेतादृशप्रेम्णि कथं सामान्यप्रतिपत्तीत्याद्युक्तमत आह-- भाग्यायत्तमिति । अतःपरं वधूवन्धुभिर्न वाच्यम् । यतो वयं वधूबन्धवः । अस्मदुच्यमानं तु पक्षपातितया पर्यवसन्नं सदौदासीन्यमेव गमयेदिति उभयोरनुरूपत्वान्मयाप्यनुमतिरेव कृतेति भावः । पुनरपीप्सितार्थासिद्ध्ययर्थे हेत्वन्तरमाह त्वयीत्यादि । त्वयि स्वारसिकता दृगनुरागातिशयवति त्वयीति यावत् । त्वयि विषये अस्या अरण्यवासित्वात् कैतवानभिज्ञायाः शकुन्तलाया अस्या इति यावत् । कथमपि कथंचित् कृच्छ्रेणोति यावत् । कृच्छ्रत्वं नाम गुरुजनासमेत्या स्वाच्छंदिकविवाहे सद्य एवानिष्ठजनकं गुरुजनेभ्यः शापमप्यविचार्य कथमपीत्यर्थः । तदेवाह-अवान्धवकृतामिति । अनेन यद्यपि राजर्षिकन्यकायाः राजर्षिवरगामितायाः युक्तत्वात्तत्रापि सनिहितस्य परित्यागे कारणाभावाच अनुरूपवरसंनिधानमेव कन्यकाया विवाहहेतुस्तथापि बान्धवाः कुलमिच्छेतीति न्यायेन विवाहस्य वधुजनसंमत्या भाव्यमिति ज्ञाप्यते। अनुरागवशात् बंधुजनानप्यचित्य शकुन्तलया त्वद्विषये प्रवृत्तिः कृतेति भावः । तदेव ज्ञापयति- तामिति । तां त्वदेकवेद्यामनिर्वचनीयामनुभूतामिति यावत् । यद्वा तामुभयवे- द्यामकृत्रिमामुभयोरनुरागविशेषमुभावेव जानीथस्तथैव परस्परं वर्तेयाथामित्यभिप्राय: स्नेहप्रवृत्तिं स्नेहशब्देन द्रवीभुतचित्तस्य भावविशेषः कथ्यते । तदुक्तं " विश्रमे परमा काष्ठामारूढे दर्शनादिभिः । यत्र द्रवत्यंतरंगं स स्नेह इति कथ्यते ॥ " इति । तस्य प्रवृत्तिः खारसिकनिर्गलद्वयापारः । मांजिष्टानुरागविशेषसूचकशरीरकार्श्यवैवर्ण्यादिरित्यर्थः । तादृशी स्नेहप्रवृत्तिं च साधु विचिंत्येत्यनुषज्यते। साधु पश्चात्तापपुरःसरं विचिंत्य क्षणमपि त्वद्विश्लेषासहां तादृशीमेतावंतमनेहसं विहाय स्थितमित्यनुशयपूर्व विशेषेण चिंतयित्वा । अत्र विचिंत्येति ल्यप्प्रत्ययेन विशेषवाचकोपसर्गेण च चिंताया निर्णयांतत्वमुच्यते । दारेषु कलत्रेषु सत्सु बहुवचनेनरत्नाहारी तु पार्थिव इति न्यायेन राजानो बहुवल्लभा इत्यभिधानेन च बहुकलत्रपरिग्रहः समुचित इति ज्ञाप्यते । निर्धारणे सप्तमी । सामान्यप्रतिपत्तिपूर्वकं कलत्रांतरसाम्यज्ञानपुरःसरं त्वया अस्मत्संदेशवाक्यद्वयार्थविशेषचिंता-- निर्णयांतज्ञानवता त्वयेति यावत् । एकवचनेन स्वारसिकतया स्वकृतानुरागविशेषादिकं " भावः । अत्र मयैतन्न वक्तव्यमिति विशेषे प्रस्तुते यत्सामान्यवचनं तेनाप्रस्तुतप्रशंसा । किं तर्हि तत् । भाग्यायत्तं दैवायत्तम् । अथ वधूवन्धुमिरस्मा भिरतः परं न वाच्यम् । नियोगत्वेन पर्यवसानादिति भावः । अतो भाग्यायत्तं येन भाग्येन युवयोरेतादृशोऽनुरागस्तदधीनमेव सर्वमिति भावः । खलुर्हेत्वर्थस्तेन काव्यालिङ्गमपि । यद्वातः परं महिपीत्वाभिषेकादिकं
स्वयमेव जानासीति सूच्यते । तादृशेन त्वया इयं कत्पोपिता शकुन्तला दृश्यः उक्तहेतुभिर्द्रष्टुं
योग्या त्वत्कटाक्षपतनार्हेति यायत् । तर्हि लोके पित्रादिभिः कन्यकाया जामातरं
प्रति विशेषप्रतिपत्त्यादिकमेव प्रार्थनीयं तत्कथं सामान्यप्रतिपत्त्यादिकं प्रार्थ्यत इत्यत
आह-अतः परमिति । अतः सामान्यप्रातिपत्तेः परं भिन्नं विशेषप्रतिपत्यादिकं खलुशब्दो
हेत्वर्थकः । अतो हेतोः भाग्यायत्तं जन्मांतरोपार्जितसुकृतविशेषाधीनं न तु
कन्यकायाः कुलाभिजास्यसौंदर्यविनयादिगुणविशेषायात्तमिति यावत् । अनेन गर्ह्योस्चः
शकुन्तलायाः सौशत्यादिबहुगुणयोगिता सूच्यते । ततो हेतोः तद्विशेषप्रतिपत्यादिकं
वधूबंधुभिः वधूनामासैर्न वाच्यम् । न याच्यनित्यपि पाठः । अत्र श्लोके अन्यापि
योजना क्रियते । अस्मानिति बहुवचनेन काश्यपगौतमीशार्ङ्गरवादिशिष्या गृह्यन्ते ।
तादृशेषु बहुध्वस्मासु सत्स्वपि त्वया कोऽपि न पृष्ट इति राज्ञ्यपराधारोपः प्रकाश्यते ।
तर्हि तात्कालिकसुखप्राप्त्यर्थे कृतपरकन्याहरणजनितपापस्य फलं कालांतरे परलोके
अनुभविष्यामि राज्ञो मम क इदानीं शिक्षक इत्यत आह-संयमधनानिति । अनेन स्वस्य
कोपप्रसादयोः शापानुग्रहाभ्यां सद्यः फलप्रदत्वं व्यज्यते । साधु विचिंत्यात्मनः उच्चैः
कुलं साधु विचिंत्येत्यनेन कलंकरहितचिरंतनस्ववंशस्य तपोधनत्रिपयकापराधकरणात्
क्षतिकरणं तव नचितमिति व्यज्यते आत्मन इत्येकवचनेन स्वकृतशकुन्तलापरिणयरुपवृत्तांतं
स्वयमेव जानासि न त्वन्यदुष्टजनबोधनात् कृतशकुन्तलासंगमस्त्रमहानते
स्वस्येवापराधः न तु निकटवर्तिनामिति ज्ञाप्यते । तात्कालिकसुखानुभवार्थे यत्किंचित्
कृतं तदांतं किमर्थमनुष्ठेयमित्यवज्ञा नोचिता । किंतु उक्तहेतूनां विशेषप्रतिपत्तिरेवों
चितेति भावः । पुनरपि हेवन्तरेण विशदयति-त्वयीत्यादि । त्वयीव्यधिकरणसप्तमी ।
त्वयीत्येकवचनेनात्मनः खतंत्रतया सकृतं स्वयमेव जानासि । यदि त्वया विशेषप्रतिपत्तिर्न
क्रियते शकुन्तलाविषये तदा त्वत्कृतानुरागविशेषज्ञापकस्तत्र निकटवर्त्यन्यजनो
नास्तीत्यविदितान्यजनात्मकृत्यताज्ञानं प्रकाश्यते । अस्याः शकुन्तलाया: । संबंधे षष्ठी ।
कथमपि कथंचित् यत्नेनेति यावत् । यदाहोत्पलः « ज्ञातहेतुविवक्षायामप्यादिकथमंत्र-
भाक् । कथमादि तथाप्यन्तं यत्नगौरववाडयेः । ’ इति । तां त्वदेकवेद्यां शकुन्तलासंबंधिनी
यत्नेन त्वत्कृतां तामिति यावत् । कथमपि तामित्यनेन स्वस्यासन्निधानेऽपि
शकुन्तलासंगमार्थे यत्नेन त्वत्कृतानुरागविशेषशपथादिकं सर्वे तपोमहिम्ना ज्ञातमिति
परिग्रह्यहुत्वेऽपीत्याद्यनुरागविशेषद्योतकशपथवाक्यं दुष्यन्तस्य स्मार्यते । अवांधवकृत-
ज्ञातिजनासमवायकृताम् । अवांघवकृतामित्यनेन बंधुजनासंमत्या स्वाभिसरणभीरुकायाः
शार्ङ्गरवः-गृहीतः संदेशः।
काश्यपः--वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि
सन्तो लौकिकज्ञा वयम् ।
भाग्यायत्तं दैवायत्तं तत्खलु निश्चितं वधूवन्धुभिर्न वाच्यम् । वचनमात्रेण तदसंपत्तेरिति भावः । श्रुतिवृत्त्यनुप्रासैौ । शार्दूलविक्रीडितं वृत्तम् ।
शकुन्तलाया: । व्यभिचारित्वदोषापनयनार्थं गांधर्वविवाहस्य बंधुजनानपेक्षितया तदानीं दुष्यन्तकथितं ‘गांधर्वेण विवाहेन वह्नयो राजर्षिकन्यकाः' इत्यादि दृष्टांतवाक्यं दुष्यन्तस्य प्रकाश्यते । स्नेहप्रवृतिं परिणतानुरागविशेषात् कालाक्षमलक्षणौत्मुक्यविशेषव्यापारं च साधु विचिंत्येत्यनुषज्यते । अनेन ‘‘ तपति तनुगात्रि मदनस्त्वाम् ” इत्याद्यनुरागप्रकाशनार्थे भणितदुष्यन्तवाक्यं राज्ञः स्मार्यते । दारेषु कलत्राणां मध्ये । सात्वच्छपथवाक्यानुरागविशेषमात्रविश्वासवती सेति यावत् । इयं बालेयमिति यावत् । त्वया मान्यप्रतिपत्तिपूर्वकं मान्या पूज्या प्रतिपत्तिर्ज्ञानं तत्पूर्वकं तत्पुरःसरं दाराणां मध्ये प्रतिपत्तेर्मान्यत्वं तु पट्टमहिषीभावः । दृश्या द्रष्टुं योग्या । निष्फलंकमहाकुलीनस्वसौंदर्यसौशील्यादिगुणविशेषैः पट्टमहिषीभावेन त्वद्विशेषकटाक्षपतनार्हा । यद्वा सेयं दारेषु सत्स्वपि अन्यप्रतिपत्तिपूर्वकं मा दृश्या कलत्रांतरसाभ्यगौरवपूर्वकं न दर्शनीयेत्यपि योजयंति। “ प्रति । पत्तिस्तु गौरवे । प्राप्तिप्रवृत्त्यौः प्रागल्भ्ये प्रतिभाज्ञानयोरपि । " इयुक्तत्वात् । तर्हि लौके सधैर्वधूवंधुभिः सामान्यप्रतिपत्तिरेव प्रार्थ्यते तत्कथमिदानीं विशेषप्रतिपत्तिः प्रार्थ्यत इत्यत आह-अतः परमिति । अतः विशेषप्रतिपत्तेः परं भिन्नं सामान्यप्रतिपत्त्यादिकमिति यावत् । खलुशब्दो हेत्वर्थकः । यतो हेतोरभाग्यायत्तं दुरदृष्टाधीनम् । त्वयाभाग्यायत्तमित्यत्र संधावकारप्रश्लेषः कार्यः अभाग्यायत्तमिति । ततो हेतो तत्सामान्यप्रतिपत्यादिकं वधूवंधुभिर्वधूनामिष्टतमैर्जनौरिति यावत् । न वाच्यं न कथनयिम् । अभाग्यफलत्वान्न प्रार्थनीयमिति यावत् । अत्र श्लोके मालानामालंकारः । तदुक्तम् " ईप्सितार्थप्रसिद्धयर्थं क्रियते यत्र सूरिभिः प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ " इति । अत्र शकुन्तलापरिग्रहे काश्यपेन स्वप्रीतिः दुष्यन्तस्य पुनरभिवृद्धिः तादृप्रूपायाः शकुन्तलाया लाभः इत्यादीनि बहूनि प्रयोजनानि प्रतिपादितानि । वत्सेत्यादि । इदानीं सांप्रतं ‘‘ पिता रक्षति कौमारे भर्ता रक्षति यौवने “ इति न्यायेन पतिगृहगमनसमये प्राप्ते सतीति यावत् । अनुशासनीया निष्कलंकास्मत्कुलस्य कलंकित्वापातनभिया शिक्षणीया । पश्य विभावय । आमंत्रणे लोट् । ममांकसमीपे आगच्छेति यावत् । अत्र शिक्षावचनस्य श्रवणार्हत्वात् शृण्विति वक्तव्ये पश्येति दर्शनक्रियाभिधानं श्रौत्रश्रुतं तु यदा कदाचिचित्तास्वास्थ्यकाले विस्मृतं स्यात् साक्षान्नयनाभ्यां दृष्टं तु हठाद्विस्मृतं तथा न भवतीति पश्येति प्रत्युक्तमित्याभिप्रायः । वनौकसोऽपि अरण्यवासिनोऽपि लोकज्ञाः
शार्ङ्गरवः-न खलु धीमतां कश्चिदविषयो नाम ।
काश्यपः - सा त्वमितः पतिकुलं प्राप्य
शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ १८ ॥
कथं वा गौतमी मन्यते ।
न खलु धीमतामिति कण्ववाक्यं प्रत्यर्थान्तरन्यासः | सा त्वमित्यस्य श्लोकेनान्वयः । शुश्रूषस्वोन । गुरूञ्श्वश्रूश्वशुरादीञ्शुश्रूपस्व सेवां कुरु । सपत्नीनां जने समूहे प्रियसखीनामिव वृत्तिं कुरु प्रियसखीवद्वर्तस्व । विप्रकृता न्यक्कृतापि।' निकारो विप्रकारः स्यात् ' इत्यमरः । रोपणतयेर्प्यया भर्तुः प्रतीपं वैपरीत्यं मा स्म गमो यासीः । परिजने सेवकवर्गे भूयिष्ठमतिशयेन दक्षिणानुकूला भव | भाग्येषु सपत्नीदैवेष्वनुत्सेकिन्यस्खलिता । भवेत्यनुपज्यते । अस्या भाग्यं मम नास्तीति दुःखं न कार्यमित्यर्थः । अथ च भाग्येषु निजेष्वनुत्सेकिनी निर्गर्वा ममैतादृशं सौभाग्यामितेि गर्वो न कार्यः इत्यर्थः । उदोमर्दनोत्क्षेपणगर्वस्खलनेषु ’ इतेि गणपाठात् । एवं सति युवतयः स्त्रीमात्रम् । त्वं तु किं पुनरिति भावः । गृहिण्याः पदं स्थानम् । यद्वा गृहिणीति पदमधिकारम् । यान्ति प्राप्नुवन्ति । अन्या वामाः स्त्रियः कुलस्याघयः | भवन्तीत्यर्थः । वामौ वत्गुप्रतीपौ वा ' इत्यमरः । रूपक मर्थान्तरन्यासो वा । कुलस्याधयः कुलाधिष्ठानानि । वामा बक्राणीत्यर्थः ।
स्थावरजंगमात्मकयहुविधज्ञाः लोकवृत्तांताभिज्ञा इति यावत् । तपोमहिम्नेति भावः । लोकशब्देन लोकवृत्तांतः कथ्यते । यदाह वामनः ‘लोकवृत्तं लोकः' इति शुश्रूषस्वोते। शुरून् पूजार्हान् शुश्रूषस्व परिचर । सनंतः शृणोतिः पश्चिर्यायां रूढः । " ज्ञाथुस्मृदृशां सनः ’ ” इत्यात्मनेपदम् । ‘‘ शुश्रूषा श्रोतुमिच्छायां परिचर्यावधानयोः । ” इति विश्वः । अत्र शकुन्तलायाः काश्यपेन गुरुजनशुश्रूषाशिक्षावचनव्याजेन पूर्वं गुरुजनभूत दुर्वासःशुश्रूषावैपरीत्यदोषजनितशापात् पंचमाङ्के दुष्यन्तस्य शकुन्तलाविषयकस्मरणाभावे वीजमन्त्रोपन्यस्तमित्यवगन्तव्यम् । एवं सर्वकाव्येषु वीजानुगुण्यं बुद्धिमतोह्यम् । सपत्नीजने प्रियसखीवृत्तिं प्रियसखीव्यापारं चाटुभाषणादिवृत्तिभिति यावत् । वृतिमित्यनेन प्रियभाषणादिचेष्टयैव प्रियसखीदर्शनं कर्त्तव्यं न तु मनःपूर्वकमिति भावः ।
गौतमी-एत्तिओ वहूजणस्स उवदेसो । जादे एदं क्खु सव्यं
आधारेहि । [ एतावान्वधूजनस्योपदेशः । जाते, एतत्खलु सर्व-
मवधारय }
काश्यपः-वत्से, परिष्वजस्व मां सखीजनं च ।
शकुन्तला-ताद, इदो एव्व किं पिअंवदामिस्साओ सहीओ
णिवत्तिस्सन्ति । [ तत, इत एव किं प्रियंवदामिश्राः सख्यो
निवर्तिष्यन्ते ]
काश्यपः-वत्से, इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् ।
त्वया सह गौतमी यास्यति ।
शकुन्तला-( पितरमाश्लिष्य ) कहं दाणिं तादस्स अड्डादो
परिभष्टा मलअंतरूम्मूलिया चन्दणलदा विअ देसन्तरे जीविअं
धारइस्सं । [ कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतरून्मूलिता
चन्दनलतेव देशान्तरे जीवितं धारयिष्ये ]
आधिर्मानसपीडायां प्रत्याशायां च वन्धने । व्यसने चाप्यधिष्ठाने ? इति विश्वः । वृत्तमनन्तरोक्तम् । एतावान्वधूजनस्योपदेशः | जाते पुत्रि, एतत्खलु सर्वमवधारय । तात; इतः [ एव] किं प्रियंवदामिश्राः सख्यो निवर्तिष्यन्ते। कथामिदानीं तातस्याङ्कात्क्रोडात् [ परि] भ्रष्टा मलयतरून्मूलिता चंदनलतेव देशांतरे परदेशे स्थानांतरे च जीवितं धारयिष्ये । कथमिदानीमितिं संबंधः । उपमया तत्रत्यैर्वहुमानिताया अपि पितृवियोगाविस्मरणं ध्वन्यते ।
सापत्न्यव्यवहारादिकं न दर्शनीयमिति यावत् । विप्रकृतापि घिगतं प्रकृतं प्रकृतिर्यस्याः सा तथोक्ता कोपितापीत्यर्थः । रोपणतया कोपनतया प्रतीपं प्रतिकूलं मा गमः मा गच्छ पतिरेव बुधैः स्त्रीणां देवतेति निगद्यते “ इति न्यायात्कोपसमये भर्तुश्चित्तरंजकानुकूलव्यवहारादिकमेव कर्तव्यमित्यर्थः । परिजने उपजीविजने भूयिष्टमतिशयेन दक्षिणा अनुकूल। भोगेषु सुखेषु अनुत्सेकिन अनुत्कंटिता अगर्विता भवेत्यनुषज्यते । एवमुक्त प्रकारेण गृहिणीपदं गृहिणीव्यपदेशं यान्ति व्रजंति / वामाः प्रतिकूलाः कुलस्य वंशस्याधयः अपकर्षहेतवः । यथा आधयतु देहस्यापकर्षहेतवस्तथा कुलस्येति यावत् । आधिस्तु व्यसने चित्तदुःखेऽधिष्ठानवंधयोः । ” इति वैजयंती ।
काश्यपः-वत्से, किमेवं कातरासि ।
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीवार्क प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ १९ ॥
अभिजनेति । अभिजनवतः कुलवतः ! ‘अभिजनान्वयौ ' इत्यमरः । अत्रैतदनुक्तेरपि सिद्धेस्तात्पर्यानुपपत्त्या लक्षणया सामान्यशब्दो विशिष्टं कुलं लक्षयति । तदुत्पत्तिमत्वं त्वर्थाक्षिप्तम् । एतदयादानदाक्षिण्यधर्मभीरुत्वादि धर्मशतं व्यनक्ति । अथवाभिजनपदेन तदुत्पन्ना जना लक्ष्यन्ते । तद्वतस्तद्वहुजनवतोऽभितः समन्ततो जनवतः स्वजनवत इति वा । अनेन विशेषणेन सकलबन्धुजनकृत्यचिन्तया गृहिणीगतोऽतिशयो व्यज्यते । एवंभूतस्य भर्तुः श्लाध्ये सर्वोत्कृष्टे । तादृशप्रेम्णानुमितत्वात् । गृहिणीपदे गृहिणीस्थाने । अथवा गृहिणीलक्षणाधिकारे । अथ च गृहिणीति त्र्यक्षरं पदं तत्र । जगति गृहिणीपदवाच्यत्वमेवेत्यर्थः । अतः ‘गृहिणी गृहमुच्य ते ? इत्युक्तेस्तदीयं सर्वं गृहं त्वदायत्तमिति भावः । स्थिता चापल्यनिवृत्त्या स्थिरीभूता । अत एव भर्तुरित्युचितपदोपन्यासः । भरतीति भर्ता सक लजगद्भरणशीलस्येति षष्ठ्या गृहिणीगतोऽतिशयो व्यज्यते । तावता किं तत्राह-विभवेत । एवंभवः संपत्तिस्तेन गुरुभिर्गरिष्ठैः । अनेन कृत्यानाम नन्यनिर्वाहित्वं सूचितम् । तस्य भर्तुः प्रतिक्षणं कृत्यैः । इत्यव्ययबहुवच नाभ्यां विशिष्टकार्याणामन्यता ( तमता ) ध्वन्यते । व्याकुला व्यग्रा । स्वगृहकार्यसहस्रनिमग्ना विगलितवेद्यान्तरा भविष्यसीति भावः । अचि- राच्छीघ्रं प्राची प्राग्दिगिव त्वं पावनमर्कमिव तनयं प्रसूय चेति । चः समुच्चये ! स स्वयं पूत इति किं वक्तव्यम् । पावयतीति पावनः । तन्नाम ग्रहणेनान्येऽपि पावना भवन्तीति भावः । अर्कोपमानत्वं (त्वेन) तनयस्य जगद्विलक्षणतेजस्वित्वं लोकत्रयातिक्रान्तपौरुषत्वं चतुर्दशभुवनगयिमानः कीर्तित्वमत एव चक्रवर्तित्वमित्यादि धर्मसहत्रं व्यज्यते । हे वत्से, मम पितुर्विरहजां वियोगजां शुचं न गणयिष्यसि । न तु सा न भविष्यति ।
अभिजनवत् इत्यादि । अभिजनवतः कुलीनस्य श्लाघ्ये पूज्ये गृहिणीपदे पट्टमहिषी
( शकुन्तला पितुः पादयोः पतति )
काश्यपः--यदिच्छामि ते तदस्तु ।
शकुन्तला-( सख्यौ उपेत्य ) इला, दुवे वि मं समं एव्व परिस्सजह ।
[ हला, द्वे अपि मां सममेव परिष्वजेथाम् ॥
सख्यौ-' तथा कृत्वा) साहि, जइ णाम सो राआ पच्चाहि
ण्णाणमन्थरो भवे तदो से इमं अत्तणामहेअङ्किअं अंगुलीअअं
दंसोहि । [ सखि, यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्तत
स्तस्येदमात्मनामधेयांकितमंगुलीयकं दर्शय |
शकुन्तला--इमिणा संदेहेण वो आकल्पिद ह्यि। अनेन
संदेहेन वामकम्पितास्मि |
सख्यौ-मा भाआहि । सिणेहो पायसंकी । [ मा भैषीः ।
स्नेहः पापशंकी ]
गृहकार्यव्यग्रतया त्वया शोको न गणनीय इत्यर्थः । पितृवियोगदुःखमवि स्मरणीयप्रकृत्या व्यज्यते । चतुर्थचरणार्थे प्रति पूर्वोक्तद्वयं हेतुत्वेन योज्यम् । उपमासमुच्चयकाव्यलिङ्गश्रुतिवृत्यनुप्रासाः। हरेिणीवृत्तम् । अनेन संग्रहलक्षणमङ्गसुपक्षिप्तम् । तल्लक्षणं तु--‘सामदानार्थसंयोगः संग्रहः परिकीर्तितः ’ इति । द्वावपि मां सममेकदैव परिष्वजेथाम् । तथा कृत्वेत्येक परिष्वज्य । सखि यदि नाम स राजा प्रत्यभिज्ञान : मन्थरो भवेत् । प्रत्यभिज्ञाने तत्तेदंतावगाहिनि सेयं शकुन्तलेति ज्ञाने मन्थरः शिथिलो झटित्येतादृग्ज्ञानरहित इत्यर्थः ततस्तस्येदमात्मनामधे याङ्कितमंगुलीयकं दर्शय । अनेन रूपलक्षणमङ्गमुपक्षिप्तम् । तल्लक्षणं तु दशरूपके--'रूपं वितर्कवद्वाक्यम् ’ इति । यदीतेि विंतकोंक्तेः । अनेन यः संदेशेन कम्पितास्मि । अनेन संभ्रमलक्षणमङ्गमुपाक्षिप्तम् । तद्युक्षणं तु दशरूपके--'शङ्कात्रासौ च संभ्रमःइति । मा भैषीः स्नेहः पापशङ्की । अनेनाधिवललक्षणमङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- ९ कपटेनाप्तिसंधानं
स्थाने । यदिति । यत्पट्टमहिषीत्वं सत्पुत्रलाभश्च तदस्त्विति आशिषि लोट् ।
शार्ङ्गरवः-युगान्तरमारूढः सविता । त्वरतामत्रभवती ।
शकुन्तला-( आश्रमाभिमुखी स्थित्वा ) ताद, कदा णु भूओ
तवोवणं पेक्खिस्सं । [ तात, कदा नु भूयस्तपोवनं प्रेक्षिष्ये |
काश्यपः-वत्से, श्रूयताम् ।
भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धे
शान्ते करिष्यासि पदं पुनराश्रमेऽस्मिन् ॥ २० ॥
ज्ञेयं चाधिबलं बुधैः ? इति । युगान्तरं हस्तचतुष्कावधि ‘युगं हस्तचतुष्केऽपि ’ इति विश्वः । तात, कदा नु भूयस्तपोवनं प्रेक्षिष्ये । भूत्वोत । चिराय चिरकालम् । चत्वारः समुद्राः । विशेषणेनैव विशेष्य प्रतिपत्तिः । तेऽन्तो यस्याः सा चासौ मही च तस्याः सपत्नी भुत्वा । चतुरुदधिमेखालितभूमिवलयोपभोगमुपभुज्येति भावः । दुष्यन्तस्यापत्यं दौष्यन्तिस्तम् । ‘अत इञ्' न विद्यते प्रति संमुखं ( खो ) रथो यस्य स तम् । प्रतिपक्षाभावात् । ‘मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रति। इति विश्वः । अनेन विशेषणद्वयेन महीभारक्षमत्वं ध्वनितम् । निवेश्य स्थापयित्वा । अर्थान्महीसपन्त्याम् । अत्र सपत्नीग्रहणेन तस्या अपि मातृवं सूचितम् । यद्यपि सपत्नी तथापि त्वयि सत्यामेव सपत्नभावः । त्वया समर्पिते तु तन्नास्तीति भावः । भर्त्रा स सहेति गौणत्वमेतां प्रत्युत्तर दानेनास्याः प्रकृतत्वान्नानुपपन्नम् । अत्र तस्यां महीसपत्नीत्वं तस्यां तन्निवेशनं तस्मिंश्च कुटुम्बभरनिवेशनमिति मालादीपकम् । अत्र यावद्दुष्यन्त धारणं पितृभक्त्या तं प्रति मह्या मातृत्ववर्णनं नानौचित्यमावहति | शान्ते
भूत्वेत्यादि । चतुरन्तमंहीसपत्नी चत्वारो अंता यस्याः सा समस्तेत्यर्थः । सा चासौ मही च सा तथोक्ता तस्याः सपत्नीभूत्वा पट्टमहिषी भूत्वेति यावत् । दुष्यन्तस्यापत्यं दौष्यन्तिः तमप्रतिरथमप्रतिरथिकम् । अत्र रथशब्देन रथिको लक्ष्यते । शांते रागद्वेषरहिते ।
गौतमी-जादे परिहीअदि गमणबेला' । णिबत्तेहि पिदरं ।
अहवा चिरेण वि पुणो पुणो एसा एव्वं मन्तइस्सदि । णिवत्तदु
भवं । [ जाते, परिहीयते गमनवेला ? निवर्तय पितरम् । अथवा
चिरेणापि पुनः पुनरेषवं मन्त्रयिष्यते । निवर्ततां भवान् ।]
काश्यपः-वत्से, उपरुध्यते तपोऽनुष्ठानम्।
शन्कुतला-( भूयः पितरमीश्लिष्य) तपश्चरणपीडितं तादसरीरं।
ता मा अदिमेत्तं मम किदे उक्कण्ठं। [ तपश्चरणपीडितं तातशरीरम् ।
तन्मातिमात्रं मम कृत उत्कण्ठस्व ]
शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् ।
उटजद्वारविरूढं नीवारबलिं विलोकयतः ।। २१ ।।
गच्छ। शिवास्ते पन्थानः सन्तु ।
( निष्क्रान्ता शकुन्तला सहयायिनश्च । )
प्रकरणानुसाराद्वयसीति गम्यते । इदमाश्रमविशेषणत्वेनापि । पुनःपुनरेवैवं मन्त्रयिष्यति । निवर्ततां भवान् तपश्चरणेन पीडितं तातशरीरम् । तस्मान्मम कृते । अतिमात्रमुत्कण्ठा । मेति निषेधे । उत्कण्ठयालमित्यर्थः । ‘क्त्वस्तुमत्तूणतुआणाः' इति क्त्वाप्रत्ययस्य तुमादेशः |शममिति । मम काश्यपश्य ! बाल्यादारभ्य त्वत्कृतपरिपालनस्येत्यर्थान्तरसंक्रान्तत्वम् । एवंभूतस्य शोकः कथं शममेष्यति । कष्टेन शममेष्यतीत्यर्थः । ईदृशस्त्वया तादृशगुणवत्या तथा सकलनिपुणयेत्यादि द्योतयतेि । पूर्व रचितो रचितपूर्वस्तम् । नीवारैस्तृणधान्यैर्वालिं पूजां विलोकयतः । कीद्दशं बलिम् । उटजद्वारे विरूढं संजातम् । ‘विरूढस्तु संजातांकुरेितेऽन्यवत् '
शमनित्यादि । शमं शांतिं मे रागद्वेषादिरहितस्य मे इति यावत् कथं केन हेतुना ।
सख्यौ-( शकुन्तलां विलोक्य ) हद्धी, हद्धी। अन्तलिहदा
सेउन्दला वणराईए । हा धिक्, हा धिक् । अन्तर्हिता शकुन्तला वनराज्या
काश्यपः--( सनिःश्वासम् ) अनसूये, गतवती वां सहधर्मचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् ।
उभे-ताद, सउन्दलाविरहिदं सुण्णं विअ तवोवणं कहं पवि
सामो । [ तात, शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः ।
काश्यपः-स्नेहप्रवृत्तिरेवंदर्शिनी । ( सविमर्शं परिक्रम्य ) हन्त भोः शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः ।
अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिप्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पतन्यास इवान्तरात्मा॥२२॥
( इति निष्क्रान्ताः सर्वे )
इतेि चतुर्थोऽङ्कः ।
इति विश्वः । काव्यालिङ्गानुप्रासौ । हा धिक्, हा धिक्। अन्तर्हिता शकुन्तला वनराज्या । तात, शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशामः । कण्वप्रवेशानन्तरमेतदन्तेन करुणो रसो ध्वनितः । तल्लक्षणं तु -'इष्टवन्धुवियोगश्च स्त्रीनाशो वधबन्धने । विभावाः संमताः पुंसामुत्तमानां पराश्रिताः । मध्यमाधमपुंसां तु ते स्युरात्मैकगोचराः | अश्रुपातो मुखे शोषो विलापः परिदेवनम् । स्तम्भो विवर्णता स्रस्तगात्रता प्रलयस्तथा । यत्र संचारिणः स्थायी शोकः स करुणो मतः ॥' इतेि । अर्थ इति । हि निश्चितं कन्यार्थः परकीय एव ! उत्पत्यनन्तरमेव परकीयत्वेन ज्ञात इत्यर्थः । अद्य परिग्रहीतुः परिणेतुस्तां संप्रेष्य ममाय
नु जिज्ञासायाम् । हा धिक् हाधिगिति निर्वेदे । सविमर्शं सविचारम् । हन्त हर्षे । भो इत्यामंत्रणे । स्वास्थ्यमव्याकुलत्वम् । कुतः कस्मात् । अर्थो हीत्यादि । कन्या परकीय एव अर्थः परस्यैव धनम् । हिः प्रसिद्धौ । अनेन सर्ववर्णसंमतिरुक्ता । तां
मात्मा प्रकाशमत्यर्थे विशदो निर्मलो जातः । पूर्वं समान्यतोऽन्यदीयत्वमुक्त्वा परिग्रहीतुमस्तामित्यनेन नियतविषयत्वेन परकीयत्वं वदतावश्यप्रस्थापनीयत्वं ध्वनितम्| इदमेवोत्प्रेक्षायां न्यासेन सह साधर्म्यं ज्ञेयम् |प्रत्यर्पितो न्यासो येनेदृश इवेत्युत्प्रेक्षा । इन्द्रवज्ञा वृत्तम्|| श्रीमदभिज्ञानशाकुंतलटीकायमर्थद्योतानिकायां चतुर्थोऽङ्कः समाप्तः|
तादृशीं परकीयधनभूतां कन्याम् । अद्येदानीम् । “ भर्ता रक्षति कौमारे’ इति न्यायेन । समये प्राप्ते परिग्रहीतुः पत्युः सम्प्रेष्य प्रस्थाप्य स्थितवतो मम अन्तरात्मा अंतःकरणं प्रत्यर्पितन्यस इव प्रत्यर्पितः प्रतिसमर्पितः न्यासः उपनिधिर्येन स तथोक्तः ! प्रकाममतिशयेन विशदः स्वस्थो जातः संवृतः ।
इति श्रीरमणवेङ्कटाचलेश्वरपादारविन्दपूजकवैखानसकुलतिलककौशिकगोत्रवेङ्कटभट्ट
'इतिगोत्रक्रमागतभट्ट्बिरुदश्रीतिरुमलाचार्यपुत्रेण ध्वनिप्रस्थानपरमाचार्याष्ट-
भाषाचक्रवर्तिश्रीनिवासाचार्येण विरचितायामभिज्ञानशाकुन्तलव्या
ख्यायां चतुर्थोऽङ्कः समाप्तः ।
- ↑ गेण्हिह उपसप्पामेि (गृहीत्वोपसर्पामि ) इति क्व० पु० पा० ।
- ↑ अह्मो आवेअक्खलिआए मह (अहो आवेगस्खलिताया मम ) इति क्व० पु० पाठः।
- ↑ मे (मम) इति क्व० पु० नास्ति ।
- ↑ कस्स वा सो (कस्य वा सो) इति क्व० पु० पा० ।
- ↑ किंच (किंचित्) इति क्व० पु० पा० ।
- ↑ कहेहि कहेहि (कथय कथय) इति क्व० पु० पाठः ।
- ↑ अणुर्णादो वि (अनुनीतोऽपि) इत्य० क्व० पु० ।
- ↑ अत्र अनसूया-कहंविअ (कथमिव) प्रियंवदा इत्यधिकं क्व० पु० ।
- ↑ पुढमभात्तिं अवक्खिअ (प्रथमभक्तिमवेक्ष्य) इति क्व० पु० पा० ।
- ↑ तव (तयः) इति क्व० पु० नास्ति ।
- ↑ सो (सः) इत्यधिकं क्व० पु० ।
- ↑ एव्व (एव) इति क्व० पु० पा० ।
- ↑ तेण (तेन) इति क्व० पु० पा० ।
- ↑ से (अस्याः) इत्यधिकं क्व० पु० ।
- ↑ णं (एनाम्) इत्यधिकं क्व० पु० ।
- ↑ वअणंअलिहिदं (वदनमालिखिताम्) इति क्व० पु० पा० ।
- ↑ सहॅि (सस्त्रीम्) इतेि क्व० पु० पा० ।
- ↑ रक्खणीआ (रक्षणीया) इति क्व० पु० पाठः ।
- ↑ पेससा (पेशला) इति क्व० पु० पा० ।
- ↑ दाणिं (इदानीम्) इति क्व० पु० पा० ।
- ↑ तत् इत्यधिकं क्व० पु० ।