अभिज्ञानशाकुन्तलम् (सटीका)/षष्ठोऽङ्कः

विकिस्रोतः तः
← पञ्चमोऽङ्कः अभिज्ञानशाकुन्तलम् (सटीका)
षष्ठोऽङ्कः
कालिदासः
सप्तमोऽङ्कः →

षष्ठोऽङ्कः ।

प्रवेशकः ।

( ततः प्रविशति नागरिकः श्यालः पश्चाद्वृद्धपुरुषमादाय रक्षिणौ च )

रक्षिणौ–{ ताडयित्वा ) अले कुम्भीलआ, हेहि कहिं तुए

एशे मणिबन्धणुक्किण्णणामहेए लाअकीलए अङ्गुलीअए शमाशादिए । [ अरे कुम्भीरक, कथय कुत्र त्वयैतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ]

पुरुषः --( भीतिनाटितकेन ) पशीदन्ते भावमिश्शे । हगे ण

ईदिशकम्मकाली।[प्रसीदन्तु भावमिश्राः । अहं नेदृशकर्मकारी ]


नागरिको नगररक्षाधिकृतः श्याल राजश्यालः । कोष्ठपाल इति यावत् ।

अले अरे कुम्भीरुआ कुम्भीरक चौर । ‘कुम्भीरको गण्डपदस्तस्करश्च मलिम्लुचः ' इति नाममाला !’ आद्याक्षेपे ' इति मागध्यां वररुचिसूत्रेण संबुद्धावाकारादेशः | कथय कुत्र त्वया एशे एतन्मणिबधनोत्कीर्णनामधेयं मणेर्वंधनं सुवर्णे प्रत्युप्तीकरणं तत्रोत्कीर्णं व्यक्तीकृतं नामधेयं यत्र तथा लाअकलए राजकीयं अंगुलीअए अंगुलीयकं शमासादिए समासादितम् । मागधी राक्षसादेः स्यात् ' इति भरतः । आदिग्रहणेन शकारधीवरादीनामापि ग्रहणादत्रैषां मागध्युक्तिः । तत्र ‘रसोर्लशौ । इति सूत्रेण रेफस्य लो दन्तस्य तालव्यः ।‘ अत एत्स्यात्’ इयनेन प्रथमैकवचनस्यैकारः । प्रसीदन्तु भावमिश्राः । ‘मान्यो भावस्तु वक्तव्यः


कविरिदानीं कथासंघटनार्थं प्रवेशकं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रविशतीत्यादिना । नागरिकस्यालः नगरे नियुक्त इति नागरिकः । तत्र नियुक्त इति ठक्प्रत्ययः । नगरपालक इति यावत् । तस्य स्यालः पत्नीभ्राता । ताडयित्वा

बद्धं पुरुषमिति शेषः । कुंभीलकश्चोरः मणिर्बध्यतेऽस्मिन्निति मणिबन्धनं माणेस्थापनस्थानं तत्रोत्कीर्णं व्यक्तं नामधेयं दुष्यन्तस्येति शेषः । यस्य तत्तथोक्तम् । रक्षिणोरतिनीचपात्रत्वान्मगधभाषा प्रयुक्ता । तदुकं ‘पैशाची मागधी वा स्यात्पिशाचात्यन्तनीचयोः। ” इति । लाअकीए इत्यत्र स्त्रोर्श्लो इति रेफस्य लकारः । अंगुलीअऐत्यत्र लिंगमतंत्रमिति सूत्रात् पुँल्लिंगता । शमाशादिदे इयत्र मागध्यां शौरसेनवि


प्रथमः--किं शोहणे ब्रह्मणेति कलिअ रज्जा पडिग्गहे दिण्णे ।

{ किं शोभनो ब्रह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः }

पुरुषः--सुणध दाणिं । हगे शक्कावदालम्भन्तलवाशी धीवले ।

[ श्रुणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः]

द्वितीयः-- पाडच्चला, किं अह्मेहेिं जादी पुच्छिदा । [ पाटच्चर,

किमस्माभिर्जातिः पृष्टा ]

श्यालः--सूअअ, कहेदु शव्वं अणुक्कमेण । मा णं अन्तरा पडिबन्वह ।[ सूचक, कथयतु सर्वमनुक्रमेण। मैनमन्तरे प्रतिबन्धय ।
उभौ--जं आवुत्ते आणवेदि। कहेहि । [ यदावुत्त आज्ञापयति । कथय ]
पुरुषः -अहके जालुग्गालादीहिं मच्छबन्धणोबाएहैिं कुडुम्बभलणं कलेमि। [ अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ]

इत्युक्तेर्भावेते संबोधनम् । असौ नीचः सुतरां ग्रामीण इति तेन मिश्रपदं गौरवार्थमुक्तम् । हगे अहम् । ‘ वयमोर्हगे " इति सूत्रेणाहमित्यस्य हगेआदेशः नेदृशकर्मकारी किं शोभने ब्राह्मण इति कलयित्वा ज्ञात्वा रज्जा राज्ञा प्रतिग्रहो दत्त इति सोपहासम् । मागध्याम् ‘प्यन्यज्ञक्षां ज्ञः ’ इति सूत्रेण ज्जः । सुणध दाणिं श्रुणुतेदानीम् ’ इह हचोर्हस्य ’ इति धः ।“ इदानीमो दाणिम् ’ इति दाणिमादेशः । अहंशक्रावताराभ्यन्तरवासी धीवरः । शक्रावतार इति तीर्थनाम । तत्संबन्धाXमनामापि । एतदेव पूर्वाङ्गे शचीतीर्थशब्देनोक्तम् । पाटच्चर चौर । स्युः पाटच्चरः स्तेनः’ इति हैमः । किमस्माभिर्जातिः पृष्टा । सूचकेति रक्षिणोरेकतरस्य नाम कथयतु सर्वमनुक्रमेण । मैनमन्तरे मध्ये प्रतिबंधय । यदावुत्त आणवेदि आज्ञापयति । ‘ दिरिचेचोः’ इति दिः । ‘ भगिनीपतिरावुत्तः’ इत्यमरः । कथय । अहकेऽहम् । अह-


श्यालः--( विहस्य) विसुद्धो दाणिं आजीवो । [ विशुद्ध

इदानीमजीवः ]

पुरुषः---

शहजे किल जे विणिन्दिए ण हु दे मम विवज्जणीअए ।
पशुमालणकम्मदालुणे अणुकम्पामिदुए व्व शोत्तिए ॥ १ ।।

[ सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् । पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रेत्रियः ॥ ]

श्यालः--तदो तदो ।[ ततस्ततः ।]
पुरुषः-एक्कश्शिं दिअशी खण्डशो लोहिअमच्छे मए कप्पिदे

जाव। तश्श उदलब्भन्तले एदं लदणभाशुलं अङ्गुलीअअं देक्खिअ पच्छा अहके शे विक्कआअ दंशअन्ते गहिदे भावमिश्शेहिं मालेह वा मुञ्चेह वा। अअं शे आअमवुत्तन्ते । [ एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितो यावत् । तस्योदराभ्यन्तर


मर्थेऽहके हगे ’ इत्युक्तेः। जालोद्गालादिभिर्मत्स्यबंधनोपायैः कुटुम्बभरणं करोमि । जालमानायः । “ उज्झलो वडिअसाभअ’ इति देशीकोशे । विशुद्ध इदानीमाजीवः | शहजे इति । सहजं किल यद्विनिदितं न खलु तत्कर्म विवर्जनीयम् । धीवरस्य मत्स्याजीवे विशेषे प्रस्तुते सामान्यमुक्तमित्यप्रस्तुतप्रशंसा अनुकम्पा कृपा तया मृदुरेव श्रोत्रियो दारुणं पशुमारणकर्मणि यज्ञादौ विवर्जयति । क्रतुषु हिंसाया विहितत्वात्सहजम् । विनिन्दितमिति बौद्धादिभिः । एकस्मिन्दिवसे खण्डशो रोहितमत्स्यः । रोहित इति मत्स्यसंज्ञा । मया कप्पिदे कल्पितः खण्दितः ।


इदं रत्नभासुरमङ्गुलीयं दृष्ट्वा पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः। मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः]

श्यालः --जाणुअ, वस्सगगन्धी गोहादी मच्छबन्धो एव्व

णिस्संसअं । अङ्गुलीअअदंसणं शे विमरिसिदव्वं। राअउलं एव्व गच्छामो । [ जानुक, विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः |

रक्षिणौ- तह । गच्छ अले गण्डभेदअ । [ तथा । गच्छ

अरे गण्डभेदक ]

( सर्वे परिक्रामन्ति )

श्यालः- सूअअ, इमं गोपुरदुआरे अप्पमत्ता पडिबालह

जाव इमं अंगुलीअअं जहागमनं भट्टिणो णिवेदिअ तदो सासणं पडिच्छिअ णिक्कमामि । [सूचक, इमं गोपुरद्वारेऽप्रमत्तो प्रतिपालयतं यावदिदमंगुलीयकं यथागमनं भर्तुर्निवेद्य ततः शासनं प्रतीक्ष्य निष्क्रामामि ]


कल्पनं कर्तनं क्लृप्तौ ’ इति विश्वः । यावत् । तस्योदराभ्यन्तर इदं रत्नभासुरमंगुलीयं दृष्ट्वा पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः । मारयत वा मुञ्चत वा । अयमस्यांगुलीयस्यागमः प्राप्तिस्तद्वृत्तान्तः । विक्रयायेति ‘चतुर्थ्याः षष्ठी’ इति षष्ठ्या नियमेन प्राप्तौ ‘तादर्थ्ये’ इति विकल्पेन चतुर्थ्येकवचनम् । जानुकेति द्वितीयपुरुषनाम । विस्रगन्धि । विस्रं स्यादामगन्धि यत् ' इत्यमरः । गोधादी गोधाशनो मत्स्यवन्धो धीवर एव निःसंशयम् । अंगुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः तह तथा | गच्छ । अग्रे गच्छेत्यर्थः। अरे गण्डभेदक चौर । सूचक, इमं गोपुरद्वारे “ पुरद्वारं तु गोपुरम्' इत्यमरः । तत्राप्रमत्तौ सावधानौ प्रतिपालयतं रक्षतं यावदिदमंगुलीयकं यथागमनम् । भर्तुरिति चतुर्थ्यर्थे षष्ठी । तेन भर्त्रे निवेद्य ततः शासनमाज्ञां प्रतीक्ष्य


उभौ–पविशदु आवुत्ते शामिपशादश्श । [ प्रविशत्वावुत्तः

स्वामिप्रसादाय ]

( इति निष्क्रान्तः श्यालः )

 प्रथमः--जाणुअ, चिलाअदि क्खु आवुत्ते । [जानुक, चिरायते खल्वावुत्तः ]

 द्वितीयः--णं अवशलोवशप्पणीआ लाआणो । [ नन्ववसगेपसर्पणीया राजानः ]

 प्रथमः-जाणुअ, फुल्लन्ति मे हत्था इमश्श बहश्श शुमणा पिणद्धुं । ( इति पुरुषं निर्दिशति ) [ जानुक, प्रस्फुरतो मम हस्तावस्य वधार्थं सुमनसः पिनद्धुम् ]

 पुरुषः--ण अलुहदि भावे अकालणमलणं भाविदुं । [ नार्हति भावोऽकारमारणं भावयितुम् ]

 द्वितीयः—( विलोक्य ) एशे अह्माणं शामी पत्तहत्थे लाअशाशणं पडिच्छिअ इदोमुहे देक्खीअदि । गिद्धवली भविश्शशि


गृहीत्वा निष्क्रामामि | प्रविशत्वावुत्तः स्वामिप्रसादाय | जानुक, चिरायते खल्वावुत्तः। नन्ववसरोपसर्पणीया राजनः। फुल्लन्ति प्रस्फुरन्ति मम हस्ता अस्य वहस्स वधार्थं सुमनसः कुसुमानि पिनद्धं परिधापयितुम् । आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ' इत्यमरः । ‘चतुर्याः षष्ठी तादर्थ्ये च’ इत्यनुवर्तमाने ‘वधाडाइश्व वा ? इति सूत्रेण चतुर्थ्यैकवचनस्य षष्ठ्येकवचनम् । तेन बहस्सेति सिद्धम् । ‘वज्झस्स , वध्यस्येत्यसांप्रदायिकः पाठः । नार्हति भावोऽकारणमारणं भावयितुं प्रापयितुम्। ततः प्रविशति’ इत्याद्येतदन्तेन विद्रवनामकमङ्गमुपक्षिप्तम् । तल्लक्षणं तु-वधबन्धादिकोपस्तु विद्रवः परिकीर्तितः' इति । एषोऽस्माकं स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखं ( खो ) दृश्यते । गृध्रवलिर्भविष्यसि


शुणो मुहं वा देक्खिश्शशि । [ एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखो दृश्यते । गृध्रवलिर्भविष्यसि, शुनो मुखं वा द्रक्ष्यसि |

( प्रविश्य )

 श्यालः-सुअअ, मुञ्चेदु एसो जालोअजीवी । उववण्णो क्खुं अंगुलीअअस्स आअमो । [ सूचक, मुच्यतामेष जालोपजीवी । उपपन्नः खल्वंगुलीयस्यागमः ।

 सूचकः -जह आवुत्ते भणादि । [ यथावुत्तो भणति ]

 द्वितीयः--एशे जमशदणं पविशिअ पडिणिवुत्ते । (इति पुरुषं परिमुक्तवन्धनं करोति ) [ एष यमसदनं प्रविश्य प्रतिनिवृत्तः ॥

 पुरुषः--( श्यालं प्रणम्य ) भट्टा, अह कीलिशे मे आजीवे । [ भर्तः, अथ कीदृशो म आजीवः ]

 श्यालः—एसो भट्टिणा अंगुलीअअमुल्लसम्मिदो पसादो वि दाविदो । ( इति पुरुषाय स्वं प्रयच्छति ) [ एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः ।

 पुरुषः--( सप्रणामं प्रतिगृह्य ) भट्टा,अणुग्गहिद ह्मि । [भर्तः, अनुगृहीतोऽस्मि |


शुनो मुखं द्रक्ष्यसि वा । सूचक, मुच्यतामेष जालोपजीवी । उपपन्नः खल्वङ्गुलीयस्यागमः । यथावृत्तो भणति | एष यमसदनं प्रविश्य प्रतिनिवृत्तः । अथ कीदृशो म आजीवः । एष भर्त्रांगुलीयकमूल्यसंमितः प्रसादोऽपि दापितः । मोचनमपिशब्दः समुच्चिनोतेि । स्वं धनम् । ‘स्वोऽस्त्रियां धने’ इत्यमरः । भर्तः, अनुगृहीतोऽस्मि ।


 सूचकः --एशे णाम अणुग्गहे जे शूलादो अवदालिअ हत्थिक्कन्धे पडत्ठाविदे । [ एप नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे आतिष्ठापितः ]

 जानुकः--आवृत्त, पलिदोशं कहेहि । तेण अङ्गुलीअएण भट्टिणो शम्भदेण होदव्वं। [ आवुत्त, परितोषं कथय | तेनाङ्गुलीचकेन भर्तुः संमतेन भवितव्यम् |

 श्यालः--ण तस्सिं महारुहं रदणं भट्टिणो बहुमदं त्ति तक्केमि । तस्स दंसणेण भट्टिणो आभिमदो जणो सुमराविदो । मुहुत्तअं पकिदिगम्भीरो वि पज्जुस्सुअणअणो आसि । [ न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः। मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन आसीत् ]

 सुचकः-शेविदं णाम आवुत्तेण । [ सेवितं नामावुत्तेन ।

 जानुकः—णं भणाहि । इमश्श कए मच्छिआभत्तुणो त्ति । ( इति पुरुषमसूयया पश्यति ) [ ननु भण । अस्य कृते मात्स्यिकभर्तुरितेि ]


एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः! परितोषं कथय । समृद्ध्यादित्वादात्वम् (?) तेनांगुलीयकेन भर्तुः संमतेन भवितव्यम् । न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन आसीत् । सेवितं नामावुत्तेन सेवा दर्शितेत्यर्थः । ननु भण । अस्य कृते मात्स्यिकभर्तुः । मत्स्येन जीवन्तीति मात्स्यिकास्तेषां भर्तुरस्य पुरुषस्य कृते सेवितम् । धनप्राप्तिस्त्वेतान्निष्ठेति सेवनमेतदर्थमेव जातमिति भावः । अत


 पुरुषः--भट्टालक, इदो अद्धं तुह्माणं शुमणोमुल्लं होदु । [ भट्टारक, इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ]

 जानुकः--एत्तके जुज्जइ। [एतावद्युज्यते ]

 श्यालः—-धीवर, महंत्तरो तुमं पिअवअस्सओ दाणिं मे संवुत्तो। कादम्बरीसंक्खिअं अह्माणं पढमसोहिदं इच्छीअदि । ता सोण्डिआपणं एव्व गच्छामो [ धीवर, महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसखित्वमस्माकं प्रथमशोभितमिष्यते । तच्छौण्डिकापणमेव गच्छामः ]

( इति निष्क्रान्ताः सर्वे )

इति प्रवेशकः

( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः )

 सानुमती--णिब्बट्टिदं मए पज्जाअणिव्वत्तणिज्जं अच्छरातित्थसण्णिउज्झं जाव साहुजणस्स अभिसेअकालो त्ति। संपदं इमस्स राएसिणो उदन्तं पच्चक्खीकरिस्सं । मेणआसंबन्धेण स-


एवासूयया पश्यतीति । भट्टारक, इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु । सुमनोमूल्यं पुष्पसूत्रमिति विनयोक्तिः । एतावद्युज्यते । प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरी मदिरा तत्सखित्वमेकत्र पानेनास्माकं प्रथमशोभितमद्ययावत्पूर्वं न जातमिष्यते । तच्छौण्डिकापणमेव गच्छामः । प्रवेशक इति । प्रवेशकलक्षणं तु सुधाकरे--‘यन्नीचैः केवलं पात्रैर्भाविभूतार्थसूचनम् ॥ ‘अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥’ इतेि । ‘अङ्कयोरुभयोर्मध्ये’ इत्यनेन प्रथमाङ्कनिषेधः । क्वचित्पुस्तके ‘तृतीयः प्रवेशकः’ इति पाठः । तत्र विष्कम्भद्वयं तृतीयचतुर्थयोरङ्कयोः पष्ठे तृतीयः प्रवेशक इत्यर्थः । निर्वर्तितं मया पशुनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्याभिषेककाल इति ।‘ पर्यायोऽवसरे क्रमे ' इत्यमरः ।


दिल्यादेशात्तकारस्य दकारः । तथेति निष्क्रान्ताः सर्वे । अत्रांगुलीयकप्रदर्शनार्थो


रीरभूदा मे सउन्दला । ताए अ दुहिदुणिमित्तं आदिट्ठपुव्वह्मि । ( समन्तादलोक्य ) किं णु क्खु उदुच्छवे वि णिरुच्छवारम्भं विअ राअउलं दीसइ । अत्थि मे विहवो पणिधाणेण सव्व परिण्णादुं । किंदु सहीए आदरो मए माणइदव्वो । होदु । इमाणं एव्व उज्जाणपालिआणं तिरखरिणीपडिच्छण्णा पस्सवत्तिणी सविअ उवलहिस्सं । ( इति नाट्येनावतीर्य स्थिता ) [ निर्वर्तितं मया । पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्याभिषेककाल इति । सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । किं नु खलु ऋतूत्सवेऽपि नेिरुत्सवरम्भामिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्कारिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये ।]


तत्र गङ्गायामप्सरस्तीर्थं नाम तीर्थमस्ति । तत्र यात्वसज्जनस्नानकालमेकैकस्मिन्दिवस एकैकयाप्सरसा संनिहितया स्थातव्यमिति नियमः । तस्मिन्दिने सानुमत्या तत्कार्यं कृतमित्यर्थः। सांप्रतमस्य राजर्षेरुदन्तं वार्ताम् ? ‘वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात् ? इयमरः । प्रत्यक्षीकरिष्यामि | मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । किं नु खलु ऋतूसवारम्भेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः सामर्थ्यं प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या मे मेनकाया आदरो मया मानयितव्यः | भवतु | अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्नान्तर्धानविद्यया, पारच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । नाट्येनेति गङ्गावतरणेन । तल्लक्षणं तु--अंत्रेरुत्क्षेपनिक्षेपावनुप्रोन्नतसन्नता (?) । ‘ भजेतां विपताकौ चेदेवमेव शिरस्तदा । गङ्गावतरणम् ’ इति । ' णिव्वट्टिदम् ' इत्याद्येतदन्तेन सानुमत्यात्मश्लाघायाः कृतत्वाद्विचलनं नामांगमुपक्षिप्तम् । तल्लक्षणं दशरूपके --'विकत्थना


धीवरप्रसंगः । इति प्रवेशकः । उत्सवकालेऽपि हर्षोत्पादकसमयेऽपि । तदुक्तं ‘‘ उत्सूते


( ततः प्रविशति चूतांकुरमवलोकयंती चेटी । अपरा च पृष्ठतस्तस्याः )

प्रथमा--

आतम्महरिअपण्डुर जीविद सत्तं वसन्तमासस्स ।
दिट्ठो सि चूदकोरअ उदुमङ्गल तुमं पसएमि ॥ २ ॥
[ आताम्रहरितपाण्डुर जीवित सत्यं वसन्तमासयोः ।
दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ ]


विचलनम् ’ इति । ततः प्रविशतीति । उद्यानपालिकयोरिति सूचितत्वात्तयोः प्रवेशकः ( शः ) । आतम्मोति । आताम्रहरितपाण्डुरजीवितसत्यं वसन्तमासयोः। दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि । अत्र प्रथमसंवोधनेन स्वभावोक्तिः । सत्यमिति शपथे । ‘ सत्यं च शपथे तथ्ये' इति विश्वः । वसन्तमासयोर्जीवितेति रूपकम् । सत्स्वप्यन्येषु प्रसू-


हर्यमित्येष उत्सवः परिकीर्तितः " इति । चूअभित्यादि । अत्र चूतशब्देन मदनरयामोघस्त्ररूपान्नकलिकाभिधीयते । हृषितपित्तमित्यनेन पिकानां पंचनखरोद्गमप्रतिबन्धकशिशिरकाले नीते सति स्वाभिमतास्वादनद्रव्यसंपत्तिमद्वसंतर्त्वागमनसूचकतया चूतकलिकाया हर्षकारणत्वमिति यावत् । अनेन मदनस्य सामग्रीसंपत्त्या इतरXX लक्षणपदोत्कर्षं उक्तः । षट्चरणचरणभग्नमित्यनेन चूतकलिकायश्चिरादपि येनकेनापि मदनप्रतिबंधहेतुना स्वारसिकविकासाभावात् । मकरंदास्वादनत्वरत्या भ्रमरचरणैर्दलितम् । चरणैरित्यनेन मुखक्रियमाणविरहिजनपरमोद्दीपकविविधझंकारकारणं सूच्यते । जीवितसदृशमित्यनेन इतरपुष्पाण्यवयवभूतानि चूतं तु प्रः प्राणXमिति यावत् । वसन्तमासस्य सकलपुष्पाद्याधारभूततया पुष्पापचादिविविक्रीडाकरणसमुचितकालस्य । मंगलमिव शोभनमिव हर्पकारणचिवेति यावत् । ( व्याख्यानान्तरं) ऋतुमंगलमिव उद्दीपकतया मानिन्या मानखंडकस्य बसंतर्तोर्मंगलमिव विघ्ननिवारकमिव यथा मंगलं सर्वत्राद्यं तथा वसंतस्यापि चूतमित्यर्थः । अनेन वसंतस्याद्यदशा व्यज्यते । तदेवाह- हर्षितपिककभित्यादिना । हर्षितपिककम् अभिमतवसंतर्त्वागमगसूचनादानंदितकोकिलम् । जीवितसदृशं प्राणसमम् । वसन्तस्य सर्वस्वमित्यर्थः। वसंतस्थ साधनीयं सर्वे चूतेनैव साक्ष्यमिति भावः । षट्चरणभग्नमित्यनेन चूनानां कौरवादिसद्भावेन मकरंदपानाप्रहेण


द्वितीया--परहुदिए, किं एआइणी सन्तेसि । [ परभृतिके किमेकाकिनी मन्त्रयते ।
प्रथमा--मुहुअरिए चूदकलिअं देक्खिअ उम्मत्तिआ परहुदिआ होदि । [ मधुकरिके, चूतकलिकां दृष्टोन्मत्ता परभृतिका भवति ।
द्वितीया- ।( सहर्षं त्वरयोपगम्य ) कहं उवट्ठिदो महुमासो । [ कथमुपस्थितो मधुमासः ।
प्रथमा--महुआरिए, तव दाणिं कालो एसो मदविब्भभगीदाणं)

[ मधुकरिके, तवेदानीं काल एष मदविभ्रमगीतानाम् ]


तेषु तदंकुरेण ऋतोरुच्छ्वसितत्वमिव गम्यत इति रूपणम् । क्वचित् ‘ जीवितसर्वम्’ इति पाठः । तदा प्राकृते पूर्वनिपातनियमात्सर्वजीवितेति । अन्यत्र ‘वसन्तमासस्स जीअसव्वस्स’ इति पाठः । जीवितरूपं सर्वस्वमित्यर्थः । अत्र जीवितपदेन ‘ यावत्तावज्जीविते’ इति सूत्रेण विकारस्य लोपे ‘जीअं’ इति रूपम् । सत्स्वपीतरेषु पुष्पेषु स्वमेवोत्कृष्टतममिति भावः । ऋतुमङ्गलेत्यपि रूपकम् । प्रथमपरिदृश्यमनत्वादृतौ मङ्गलं सर्वत्र मङ्गलेषु प्रथमं परिजृम्भमाणत्वादृतौ मङ्गलं सर्वेष्वृतुषु वसन्तस्योत्कृष्टत्वं त्वयैव कृतमिति । ऋतुश्चासौ मङ्गलश्चेति कार्यकारणयोरभेदोपचारात् । परभृतिकायाः कोकिलायाश्चूतांकुरप्रसादनं युक्तमेव । अत्र तुमम् ’ इति पाठः प्रामादिकः । पञ्चमगणस्य पञ्चमात्रिकत्वापत्तेः । द्वितीयैकवचनादेशे ‘तुह' इति पाठेऽपि चरमेऽर्थे पञ्चमके क्लेशमुखालाद्यतिरुक्ताः (?) सा विहन्येत । तस्मात् ‘ तुमम् ’ इति पाठोऽन्याय्यः ‘तंतुंतुमंतुवंतुह्रतुमेतुएअमा’ अनेन सूत्रेण सप्तादेशा अपि भवन्ति । परभृतिके, किमेकाकिनी मन्त्रयसे | मधुकरिके, चूतकलिकां दृष्टोन्मत्ता परभृतिका भवति । छलात्कोकिलेत्यर्थः। कथमुपस्थितो मधुमासुः । मधुकरिके, तवेदानीं काल एष मदविभ्रमगीतानाम् । छलाद्भ्रमरीत्यर्थः ।


त्रुटितमिति भावः । कथमित्याश्चर्ये । मधुमास इत्यनेन मलयपवनसहकारान्तरकोकिलालापाद्यलंकृतो मास इति भावः । उपस्थितः आगतः । विरहिजनवधसामग्रीसंपन्नः काल


 द्वितीया-सहि, अवलम्व मं जाव अग्गपादट्ठिआ भविअ चूदकालिअं गेण्हिअ कामदेवच्चणं करोमि । [ सखि, अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि |

 प्रथमा-जइ मम वि क्खु अद्धं अच्चणफलस्स । यदि ममापि खल्वर्धमर्चनफलस्य ]

 द्वितीया-अकहिदे वि एदं संपज्जइ जदो एक्कं एव्व णो जीविदं दुधाट्ठिदं सरीरं । ( सखीमवलम्ब्य स्थिता चूतांङ्कुरं गृह्वाति ) अए अप्पडिबुद्धो वि चूदप्पसवो एत्थ बन्धणभङ्गसुरभी होदि । ( इति कपोतहस्तकं कृत्वा ) [ अकथितेऽप्येतत्संपद्यते यत एकमेव नौ जीवितं द्विधास्थितं शरीरम् । अये, अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति ।


सखि, अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि । यदि ममापि खल्वर्धमर्चनफलस्य । अकथितेऽप्येतत्संपद्यते यत् एकमेव नो जीवितं द्विधास्थितं शरीरम् । अये, अप्रतिबुद्धः कोमलोऽपि चूतप्रसव एत्थ अत्र वसन्तारम्भे । ‘एसो’ इति पाठ एषः । बन्धने वृन्ते भङ्गस्तत्र सुरभिर्भवति । संदाने च तथा वृन्ते मायायां बन्धनं स्मृतम् ' इति रुद्रः। कपोतहस्तकमिति । तल्लक्षणं संगीतरत्नाकरे--‘कपोतोऽसौ करो यत्र श्लिष्टमूलाग्रपार्श्वकौ (?)। प्रणामे


आगत इति भावः । अह्महे इति हर्षे निपातः अप्रतिबुद्धः अविकसितः बन्धनस्य वृंतस्य भंगेन सुरभिः । कपोतं कृत्वेति । कपोतो नाम संयुक्तहस्ताविशेषः यथाह भरतः “उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसंग्रहात् । हस्तः कपोतको नाम कर्म चास्य निबोधत ॥ ” इति । “ एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च संभाषे । इति । प्रसंगात् हस्तभेदाश्च निरूप्यंते “ पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः । अर्धचंद्रो ह्यरालश्च शुकतुण्डस्तथैव च ॥ मुष्टिश्च शिखराख्यश्च कपित्थः कटकामुखः । सूच्यास्यः पद्मकेशश्च सर्वको मृगशीर्षक: लांगूलकोलपद्मश्च चतुरो भ्रमरस्तथा । हंसास्यो हंसपक्षश्च संदंशो मुकुलस्तथा । ऊर्णनाभस्ताम्रचूडश्चतुर्विंशदिमे कराः | असं-


तुमं सि मए चूदङ्कुर दिण्णो कामस्स गहीदधणुअस्स ।
पहिअजणजुवइलक्खो पञ्चब्भहिओ सरो होहि ॥ ३ ॥
[ त्वमसि मया चूताङ्कुर दत्तः कमाय गृहीतधनुषे ।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भत्र ॥

( इति चूतांकुरं क्षिपति )


गुरुसंभाषे’ इति । तुमं सीति । त्वमसि मया चूतांकुर दत्तः कामाय


युताः संयुताश्च गदतो मे निबोधत ॥ अंजलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा । कटको वर्धमानश्च उत्संगो निषधस्तथा ॥ दोलः पुष्पपुटश्चैव तथा मकर एव च । गजदन्तोsवहित्थश्च वर्धमानस्तथैव च । एते च संयुता हस्ता मया प्रोक्तास्त्रयोदश । वृत्तहस्तांस्ततश्चोर्ध्वं गदतो मे निबोधत ॥ चतुरस्रौ तथोद्वृत्तौ तथा तलमौखौ स्मृतौ । स्वस्तिकी विप्रकीर्णौ चाप्यरालकटकामुखौ ॥ अविद्धवक्त्रौ सूच्यार्स्वा रेचितावर्धरोस्त्रितौ । उत्तानवञ्चितौ चापि पल्लवौ च तथा करौ । नितंवौ चापि विज्ञेयौ केशबद्धौ तथैव । श्लोकार्धं न लभ्यते ) पक्षवंचितकौ चैव पक्षप्रद्योतकौ तथा ॥ ज्ञेयौ गरुडपक्षौ च दंडपक्षौ तथैव च ।(श्लोकार्धं न लभ्यते ) उरोमंडलितौ चैव ह्युरःपार्श्वार्धमंडलौ ॥ मुष्टिकत्वस्तिकौ चापि ( श्लोकार्धं न लभ्यते ) ललितौ बलितौ तथा । सप्तषष्टिकरा ह्येते नानतोऽभिहिता मया । “ एतेषां स्वरूपमुच्यते । अत्र पताकस्य सर्वहस्तप्रकृतित्वात् त्रिपताकादीनां पताकविकारत्वादादौ पताकस्योपादानम् । पताकस्त्रिपताकश्चेत्यादावेकवचनप्रयोगस्तु बहुष्वर्थेष्वेकैकेत्य विनियोगदर्शनात् । अंजल्वादिषु संयुतहस्तेष्वेकवचननिर्देशस्तु संयुतत्वनियमार्थः। नृत्तहस्तेषु चतुरस्रावित्यादि द्विवचनप्रयोगेण द्वयोरपि प्राधान्यं दृश्यते । नृत्तहस्तानामभिनयस्तेषु कथनं तदंगताख्यापनाय । अत एव सप्तषष्टिकरा इति मिलित्वा संगृह्याह । प्रकरणपाठे मिलित्वा निर्देशादगागिभावो ज्ञेयः । मयाभिहित इत्यनेन मतान्तराण्यपि विद्यन्त इति स्वशास्त्रस्याप्ततमत्वप्रदर्शनार्थं तत्र कर्तृबाहुल्यं सूच्यते । तथाहि--संगीतार्थे पुरा ब्रह्मा भरतः काश्यपः शिवः । मतंगो याष्टिको दुर्गा शक्तिः शार्दूलकोहलौ ॥ विशाखिलो दत्तिलश्च केवलोऽचतरस्तथा । वायुर्विश्वावसू रंभार्जुनौ नारदतुंबरू ॥ आंजनेयो मात्रगुप्तो रावणो नंदिकेश्वरः । स्वस्तिर्गणो देवराजः क्षत्रराजश्च राहलः । रुद्रसेनोऽथ भूपालो भोजो भूवल्लभस्तथा । परमर्दी च सोमेशो जगदेकमहीपतिः ॥ व्याख्यातारो भारतीये लोलटोद्भटशंकुकाः । भट्टोsभिनवगुप्तश्च श्रीमत्कीर्तिधरोऽपरः । अन्येऽपि बहवः पूर्वे चक्रुस्तुंत्राण्यनेकशः॥” मतान्तरे ये हस्ता मिलित्वा सप्ततिः। ते त्रयो हस्ता मदीये मालविकाग्निमित्रव्यायाख्याने द्रष्टव्याः । प्रकृतमनुसरामः तुमेत्यादि । चूतांकुर विरहिजनप्राणहरणब्रह्मास्त्रभूतामोघास्त्ररूपेति यावत् । गृहीतधनुष इत्यनेन यथा युद्धार्थिनां युद्धवीराणां


( प्रविश्यापटीक्षेपेण कुपितः )


गृहीतधनुषे । गृहीतधनुष इत्यनेन सर्वदा सज्जत्वं ध्वनितम् । पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव । अत्र पञ्चाभ्यधिकत्वे शरस्यासंबन्धे संबन्धलक्षणातिशयोक्तिः । अपटीक्षेपेणेति तिरस्करिणीतिरस्कारेणेत्यर्थः । ‘ नासूचितस्य पात्रस्य प्रवेशो निर्गमोऽपि च । इत्युक्तेरत्र


शरत्कारो विहितः तद्वत् भुवनत्रयविजिगीषोः कामस्यापि मलयमारुतकोकिलालापादिसामग्रीसंपत्तिमद्वसंतकाल एव समुचितसमयः । अत एव युद्धार्थं चापग्रहणमिति यावत् । कामाय विरहिजनान्तकभूताय मयेत्यनेन स्वस्याः स्त्रीत्वादात्मगौरवसंरक्षणार्थं नायकनिमित्तकासांमुख्यासंभाषणाXहस्यश्रवणाचुम्बनादिजनितासह्यांतर्दुःखानुभवज्ञानवत्या मयेति यावत् । दत्तः स्त्रीपुंसयोः संघटने कामस्यैवासाधारणप्रभुत्वं निश्चित्य बुद्धिपूर्वकं समर्पितः । दानप्रयोजनमाह । परीत्यादि । परितः नायककृतचाटूक्तिपादपतनादिसर्वानुनयप्रकारेणापि कुपिता मानेर्ष्यावती युवतिः यौवनमध्यवर्तिनी लक्ष्यं समुचितं शरव्ययस्याभेद्यभेदकशरस्य स तथोक्तः । पंचाभ्यधिकः स्वेन सहारविंदाशोकनवमल्लिकानीलोत्पलेषु पंचसु अभ्यधिकः “ समानानामुत्तमश्लोको अस्तु " इति न्यायेन श्रेष्ठः अमोघव्यापार इति यावत् । शरो भव मृदुत्वरूपकुसुमभावं विहाय मर्मभेदनसमर्थतीक्ष्णतरलोहादिमयसाधको भव । अनेन चूतव्यतिरिक्तारविंदादिचतुर्णां वसंतव्यतिरिक्तसमयेषु परिकुपितयुवतिमानखंडनसामर्थ्याभावादुद्यानपालिकायास्तेषु सुकुमारकुसुमत्वप्रतीतिः सूच्यते । इतः परं वसन्ते प्राप्ते चूतांकुरप्रादुर्भावात् युवत्या मानरक्षणं कर्तुं न शक्यमिति भावः ( व्याख्यानान्तरं ) चूतांकुरेत्यनेन अत्युद्दीपकतया अमोघास्त्रत्वमुच्यते । गृहीतधनुष इत्यनेन विद्यमानशराणां कुंठितत्वात् समर्थशरप्रतीक्षयः केवलधनुष्पाणिः सन् तिष्ठतीति व्यज्यते । मया दत्तोऽसीति । वर्तमानव्यपदेशेन नूतनत्वप्रतीत्या अनुपक्षीणसामर्थ्ये व्यज्यते । परिकुपितयुवतिलभ्य इति । परिकुपितयुवतिः लक्ष्यं शरव्यं यस्य स तथोक्तः पंचाभ्यधिकः पंचभ्यः शरेभ्योऽभ्यधिकः व्यतिरिक्तः साध्यसाधक इत्यर्थः । भवेति विधौ लोट् । अयमभिप्रायः राजप्रतिरुद्धवसंतोत्सवमज्ञातवती उपवनेऽपि वसंतकाले मदनप्रचाराभावात् मदनस्य शराः सर्वे मोघा इति मत्वा त्वं पंचभ्यः शरेभ्यो व्यतिरिक्तः साध्यसाधको भवेत्युक्तवती । साधकत्वं कुपितनायिकानायकयोर्मेलनकरणम् । अत्र केनचित्, पंचाभ्यधिक इत्यत्र पंचसु शरेषु अभ्यधिकः श्रेष्ठ इति व्याख्यायि तदसंगतम् । तथा सति गृहीतधनुष इत्यनेन केवलं धृतः चापः सन् त्वां प्रतिपालयति तस्मात् त्वद्व्यतिरिक्तेभ्यश्चतुर्भ्यः शरेभ्यः श्रेष्ठो भवेत्येतादृशार्थो लभ्यते । तथा चेन्मदनस्य कादाचित्कपंचशरत्वापत्तिः तथाभ्युपगमे यास्मिन् ऋतौ पंचस्वेकमपि प्रसूनं नास्ति तदा पंचशरत्वानुपपत्तिः । प्रविश्येत्यादि । पटाक्षेपेण यवनिकापनोदनेन ।


 कंचुकी--मा तावत् । अनात्मज्ञे, देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमाम्रकलिकाभङ्ग किमारभसे ।

 उभे--( भीते ) पसीददु अज्जो । अग्गहीदन्थाओ वअं । [ प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ]

 कंचुकी--न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथाहि ।

 चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
  संनदं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
 कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
  शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ||४||


कञ्चुकिनः सूचनाभावादपटीक्षेपेण प्रवेशः । तत्र कुपितत्वं हेतुः । कंचुकिलक्षणं पूर्वमुक्तम् । मा तावदिति भिन्नं वाक्यं निषेधे | अनात्मजे स्वभावानभिज्ञे । देवेन प्रकरणाद्राज्ञा दुष्यन्तेन । किमारभसे किमर्थमारम्भं करोषि । त्वयाप्यधुनारम्भ एव क्रियते सोऽपि किमर्थमिति भावः । इदमेव कोपकारणम् । प्रसीदत्वार्यः । अगृहीतार्थे अगृहीतनिषेधवस्तुस्वरूपे आवाम् । वासन्तिकैरेतत्कालोद्गपुष्पैस्तरुभिरपि । चेतनैस्तु प्रमाणीकृतमेव । अचेतनैरपीत्यपिशब्दार्थः । शासनमाज्ञा । शासनं नृपदत्तोर्व्यां शास्त्रज्ञालेखशास्तिषु ’ इति हैमः । प्रमाणीकृतमिति गम्योत्प्रेक्षा । वक्ष्यमाणानां वस्तुस्वाभाव्यादेव तथात्वात् | अथवासंबन्धे संबन्धरूपातिशयोक्तिश्च । राजाज्ञायास्तत्त्वतोऽसंबन्धात् । तदेव दर्शयति-तथाहीति । चूतानामिति । चूतानां कलिका मञ्जरीति ।


अगृहीतार्थे अगृहीतः सर्वकालिकोद्यानावस्थानादनवगतः अर्थः निमित्तं याभ्यां ते तथोक्ते । वासंतिकैः वसंतसंबंधिभिः जयप्रदानदोहनादिराहित्येऽपि निखिलवृक्षलतानां प्रसरन्नूतनकिसलयकुरपुष्पोत्पत्त्यादिकारणभूतवसंतकासंवधिभिरिति भावः । तरुभिर्वृक्षैः स्थावराचेतनरूपैरिति यावत् । बहुवचनेन बहुस्थलप्रदर्शनेन मद्वचसि विश्वासो विधेय इति व्यज्यते । तदाश्रयिभिः तदुपजीविभिः पत्रिभिः पक्षिजातिभिरपति यावत् । प्रमाणीकृतम् । “राजा कालस्य कारणम् " इति धिया तरुभिस्तदुपजीविभिरप्यंगीकृतम् । चूतानामित्यादि । चूतानां वसंतप्राणभूततया मदनतूणीररूपात्रवृक्षाणम् । बहुवचनेन


जात्यभिप्रायेणैकवचनम् । कलिकाशब्दो वाधितमुख्यार्थोऽभिनवोद्गतसाधर्म्यान्मञ्जरीं लक्षयते । अविकासितत्वं च फलं ज्ञेयम् । चिरनिर्गता शिशिरन्तप्रोद्भिन्नापि स्वं स्वीयम् । आत्मीयमिति यावत् । अत्यावश्यकत्वं ध्वनितम् । रजः परागं न बध्नाति । न दृष्टं करोतीत्यर्थः । यथा काचन बालाप्रौढतया रजोदर्शनं न यातीति समासोक्तिरपि। संनद्धमपि वृन्ताद्बहिर्निर्गतमपि । संनद्धशब्दो बाधितमुख्यार्थः सन्यः संनद्धः स युद्धाय बहिर्निर्गच्छतीति बहिर्निर्गमनसाम्यात्कुरबकं लक्षयन्नतिशोभावत्वं ध्वनति । यत्कुरबकं शोणकुरण्टकं पुष्पमिति जातावेकवचनम् । ‘तत्र शोणे कुरबकः ’ इत्यमरः । तत्कोरकावस्थया कलिकावस्थया स्थितम् । अत्र कोरकत्वं न जहातीति कार्याभावे वक्तव्ये तद्विरुद्धत्वेनोक्तिः । गतेऽपि शिशिरे वसन्तारम्भसमये पुंस्कोकिलानां रुतं शब्दितं कण्ठेषु स्खालितम् । तथास्फुटः कोकिलस्वनो जात इत्यर्थः । अत्र च चिरानिर्गतादेः


वृक्षदोषात् क्वचित्कैककोरकविकासभावो न किंतु सर्ववृक्षाणां देवशासनांगीकारः सूच्यते । कलिकापरमोद्दीपकतया विरहिजनवधब्रह्मास्त्ररूपः कोरकः एकवचनेनाद्वितीयतया पुष्पत्वसजातीयोत्कृष्टता ध्वन्यते । चिरनिर्गतेति । चिरपदोपादानेन चूतकलिकायाः सकलपुष्पराजतया धीरोदात्तप्रकृतिवत् हठाद्विकासाभावोऽवगम्यते । चिरनिर्गततादृशकोरकः स्वं स्वकीयं कालप्राप्तमिति यावत् । रजः विरहिलोकस्फुलिंगकल्पं न बध्नाति न प्रकटयति । वर्तमानव्यपदेशेन प्रत्यक्षानुभवः प्रकाश्यते । कलिकायाः मदनविकारजनकस्वनिर्गमप्रयोजनं विकासाभावान्न भवतीति भावः । यत्कुरबकं वसंतदेहभूततया मदनस्य द्वितीयतूणीरभूतकुरबककुसुमं सन्नद्धमपि मदनविकारप्रतिबंधकचिरमुकुलभावसहिष्णुतयेव विकासोन्मुखमपि कोरकावस्थया स्थितम् । विकसनराहित्येन मदनविकाराजनकतया शाणादावनुल्लीढातीक्ष्णशरभावेन चापेऽप्रयोगानर्हतया स्थितमिति भावः । भिन्नजातीयकुसुमशरावस्थानतूणीरभूताम्रकुरबकवृक्षद्वयोपादानेन मदनस्य सव्यसाचित्वं ध्वन्यते । शिशिरे जलक्रीडांगलेपनाद्यनुचितशिशिरर्तौ । कोकिलपंचमस्वरोद्गमप्रतिबंधकसमय इति यावत् । पुंस्कोकिलानां मदनस्य निर्गमनसंचारबुद्धादितत्तत्कालोचितजंगमवीरवाद्यभूतानां रुतं कूजितं स्खलितम् । उत्पत्तिसमये पंचमस्वरशून्यं गद्गदितं स्मरोऽपि निरर्गलव्यापारोऽपीत्यर्थः। तूणर्धकृष्टं प्राप्तकालसामग्रिलक्ष्यतया धनुष्यनुसंधानात् तूणीरभूतचूतकुबरकाभ्यां निर्गलितयोरपि कलिकाकुसुमयोर्विकसनरजोमकरंदप्रादुर्भावराहित्येन मदनविकारभावादर्धाकृष्टत्वमुत्प्रेक्षितम् । शरं दूराद्दूरलक्ष्यवेधनसमर्थं बाणम् । चकितः रूपलावण्यादिना स्वाधिकदुष्यन्ताज्ञापरिपालनधिया भीतः । संहरति भीत्या सर्वांगकंपहस्तशैथिल्यधैर्याभावादिभिः  उभे--णत्थि संदेहो । महापहाओ राएसी।[नास्ति संदेहः महाप्रभावो राजर्षिः ]


कारणस्योक्तेः कार्यस्य परागादेर्निषेधान्मालाविशेषोक्तिः । नन्वत्र विरोधवाचकापिशब्दश्रवणाविरोधाभास एवास्त्विति चेन्न । ‘कर्पूर इव दग्धोऽपि शक्तिमान्यो जने [ जने ]। हरतापि तन्तुं यस्य शंभुना न हृतं बलम् ॥ ’ इयादै सत्यप्यपिशब्दे विशेषोक्तेर्दर्शनात् । उक्तं च राजानकरुचकेन--‘कार्याभवेनेहोपान्तत्वाद्वलपताकारणसत्ताया एव बाध्यमानत्वं न तु तया कार्याभावस्येत्यन्योन्यबाधानुप्राणिताद्विरोधालंकाराद्वेदः' इति । ननु दग्धत्वस्य शक्तिमत्वं शक्तिमत्वस्य विषयं परित्यज्यैवोत्सर्गस्य दग्धवं तनुहरणत्वस्य बलहरवं तस्य तनुहरणत्वमित्यन्योन्यबाधकत्वं प्रतीयत एवेति चेत्सत्यम् । तर्हि यथा विरोधे तथापि भिन्नविषयत्वेनासंगतेन विरोधाभासत्वमेवं कारणभावे कारणाभावे कार्यसत्त्वे तत्र च सति तदभाव इत्येवंरूपविषयद्वयपरित्यागेनैव तस्य विषय इति ज्ञेयम् । अपवादविषयं परित्यज्यैवोपसर्गस्य प्रवृत्तेः । दृश्यते चैतद्व्यतिरिक्तविषयतैवास्य ‘जडयति च तापं च कुरुते’ ‘विशालैरपि भूरिशालैः‘कुपतिमपि कलत्रवल्लभम्’ इत्यादाविति सर्वं निरवद्यम् । स्वभावोक्तिश्च । चकितो भीतः स्मरोऽपि तूणार्धकृष्टं तूणीरादर्धनिष्कासितं शरं संहरतीति शङ्क इत्युत्प्रेक्षायम् । अत्र भीतत्वं शरसंहरणमुभयमुत्प्रेक्ष्यम् । कामस्य प्रसूनशरत्वाद्वसन्तपुष्पाणामसकलोत्पन्नत्वादियमुत्प्रेक्षा । अस्यां च पूर्ववाक्यत्रयं हेतुत्वेन योज्यम् । काव्यलिङ्गम् । स्थित्येति कुरकोरेति रेपुंरोपीति छेकश्रुतिवृत्त्यनुप्रासाः । शार्दूलविक्रीडितं वृत्तम् । नास्ति संदेहः । महाप्रभावो राजर्षिः । तयोः स्त्रीत्वाद्यथाश्रुतग्राहितया नायकप्रभावाति-


प्रतिक्षिपति । वर्तमानव्यपदेशेन यद्यपि विविधमदनविकारजनकवसंतपरिपोषदशायामपि दुष्यन्तप्रतिषिद्धवसन्तोत्सवेन वलाभावान्मदं मदं संहरतीति व्यज्यते । शङ्के दुष्यन्तस्यामानुपप्रभावतयैतत्सर्वं भवतीति तर्कयामि । ( व्याख्यानान्तरं ) चिरनिर्गतापीत्यनेन चूतकलिकाया अचिराद्विकासो नास्तीति लभ्यते । यत्कुरबकं सन्नद्धमपि विकासोन्मुखमपि शिशिरे शिशिरर्तौ गतेऽपि रुतं कूजितं स्खलितं गद्गदितं पंचमस्वरशून्यं निर्गतमित्यर्थः शरं संहरति प्रतिक्षिपति सर्वेषां मदनविकारः


 प्रथमा-अज्ज, कति दिअहाइं अह्मणं भित्तावसुणा रट्ठिएण भट्टिणीपाअमूलं पेसिदाणं। इत्थं अ णो पमदवणस्स पालणकम्मसमप्पिदं । ता आअन्तुअदाए अस्सुदपुव्वो अह्मेहिं एसो बुत्तन्तो। [ आर्य, कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः। इत्थं च नौ प्रमद्वनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाश्रुतपूर्व आवाभ्यामेष वृत्तान्तः ।]

 कंचुकी---भवतु । न पुनरेवं प्रवर्तितव्यम् ।

 उभे-अज्ज, कोदूहलं णो । जइ इमिणा जणेण सोदव्वं कहेदु अअं किंणिमित्तं भट्टिणा वसन्तुस्सवो पडिसिद्धो । [ आर्य, कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयत्वयं किंनिमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः ]

 सानुमती--उस्सवप्पिआ क्खु मणुस्सा गरुणा कारणेण होदव्वं। [ उत्सवप्रियाः खलु मनुष्याः । गुरुण कारणेन भवितव्यम् ।

 कंचुकी-बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्योः कर्णपथं नायतं शकुन्तलाप्रत्यादेशकौलीनम् ।


शयवर्णनीयतया चैवमुत्तरम् । आर्य, कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः । कतिचिद्दिनानीत्यन्वयः । इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाश्रुतपूर्व आवाभ्यामेष वृत्तान्तः | भवतु । यज्जातं तज्जातमित्यर्थः । आर्य, कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यम् । अस्य श्रवणयोग्यमित्यर्थः । तत्कथयत्वयं किंनिमित्तं भर्त्रा वसन्तोसवः प्रतिषिद्धः । उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् । प्रत्यादेशो निराकृतिस्तल्लक्षणं यत्कौलीनं लोकवादः।“ स्यात्कौलीनं लोकवादः ’ इत्यमरः । श्रुतं राष्ट्रियमुखा-


प्रतिवद्ध इति भावः । बहुलीभूतमित्यादि । कौलीनं शकुन्तलानिराकरणहेतुना


 उभे-सुदं रट्टिअमुद्दादो जाव अङ्गुलीअअदंसणं । [श्रुतं राष्ट्रि- यसुखाद्यावदङलीयकदर्शनम् ।

 कंचुकी--(आत्मगतम् ) तेन ह्यल्पं कथयितव्यस् ।(प्रकाशम्) चदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यसूदढप्रुर्वा मे तत्र भवती रहसि शकुन्तला मोहात्प्रत्यदिष्टोति तदाप्रभृत्येव पश्चात्ता पमुपगतो देवः । तथाहि ।

 रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
  शय्याप्रान्ताविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
 दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
  गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ ५ ॥


द्यावदङुलीयकदर्शनम् । म इति मया । तथा च वामन --'तेमेशब्दौ निपातौ त्वयामयेत्यर्थे ’ इति । यंदैव स्मृतं देवेन तदाप्रभृतीत्यन्वयः । रम्यमिति । रम्यं स्रक्चन्दनचन्द्रपादादेकं द्वेष्टि । 'चक्षुपापि न पश्यतीत्यर्थः । ‘ यावद्रम्यमुज्ज्वलं च ' इत्युक्तेः । प्रकृतिभिर मात्यैः पुरा पूर्वं यथा तथा न सेव्यते । पूर्वं तु कार्यपेक्षितया धुना स्वपतरापेक्षमित्यर्थः । पूर्वं ग्रत्यहमधुना न [ तथा ] । यथापूर्व ग्रत्यत्यहमित्युभयं विधेयम् । शय्यानाम् । न शय्यायाः । प्रान्तेषु । न मध्ये । यानि विवर्तनानि परिलुण्ठनाने । न स्वापः । तैरुन्निद्रो गतनिद्र एवेति पूर्वत्र हेतुत्वेन योज्यम् । क्षपा निशाः । न तु निशाम् । विगम यतीति विरुद्धं यथा स्यात्तथातिवाहयति । न तु गच्छति (?) । यद न्तः पुरेभ्यो देवाभ्यो दाक्षिण्येनात्यन्तानुरोधेन । ' दाक्षिण्यं नाम बिम्बोष्ठि वैम्विकानां कुलव्रतम् ’ इत्युक्तेः । एतेनात्यावश्यकत्वम् ध्वनि तम् । उचितामित्यवश्यापेक्षणीयत्वं ध्वनितम् । ईदृशं वाचं ददाति ।


लोकापवादः । रम्यमित्यादि । रम्यं नृत्तगीतप्तक्यंदनवनितादित्रभ्राम्यधार्योप भोगार्हखभावमनोहरं वस्तु । एकवचनेन राज्ञस्तद्विषयद्वेष्यभावपराकाष्ठा सूच्यते । द्वेष्टि विरहपरंपराजनितदुःखानुभवात् दुःखिते मनसि सर्वमसह्यमिति न्यायेन तस्य विपरात् बुद्धिजनकतया न सहते । रम्यवस्तुविद्वेषेण विषयनिवृत्तिर्व्यज्यते । तथा च निर्वेदः । अनेन उद्वेगो नाम दशा कथिता। तदुक्तं “ मनसः कंप उद्वेगो कथितस्तत्र विक्रिया । चित्तसंतापनिश्वासौ द्वेषः सर्वत्र वस्तुषु ॥ " इतेि । यथापुरं पूर्वं यथा तथा प्रकृतिभिर  सानुमती-पिअं मे। [ प्रियं में ]


तदा गोत्रेषु नामसु । ’ गौत्रं तु नाम्नि च ' इत्यमरः । स्खलितोऽन्य नामग्रहे कृतान्यनामग्रहः संश्चिरमतिकालं क्रिडया लज्जया विलक्षो विस्म यान्वितो भवति । ' विलक्षो विस्मयान्वितः ' इत्यमरः । अहं राजा दुष्यन्तो ममाप्येतादृश्यवस्तथेति स्वमनस्येव सविस्मय इत्यर्थः । अत्र पश्चात्तापादिके कारणे वक्तव्ये यत्तत्कार्यस्य रम्यद्वेषादेर्वचनं तत्पर्या योक्तम् । काव्यलिङ्गं च । पुराप्रेति प्रप्रेति क्षक्षीति छेकवृत्त्यनुप्रासौ । वृत्तमनन्तरोक्तम् । प्रियं मे । अस्मदैमनस्यादिति व्यधिकरणे पञ्चम्यौ ।


माल्यैः प्रजभिर्वा प्रत्यहं न सेव्यते । चित्तपारवश्यान्नन्वास्यते । सार्वलिकतदेक तानचित्तत्वेन कदा वा शकुन्तलप्राप्तिर्भविष्यतीति चिन्ताजनितालसतया ताभिः सम मिष्टानिष्टालोचनमपि न क्रियत इति यावत् । अनेन जडता ध्वनिता । तदुक्तं " इदमिष्टमनिष्टं तदिति वेति न किंचन । नेतरं भाषतै प्रश्ने नेक्षते न शृणोति च । यत्र ध्यायति निःसंज्ञ जडत सा प्रकीर्तिता ॥ इति । क्षपाः सौधादिविविधको डोचितचंद्रमलयानिलीकृत रात्रीः । शय्याप्रान्तनिवर्तनैः विप्रलंभजनितस्रवगसन्तापे नान्यकान्तालिंगनाभान्यान् शय्याआंतपयवर्तनैः । उन्निद्र एव अरया निदाशून्य एव विगमयति न तु तत्ताट्टक्कामलाविदग्धकामिनीभिः समं चंदनाद्यंगलेफ्नकुसुमधारण सभापणालिगचुवनविविधसुरतप्रणयकलहात्मगौरवमानरक्षणक्षणवैसुख्यपदप्रणामानिमिप प्रेमवीक्षणादिनानाकीडापरिश्रमजनितग्लन्यवशखारसिकप्रप्तनिद्रया क्षपाः विगमयतीति भावः । शय्यापर्यावर्तनैः सन्तापः तेन च व्याधिलक्षणा मनसा पीडा निद्राभावेन विपादः चिन्ता वा । क्षपा इत्यनेन इंदुमलयानिलादिवौल्यम् अनेन व्याधिर्नामवस्थः सूचिता । तदुक्तं " अतीष्टसंगमाभावाव्याधिः संतापलक्षणः " इति । अंतपुरैभ्यः अंतः पुरकान्ताभ्यः आकारगोपनार्थे दाक्षिण्येन सर्वासु समभावप्रकटनेन यदा यस्मिन्काले उचितां तस्कलयोग्यां वाचं वचनम् । न तु वाक्यम् । तीव्रपदकदंवात्मकत्वात् ग्लन्या वचनमात्र उच्चरितमिति भावः । ददातीति वर्तमानव्यपदेसशेनोन्मादप्राप्त्या बुद्धिपूर्वको चारणाभावादुत्कमेव पुनः पुनर्वदतीति व्यज्यते । तदा तस्मिन्काले गोत्रेषु नामधेयेषु स्खलितः विपर्यंस्तः अयथावादी शकुन्तलानामवादीत्यर्थः । चिरं श्रीडाविलक्षः श्रीडथ लज्जया विगतलक्षः कर्तव्यशून्य इति भावः । चशब्दः क्रियासमुच्चयार्थः। अंतःपुराण दाक्षिण्यादनुचितवक्प्रदानादवहित्थम् । गोत्रस्खलनेन मोहः तेन चोन्मादः । तदुक्तं " सर्वावस्थासु सर्वत्र तन्मनस्कतया सदा । अतस्मिस्तदिति भ्रान्तिरुन्मादः परिकीर्तितः ॥ " इति । क्रीडावैलक्ष्यणेन शंकाविवोधो वा । अनेन श्लोकेन गोत्र स्खलितं नाम सन्ध्यंगमुक्तम् । तदुक्तं "तद्गोत्रस्खलितं विदुः। प्रियानुस्मरणादन्याह्वानम न्यभिवानतः ॥ " इति । स्फुटमेवैतत् । पिअं मे इत्यादि । अस्मात्कारणात् प्रभवतः  कंचुकी--अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।

 उभे--जुज्जइ[१] । [युज्यते]

(नेपथ्ये )

 एदु एदु भवं । [ एतु एतु भवान् ]

 कंचुकी--( कर्णं दत्वा ) अये, इत एवाभिवर्तते देवः स्वकर्मानुष्ठीयताम् ।

 उभे--तह । ( इति निष्क्रान्तं ) [ तथा ]
 ( ततः [२]प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च )

 कंचु[३]की –( राजानमवलोक्य ) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एव[४]मुत्सुकोऽपि प्रियदर्शनो देवः । तथा[५]हि ।


अस्मात्कारणात्प्रभवतः समर्थात् । अधिकादित्यर्थः । वैमनस्यादुद्वेगात् ! युज्यते । 'प्रविश्यापटीक्षेपेण' इत्याद्येतदन्तेन द्युतिनामकमङ्गमुपक्षिप्तम् । तल्लक्षणं दशरूपके-– 'तर्जनोद्वेजने द्युतिः' इति । एतु एतु भवान् । तह इति तथेति । प्रतीहारीलक्षणमुक्तं प्राक् । अहो आश्चर्ये । सर्वावस्थास्वित्यर्थान्तरन्यास एवमित्यादेरुत्तरवाक्यार्थस्य समर्थकः । सर्वासु यदा यादृश्यो या उपास्थितास्तासु ताद्रूप्येण रमणीयत्वमित्यर्थः । उत्सुक उत्कण्ठितः । विरह्यपीत्यर्थः । एतदवस्थाया अन्यत्र प्रियदर्शनत्वमपिशब्दद्योत्यम् । अत एवार्थान्तरन्यासे विशेषपदम् । तथाहीत्युभयपरामर्शः । स एव पद्ये वाच्येन पूर्वांशस्य व्यङ्गे ( ङ्ग्ये ) नोत्तरांश


प्रभोः उत्सवः प्रत्याख्यातः निराकृतः अनेन छलनं नाम सन्ध्यंगमुक्तम् । "छलनं चावमाननम्" अवमाननं नाम प्रत्याख्यानम् । अत्रोत्सवप्रत्याख्यानमत्रमाननम् ।


प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितै
विभ्रत्काञ्चनमेकमेव वलयं श्वासो[६]परक्ताधरः ।
चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते[७] ॥ ६ ॥


स्याते ज्ञेयम् । प्रत्यादिष्टेति । प्रत्यादेशो ( दिष्टो ) निराकृतिः (तो) विशेषमण्डनस्य प्रक्षेप्यस्यांगुलीयककुमुदादेर्विधिर्धारणविधिर्येन सः । । अनेन अङ्गान्यभूषितान्येव प्रक्षेप्याद्यैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते । ’ इतिरूपं ध्वनितम् । वामस्य प्रकोष्ठस्य मणिबन्धोर्ध्वभागस्यार्पितं दत्तम् । ‘प्रकोष्ठे विस्तृतकरे रूपकक्षान्तरेऽपि च । कर्पूरादधरे चापि ’ इति विश्वः । काञ्चनमेवेत्यन्यासंस्पृष्टत्वेनातशीलतत्वं ध्वनितम् । वलयमित्येकवचनं द्वितीयस्य बोदुमसामर्थ्यात् । बिभ्रत् । अभ्यस्तत्वान्न नुम् । वामग्रहणेन बिरुदार्थमवश्यंघारणमुक्तम् । अत एकं मुख्यं सर्वदा सत्वात् । ‘ एके मुख्यान्यकेवलाः’ इत्यमरः । अत एव वामप्रकोष्ठस्यार्पितं दत्तमिति भूतत्वं च । एतन्मात्रेणैव विशेषो ध्वनितः । श्वासेन विरहेित्वादुष्णेनोपरक्तः पाटलो न तु रूक्षोऽधरो यस्य सः | तादृशस्यैव शोभायुक्तत्वं च ध्वनितम् । चिन्तया शकुन्तलागतया यज्जागरणं तेन प्रकर्षेण तान्ते म्लाने नयने यस्य सः । जागरणेन रक्तप्रान्तत्वं तेन च शोभातिशययोगित्वं च ध्वनितम् । एषु स्वभावोक्तिः परिकरालंकारश्च । आत्मनस्तेजोगुणाद्दीप्तिलक्षणात्क्षीणोऽपि कृशोऽपे क्षीणत्वेन नालक्ष्यते । क इव । संस्कारार्थमुद्घृष्टो महामणिरिव । महाशब्देन जात्यत्वं सर्वगुणविशेष्टत्वं महत्त्वं च ध्वनितम् । यथा शाणोल्लिखितो महामणिः स्वतेजसा क्षीणो न दृश्यते तद्वदित्युपमा । अनेन महामण्युपमानेनास्य क्षीणत्वेऽप्यन्तःसारता सर्वदा दृश्यमानत्वेऽप्यवितृप्तता ध्वनिता । प्रप्रेति पृष्टेति न्तान्तेति क्षीक्ष्येति छेकश्रुतिवृत्त्यनुप्रासाः । अथ चिन्तेति संकल्पः, जागरेति निद्राच्छेदः , क्षीण इति तनुता, प्रत्यादिष्टेति विषयनिवृत्तः, इति कामावस्था अपि


प्रत्यादिष्टेत्यादि । प्रत्यादिष्टः निरस्तः 1 विशेषमंडनस्य विशिष्टालंकरणस्य विधिः करणं


 सानुमती-( राजानं दृष्ट्वा ) ठाणे क्खु पञ्चादेसविमाणिदा वि इमस्स किदे सउन्दला किलम्मदि त्ति । [ स्थाने खलु प्रत्यादेशविमानिताप्यस्य कृते शकुन्तला क्लाम्यतीति ।

 राजा-( ध्यानमन्दं परिक्रम्य )

  प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
  अनुशयदुःखायेदं हतहृदयं संप्रति विबुद्धम् ॥ ७ ॥


सुचिताः = वृत्तमनन्तरोक्तम् । अथ चानेन नायकसात्विकगुणेषु माधुर्यंनामा गुण उपाक्षिप्तः । तल्लक्षणं तु --‘तन्माधुर्यं यत्र गात्रदृष्ट्यादेः स्पृहणीयता । सर्वावस्थासु सर्वत्र’ इति अन्ये आचार्याः प्रवासाविप्रलम्भेऽन्याः कामदशा आहुः—‘अङ्गेष्यसौष्ठ्वम्, चैव पाण्डुता कृशतारुचिः । अधृतिः श्यादनाल्म्बस्तन्मयोन्मादमूर्छना । मृतिश्चेतेि क्रमाज्ज्ञेया दश स्मरदशा इह ॥ ’ इति । ‘ प्रत्यादिष्ट-’ इत्यादिनाङ्गेष्वसौष्ठवम्, ‘क्षीणः ’ इत्यनेन कृशता, ‘ रम्यं द्वेष्टि यथा पुरा’ इति पूर्वपद्येऽरुचिः । ‘ अरुचिर्वस्तुवैराग्यम् ’ इत्युक्तेः । दाक्षिण्येत्यादिनाधृतिः । ‘ सर्वत्रारागिताधृतेिः ’ इत्युक्तेः । स्थाने युक्तं खलु प्रत्यादेशेन निराकरणेन विमानिताप्यस्य कृते शकुन्तला क्लाम्यतीति । तत्स्थान इत्यन्वयः । ध्यानमन्दमित्यनेनालम्बनोक्ता । ‘अनालम्बनता वापि शून्यता मनसः स्मृता’ इत्युक्तेः । प्रथममिति । सारङ्गो हरिणस्तस्येक्षणे इवेक्षणे यस्यास्तया । अनेन तद्दर्शनमात्रेण प्रतिवोध उचित इतेि ध्वन्यते । तत्रापेि प्रिययात्य-


येन स तथोक्तः वामप्रकोष्ठार्पितं सव्यकर्पूरमणिबन्धमध्यभागन्यस्तं पुरुषस्यैककटकधारणं दक्षिणहस्तेनैव कर्तव्यम् । अत्र वामहस्तधारणं तु शकुन्तलादिरहसंभ्रान्ताचित्तत्वेनेति भावः । कांचनं सुवर्णमयं न तु रत्नखचितम् । एकमेव इतरपुरुषविलक्षणार्थं बिभ्रत्। तेजोगुणात् एकवचनेन गुणस्याद्वितीयत्वं व्यज्यते । संस्कारोल्लिखितः शाणोल्लीढः । क्षीणोऽपि स्वाभिलाषलंबनभूतनायिकाविरहपरंपराजनितदुःखानुभवात् कृशोsपि संलक्ष्यते । पूर्वावस्थापेक्षया दर्शनीयो भवति । अनेन कार्श्यं नामावस्थान्तरमुक्तम् । चिन्ताजागरश्वासास्तु वाच्यतयैवोक्ताः । क्षीणोऽपि संलक्ष्यत इति पाठोऽपि व्याख्यातः । ध्यानमन्दमित्यादि । शकुन्तलाचिन्तया शनैः परिक्रम्य । अनेन शून्यदृष्टिता व्यज्यते। विषयालोकनेऽपि तद्विषयप्रवृत्तेरसंभवात् । प्रथममिति। हतहृदयमिति हृदयशब्देन स्वात्माभिधीयते। विबुद्धमिति ज्ञानाधारताप्रतिपादनादात्मनः एव ज्ञानाधारत्वात् ।  सानुमती-णं ईदिसाणि तवस्सिणीए भाअहेआणि ।[ नन्वीदृशानि तपस्विन्या भागधेयानि ]

 विदूषक—( अपवार्य ) लंघिदो एसो भूओ वि सउन्दलावाहिणा । ण आणे कहे चिकिच्छिदव्वो भविस्सदि च । [ लंघित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति ]

 कंचुकी--( उपगम्य ) जयतु जयतु देवः। महाराज, प्रत्यवेक्षिताः प्रमदवनभूमयः । यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।


न्तहृद्यया शकुन्तल्या प्रतिबोध्यमानमपि । स्वत एव प्रतिबोध उचितः स नास्त्यपि तु प्रयत्नेनापि प्रतिबोध्यमानं सुप्तं मोहमुपागतम् । अत एव हतहृदयं दुष्टहृदयं संप्रत्यधुनानुशयदुःखाय पश्चात्तापदुःखाय विबुद्धम् । अत्र पूर्वार्धे विशेषोक्तिः । अत्र प्रतिबोधाभावस्तद्विरुद्धेन सुप्तपदेनोक्तः । उत्तरार्धे विभावनपेमानुप्रासौ च । नन्वद्दिशानीति राजोक्तानुवादः तपस्विन्या अनुकम्पार्हाया भागधेयाने भाग्यानि ।‘ तपस्वी चानुकम्पार्हः’ इत्यमरः । लंघित एष भूयोऽपि शकुन्तलाव्याधिना शकुन्तलायाः सकाशाद्यो व्याधिस्तेन । अथवा रूपकम् । शकुन्तलैव व्याधिरुद्वेगदायित्वात् । न जाने कथं चिकित्सितव्यो भविष्यतीति । प्रत्यवेक्षिता इति राज्ञो निःशङ्कसंचारार्थं प्रत्यवेक्षणमीति नीतिः ‘विज्ञेयं


अनेनत्मावमानरूपो निर्वेद उक्तः । आत्मन्यक्कारस्य कारणमाह--प्रथममित्यादिना । सारंगाक्ष्या मृगाक्ष्या अनेन पूर्वानुभूततादृशकटाक्षावलोकनादीनां स्मरणं व्यज्यते । प्रिययेत्यनुरागविषयता सूचिता । प्रातेबोध्यमानमपि सुप्तमिति । जाग्रतोऽपि गागवि थथता सूचिता । प्रतिबोध्यमानमपि सुप्तमिति । जाग्रतोऽपि गाढसुप्तदशायामिव प्रतिबोधो न ज्ञात इत्यर्थः । अनेन तत्तादृग्रूपवत्या स्वानुरागाचलंवनभूतया तया तदा तथा प्रतिवोधनेऽपि स्वकृतकार्यस्मरणाभावेनाज्ञानस्य पराकाष्ठोक्ता । तादृशसुखप्राप्तिदशायामज्ञानमेको दोषः संप्रति तदसन्निहितकाले बोधनं तु केवलमनुशयेन दुःखजननाय न तु सुखायेति भावः । पूर्वमज्ञानादकार्यं कृत्वा ततो विवेकात् पश्चात्तापोऽनुशयः । अनुशयदुःखायेत्यनेन तत्संपादनोपायाभावः सूचितः । उपायवत्त्वेऽनुशयाभावात् दुःखजननेन धैर्याभाव उक्तः। धीरस्य महत्यपि विनिपाते दुःखाभावात् । ध्यानमन्दमिति शून्यदृष्टिता कथिता । विषयावलोकनेऽपि तद्विषयप्रवृत्त्यसंभवात् । अथवा सारं मनोहरं  राजा--वेत्रवति, मद्वचनादमात्यमार्यपिशुनं ब्रूहि। १ चिरप्रबोधनान्न संभावितमस्माभिरद्य धर्मासदमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति ।

 ग्रतीहारो-जं देवो आणवेदि । ( इतेि नेष्क्रान्तः } [ यद्देव आज्ञापयति }

 राजा-वातायन, त्वमपि स्वं नियोगमशून्यं कुरु ।

 कंचुकी--यदाज्ञापयति देवः ! ( इति निष्क्रान्तः )

 विदूषकः-किदं भयदा[८] णिस्माच्छिअं । संपदं [९]सिसिरातवच्छेअरमणीए इमस्सिं पमदवष्णुद्देसे[१०] अत्ताणं रमइस्मासि।[ कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ]

 राजा[११]--वयस्य, रन्ध्रोपनिपातिनोऽनर्था इति यदुच्यते तदव्यभिचारि वचः । कुतः ।


प्रमदवनं नृपस्तु यस्मिञ्छुद्धान्तैः सह रमते पुरोपकण्डम्’ इति हलायुधः । चिरकालेन प्रबोधनाज्जागरणात् । यद्देव आज्ञापयतीति । वातायनेति कंचुकिनाम । नियोगमधिकारम् । कृतं भन्नता निर्मक्षिकम् । सांप्रतं शिशिरातपच्छेदरमणीये । नाप्यत्यन्तं शिशिरं नाप्यातपः। अस्मिनप्रभदवनोद्देश आत्मानं रमायिप्यसि । रन्ध्रोपनिपातिनः । ‘छिद्रेष्वनर्या


गच्छत इति सारङ्गे अक्षिणी यस्याः सा तथोक्ता । वातयन इति तस्य कंचुकिनो नामधेयम् । वयस्येत्यादि । वयस्यशब्देन त्वमेव प्रकृतदुःखग्रतीकारहेतुर्नान्य इति भावः । तदुक्तं –“ समानशीलव्यसनो गुह्यख्यानैकभाजनम् । विपत्प्रतिक्रियाभिज्ञो त्रयस्यः परैिकीर्तितः ॥” इति । रन्ध्रे छिद्रे स्वास्थ्याभावे सति उपनिपनंतीति ते तथोक्ताः अनर्थाःआपद इतेि यदुच्यते लोकेनेति शेषः । तद्वचः तद्वचनम् । एकवचनेन सर्वलोकैककंठता व्यज्यते । अव्यभिचारि अविपर्यासि अनुभवप्रमाणेनान्यथा न भवतीत्यर्थः । निश्वस्येति । दुःखपरंपराजनितनिश्वासः कंठोक्तः । रन्ध्रोपनिपातिनोऽनर्था इति दैन्यम् ।


 मुनिसुतप्रणयस्मृतिरोधिना
  मम च मुक्तमिदं तमसा मनः ।
 मनसिजेन सखे ग्रहरिष्यता
  धनुषि चूतशरश्च निवेशितः ॥ ८ ॥

 विदूषकः--चिट्ठ दाव । इमिणा दण्डकट्ठेण कन्दप्पवाहेिं णासेस्सं[१२] । ( इति दण्डकाष्ठमुद्यम्य चूतांकुरं पातयितुमिच्छातेि ) [ तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पव्याधिं नाशयिष्यामि |


बहुलीभवन्ति’ इत्युक्तेः । मुनीति । मुनिसुतायां शकुन्तलायाम् । राज्ञो मुनिसुतात्वनं प्रत्यभिज्ञानात्तथोक्तिः । यः प्रणयः प्रेम तस्य स्मृतिस्तस्या रोधिना तमसा मोहेनेदं [ मम ] मनो मुक्तम् । प्रहरिष्यत मनसिजेन कन्दर्पेण धनुषेि चूतशरो निवेशितश्च । मम तद्वियोगो वसन्तकालश्च प्रादुरभूदित्यर्थः । चावेककालत्वं द्योतयतः । समुच्चयालंकारः । भोजेन तु ‘अदृष्टादापि स्मरणे स्मरणालंकारः’ इत्युक्त्वा तदलंकार इदमुदाहृतम् । अनुप्रासश्च । द्रुतविलम्बितं वृत्तम् । तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पव्याधिं नाशयामि । कन्दर्परूपो व्याधिर्य-


तदेवोपपादयति मुनिसुतेत्यादिना । मुनिसुतेत्यनेन शापानुग्रहाभ्यां सद्य एवानिष्टः शुभजनकश्यपाधीनतया तक्षकशिरोरत्नप्राप्तिरिव दुर्लभस्त्रीरत्नप्राप्तिः सूच्यते । तादृश्याः ग्रणयः गाढानुराग: तस्य स्मृतिः वस्तुसौन्दर्यवलात् गाढानुभवाच्च सार्वकालिकस्मरणं तद्रोधिना संस्थारपर्यंतं प्रतिबन्धकेन तमसा अज्ञानेन । इदं यन्मनस्तया प्रतिबोध्यमानमपि कृतकार्यस्मररणाभावात् स्मरणरहितं तादृगिदं मन इति तस्मिन्निंदा व्यज्यते । मुक्तं परित्यक्तम् । तदा ग्रणयविशेषकृतसंभोगदिविविधक्रियाः स्मर्यंत इति भावः । अत एव ग्रहरिष्यता मनसिजेन सदा सन्निहितेनेत्यर्थः । अनेन मदनस्य प्रावल्यमुक्तम् । चूतशरश्च निवेशित इति अमोघास्त्ररूपत्वेनातिशय उक्तः । धनुषि गोप्यभावेऽपि प्रयोक्तुः प्रयोगाहार्युधविशेषभूतचापे निवेशितः स्थापितः । परमोद्दीपकोद्यानचूतकलिकादर्शनाच्चरमावस्थैव भविष्यतीति भावः । चिट्ठेत्यादि । पूर्वं वयस्वशब्दप्रयोगेण त्वमेव भदनजनितप्रकृतदुःखनिरसनकरणकुशल इति राजवचनस्य दंडकाष्ठप्रहारेण विनान्यदुपायान्तरं न जानामीत्युत्तरं दत्तमिति भावः । कंदर्पव्याधमिति मदनस्य किरातोपमानेन


 राजा--( सस्मितम् ) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे, क्वोपपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु विलोभचामि ।

 विदूषकः --णं आसण्णपरिआरिआ चदुरिआ भवदा संदिट्ठा। माहवीमण्डवे इमं वेलं अदिवाहिस्सं । तहिं मे चित्तफलअगदं सहत्थलिहिदं तत्तहोदीए सउन्दलाए पडिकिदिं आणेहि त्ति । [ नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति ]

 राजा--ईदृशं हृदयविनोदस्थानम् । तत्तमेव मार्गमादेशय ।

 विदूषकः--इदो इदो भवं ।[ इत इतो भवान् ]

( उभौ परिक्रामतः । सानुमत्यनुगच्छति )

 विदूषकः--एसो मणिसिलापट्टअसणाहो माहवीमण्डवो उवहाररमणिज्जदाए णिस्संअअं साअदेण विअ णो पडिच्छदि । ता पविसिअ णिसीददु भवं । [ एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । ( उभौ प्रवेशं कृत्वोपविष्टौ )


स्मादति कन्दर्पव्याधिशब्देन चूतांकुर उक्त इति ज्ञेयम् । नन्वासन्नः परिचारिक चतुरिका भवता संदिष्टा । परिचारिकालक्षणं मातृगुप्ताचार्यैरुक्तम्--‘संवाहने च गन्धे च तथा चैव प्रसाधने । तथाभरणसंयोगमाल्यसंग्रथनेषु च ॥ विज्ञेया नामतः सा तु नृपतेः परिचारिका ॥ ’ इति । माधवीमण्डपे वासन्तीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति । ईदृशं हृदयविनोदनस्थानमिति प्रश्नः । तत्तस्मात्तमेव मार्गं माधवीलतामंडपमार्गमादेशय | इत इतो भवान् । एष मणिशिलापट्टकसनाथो माधवी-


निर्दयत्यमुच्यते । भवत्विवत्यंगीकारे । ब्रह्मवर्चसं ब्रह्मतेजोविशेषः दृष्टम् । “ इदं ब्राह्वमिदं क्षात्रं शापादपि शरादपि ” इति न्यायेनानुभूतम् । ब्रह्मवर्चसं वशिष्ठादीनामिव तेजः दृष्टम् । भवतु तथा कुर्वित्यर्थः । सखे इत्यादि । अनुकारिणीषु लतास्वित्यनेन


 सानुमती-लदा[१३]संस्सिदा देक्खिस्सं दाव सहीए पडिकिदिं । तदो से भत्तुणो बहुमुहं अणुराअं णिवेदइस्सं । ( इति तथा कृत्वा स्थिता ) [ लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततोऽस्या भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ]

 राजा–सखे, सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचि[१४]त्संकीर्तितं तत्रमवत्या नाम । कच्चिदह[१५]मिव विस्मृतवानसि त्वम्[१६]

 विदूषकः-- ण विसुमरामि। किंतु सव्वं कहिअ अवसाणे उण तुए परिहासविअप्पओ एसो ण भूदत्थो त्ति आचक्खिदं । मए वि मिप्पिण्डबुद्धिणा तह एव्व गहीदं । अहवा भविदव्वदा क्खु वलवदी । [ न विस्मरामि । किंतु सर्वं कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती ]


लतामण्डप उपहारः पुष्पोपहारस्तेन रमणीयता तया निःसंशयं स्वागतेनेव नोऽस्मान्प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । लतासंश्रिताद्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततस्तस्या भर्तुर्बहुमुखमनेकप्रकारमनुरागं निवेदयिष्यामि । इदानीं शकुन्तलायाः सर्वं प्रथमवृत्तान्तं स्मरामीति संबन्धः। प्रत्यादेशवेलायां निराकरणसमये । न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनः परिहासविक (ज) ल्प एष न भूतार्थः सत्यार्थ इतेि । ‘वृत्ते क्ष्मादावृते भूतम्’ इत्यमरः । आख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती ।


विरहिजनविनोदस्थानमुक्तम् । तदुक्तं “ विरहिणां चत्वारि विनोदस्थानानि तत्सादृश्यं तत्प्रतिकृतिस्तदंगसंंस्पृग्वातस्तस्वप्नश्च ” इति । णविसुमरामीत्यादि । मृत्पिंडबुद्धिना


 सानुमती-( आत्मगतम् ) एव्वं णेदं । एवमेवैतत् |

 राजा–( ध्यात्वा ) सखे, त्रोयस्व माम् ।

 विदूषकः--भो, किं एदं। अणुववण्णं क्खु ईदिसं तुइ । कदा वैि सप्पुरिसा सोअवंत्तव्वा ण होन्ति । णं पवादे वि णिक्कम्पा गिरीओ।[ भोः, किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोक्वक्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ॥

 राजा-वयस्य, 'निराकरणविक्लवाया: प्रियायाः समवस्थाम- नुस्मृत्य बलवदशरणोऽस्मि । सा हि

इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता
मुहुंस्तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं वाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ९ ॥


एवमेवैतत् । भोः, किमेतत् । अनौचित्यमित्यर्थः । अनुपपन्नं खल्वीदृशं त्वयिं सर्वदा धीरे राज्ने स्वयं दुप्यन्ते । कदापि सत्पुरुषाः शोकवक्तव्या न भवन्ति । शोके जातेऽन्येन वक्तव्या न भवन्तीत्यर्थः । अप्रस्तुतप्र शंसा । तत्र दृष्टान्तमाह-ननु प्रवातेऽप्यतिशयितवातेऽपि निष्कम्पा गिरयः । विक्लवाया विह्वलायाः । बलवदधिकम् । इत इति । अनु- गन्तुं व्यवसिता प्रयत्नं कुर्वाणा मुहुरनन्तरमुच्चैस्तेष्टेति गुरोः पितुः


परच्छ्लोकत्यनभिज्नतया प्लवमानसथूलवुद्विनेति यावत् । वयस्येत्यादि । निष्कारणनि राकारणविक्लवायाः स्वपरित्यागं प्रति यं कंचित् स्वकृतापराधं विना निराकरणेन दुःख परवशायाः प्रियायाः खाभिलाषविषयभूतायाः समवस्थां स्खनिमित्तकव्यसनाभिभूत शोच्यदशां अनुचिन्त्य प्रत्यादेशसमयजनिततदीयावस्थाभेदान्मुहुर्मुहुर्श्चितयित्वा । वलव दृढम्। अशरणोऽस्मि जीवितधारणे टपायरहितो भवामि । निष्कारणनिराकरणाविक्ल वायाः ग्रियाया इत्यनेन तस्याः साकूतावलोकनमंदगमनादीनामनुभूतत्वात् स्मरणम् । इत इति । इतः स्वस्मात् प्रत्यादेशात् । “ किमिदमुपन्यस्तं व्यपदेशमाविलयितुम् "


शिष्यस्तस्मिन्गुरुसमे कण्वसमे वदति सति पुनरनन्तरं बाष्पस्याश्रुणः प्रसर आधिक्यं तेन कलुषामाविलां दृष्टिं कूरै कठिने । इदं व्यङ्गयावका- शदानाय । यथा -‘तद्गेहं नताभान्तमन्दिरम् ’ इत्यादौ । मयि निर्घृण- हृदये परोपकारानिरते तादृशनिरुपाधेवञ्चकेऽलीकधर्मकंचुक इत्यर्थान्त- रसंक्रमितवाच्यम् । अर्पितवती यत्तन्मां दहतेि । अत्र दृष्टेर्दाहकत्वासं- भवान्मुख्यार्थबाधे कार्यकारणसंबन्धात्तापं लक्षयंस्तदतिशयं व्यञ्जयतीति दहातिपदमत्यन्ततिरस्कृतवाच्यम् । किमिव । सविषं शल्यमिव । वि- षाक्तः । ' शल्यं शंकौ शरे वंशे कम्बिकायां च तोमरे ' इति


इयादिवाक्यैर्न्यक्कारं प्राप्य । ल्यव्लोपे पंचमा । स्खस्मात् प्रत्वादेशादिति वक्तव्ये/ इत इत्यनेन तादृक् शकुन्तलापरिस्यागेनात्मनिन्दा व्यज्यते । अतस्तदनभिधानमिति भावः । स्वजनमनुगन्तुं व्यवसितेति । स्वजनपदेन स्वजनप्रतियोगिशत्रुभूते स्वामिन शकुन्तलायाः “ शत्रुः किं न वदेदसत् ” इति न्याय्येन बहुपारुष्यवाक्यानुभवः सूच्यते । अनुगन्तुं व्यवसिता उद्युक्ता न त्वनुगता । गमनव्यवसायमात्रकथनेन तादृक्प्रयादेश दशायामपि स्वस्मिन् शकुन्तलाया भर्तृत्वापरित्याज्यबुद्धिः सूच्यते । ततः पश्चात् ? गुरुशिष्यै-आः पुरोभागिनीत्यादिना पितरुत्पथया त्वयेत्यादिना च तिष्ठेत्युच्चैर्वेदति सति मृदुभाषणार्हस्वजनभावं विहाय विपरीतपरुषवाक्यमालपति सति । गुरुसम इत्यनेन हितवचनप्रदानात्तद्वचनस्यानुल्लंघनांयता प्रकाश्यते । पुनः प्रतिकूले तव दास्यमपि क्षममिति कथितगुरुशिष्यवचनं प्रमाणीकृत्य पश्चादपीति यावत् । कूरे कृतकार्यस्मर- णाभावेन स्वनिमित्तकव्यसनाभिभूतजनविषयक्रदयाकरणभावाद्दारुणे । मयीति- "भती रक्षति यौवने" इति न्याय्येन सकलभोगानुभवकारणभूते मयति यावत् । दृष्टिमित्यनेन एवमादिभिरात्मकार्यनिर्वर्तिनीनां योषितामित्य दिवाक्यैस्तद्वचस्य प्रामाण्या- रोपात् पुनर्दृष्ट्यर्पणभुक्तम् । एकवचनेन' पौरवकुरूनुचितकृतव्रतां करोषीति मय्येकदृष्टयर्पण स्वां परित्यज्य गमिष्यतीति भिया गुरुशिष्ये एकदृष्ट्यर्पणमिति भावः । बाधप्रसर कलुषाम् अकृत्रिभदुःखपरंपराजनितबाष्पनिर्गमाविलाम् । आर्पितवतीति यत् तत् सविषमिव विषूलिप्तमिव । विषं यथा रसादिशुक्रपर्यंतेयु धातुघु प्रसपर्न्नशुमारक व्यवायिविकासिंगुणद्वययोगाद्विकारः प्रत्यंगध्यार्पा भवति तद्वदिति भावः । तदुक्तं "व्यवायी देहमखिलं व्याप्य पाक्राय कल्पते । विकासा विकषृण्वातून् सन्धिर्व- धान्विमुंचति ॥ इति । शल्यं शरः ‘* शल्यं शंकौ शरे वंशे '~ इति विश्वः । विष- लिप्तमाणविद्वस्य यादृशः सर्वावयवसंतापस्तादृशः स्वस्य भवतीति भावः । यदाह "कार्यं तु प्रथमे वेगे द्वितीये वेपथुं तथा। दाहं तृतीये हिक्कां तु चतुर्थे संप्रयोजयेत् ।।" इति । स्थिता तिष्ठेत्युच्चैरिति पाठान्तरम् । इतः प्रत्यादेशात् मम कलत्रं न भवसीति भयोच्यमाना सती स्वस्मान्न्यक्कारमधिगम्य भर्तुविमानिताथाः स्रियाः पितृकुलमेव शरण  सानुमती-अम्महे ।ईदिसी सकज्जपरदौ । इमस्स संदावेण अहं रमामि । अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे ।

 विदूषकः--भो, आत्थि मे तक्को । केण वि तत्तहोदी आआत- चारिणा णीदे त्ति । भोः, अस्ति में तर्कः । केनापि तत्रभवत्या काशचारिणा नीतेति ॥

 राजा- कः पतिदेवतामन्यः पशुमर्ष्टुर्भुत्सहेन । मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि। तत्सहचारिणीभिः संखी ते हृतेति मे हृदयमाशङ्कते ।


विश्वः । उपमानुप्रासौ । तादृशदृष्टेस्तादृशेऽर्पणात्समं च । गुरुशेष्ये गुरुसम इत्यत्र कथितपदत्वं न शङ्कनीयम् । तास्पर्यभेदेन लाटानुप्रासार्थ- मेव तथा प्रयुक्तत्वात् । उत्तरत्र पदे वचनस्याकारित्वभयकारणत्वद्योत- नादितात्पर्यमवगन्तव्यम् । शिखरिणी वृत्तम् । अम्महे आश्चर्ये । ईदृशी स्वकार्यपरतेत्यर्थान्तरन्यासः। अस्य संतापेनाहं रमामि ( मे )। मम संतोष इत्यर्थः । संतापे संतोष इति विषमम् । एतद्वाक्यार्थसमर्थकः पूर्वोक्तोऽर्थान्तरन्यासः । यथा यथास्य तापस्तथा तथा शकुन्तलानयनो पायं प्रति प्रयत्नवान्भविष्यतीत्याशयः | अस्ति मे तर्कः। केनापेि तत्र भवत्याकाशचारिणा नीतेति । पतिदेवतां पतिव्रतां परामर्ष्टुं स्प्रष्टुम् । जन्मप्रातेष्टा जन्मस्थानम् । ‘ प्रतिष्ट स्थानमात्रके ' इति विश्वः ।


मिति धिया स्वजनमनुगन्तुं व्यवसितोद्युक्ता । गुरुसमे पितृसदृशे गुरुशिष्ये ! ततस्तत्रैव राजनिकट एवेत्यर्थः । यदि यथा वदति क्षितिपः ’ इत्यादिना “ आः पुरोभा- गिनि , इत्यादिना च तिष्ठत्युचैर्वदति सति । गुरुसम इत्यनेन शिष्यवचनस्य करणीयत्व- मुच्यते । पुनः पश्चात् वाष्पप्रसरकलुषामुभयत्र न्यक्कारात्परंपराजानितदु:खेनाप्रतिहतनिः- सरणबाष्पेणाविलां दृष्टिम् । क्रूरे कृतकार्यविस्मरणेन दारुणचित्ते । मयीत्यनेन रम्यवस्तु न्यतरेणात्मनोऽवमाननं सूच्यते । यदृष्टेरपणं तत्सविपं झटिति ईप्सितसिद्धयर्थं विष- कल्पं वाष्पं न भवति विषमेवेत्यर्थः । शल्यमिव मां दहति भस्मीभावमन्तरेणापि मां ज्वलयति । जीवितविषये निराशं करोतत्यिर्थः । दृष्टिमित्येकवचनेन दृष्टिद्वयार्पणे सति


 सानुमती-संमोहो क्खु विह्मअणिज्जो ण पडिबोहो [ संमोहः खलु विस्मयनीयो न प्रतिबोधः ]

 विदूषकः--जइ एव्वं अत्थि क्खु समाअमो कालेण तत्तहो दीए। [ यद्येवमस्ति खलु समागमः कालेन तत्रभवत्याः ।

 राजा--कथमिव ।

 विदूशूकः--ण क्खु मादापिदरा भत्तुविओअदुक्खिअं दुहिदेरं देक्खिदुं पारेन्ति । [ न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः ]

 राजा-वयस्य,

स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असंनिवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाता: ॥ १० ॥


संमोहः खलु विस्मयनीयोऽस्वभावत्वात् । न प्रतिबोधः । स्वाभाव्यात्त- स्येत्यर्थः । यद्येवमस्ति खलु समागमः कालेन तत्रभवत्याः पूज्यायाः । न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः शक्नुतः। न खल्विति संबन्धः । स्वप्न इति । तच्छकुन्तलालक्षणं वस्त्वसंनिवृत्त्यै पुनर्निवर्तनभावाय । अनेनोत्कण्ठातिशयो व्यज्यते । अतीतं गतम् । तत्र स्वप्रादिभिश्चतुभिर्वितर्कैरत्यन्तासंभावनीयदर्शनीयत्वं व्यज्यते । तत्र अदृष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनातिथिम् ’ इत्युक्तेः स्वप्ने


क्षणमपि जीवितुं न शक्यत इति द्योत्यते । स्वप्न इत्यादि । तदित्यनेन पंचमांक प्रतिपादितं शकुन्तलादर्शनसंभाषणादिकं परामृश्यते । तद्दर्शनादिकं स्वप्नः सुप्तिदशाया मनुभूतवरयुवतिदर्शनसंभाषणादिज्ञानं न तु जाग्रदवस्थायां सक्षाद्बुद्धिपूर्वकानुभूतज्ञानम् । नु वितर्के। यथा स्खप्ने तथ्यमिवानुभूतं जाग्रदवस्थायां स दृश्यते तद्वदित्यर्थः। माया ऐन्द्र- जालिकम् । यथा यः कश्चिदैन्द्रजालिकविद्यानिपुणः वरयुवतिदर्शनसंभाषणादिकमुत्पाद्य तथ्यभिवानुभावयति पुनस्तस्मिन् गते सति दर्शनादिकमप्यस्तं गतमेव भवतेि तद्वदि- ‘त्यर्थः । मतिभ्रमः मिथ्याध्यवसायः यथा आदर्शप्रतिबिंबितवस्तुनि तत्त्वबुद्धथा प्रवृत्त्यद्धय-


 विदूषक:—मा एव्वं । णं अगुलीअअं एव्व णिदंसणं अवसेसं भावी अचिन्तणिज्जो समाअमों होदि त्ति । [ मैवम् । नन्वङ्गुलीय कमेव निदर्शनमवश्यंभाव्यचिन्तनीयः समागमो भवतीति ]


संभाव्यत एतादिति स्वग्नो न्विति पूर्ववितर्कः स्वप्रश्चेत्स्याज्जाग्रदवस्थायां नानुभूयत इत्यत आह--माया न्विति । मन्त्रतन्त्राभ्यामसतः प्रकटनं माया तस्याः कपटघटितत्वाद्विषयसत्वाभाव इति भाव: । स्यादेवं यद्य धिष्ठानं न प्रतीतं स्यादत आह--मतिभ्रमो न्विति । तेनान्याधिष्ठाने शकुन्तलाभ्रम इत्यर्थः । स्यादेवं यदि व्यवहारक्षमत्वं न स्यादत आह- तावत्फलमत एव क्लिष्टं पुण्यं न्विति । यावान्व्यवहारः संभाषणादिर्जा- तस्तावदेव फलं यस्य तक्लिष्टमत्यल्पम् । तादृशः कश्चिदत्युत्कृष्टो धर्मः पूर्वजननेऽत्यल्प एवाचरितः। यस्य तादृगल्पं फलमित्यर्थः। संदेहालं- कारः । अतःपरमेते त्वयोच्यमाना मया बाशस्यमाना मनेरथाः ! नामे त्यलीके । अलीका मनोरथा इत्यर्थः । ते तटप्रपाता इतेि भिन्नरूपकम् । यथा वर्षासमये गङ्गादेस्तटा ओघेन पीड्यमाना अहमहमिकया पतन्ति । एकः पततेि तदुपर्यन्यस्तदुपरीतरः एवं मनोरथानामेके विलीयेतेऽन्य उत्पद्यन्ते तेऽपि विलीयन्ते तदितरे उत्पद्यन्त इत्यर्थः । प्रपातस्त्वतटे भृगुः” इति कोशात्पुनरुक्तवदाभासः । नुमानुमेति तमेमतेति छेकवृत्त्यनु- प्रासौ । द्वादश्युपजातिरिन्द्रवद्रोपेंद्रवज्रयोः | मैवम् | नन्वंगुलीयकमेव निदर्शनमुदाहरणम् । अवश्यंभाव्यचिंतनीयः समागमौ भवतीति । f विदू षकः-जइ एवम् ’ इत्यादिनैतदन्तेन रोचन (ना ) नामाङ्गमुपक्षि प्तम् । तल्लक्षणं दशरूपके -सिद्धामंत्रणतो भाविदर्शिका स्यात्प्ररो


वसायस्तद्वत्त् । चिरपरिचयादवज्ञा भवतीति न्याय्येन आदर्शभूतान्तःपुरस्त्रीषु वमनस्यात्ता स्वारोपितस्त्रीरत्नान्तरदर्शनाद्यनुभवज्ञानं किमिति भावः । पुण्यं पूर्वजन्मान्तरोपार्जितसुकृ तविशेषः । तावत्फलमेव । तद्दशर्नमात्रफलजनकमेव । क्लिष्टं परिसमाप्तम् । असन्निवृत्त्यै पुनरनावृत्त्यै तद्दर्शनमततिमेव अतिक्रान्तमेव । मनोरथानाम् इतः परं तत्प्राप्तौ सत्यां तदीय- प्रत्यादेशदुःखनिरसनचुंबनालिंगनसंभाषणरहस्यश्रवणपुष्पापचयाद्याकांक्षाविशेषाणां प्रवाहाः स्रोतांसि परंपरेति यावत् । अतटा: स्ववेगप्रतिबंधकसेतुराहित्येन निरर्गला भवन्तीत्यर्थः।


 राजा–( अंगुलीयकं विलोक्य ) अये, इदं तावदेसुलभस्थान भ्रंशि शोचनीयम् ।

तव सुचरितमंगुलीय नूनं प्रतनु ममेव विभाव्यते फलेन ।
अरुणनखमनोहरासु तस्यायुतमसि लब्धपदं यदंगुलीषु ॥११॥


चना ’ इति । न सुलभमसुलभं तच्च तत्स्थानं च तस्माद्वंशोऽस्यास्ति तत् । शकुंतलांगुलिभ्रंशीत्यर्थः । अत एव शोचनीयम् । तवेति । हे अंगुलीय, नूनं निश्चितं तव सुचरितं पुण्यं ममेव प्रतन्वल्पं विभाव्यते ज्ञायते । अतीन्द्रियस्य धर्मस्य प्रतनुत्वं कथं ज्ञातुं शक्यत इत्यत आह- फलेनेति । अत्यल्पफलत्वेन हेतुनेत्यर्थः । ममेवेत सहोपमा । तेन ममापि पुण्यमल्पं तवापीत्यर्थः । तस्य स्वस्याल्पपुण्यत्वे हेतुः पूर्वं दर्शितः। अस्याल्पपुण्यत्वे हेतुमाह--अरुणेते । यस्मात्तस्या विजितत्रिभुवनसुंदर्या मयि निर्व्याजमनुरक्तायाः पुरः परिस्फुरन्त्या इनांगुलीषु पुरुषांगुलीयस्य स्थूलत्वात्कदाचित्त्कनिष्ठिकायां तत्र शिथिलं सदन्यांगुली तत्रापि तथा विधमेितरांगुल्यामिति बहुवचनाभिप्रायः । प्रेमातिशयेन वा सर्वाङ्गस्पृष्टि- केव सर्वांगुलीषु निक्षेपः । यद्वा विरहातिकृशतया मुकुलीकृतासु पञ्चस्वं गुलीषु विन्यासाद्ब्हुवचनोपपत्ति: । तथा चाभियुक्ताः । “ तस्याः किंचि- त्सुभग तद्भूत्तानवं तद्वियोगाद्येनाकस्माद्वलयपदवीमंगुलीयं प्रयाति ? इति । लब्धपदं महता भाग्योदयेन यथा कथंचित्प्राप्तस्थित्यपि सयुत भासि । कीदृंक्ष्वंगुलीषु । अरुणा नखा यासु ताः ! नखेति तलस्याप्युपलक्ष- णम् । ताश्च ता मनोहराश्च नातिस्थूला नातिकृशा नातिह्रस्वा नातिदीर्धा न वक्रा न सरला इत्यर्थः । एतेन स्वयोग्यत्वं ध्वनितम् । उक्तं च सामुद्रे स्त्रीलक्षणे-- नातिह्रस्वा नातिदीर्घा न स्थूल न कृशा अपि । अवक्राः सरला रक्तनखा रक्ततला अपि ।। कोमलाः सितविन्द्वाक्ष्या भंगुरा दीप्तिम- न्नखाः । तादृगंगुलयो यस्याः सा भवेद्राजवल्लभा ।। ’ इति । अनुमानकाव्य- लिङ्गानुप्रासाः। ननु ममेवेतिवत् ‘ कमलमिव मुखं मनोज्ञमेतत् ’ इत्या-


अये इत्यादि । तवेति । सुचरितं मुक्तविशेषः । प्रतनु अत्यल्पं फलेन प्रयोजनेन । अरुणाश्च नखैर्मनोहराश्च तासु अंगुलीष्विति बहुवचनेन स्वविश्लेषानन्तरं शकुन्तलाया:  सानुमती-जइ अण्णइत्थगदं भवे सच्चं एव्व सोआनं भवे । [ यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।

 विदूषक -भो, इअं णाममुद्दा केण उग्घादेण ततहोदीए हेत्थाब्भासं पाविदा । [ भोः, इयं नाममुद्रा केनोद्धातेन तत्रभवत्या हस्ताभ्यासं प्रापिता]

 सानुमती—( आत्मगतम् ) मम बि कोदूहलेण आआरिदो एसो। [ ममापि कौतूहलेनाकारित एषः ]

 राजा--श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया सवाष्पमह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति ।

 विदूषक -तदो तदो। [ ततस्ततः ॥

  राजा-पश्चादिमां मुद्रां तदंगुलौ निवेशयता मया प्रत्यभिहता-


द्वावपि सहोपमा किं न स्यादिति चेदुच्यते । प्रकृतमुपमेयमप्रकृतमुपमा नमिति साधरणी स्थितिः । यत्रोभयमपि प्रकृतमिवशब्दप्रयोगश्च तत्र सहोपमेति रहस्यम् । यथा आदाय शेषामित्र भर्तुराज्ञाम् इत्यादावुभयस्यापि प्रकृतत्वेन विधेयत्वात् । अन्यत्र त्वतिशायकत्वे नाप्रकृतस्योपमानस्यानुवाद्यत्वात् । इयं च साधारणधर्मस्य वाच्यव एव संभवतीत्यपि ज्ञेयम् । पुष्पिताग्रा वृत्तम् । यद्यन्यहस्तगतं भवे त्सत्यं शोचनीयं भवेत् । इयं नाममुद्रा केनोद्घातेन केनोपक्रमेण । उद्धातः कथ्यते धीरैः स्खलिते समुपक्रमे ' इति धरणिः । तत्र- भवत्याः शकुंतलाया हस्ताभ्यासं हतंनैकट्यं प्रापिता । त्वया तस्यै किमर्थं दत्तेति वचनेऽनौचित्यप्रसङ्गदेताड्गुक्तिः । ममापि कौतू- हलेनाकारित एषः । आकारित इवेति गम्योत्प्रेक्षा । ममाप्येतच्छ्र- वणे कौतूहलमासीत् । तदेवानेन पृष्टामिति भावः । कियाच्चरेण कियता विलम्बेन । प्रतिपत्तिम् । वार्तामिति यावत् । “ प्रातिपत्तिः प्रवृत्तौ-


प्रतिदिनं शरीरकार्श्यैनोत्तरोत्तरस्थूलप्रत्यंगुलीसमर्पयामिति भावः । उद्धातेन उद्योगेने-


एकैकमत्र दिवसे दिवसे मदीयं
नामाक्षरं गणय गच्छति यावदन्तम् ।
तावत्प्रिये मदवरोधगृहप्रवेशं
नेता जनस्तव समीपमुपैष्यतीति ॥ १२ ॥

तच्च दारुणोत्मना मया मोहान्ननुष्ठितम् ।

 सानुमती-रमणीओ क्खु अवही विहिणा विसंवादिदो ? [ रमणीयः खल्ववधिर्विधिना विसंवादितः ]

 विदूषक-—कैहं धीवलकप्पिअस्स लोहिअमच्छस्स उदलब्भन्तले आसि। [कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् ।

 राजा-शचीतीर्थं वन्दमानायाः सख्यास्ते हस्ताद्भङ्गास्त्रोतसि परिभ्रष्टम् ।

 विदूषकः-जुज्जइ । [ युज्यते ।

 सानुमती--अदो एव्व तवस्सिणीए सउन्दलाए अधम्मभीरुणो इमस्स राएसिणो परिणए सन्देहो आसि । अहवा ईदिसो अणु-


स्यात् ’ इति धरणिः । एकैकमिति । अत्र मुद्रिकायां दिवसे दिवसे मदीयमेकैकं नामाक्षरं गणय । यावत्तद्गणनमन्तं गच्छति । यावद्गणनस- माप्तिरित्यर्थः । त्रिचतुरैर्दिनैरिति भावः । हे प्रिये, ममावरोधहमन्तःपुरं तत्र प्रवेशस्तं नेता प्रापयिता जनस्तव समीपमुपैप्यतीति मयापि प्रत्यभि हितेति संबन्धः । छेकवृत्यनुप्रासौ काव्यलिङ्गं च । वसन्ततिलकं वृत्तम् । मया विस्मृततादृशस्नेहदुर्जनधुरंधरेणेत्यादि व्यज्यते । दारुणात्मनेति तादृ शव्यङ्गयावकाशदानाय । रमणीयः खल्ववर्धिवधिना दैवेन शापलक्षणेन च विसंवादितः । कथं धीवरकल्पितस्य कैवर्तखाण्डितस्य रोहितमत्स्यस्यो- दराभ्यन्तर आसीत् । शचीतीर्थमिति गङ्गायां शक्रावतारापरपर्यायस्तीर्थ विशेष उच्यते । युज्यते । अत एवांगुलीयकादर्शनादेव तपस्विन्या अनुकम्पा


त्यर्थः । आकारैितः आहूतः श्रेरित इत्यर्थः । प्रतिपतिं प्राप्तिम् । एकैकमित्यादि ।


राओं अहिण्णाणं अवेक्खदि । कहं विअ एदं । अत एव तप स्विन्याः शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये सन्दंह आसीत् । अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् ]

 राजा -उपालप्स्ये तावदिदमंगुलीयकम् ।

 विदूषकः-( आत्मगतम् ) गहीदो णेण पन्था उम्मतआणं । [ गृहीतोऽनेन पन्था उन्मत्तानाम् ।

 राजा--( अंगुलीयकं विलोक्य ) मुद्रिके ।

कथं नु तं बन्धुरकोमलांगुलिं
करं विहायासि निमग्नमम्भासि ।

 अथवा-

अचेतनं नाम मुणं न लक्षये
न्मयैव कस्मादवधीरिता प्रिया ।। १३ ॥ ।


र्हाया: शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आइद्र्क्तसीत्। अथवे दृशोऽनुरागोऽभिज्ञानमपेक्षते। कथमिवैतत् । शापाज्ञानादस्या: ईदृश्युक्ति: । उपालप्स्येऽस्योपालम्भं करिष्ये । अनेनोन्मादः । यहृतोऽनेन पन्था उन्म त्तानाम् । कथमिति । न्विते प्रश्ने । बंधुराः सुंदराः कोमला अंगुल्यो यत्र तम् ॥ बंधुरं सुंदरे रम्ये ' इति विश्वः । एतद्विशेषेणप्रयोजनमेतत्पूर्वतरपद्ये निरूपितम् । तं रक्तोत्पलच्छविमतिमृदुलं मया वारंवारं स्वहृदयन्यस्तं येना- तिप्रीत्या तव धारणं कृतं पुर इव परिस्फुरंतं करं विहाय त्यक्त्वा । अनेन बुद्धिपूर्वकस्त्याग उक्तो न मोहाद्वंशः । कथमम्भसि निमग्नमसि। त्वं त्वलं


अत्र नाममुद्रायाम्। नामाक्षरं दुष्यन्तेत्यक्षरत्रयम् । अवरोधग्रह्श्वेशम् । कथं न्वि त्यादि । अंभसि कथं कस्मास्कारणत् । न्वितिप्रश्ने । बंधुरं कोकिलादिभिरनुपहत-- तथा अखंडितसुन्दरं कोमलं नवीनतया मृदु। तेन रागवत्ता सूच्यते । तादक्पल्लवमित्र स्पृह- णेयांगुलिर्यस्य स तथोक्तः । कोमलपदेनावस्थितिसुखकरत्वमुक्तम् । अचेतनं रम्यपदार्थ परिग्रहापरिग्रहानभिज्ञहेतुम् । गुणं पाषाणादोरिव हृदयराहित्यज्ञानाभावादिकम् । मयैव चेतनरूपेणैव कस्मादवधीरितेति गुणपरित्यागकारणात् अचेतनत्वादिकं न लक्षये न कलये । ।


 विदूषकः-( आत्मगतम् ) केहं बुभुक्खाए खादिदव्वो ह्मि । [ कथं बुभुक्षया खादितव्योऽस्मि |

 राजा-प्रिये ! अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्य तामयं जनः पुनर्दर्शनेन ।


करणं तेन तव दृश्यमेव प्रयोजनं तत्करस्थमपि दृश्यमेव स्थितं सद्यदम्भसि नितरां मग्नमदृश्यत्वं गतमिति कथम् । एवं तत्करत्यागस्तत्राप्यादृ१पत्वग- मनमित्युपालम्भद्वयम् । अत्र चेतनव्यवहारारोपात्समासोक्तिः । सा च गुरुत्वात्स्वाभाविको जलपातस्तत्कर्तृत्वेनोच्यत इति स्वाभाविककृत्रिम- योरभेदाध्यवसायादतिशयोक्तिगर्भा । अथवेति वृत्ताक्षेपालंकारः । नामेति प्रसिद्धौ । अचेतनं कर्तुगुणं सौन्दर्यादिकं प्रेमादिकं च न लक्षयेदित्य र्थान्तरन्यासः । त्वया त्वचेतनत्वादिकं कृतं मया तु सचेतनेनाप्यत्यनु- चितकारिणा त्वां प्रति किं वक्तव्यम् । मयैवेत्येवशब्दार्थः । कस्मात् । अकारणकमित्यर्थः। स्त्रीमात्रं न भवत्यपि तु प्रिया । अवधीरिता तिर- स्कृता न तु यक्ता । त्यक्तायाः पुनरुपादाने महापुरुषस्यानौचित्यप्रसङ्गात् । अवधीरणाकारणाभावे तदुत्पत्तेर्विभावना । श्रुत्यनुप्रासवृत्यनुप्रासयोः संकरः । वंशस्थं वृत्तम् । कथं बुभुक्षया खादितव्योऽस्मि । असावु न्मत्तः, अत एव विषयान्तरसंचाराभावान्मया भोजनार्थं गन्तुमशक्यमितेि भावः । अथ चाहं यथा बुभुक्षया भक्षितव्यस्तथायमपि तया भक्षितव्य [ इत्यय ] मप्यर्थः । प्रकरणवलाद्बुभुक्षेति स्त्रीलिङ्गनिर्देशाच्च । कस्माद- वधीरिता प्रियेयत्र प्रियास्मरणात्संकल्पोपनीतां प्रत्याह--अकारणेति । अकारणं कारणराहित्येन यः परित्यागस्तेनानुशयः पश्चात्तापस्तेन तप्तं हृदयं यत्य सः । अत्र परित्यागश्चेत्कथं कारणाभावः । कारणाभावश्चे- कथं परित्याग इति विरोधो नाशङ्कनीयः । अत्र कारणशब्देन प्रसिद्धं


अचेतननामर्थं न लक्षये " इति पाठान्तरम्। आ इत्यादि । आः इति पीडायां निपातः । बुभुक्षया शकुन्तलां प्रति रिरंसया राज्ञ इति शेषः । अहं खलु अहमेत्र खादितव्यः भोक्तव्यः । शकुन्तला दुर्लभा निकटेऽन्यः कोऽपि न विद्यते शकुन्तला-


१ आः अहं छं ( आः अहं खलु ) इति क० पु• पाठः ।

( प्रविश्यापटीक्षेपेण चित्रफलकहस्ता )

 चतुरिका–इअं चित्तगदा भट्टिणी ।( इतेि चित्रफलकं दर्शयति ) [ इयं चित्रगता भट्टिनी ]

 विदूषकः-साहु वअस्सं, महुरावत्टथाणदंसणिज्जो भावाणुप्पवेसो| खलदि विअ मे दिठ्ठी णिण्णुण्णअप्पदेसेसु। [साधु वयस्य, मधुराव स्थानदर्शनीयो भवनुप्रवेशः । स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु ]

 सानुमती --अम्मो एसा राएसिणो णिउणदा । जाणे सही अग्गदो मे वट्टदि त्ति । [ अहो एपा राजर्षेर्निपुणता । जाने सख्य ग्रतो मे वर्तत इति ]

 राजा --

यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किंचिदन्वितम् ॥ १४ ॥


नायिकापराधगृहीतं तदेव त्यागे कारणं दृष्टचरमिति । अनेन चित्रफल- कहस्तायाश्चतुरिकायाः सूचनम् । सूचिताया एवापटीक्षेपेण प्रवेशोऽति थित्वरासूचनाय । अपटी जवनिका । ‘अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी’ इति हलायुधः । 'इयं चित्रगता भट्टिनी ' इत्य नेन यद्राज्ञा पुनर्दर्शनं याचितं तदनया भङ्ग्या कविना संपादितम् । अत एव पश्वात् 'चित्रफलकं दर्शयति ’ इत्युक्ति: । साधु वयस्येति भिन्नं वाक्यम् । मधुरं सुन्दरं यदवस्थानमाकृतिस्तया दर्शनीयो हृद्यो भावस्या नुप्रवेशोऽभ्यन्तरीकरणम् । सुन्दराकारतया भावाविर्भावो रम्यतर इत्यर्थः। स्खलतीव दृष्टिर्निम्नोन्नतप्रदेशेषु । अनेन मधुराकृतित्वमेवोक्तम् । यथा प्रत्यक्षदृष्टायामाकृतौ निम्नोन्नतेषु दृष्टिः स्खलतेि तथा चित्रेऽपीति मह दालेख्यकौशलमिति भावः । किं बहुना सत्यानुप्रवेशं कथालावण्यं कौतूहलं मे जनयति । एतदेवानुसंधायाह? सानुमती-अहो इति । अहो आश्चर्ये । एषा राजर्षेर्निपुणता । अहं जाने सखी शकुन्तलाग्रतो मे वर्तत इति | जाने इति संबन्धः ? यदिति । चित्रे यद्यत्साधु


धिया मामेव ग्रहीष्यतीति पलायनचिन्ता व्यज्यते । यद्यादिद्यादि । यद्यदित्यनेन


१ पटाक्षेपेण इति क्व० पु० पाठः । २ साहु ( साधु ) इत्यधिकं क्व• पु० । ३ वट्टिआ ( वर्तिका ) इत्यधिकं क्व० पु• ।

 सानुमती-सरेिसं एदं पच्छादावगरुणो सिणेहस्स अणबले वस्स अ } [ सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।

 विदूषकः-भों, दाणिं तिण्णि तत्तहोदीओ दीसन्ति । सव्वाओ अ दंसणीआओ । कदमा इत्थ तत्तहोदी सउन्दला । [ भोः, इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः । कतमात्र तत्रभवती शकुन्तला |

 सानुमती-अणभिण्णो क्खु ईदि१सस्स रूवस्स मोहदिट्टी अयं जणो। [ अनभिज्ञः खल्वीदृशस्य रूपस्य मोहदृष्टिरयं जनः |

 राजा--त्वं तावत्कतमां तकयसि ।


न स्यात्तत्तदन्यथा क्रियते यद्यपि तथापि तस्या लावण्यं किंचि- दनिर्वचनीयया च रेखया चित्रार्थं तूलिकाविहतया अन्यथा क्रियते । अथ च शोभाविशेषणान्वितम् । संमार्ज्य संमार्ज्य भूयो भूयो लिख्यमानमपि शोभां नातिक्रामतीति भावः । अथ च शोभया रेखया- न्वितमिति विरोधाभासः । लावण्यलक्षणमुक्तं प्राक् । रेखालक्षणं संगीत रत्नाकरे-- 'शिरोनेत्रकरादीनामङ्गानां मेलने सति । कायस्थितिर्यतो नेत्रहरा रेखा प्रकीर्तिता ॥ ' इतेि । सदृशमेतत्पश्चात्तापेन गुरोरधिकस्य । प्राप्तस्यवाधिकत्वम् । स्नेहस्यानवलेपस्य निर्दोषस्य । स्वाभाविकस्येत्यर्थः। इदानीं तिस्त्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः | कतमा तासां मध्ये तत्रभवती शकुन्तला । अनभिज्ञः खल्वीदृशस्य [ रूपस्य ] मोह


वीप्साया जङ्गमस्थावरात्मकचेतनाचेतनद्वयं गृह्यते । तयोर्मध्ये यद्यत्साधु न स्यात् अव यव्समुदायशोभावर्णोज्ज्वल्यादिना दर्शनीयं न भवेत् तत्तद्वस्तु । चित्रे आलेख्यकर्मणि । अन्यथा क्रियते स्थावरजङ्गमात्मकस्य ब्रह्मसृष्टपदार्थस्य स्वभावरमनणीया रमणीयतया। अन्यथा कर्तुमशक्यत्वात् । चित्रस्य तु लेखकभावनापरिपोषावधि पुनः पुनः परिमृज्य लिखितुं शक्यत्वाच्च साधु क्रियत इत्यर्थः । वर्तमानव्यपदेशेन सर्वलोकसंवाद उक्तः । तथापि चित्रस्य साधुत्वसंपादकत्वप्रसिद्धावपि तस्याः स्वभावरमणीयाया: शकुन्तलायाः लावण्यं सर्वावयवसौन्दर्यं रेखया लेखेन किंचिदन्वितमीषदेव संगतं न तु विद्यमानं समग्र मिति यावत् । तस्याः रूपलावण्यादिकं चित्रेऽपि लिखितुमशक्यमिति भावः । ग्रंथ-


१ सहीरूवस्स मोहदिट्टी ( सखीरूपस्य मोघदृष्टिः) इति क्व० पु० पाठः । २ कां इति क्व० पु० पाठः ।

 विदूषकः--तक्केमि आ एसा सिढि१लकेसवन्धणुवन्तकुसुमेण केसन्तेण उब्भिण्णस्सेअबिन्दुणा वअणेण विसेसदो ओसरि आहिं बाहाहिं२ अवसेसिणिद्धतरुणपल्लवस्स चुअपाअवस्स पासे इसि परिस्सन्ता विअ आलिहृिदा सा३ सउन्दला। इदारओ सही ओ त्ति | [ तर्कयमि यैषा शिथिलकेशबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्न स्वेदबिन्दुना वदनेन विशेषतोऽपमृताभ्यां बाहुभ्यामवसेकस्निग्ध तरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेवालिखिता सा शकुन्तला । इतरे सख्याविति ]

 राजा--निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् ।

स्विन्नांगुलिविनिवेशो रेखाप्रान्तेषु४ दृश्यते मलिनः।
अश्रु च कपोलपतितं दृश्यमिदं५ वर्तिकोच्छ्वासात्६॥ १५ ॥ ॥


दृष्टिर्मुग्धदृष्टिरयं जनः । तर्कयामि यैषा शिथिलितकेशबन्धनोद्वान्तकु सुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽभिक्रमपमृताभ्यां नतांसाभ्यां बाहुभ्यां भुजाभ्यामवसेक स्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेव । अत्र पूर्वं तृतीयान्तत्रयं हेतुत्वेन योज्यम् | आलि- खिता सा शकुन्तला | इतरे सख्यौ भावेन सात्विकभावेन कृतं चिह्नं भावचिह्नम् । मध्यमपदलोपी समासः । ' तावच्चिह्नम् ' इति पाठे सुबो धमेव । स्विन्नेति । स्विन्ना या अङ्गुल्यः सात्विकभावात्तासां विनिवेशः स्थितिः । रेखाप्रान्तेषु तत्रैकचित्रपटसंप्रयोगान्मलिनो दृश्यते । मलिनत्वं स्वेदादेव चित्रपटोद्घर्षणात् । कपोलपतितं लिखिताकृतिकपोलप्राप्तमश्रु


गौरवभिया योजनान्तरं न क्रियते । तक्केमि इत्यादि । वाहुभ्यामुपलक्षितेत्यर्थः । अस्तीत्यादि । भावचिह्नं दर्शनीयानां तिसृणां मध्ये शकुन्तलाज्ञापकं चिह्नमस्ति । चित्रलेखनसमये स्वानुरागालम्बनभूतोत्तमनायिकायाः सर्वावयवरूपलायण्यादिस्मरणजनित सात्विकभावजनितचिह्नमस्तीत्यर्थः । कुतः कस्मात्कारणात् । स्विन्नेति । रेखाप्रान्तेषु अङ्गोपाङ्गप्रत्यङ्गादिविभागज्ञापकतत्तद्वर्णोचितमपीहरितादिरेखापर्यंतेषु स्विन्नाङ्गुलिविनिवेशः


१ सिढिलबन्धुस्र्वत्तकुसुसेण (शिथिलबन्धोदृत्तकुसुमेन ) इति क्व०पु०पाठः। २ वाहाहिं उवलक्खिदा ( वाहाभिरुपलक्षिता ) इति क्व० पु० पाठ:। ३ एमा तत्तहोदी { एषा तत्रभवती ) इति क्व० पु० पठ:। ४ रेखोपान्तेषु इतेि क्व० पुo पाठः ।। ५ लक्ष्यं इति क्व० पु० पाठ:। ६ वर्णिका इतेि क्व० पु० पाठ: ।

चतुरिके, अर्धलिखितमेतद्विनोदस्थानम्१ । गच्छ। वर्तिकां तावदानय।

 चतुरिका--अज्ज माढव्व, अवलम्ब चित्रफलकं जाव२ आअ छामि । [आर्य माढव्य, अवलम्बस्व चित्रफलकं यावदागच्छामि।

 राजा--अहमेवैतदवलम्बे । ( इति यथोक्तं करोति )

( निष्क्रान्ता चेटी )

 राजा---३अहं हि

साक्षात्प्रियमुपगतामपहाय पूर्वं
चित्रार्पितां पुनरिमां४ बहु मन्यमानः ।
स्रोतोवहां पथि निकामजलामतीत्य
जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥ १६ ॥


मम सात्विकभावेनोत्पनं चेदं वर्तिका चित्रपटे लेपविशेषस्तस्योच्छास उच्छूनता तस्मात् ।‘ पटलेपे पक्षिभेदे तूलिकायां च वर्तिका ' इत्यजयः । अनुमानानुप्रासौ । अनेन हेतुलक्षणं भूषणमुपक्षिप्तम् । तल्लक्षणं तु--' स हेतुरिति निर्दिष्टो यत्साध्यार्थप्रसाधकम् ’ इति । वर्तिकां तूलिकाम् । आर्य माढव्येति विदूषकसंज्ञा । अवलम्वस्व चित्रफलकं यावदागच्छामि । साक्षादिति । पूर्वमव्यववहित समये । न तु कालान्तरे । अन्यथोपगतामितेि प्रकृतिप्रत्ययार्थेनार्थपौनरुक्त्यं स्यात् । केवलं नारीमात्रं न, अपि तु प्रियाम् । साक्षात्प्रत्यक्षेण । 'साक्षात्प्रत्यक्षतुल्ययोः' इत्यमरः । उप. समीपे गतां प्राप्ताम् । न चाभासमात्रेण न त्वश्रुकागमनम् (?) । अथ च प्रत्यक्षेण प्रियामिति ज्ञातामपहायावगणय्य । न तु त्यक्त्वा ?


नायिकास्मरणजनितस्त्रन्दयुक्ताङ्गुलीनां विनिवेशः स्पर्शस्थानं मलिनः प्रसरत्स्वेदजलसंपर्क वशात् मलीमसो दृश्यते स्फुटं विभाव्यते । अश्रु च तदीयप्राप्तिदुर्घटत्वप्रत्यादेशादिस्मरण जनितदुःखपरंपराजनितनेत्रजलं च वर्णिकोच्छ्वासात् वर्णिकायाः सितासितहरितादिवर्णि काया उंच्छूनत्वाद्धेतोः कपोलपतितम् आलेख्यस्य कपोले पतितम् । लक्ष्यं विभाव्यम् । चित्रनिर्माणसमये नेत्रजलप्रादुर्भावेन हस्तशैथिल्यविलम्बेन तत्र किंचिद्वर्णाधिक्यं भवति । तस्मादुच्छूनतेति यावत् । वर्तिकोच्छ्वासादित्यपि पाठः । साक्षादित्यादि । प्रियां शृ़्ङ्गार


१ तस्माद्गच्छ वर्णिकां इति क्व० पु० पाठः । २ वण्णिआसमुग्गअं गह्णिअ ( वर्णि- कासमुद्गकं गृहीत्वा ) इत्यधिकं क्व० पु०

 विदूषकः--( आत्मगतम् ) एसो अत्तभवं णदिं अदिक्कमिअ१ मिअतिरण्हिआं संकन्तो । ( प्रकाशम् ) भो, अवरं किं एत्थ लिहेि दव्वं । [ एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः । २भोः अपरं किमत्र लिखितव्यम् |

 सानुमती-३जो जो पदेसो सहीए मे अहिरूवो४ तं तं आलिहि दुकामो भवे । [ यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालिखितु कामो भवेत् ।

 राजा-श्रूयताम् ।

 कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी
  पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः।
 शाखालम्बितवल्कलस्य च तरोर्निमोतुमिच्छाम्यधः
  शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ १७ ॥ ॥


त्यक्तस्य पुनरुपादाने महापुरुषस्यानौचित्यप्रसङ्गात् । पुनरनन्तरं चित्रा- र्पितां लिखितामिमां पुरतो दृश्यमानां बहुमन्यमान आदरेणावलोक- मानः । पथि मार्गे निकामजलां संपूर्णोदकां स्रोतोवहां नदीम् । अथ च यतो निकामजलामतः स्रोतोवहां प्रवहद्रूपामितेि च योज्यम् । अती त्यातिक्रम्य मृगतृष्णिकायां मरुमरीचिकायां प्रणयवान्प्रीतियुक्तो जातः। हेतुनिदर्शना । श्रुतिवृत्त्यनुप्रासाः । मुपमपेति मन्यमान इति छेकानुप्रा सोऽपि । अपहाय बहुमन्यमान इत्यनयोर्निर्हेतुकत्वं नाशङ्कनीयम् । शापस्य तन्मोक्षेण विरहस्य प्रकरणलभ्यत्वात् । वसन्ततिलका वृत्तम् । एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः । अयमेतस्याः कथं निवर्तनीयो भविष्यतीत्याशयः । पूर्वमुन्मत्तानां पन्था अनेन गृहीत इत्युक्तेः । भोः, अपरं किमत्र लिखितव्यम् । यो यः प्रदेशः सख्याः संबन्धी मेऽभिरूपः सुन्दरस्तं तमालिखितुकामो भवेत् । कार्येति । मनोरथसमुचितविषयभूताम् । इदं चित्रफलके स्रोतोवहां नदीम् । प्रणयवान् वाच्ञावान् । कार्येत्यादि । सैकतलीनहंसमिथुना संकतेषु विविधक्रीडोचितपुलिनेषु लीनानि क्रीडाय


१ सच्चं ( सत्यं ) इत्यधिकं क्व० पु० । २ वअस्स ( वयस्य ) इत्यधिकं क्व° पु° । ३ असंसअं ( असंशयं ) इत्यधिकं क्व० पु० । ४ अहिरुइदो ( अभिरुचितः ) इति क्व० पु० पाठः ।

अनेन पद्येनाश्रमस्थं पूर्वानुभूतं तदानीन्तनमुद्दीपनं विभावगणं स्मरति । ते च स्मृताः संभ्रमप्रवासहेतुकं विरहमेव पोषयन्ति । सैकते लीनं हंसमिथुनं यस्याः सा । अनेनोद्दीपकत्वातिशयो व्यज्यते । मालिनीनाम्नी स्रोतोवहा नदी कार्या । स्रोतोवहेत्यनेन जलवाहित्वम् , तेन स्वभावपरित्यागः तेन रमणीयत्वम् , तेन चोद्दीपकत्वं व्यज्यते । मालिनीमभित इत्यभि तोयोगे द्वितीया । गौरीगुरोर्हिमवतः । अनेन कन्यापितृत्वेन तद्दु:खानुभवा त्तत्प्रदेशेऽविघ्नितसंकेतत्वं द्योत्यते । निषण्णहरिणा इत्यनेनात्यन्तविवि क्तत्वम् , तेन भृशमुद्दीपकत्वम् , तेन च सुरतक्षमत्वं ध्वन्यते । पावना इत्यनेन शुचित्वेन रम्यत्वेन पर्यवसानम् । पादाः प्रत्यन्तपर्वताः। कार्या इत्यनुषज्यते । शाखास्वालम्बितानेि वल्कलानेि वृक्षत्वचो यस्य । अनेना श्रमपथानतिदूरत्वेन तस्याः शालीनत्वं ध्वनितम् । तस्य तरोरधः कृष्ण मृगस्य कृष्णसारस्य शृङ्गे । वामनयनमिति स्त्रीस्वभावत्वात् । कण्डूय मानां मृगीं निर्मातुमिच्छामि । अत्र कण्डूयनं शृङ्गारानुभावसूचकं घर्षण मात्रम् । अनेनाप्युद्दीपकत्वं ध्वनितम् । पूर्वं कार्येत्युक्त्वा निर्मातुमिच्छा मीत्युक्तिस्तु घर्षणस्य लेखनायोगात् । तेनैतदपीच्छामि । न वस्तुतः कर्तव्यमिति भावः । स्वभावोक्तिः | लीनलिनीति गौरीगुरोरिति मृगमृगी- मिति मनमानामितेि छेकवृत्तिश्रुत्यनुप्रासाः । गैौरीगुरोरिति प्रसङ्गो


संसक्तानि हंसमिथुनानि इतरपक्षिविलक्षणरमणीयगतिशब्दवर्णयुक्तहंसद्वन्द्वानि यस्याः सा तथोक्ता । अनेन पुलिनविहरणवेतसगृहवासजलकीडादिलीलासमुचितप्रदेश इति ज्ञाप्यते । पुलिनशब्देन तत्र विहरणे सशीकरपवनस्पर्शः सूच्यते । हंसमिथुनशब्देन पक्षिजाते: सार्वकालिक्रीडया परमोद्दीपकत्वमुक्तम् । तां मालिनीमभितः । पादाः प्रयन्तपर्वताः । अनेन न गिरिगह्वरकुञ्जनिर्झरादिषु परस्परात्मगोपनक्रीडाद्यर्हप्रदेश इति व्यज्यते । गैरीगुरोः हिमाद्रे: । अनेनामानुषप्रभावजनगम्यप्रदेश इति प्रतीयते । निषण्णहरिणा इत्यनेन विजातीयमृगकुलावस्थानात् निरर्गलक्रीडोचितविविक्तप्रदेश इति ज्ञाप्यते । शखालम्बितवल्कलस्येत्यनेन धर्मारण्यत्वसूचकत्वमुक्तम् । वामनयनमिति स्त्रीजातेर्वाम- भागस्य मन्मथकलाधिष्ठानत्वात् वामनयनमित्युक्तम् । इच्छामीति । कण्डूतिक्रियायाः चित्रे लिखितुमशक्यत्वादिच्छामीत्युकम् । अत्र. न केवलं शकुन्तलारूप लावण्या द्यतिशयेन तदनुरागातिशयो जातः किन्तु रमणीयदेशकालविभावेनापि शृङ्गारो मूर्धन्यः संवृत्त इति भावः । कृष्णमृगस्य शृङ्गे वामनयनं स्वकीयं सव्यनेत्रं कण्डूयमानां मृगीं  विदूषकः--( आत्मगतम् ) १जह अहं देक्खामि पूरिदव्यं णेण चित्तफलअं २लम्बकुच्चाणं तावसाणं कदम्बेहिं३

। [ यथाहं पश्यामि

पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः ]

 राजा--वयस्य, अन्यच्च शकुन्तलायाः प्रसाधनमभिप्रेतमम्माभिः।

 विदूषकः--किं विअ।[ किमिव ]

 सानुमती--वणवसस्स सोउमारस्स अविणअस्स अ जं सरिसं भवि- स्सदि। [ वनवासस्य सौकुमार्यस्याविनयस्य च यत्सदृशं भाविष्यति]

 राजा--

 कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्विकेसरम् ।
 न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे।१८।।


पादानादुदात्तालंकारश्च । शार्दूलविक्रीडितं वृत्तम् । यथाहं पश्यामि । पूरितव्यमनेन [ चित्रफलकं ] लम्बकूर्चानां तापसानां कदम्बै: समूहैः। प्रसाधनमलंकरणम् । अभिप्रेतमभिमतम् । किमिव । वनवासस्येत्यनेन पुष्पादिकम्, सौकुमार्यस्य चेत्यनेन कुसुमानामपि यत्कोमलतरं तदेक द्वित्रिधारणं च, अविनयस्य चेत्यनेन शेखरादिव्यावर्तनं व्यज्यते ! यत्स दृशं भविष्यति । कृतमिति । अत्र कर्णशब्देन स्वस्य तेन भूषणवत्वं बोधयता नैकट्यात्कर्णशिरोऽन्तरालदेशो लक्ष्यते । तेन परस्परोपकारकरणादन्योन्या लंकारो व्यङ्ग्यः । तत्रार्पितमारोपितं बन्धनं वृन्तं यस्य तत् । गण्डं मर्यादीकृत्य विलम्बिताः केसरा यस्य तत् । एतेन केवलं कथं न भूषयाति, अपि तु गण्डमपीति व्यज्यते । शिरीषं शिरीषपुष्पं न कृतम् । हे सखे । शिरीषपदेन कोमलत्वं ध्वनतान्यत्तद्यो ( तदयो ) ग्यमिति तस्याः सुकुमाराङ्गत्वं व्यज्यते । शिरीषाकंसेन (?) मध्ये तत्र तस्यैव समावेशयोग्यत्वात् । एतेन तत्स्तनयोरतिपीवरतया परस्परोत्पीड नत्वम् तेनालिङ्गनयोग्यत्वम्, तेन च तदप्राप्त्या स्वस्याधन्यत्वादि व्यज्यते ।


निर्मातुमिच्छामि । जइ इत्यादि । सार्थः समूहः । कृतमिस्यादि । कर्णे केशपा-


१ जइ एवं णं णेण ( यद्येवं नूनमनेन ) इति क्व० पु० पाठ: । २ लम्बकुचाणं तावसीणं ( लम्बकुचानां तापसीनां ) इति क्व० पु० पाठः। ३ सद्धेण (सार्थेन) इति क्व० पु० पाठः । ४ अत्र विस्मृतं इत्यधिकं क्व० पू० ।। ५ अ जं अणुसारिसं तं ( च यदनुसदृशं तत् ) इतेि० क्व० पु० पाठः ।

 विदूषकः-भो, किं णु१ तत्तहोदी रत्तकुवलअपल्लवसोहिणा२ अग्गहत्थेण मुहं ओवारिअ३ चइदचइदा विअ ठिआ। । ( सावधानं निरूप्य । दृष्ट्वा ) आ, एसो दासीए पुत्तो ४कुसुमरसपाडच्चरो तत्त होदीए वअणं ५अहिलंघेदि महुअरो । [ भोः, किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाग्रहस्तेन मुखमपवार्य चकितचकितेव स्थिता । आ:, एष दास्याः पुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनमभिलङ्घति मधुकरः}

 राजा--ननु ६वार्यतामेष धृष्टः ।
 विदूषकः-भवं एव्व ७अविणीदाणं सासिदा इमस्स वारणे पहविस्सदि ।[ भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति]


रचितं न चेति सबन्धः । अत्राप्यन्योन्यशोभाहेतुत्वेनान्योन्यालंकरो व्यङ्ग्य:। क्रिययोः समुच्चितत्वात्समुच्चयालंकारः। एकाधिकरणत्वेनापि तस्येष्टत्वात् । उपमा च । श्रुतिवृत्यनुप्रासयोः संकरः । शिरीसरेति रीचि- रचीति न्त्रन्तरे इति छेकानुप्रासोऽपि । ‘श्लेषानुप्रासयमकचित्रेषु सशयोर्न भित् ' इत्याद्युक्तेः । वंशस्थं वृत्तम् । किं नु तत्रभवती रक्तकुवलयस्य पल्लवः पत्रं तद्वच्छोभिना | यद्वा रक्तौ कुवलयपल्लवैौ तद्वच्छोभिना अग्रहस्तेन मुखमपवार्य चकितचकितेव स्थिता । किं न्विति संबन्धः । एष दास्याः पुत्रः कुसुमरसपाटच्चरः पुष्पमधुचौरः । अनेनैवपराधेन दण्ड्योऽपराधान्तरे च सुतरां दण्डनीय इति व्यज्यते । यस्याः कस्याश्चिन्न, अपि त्वत्रभवत्याः पूज्याया वदनमभिलङ्घयति । मधुकर इति साभिप्रायम् । राज्ञस्तु तद्देश एव तिष्ठामीति बुद्ध्या नन्वित्याद्युक्तिः । विदूषकस्तु चित्रगतस्य वार- यितुमशक्यत्वादिति सोल्लुण्ठं स्वभावोक्तिमाह-भवानेवाविनीतानां शासि तास्य वारणे प्रभविष्यति । राजा तु तादृक्त्वबुद्धे ( द्धयै ) व प्रत्युत्तर


 राजा--युज्यते । अयि भोः कुसुमलताप्रियातेिथे, क्रिमत्र१ । परिपतनखेदमनुभवसि । ।

 एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता ।
 प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥१९॥

 सानुमती-अज्ज अभिजादं क्खु एसो वारिदो। [ अद्याभि- जातं खल्वेष वारितः ॥

 विदूषकः--पडिसिद्धा वि वामा एसा जादी । [ प्रतिषिद्धापि वामैषा जातिः ।


यातेि--युज्यत इति । कुसुमग्रहणं लतायां ( याः) सद्भावसूचनार्थम् । कुसुमयुक्ता लता कुसुमलतेति मध्यमपदलोपी समासः। तस्या अपि प्रियोऽतिथिर्न तु यः कश्चिदतिथिस्तस्य संबोधनम् ? यत्र तु सा तादृशी लता तत्र परिपतनमुचितम् । अनुसतिनात्र नातिथित्वं सुतरां न प्रिंयाति- थित्वम् (?) परिपतनरूप एव खेदस्तमनुभवसि, न तु मधुलवलाभोऽपीतेि भावः । चित्रलिखितायां तत्पुष्पे भ्रमर्यपि लिखिता तामुद्दिश्यैषेत्युक्तिः ? एषेति । कुसुमनिषण्णेत्यनेन तवायत्नसाध्यं स्थानामिति भावः । अनु- रक्तेत्यनेन तव तत्रोचितं गमनमितेि ध्वन्यते । तृषिताभिलाषवत्यपि मधुकरी स्वाभाव्यात्सती विद्यमानपतिव्रता च मधुकरी भवन्तं प्रतिपालयतीति प्रेमा- तिशयः । त्वया विना मधु न पिबतेि । अत्र चित्रन्यस्तायाः स्वाभाविकस्य पानाभावस्य त्वया विनेति कृत्रिमस्य वाभेदाध्यवसायादतिशयोक्ति:। अथवा माधवीलतायां तादृशीं मधुकरी दृष्ट्वैषेत्युक्ति: । अत्र तृषितत्वं कुसुमोप- र्युपवेशनादेव । नायिकानायकव्यवहारसमारोपात्समासोक्तिः । सती पतिव्रता मधुकरीति भिन्नरूपेण एकदेशविवर्तिरूपकमपि। मधुमघ्विति छेकवृत्त्यनुप्रासाः। अद्याधुनाभिजातं न्याय्ये यथा स्यादेवं खल्वेष वारितः। ' अभिजातः स्मृतो न्याय्ये ' इति विश्वः । प्रतिषिद्धापि वामैषा जातिरिति


शसंमर्दनानर्हप्रदेशे अर्पितं न्यस्तं बंधनं कृतम् । वाशब्दः समुच्चये । एषेत्यादि । तृषिता पिपासितापि । खलु यतः कारणात् । मधुमकरन्दं त्वया विना न पिबति । ततः प्रतिपालयति । तृषितायाः प्रतिपालनं युक्तं न भवति तत्रैव गच्छेति भावः


१ किमित: इति क्क० पु० पाठः ।

 गजा---एवं भोः, न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति ।

  अक्लिष्टबालतरुपल्लव लोभनीयं
   पीतं मया सदयमेव रतोत्सवेषु ।
  बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियाया-
   स्त्वां कारयामि कमलोदरबन्धनस्थम् ॥ २० ॥ ।


विदूषकवचनं सोल्लुण्ठमेव । राज्ञोऽपि पूर्ववदेव । शासन आज्ञायाम् । अक्लिष्टेति । अक्लिष्टः केनापि नः मृदितो बालो नूतनस्तरोः पल्लवस्तद्व- ल्लोभनीयं सुन्दरम् । अत्र तात्स्थ्यं वक्तुं तरुपदोपादानम् । यद्वा बालो यस्तरुस्तस्य पल्लवः । अक्लिष्टश्चासौ बालतरुपल्लवश्चेति । एतेन कोमल- त्वलौहित्यातिशयो व्यज्यते । प्रियाया बिम्बाधरं बिम्बसदृशमधरमिति मध्यमपदलोपी समासः । तथा च वामनः—‘ विम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ’ इति । रतोत्सवेषु तया सह रतमुत्सवरूपमित्यर्थः । तेषु मयोत्कण्ठातिशयवतापि सदयं स्वादंस्वादं च पीतं न तु निर्दयं तद्दष्टम् । तेनातिकोमलत्वं ध्वनितम् । अथ च पीतमप्यक्लिष्टबालतरुपल्ल- वलोभनीयमिति विधेयं विशेषणं तेन भ्रमरस्य स्पर्शेऽपि हेतुत्वं तेन भ्रान्तिमानलंकारो व्यज्यते । हे भ्रमर, त्वं चेत्तं स्पृशसि तदा कमल- स्योदरे बन्धनस्थं त्वां कारयामेि । अनेन सूर्यस्यापि निजाज्ञाकारित्वं ध्वन्यते स्वाभाविकस्य तस्य स्वप्रयोजकत्वव्यापारेणोक्तेरातिशयोक्तिश्च । प्रतिनायकव्यवहारसमारोपात्समासोक्तिः । उन्मत्तावस्थावर्णनादनौ- चित्यं न । कमलोदरे जलमध्ये बन्धनस्थमिति श्लेषोऽपि हेतुरूपकोपमा-


एवमित्यादि । एवं मृदुमार्गेण शासनमाज्ञां नानुतिष्ठसि संप्रति श्रूयतां तीक्ष्णशासनमेव भविष्यतीत्यर्थः । तदेवाह-अक्लिष्टेत्यादिना । अक्लिष्टबालतरुपल्लवलोभनीयम् । अनुपहतबालतरुपल्लवस्पृहणीयम् । विम्बाधरं रतोत्सवेषु बहुवचनेन मनोरथकल्पितबहु- विधक्रीडाः सूच्यन्ते । अन्तःकरणबाह्यकरणव्यापाररोधिसुखदशायामपीति भावः । सदय- मेव सुकुमारवस्तुनो दयाविषयत्वात् दयासहितमेव । हे भ्रमर सौरभमधुवस्त्वेक- रसिक त्वां तादृग्विधम् । कमलोदरबन्धनस्थं शकुन्तलामुखसौरभादिगुणहीनकमलोदरे कारागृहस्थानभूते बन्धनस्थं स्वेच्छागमनरहितं कारयामि “ राजा कामस्य कारणम् " इति न्यायेन स्वस्य चन्द्रवंशीयतया च कर्तुं शक्नोमि । वर्तमानव्यपदेशेन दिवसपरिणाम समयः सूच्यते । रात्र्यागमनात् प्रागेव गत्वा भ्रमर्या सह कमलोदरे प्रविशेति भावः । रतोत्सवेऽपि संभोगकल्याणेऽपि । रतोत्सवेष्विति पठन्ति तदसंगतम् । बहुरतोत्सवानुभव  विदूषकः --एव्वं तिक्खणदण्डस्स किं ण भाइस्सदि। ( प्रहस्य आत्मगतम् ) एसो दाव उम्मत्तो । अहं पि एदस्स सङ्गेण ईदिस वण्णो विअ संवुत्तो ( प्रकाशम् ) भो, चित्तं क्खु एदं | [ एवं तीक्ष्णदण्डस्य किं न भेष्यति । एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । भोः, चित्रं खल्वेतत् ]

 राजा--कथं चित्रम् ।

 सानुमती--अहं पि दाणिं अवगदत्था, किं उण जहलिहिदा- णुभावी एसो । [ अहमपीदानीमवगतार्था, किं पुनर्यथालिखितानु भाव्येषः]


नुप्रासाः वसंततिलकं वृत्तम् । एवं तीक्ष्णदण्डस्य किं न भेष्याति । एष तावदुन्मत्तः | अहमप्यैतस्य सङ्केनेदृशा वर्ण अक्षराणि यस्य स इव संवृत्तः | सोल्लुण्ठोत्तरदानेन सहजतयोन्मत्तावस्थायां पर्यवसानादिति भावः । भोः, चित्रं खल्वेतत् । 'राजा--युज्यते ' इत्यादिनैतदंतेन भ्रान्तिर्नाम संध्यन्तराङ्गमुपाक्षिप्तम् । तल्लक्षणं तु -- 'भ्रांतिर्विपर्ययज्ञानं प्रसङ्गस्याचिनश्चयात् ’ इति | अहमपिदानीमवगतार्था । चित्रमेिति ज्ञान सति रसो न विद्यते आदरभावात् । ततः रतोत्सवेऽपीति । अपिशब्दः प्रमत्तदसशा- यामष्नप्यनिर्दयत्वद्योतकः । सदयमेव दयासहितमेव । पीतं सुकुमारवस्तुनो दयाविषय- त्वाद्दंतक्षतादिकं न कृतमिति भावः । मयेत्यनेन नानाविधकरणप्रभुत्वं द्योत्यते । कमलो दरबंधनस्थं कमलोदरमेव बन्धनं बन्धनस्थान कारागृहमिति यावत् । तत्रस्थ्ं तत्राव स्थितिमंतं कारयामि । स्वस्य प्रभुत्वाकारयामीत्युक्तं न तु करोमीति । अत्र भ्रमरस्य कमलोदरवस्थानमनुकूलमेव कथं तीक्ष्णदंडे पर्यवस्यतीति नाशंकनीयम् । अनुभूद लोकोत्तरशकुन्तलामुखसौरभस्य कमलसौरभमेवोद्वेजकमिति कमलोदोदरवस्थानमेव कारागृहवस्थानमित्यभिप्रायः । तेन कमलात् शकुन्तलामुखस्यातिसुरभित्वं द्योत्यते । एष्ठवमित्यादि । तिक्खदंडस्स ण भाइस्सदि इयत्र क्वचिदासादेरिति पंचमीस्थाने षष्टी । " दंडोऽस्त्री शासने राज्ञां हिंसायां लगुडे दमे " इति वैजयन्ती । एसो इत्यादि । ईदृशोऽस्मि सवृत्तः राज्ञ इव स्वस्यापि चित्रफलके शकुन्तलाबुद्धिरेव जातेत्यर्थः। अहमितेि । यथा लिखितानुभावी लिखितां शकुन्तलामनतिक्रभ्या


१ दाणिं (इदानीं ) इति क्व० पु० पाठः । २ संसर्गेण ईरिसोह्मि

( संसर्गेणेदृशोऽस्मि ) इति क्व० पु० पाठः ।। ३ अणवगदत्था

( अनवगतार्था ) इति क्व० पु० पाठः ।

 राजा--वयस्य, किमिदमनुष्ठितं पैरोभाग्यम् ।

  दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
  स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥ २१ ॥

( इति बाष्पं विहरतेि )

 सानुमती-- पुव्वावरविरोही अपुव्वो एसो विरहमग्गो । [ पूर्वापरविरोध्यपूर्व एष विरहमार्गः ]


ममाप्यधुना जातमित्यर्थः । किं पुनर्यथछिखितानुभाव्येष विदूषकः । ' राजा--ननु वार्यतामेष धृष्टः ’ इत्यादिना ' बंधनस्थम् ' इत्यंतेन तन्मयत्वप्रवासविप्रलम्भकामदुशावस्था सूचिता । ' तन्मयं तप्रकाशो हि बाह्याभ्यंतरतस्तथा ’ इति तल्लक्षणात् । पौरोभाग्यं दोषदर्शित्वम् । "दोषैकदृक्पुरोभागी ’ इत्यमरः । दर्शनेति । तन्मयेन शकुंतलामयेन साक्षादिव दर्शने सुखमनुभवतो मम स्मृतकारेण चित्रमिति स्मरणं कारि ( कृ ) तवता त्वया कांता चित्रीकृतालेख्यस्था कृता । अथवाश्चर्यरूपा कृता । ' आलेख्याश्वर्ययोश्वित्रम् ’ इत्यमरः ! स्मृतिकारिणा चित्रीकृतेति शब्दशक्तिमूलो विरोधाभासो व्यङ्ग्यः । उत्प्रेक्षा । बतवतेति येनयेनेति कृताकांतेति छेकश्रुत्यनुप्रासाः । भोजेन तु ‘ परप्र यत्नादपि स्मरणे स्मरणालंकारः ’ इयुक्त्वा तदकुंकारे इदमुदाहृतम् । राजा--अकारणपरित्याग--' इत्यादिनैतदन्तेन चित्रं नाम संध्यंतरा- ङ्गमुपक्षिप्तम् । तल्लक्षणम् --' चित्रं त्वाकारस्य विलेखनम् ’ इति । पूर्वा परविरोध्यपूर्व एष विरहमार्गः । पूर्व चित्रस्य चित्रत्वेन ज्ञानम्, पुनस्त स्योन्मादावस्थायां सत्यत्वेन ज्ञानम्, पुनरपि चित्रत्वेन ज्ञानमिति पूर्वा परविरोधः । उन्मादावस्थानंतरं मूर्च्छाद्यवस्थाया अभावादािति भावः ।


नुभवव्यवगच्छति ध्यायतीति यथालिखितानुभावी । वयस्येति । पुरोभागी दोषैकदर्शी तस्य कर्म पौर्वभाग्यम् । " गुणवचनब्राह्मणादिभ्यः कर्माणि च ” इति व्ययप्रत्ययः "नस्तद्धिते ” इति टिलोपः । दर्शनसुखमित्यादि । साक्षात्तत्वतः । तन्मयेन


{{ विकिरति इति क्वo पु० पाठः । २ विहाणमग्गो ( विधानमार्गः ) इति क्व० पु° पाठः ।}}  राजा-वयस्य, कथमेवमविश्रान्तदुःखमनुभवामि ।

  प्रजागरात्खिलीभूतस्तस्याः स्वमे समागमः।
  बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ । २२ ॥ ।

 सानुमती-सव्वहा पमज्जिदं तुए पच्चदेमदुक्खं सउन्दलाए । [ सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः ]

( प्रविश्य )

 चतुरिका--जेदु जेदु भट्टा । वट्टिआकरण्डअं गेण्हिअ इदोमुहं पत्थिद ह्यि । [ जयतु जयतु भर्ता । वर्तिककरण्डकं गृही त्वेतोमुखं प्रस्थितास्मि ]

 राजा-किं च ।

 चतुरिका–सो मे हत्थादो अन्तरा तरलिआदुदिआए देवीए वसुमदीए अहं एव्व अज्जउत्तस्स उवणइसं चि सबलक्कारं गहीदो । [ स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्य- पुत्रस्योपनेष्यामीति सबलाकारं गृहीतः ]


अत एवापूर्व आश्चर्यकरी । प्रजागरादिति । तस्याः स्वप्ने समागमः प्रजा- गरात्खिलीभूतो निरुद्ध्ः । तु पुनर्बाष्पेऽश्रुप्रवाहः। ' बाप्पो नेत्रजलो- ष्मणोः ' इति विश्वः । एनां चित्रगतामपि । प्रत्यक्षदर्शनं पुनरनुपपन्न मित्यपिशब्दार्थः । द्रष्टुं न ददाति । हेत्वनुप्रासौ । सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुंतलायाः। जयतु जयतु भर्त । वर्तिकाकरण्डकं तूलि- कावर्णकादिभाण्डं गृहीत्वेतोमुखं प्रस्थितास्मि । सर्वार्तिककरण्डकौ मे मम हस्तादंतरा मध्ये तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्यपुत्रस्योपनेष्या-


शकुन्तलामयेन। चित्रीकृता । अचित्ररूपा चित्रीकृता । वयस्येत्यादि। अविश्रमं विश्रां- तिरहितम् । प्रजागरादिति । चित्रगतामपीत्यनेन साक्षाद्दर्शनं दुर्लभमिति व्यज्यते ।


१ कथमविश्रमं इति क्व० पु० पाठः । २ स्थलीभूतः इति क्व० पु० पाठः । ३ वअस्स (वयस्य ) इत्यधिकं क्व० पु० । ४ णं ( एनं ) इत्यधिकं क्व० पु० ।

 विदूषकः--दािट्टिआ तुमं मुक्का। [ दिष्टया त्वं मुक्ता ]

 चतुरिका--जाव देवीए विडवलग्गं उत्तरीअं तरलिआ माचाद ताव मए णिव्वाहिदो अत्ता। [ यावद्देव्या विटपलग्नमुत्तरीयं तर- लिका मोचयति तावन्मया निर्वाहित आत्मा ]

 राजा--वयस्य, उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु ।

 विदूषकः--अत्ताणं त्ति भणाहि । ( चित्रफलकमादायोत्थाय च ) जइ भवं अन्तेउरकालकूडादो सुञ्चिअदि तदो मं मेहप्पडिच्छन्दे पासादे सद्दावेहि । ( इति द्रुतपदं निष्क्रान्तः ) [ आत्मानमिति भण। यदि भवानन्तःपुरकालकूटन्मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय ।

 सानुमती-अण्णसंकन्तहिअओ वि पढमसंभावणं अवेक्खदि सिढिलसोहदो दाणिं एसो [ अन्यसंक्रान्तहृदयोऽपि प्रथमसंभाव- नामपेक्षते शिशथिलसौहार्दे इदानीमेषः ]


मीति सबलात्कारं गृहीतः । दिष्टया त्वं मुक्ता । यावद्देव्या विटपलग्नमु- त्तरीयं तरालिका मोचयति तावन्मया निवाहेित आत्मा । पलायितास्मी- त्यर्थः । इमां प्रतिकृतं लिखितां शकुंतलप्रतिमाम् । आत्मानमिति भण । केवलं प्रतिकृतिरेव रक्षणीयेति न, अपि त्वात्मापि रक्षणीय इत्यर्थः । अत्रात्मशब्देन विदूषको राजा [ च ] उभयमपि गृह्यते । तेन प्रतिकृ- तिरक्षणेनोभावापे रक्षिताविति भावः । यदि भवानन्तःपुरकाळकूटान्मो- क्ष्यते तदा मां मेघप्रतिच्छन्दनामानि प्रासादे शब्दापय । आकारयेत्यर्थः। अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनामपेक्षते शिथिलसौहार्द इदानीमेषः ।


१ णिव्वासिदो (निर्वासितः ) इति क्व० पु० पाठः । २ कलहादोमुञ्चीअदि तदो कलहान्मुच्यते ततः ) इति क्व० पु० पाठः । ३ अदो असिथि लसोहदो ( अतोऽशिथिलसौहृदः) इति क्व० पु० पाठः ।

( प्रविश्य पत्रहस्ता )

 प्रतीहारी--जेदु जेदु देवो [ जयतु जयतु देवः ]

 राजा-वेत्रवति, न खल्वन्तरा दृष्टा त्वया देवी ।

 प्रतीहारी--अह इं । पत्तहत्थं मं देखिञ पडिणिउत्ता । [ अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ]

 राजा--कार्यज्ञा कार्योपरोधं मे परिहरति ।

 प्रतीहारी–देव, अमच्चो वेण्णवेदि । अत्थजादस्स गणणा- बहुलदाए एक्कं एव्व पोरकज्जं अवेक्खिदं तं देवो पत्तारूढं पञ्चक्खी करेदु त्ति । [ देव, अमात्यो विज्ञापयति । अर्थजातस्य गणना- बहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति]

 राजा—इतः पत्रिकां दर्शय ।

( प्रतीहार्युपनयाति )

 राजा-( अनुवाच्य ) कथम् । समुद्रव्यवहारी सार्थवाहो धन- मित्रो नाम नौव्यसने विपन्नः । अनपत्यश्च किल तपस्वी । राजगामी तस्यार्थसंचय इत्येतदमात्येन लिखितम् । कष्टं खल्वन- पत्यता । बहुधनत्वद्धहुपत्नीकेन तत्रभवता भवितव्यम् । विचा- र्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् ।


जयतु जयतु देवः । अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । देव, अभात्यो विज्ञापयति । अर्थजातस्य द्रव्यसमूहस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति । नौध्यसने पोतभ्रंशे ।


शब्दापय आह्वेयेत्यर्थः । मेघप्रतिच्छन्द इति तस्य प्रासादस्य नाम ।


१ अज्ज ( अद्य ) इत्यधिकं क्व० पु० । २ पच्चवेक्खिदं तं दाव ( प्रत्यवेक्षितं

तत्तावत् ) इति क्व० पु० पाठः । ३ दर्शयति इति क्व० पु० पाठः ।

४ नौध्यसनेन इति क्व० पु० पाठ: । ५ वेत्रवति महाधनत्वात् इति

क्व० पु० पाठः । ६ अपि तस्य भार्या इति क्व० पु० पाठः ।

 प्रतीहारी--देव, दाणिं एव्व साकेदअस्स सेट्विणो दुहिआ णिव्वुत्तपुंसवणा जाआ से सुणीअदि । [देव, इदानीमेव साके तस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायस्य श्रूयते ]

 राजा---ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ। एवममात्यं ब्रूहि ।

 प्रतीहारी-जं देवो आणवेदि । ( इति प्रस्थिता ) [ यद्देव आज्ञापयति ]

 राजा--एहि तावत् ।

 प्रतीहारी–इअह्मि ।[ इयमस्मि |

 राजा--किमनेन संततिरस्ति नास्तीति ।

  येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
  स स पापादृते तासां दुष्यन्त इति घुष्यनाम् ॥ २३ ॥


' व्यसनं विपदि भ्रंश ' इत्यमरः । विचार्यतामन्विष्यताम् । तस्य वाणिजो भार्यासु मध्ये काचिद्भर्यापन्नसत्वा गुर्विणी स्यात् । देव, इदानीमेव साकेतस्यायोध्यायाः ।' स्यात्साकेतोऽयोध्यायाम् ' इति हैमः। श्रेष्ठिनो दुहिता निवृत्तपुंसवना जाया भार्यास्य श्रूयते । पित्र्यं पितृसंबन्धि रिक्थं धनम् । ' रिक्थं धनं वसु ' इत्यमरः । यद्देव आज्ञापयतीति । इयमस्मि | यनेन । पापादृते । स्त्रीणां भर्तृवेन विनेत्यर्थः । छेकवृत्त्यनुप्रासौ ।


नन्विति। गर्भः गर्भस्थः पुत्रः । पित्र्यं पितुरागतम् । “ तुद्यश्च ” इति यप्रत्ययः । येनेत्यादि। प्रजाः जनाः न तु श्रेष्ठिभार्यैका । किंतु सर्वाः प्रजा इत्यर्थः । येन येन स्निग्धेन बन्धुना पितृभ्रातृपुत्रादिना वियुज्यंते जन्ममरणसुखदुःखदीनामनियतत्वात् कालवशाद्वियुक्ता भवंति । तासां वियुकानां प्रजानां दुष्यन्तः पापादृते पापं विना स स बन्धुः। यस्य पिता नास्ति तस्य पिता यस्य पुत्रो न विद्यते तस्य पुत्रः यस्य भ्राता नास्ति तस्य भ्रातेति घुष्यतां घोषणां क्रियताम् । पटहवाद्यपुरःसरं नगरे प्रकाश्यतामित्यर्थः । पापादृते इत्यनेन यस्याः पतिर्नास्ति तस्याः पतिर्न भवामीति भावः । पित्रादिनिर्वर्त्यानां पोषकत्वादीनामहमेव निर्वर्तक इत्यभिप्रायः ।


१ तस्सं जाआणां मज्झे साकेदसेतट्टिणो ( तस्य जायानां मध्ये साकेतश्रेष्ठिनः ) इति । क्व० पु० पाठः ।

 प्रतीहारी--एव्वं णाम घोसइदव्वं । ( निष्क्रम्य । पुनः प्रविश्य ) काले पवुट्टं विअ अहिणन्दिदं देवस्स सासणम् । [ एवं नाम घोषयितव्यम् । काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ]

 राजा–( दीर्घमुष्णं च निःश्वस्य ) एवं भोः संततिच्छेनिरवल- म्बानां कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति । ममा- प्यन्ते पुरुवंशश्रीरकाल इवोप्तबीजा भूरेवंवृत्ता ।

 प्रतीहारी-पडिहदं अमङ्गलम् ।[ प्रतिहतममङ्गलम् ]

 राजा-धिङ्मामुपस्थितश्रेयोवमानिनम् ।

 सानुमती--असंसअं सहिं एव्व हिअए करिअ णिन्दिदो णेन अप्पा । [ असंशयं सर्वमेव हृदये कृत्वा निन्दितोऽने नात्मा ]

 राजा--

  संरोपितेऽप्यात्मनि धर्मपत्नी
   त्यक्ता मया नाम कुलप्रतिष्ठा ।
  कल्पिष्यमाणा महते फलाय
   वसुंधरा काल इवोप्तबीजा ।। २४ ।।


एवं नाम घोषयितव्यम् । काले प्रवृष्टमिवापेक्षितसमये प्रवर्षणमिवाभिनदितं देवस्य शासनामिति । अकाल उप्तबीजा भूरिव ममाप्यन्ते पुरुवंशश्रीरे वंवृत्तेत्यन्वयः । प्रतिहतममङ्गळम् । उपस्थितं प्राप्तं श्रेयः सगर्भशकुंतला- रूपम् । असंशयं सखीमेव हृदये कृत्वा निन्दितोSनेनात्मा । संरोपित इति । नामेतेि संभावनायाम् । मया तादृशधार्मिकेण तादृशसावधानेन संरोपेितेऽप्यात्मनि पुत्रगर्भ उत्पादितेऽपि । 'आत्मा वै पुत्रनामासि ' इति श्रुतेः । कुलप्रतिष्ठा पुत्रप्रसूतत्वाद्धर्मपत्नी व्यक्तावधीरिता काले स्वसमय उप्तबीजा न्यस्तबीजात एव महते फळायु सस्याय कल्पिष्यमाणा


संरोपित इत्यादि । आत्मनेि खस्मिन्संरोपिते उप्ते सति यस्मादात्मैव पत्न्यां जायते तस्मादात्मनि संरोपित इत्युक्तम् । तथा श्रुतिः “ अंगादंगात्संभवति हृदयादधिजायते ।


१ अमच्चेण ( अमात्येन ) इत्यधिकं क्वo पु० । २ पुरुवंशश्रियोऽप्येष एव वृतांतः इति क्वo पु० पाठः ।

सानुमती-—अपरिच्छिण्णा दाणीं दे संददी भविस्सादि ।

[ अपरिच्छिन्नेदानीं ते संततिर्भविष्यति ]

चतुरिका--( जनांतिकम् ) अए, इमिणा सत्थवाहवुत्तन्तेण विउणुव्वेओ भट्टा। णं अस्सासिदुं मेहप्पडिच्छ्न्दादो अज्जं माढव्वंगोण्हिअ आअच्छामि । [ आयि, अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं मेघप्रतिच्छन्दादार्य माढव्यं गृही

त्वागच्छामि ]

प्रतीहारी-सुट्टु भणासि । ( इति निष्क्रांता ) [ सुष्ठु भणसि]
राजा-अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः ।

अस्मात्परं बत यथाश्रुति संभृतानि
को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं
धौताश्रुशोषमुदकं पितरः पिबन्ति ॥ २५ ॥

( इतेि मोहमुपगतः )


वसुंधरा यथोपेक्ष्यत इत्युपमा । काव्यलिङ्कं च । श्रुत्यनुप्रासः । अष्टम्यु पजातिरिन्द्रवज्रोपेन्द्रवज्रयोः । अपरिच्छन्नेदानीं ते संततिर्भविष्यति । अयि,इमिणा अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । णं एनमा- श्वासाथितुं मेघप्रतिच्छन्दनम्नः सकाशादार्य माढव्यं विदूषकं गृहीत्वाग- च्छामि। सुष्ठु भणसि । संशयमारूढाः पिण्डदाभावात् । पिण्डभाजः पितरः । अस्मादिति । वतेति खेदे । अस्मात्परं दुष्यन्तात्परं यथाश्रुति वेदानतिक्रमेण ये नोऽस्माकं कुले संभृतानि वहूपकरणयुक्तानि निवप- नानेि आद्धादीनि । ‘ पितृदानं निवापः स्यात्' इत्यमरः । को नियच्छति ददाति । दास्यतीत्यर्थः । ’ वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् ।


आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ " इति । कुलप्रतिष्टावंशप्रतिष्ठाकारण- भूता । अस्मादित्यादि । वत खेदे । धौतमश्रु येन तत्तथोक्तम् । अस्मादुदकाच्छेष- मवशिष्टम् । अत्र प्रस्तुतशृंगारविरुद्धशोकस्थायिकरुणस्यानुभूयमानत्वेऽपि विप्रलंभश्रृंगा-


१ विमणाअदि ( विमनयते ) इति क्व० पु० पाठः । तुमं गदुअ (त्वं गत्वा )
इत्यधिकं क्व० पु० । ३ आअच्छेहि ( आगच्छ ) इति क्व० पु० पाठः ।
४ करिष्यतीति इति क्व० पु० पाठः ।

 चतुरिका–( ससंभ्रममवलोक्य ) ममस्ससदु भट्टा । [ ममाश्व- सितु भर्ता ]

 सानुमती-~हद्धि हद्धि। सदि क्खु दीवे ववधाणदोसेण एसो अन्धआरदोसं अणुहोदि ।अहं दाणिं एव्वं णिव्वुदं करेमि । अहवा सुदं मए सउन्दलं समस्सासअन्तीए महेन्दजणणीए मुहादो जण्णभाओस्सुआ देवा एव्व तह अणुचिट्ठिस्सन्ति जह अइरेण धम्मपदिणिं भट्टा अहिणन्दिस्सदि त्ति । ता ण जुत्तं कालं


इतेि कारणान्नूनमुत्प्रेक्षे । प्रसूतिविकलेन पुत्ररहितेन मया प्रासिक्तं दत्तमु दकं धौतमश्रु येन तच्च तच्छेषं च तादृक्पितरः पिबन्ति । काव्यलिङ्गी- त्प्रेक्षानुप्रासाः । वसन्ततिलकं वृत्तम् । ' राजा--दीर्घमुष्णं च निःश्वस्य ' इत्यादिनैतदन्तेन छलने नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- ' आत्माव सादनं यत्तु छलनं तदुदाहृतम् ' इतेि । ' राजा--संरोपिते ' इत्यादिना 'मोहमुपगतः ' इत्यन्तेन मूर्छना नाम कामदशोक्ता । समाश्वसितु


रस्य स्मर्यमाणत्वेन न विरोधः । तथाहि स्थायिलक्षणं सजातीयविजातीयभावान्तरै रतिरस्कृतत्वेनोपनिबध्यमानो रत्यादिः स्थायी भवति । चथा बृहत्कथायां नरवादृनदत्तन्य मदनमंजुकायामनुरागस्तदवान्तरानुरागैरतिरस्कृतस्थायी यथा मालतीमाधर्वाये स्मशानाङ्के महामांसविक्रये बिभत्सेन मालत्यनुरागस्यातिरस्कृततया प्रस्तुतश्रृंगारपरिपोषणम् । अथवा यथा शृंगारबीभत्सयोर्विरोधस्तथा श्रृंगारकरुण्येर्न भवति । तथा हि चित्तस्य विकाससंभवयोः श्रृंगारहास्ययोर्वीस्तरप्रभवयोर्वीराद्भ्तयोः क्षोभोद्भुवोः रौद्रभयानकयोर्विक्षेपजन्ययोर्वीभत्सकरुणयोरनन्यं सुहृत्त्वम्। तथा श्रृंगारबीभत्सयोर्हास्य करुणयोर्वीरभयानकयोः रौद्राद्भुतयोवैरित्वं भवति । यथा रघुवंशे इंदुमतीविनाशादजस्य । यथा च कुमारसंभवे स्मरविनाशाद्रतेः । “ अयं सरशनोत्कर्षि ” इयादौ तु पूर्वानुगत श्रृंगारस्मरणेन श्रृंगारकरुणयोर्न विरोधः । भेजस्तु श्र्ंगारप्रकाशे परिवहगालिनमेकमेव श्रृंगाररसं प्रत्यपादयत् । " वट्यक्षवचः सदृशी हास्यादिषु हास्यमुन्नयन् रसताम् ॥ रममेकमह राजा श्रृंगारं रसिकभावश्रंगगतम् ॥ " वटे वटे यक्षस्तिष्टनीत्यनिप्रमाणानु- पेतत्वात् तथा तद्वचो हास्यं भवति । तद्वद्रास्यभयानकप्रभृतिषु रसप्रतिपादनं सहनीय- मेवेति प्रतिपादयन् भोजो रसिकजनभावश्र्ंगप्राप्तेरन्वर्थनामानं श्रृंगारमेकमेव रसं प्रत्य-


१ अवलंब्य इति क्व० पु० पाठः । २ समस्ससदु समस्ससटु ( ममाश्वसिनु समाश्व सितु ) इति क्व० पु० पाठः । विज्जंतम्मि वि ( विद्यमानेऽपि ) इतेि क्व० पु० पाठः । ४ णं ( एनं ) इत्यधिकं क्व० पु० । ५ पञ्जुस्सुआ ( पर्युन्मुकाः ) इति क्व० पु० पाठः ६ ताजुत्तं एदं ( तस्माद्युत्तामेनं ) इति क्व० पु० पाठः ।

पडिपालिदुं । जाव इमिणा वृत्तन्तेण पिअसहिं समस्तासेभि । ( इत्युद्भ्रान्तकेन निष्क्रान्ता ) [हा धिक् हा धिक्। सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अहमिदानीमेव नेिर्वृतं करोमि । अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेंन्द्रज- नन्या मुखद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । तन्न युक्तं कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वसंयामि ]

( नेपथ्ये )

अव्वह्मोण्णम् [ अब्रह्मण्यम् ]
राजा--( प्रत्यागतचेतनः । कर्णं दत्त्वा ) अये, माढव्यस्येवार्त-

स्वरः | कः कोऽत्र भोः ।


भर्ता | सतेि खलु दीपे व्यवधानं देशान्तरेणापवरकादिना च स एव दोषस्तेनान्धकारदोषं मोहलक्षणम् । अथ च तिमिरकृतं दोषं वस्त्वदर्श- नलक्षणम् । अनुभवति । सत्यामपि शकुन्तलायां तददर्शने प्रस्तुते साम्याद्दीपकस्याप्रस्तुतस्य वचनादप्रस्तुतप्रशंसा । अहमिदानीमेव निर्वृतं सुखितं करोमि । अथवेत्याक्षेपे । श्रुतं मया शकुन्तलां समाश्वासयन्या महेन्द्रजनन्या अदितेर्मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथा चिरेण धर्मपत्नीं शकुन्तलां भर्ताभिनन्दिष्यतीतेि । तन्न युक्तं कालं प्रतिपालयेतुम् विलम्बं कर्तुमित्यर्थः । यावनेन वृत्तान्तेन प्रियसखीं शकुन्तलां समाश्वासयामि । श्रुतमित्यादिना वक्ष्यमाणमातलिप्रवेशः सूचितः । अनेनादानं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु —‘बीजकार्येपग- मनमादानामिति संज्ञितम् ’ इति । भर्ता शकुन्तलामभिनन्दिष्यतीति बीजकार्योपगमनम् । उद्भ्रांतकेनेत्युछांतकनाम्नोत्प्लुतिकरणेन । तल्लक्षणं संगीतसुधानिधौ-- ' पूर्व दक्षिणमंघ्रिमुत्थापयित्वात्र (?) कुञ्चयेत् । वामं शीघ्रं भ्रमेद्वामावर्तमुद्भ्रांतकं विदुः ॥ देशीविदां तु केषांचिद्वाह्य- भ्रमरिका मता ॥’ इति । अब्रह्मण्यमवध्य: । ' अब्रह्मण्यमवध्योक्तौ '


ज्ञास्त । यस्तु प्रस्तावनामारभ्य भरतवाक्यावधि प्रवर्तते स प्रबन्धरसः । उद्भ्रान्तकेन इति ॥ उद्भ्रान्तकेन उद्भ्र्मणेन आकाशं प्रत्युद्गमनेनेति यावत् । अब्रह्मण्यमिति रक्षकं ।


१ अब्बह्मण्णं अब्बह्मण्णम् ( अब्रह्मव्यमब्रह्मण्यम् ) इति क्व० पु० पाठः।

( प्रविश्य )

प्रतीहारी-( ससंभ्रमम् ) परित्तोअदु देवो संसअगदं

वअस्सम् [ परित्रायतां देवः संशयगतं वयस्यम्]

राजा--केनात्तगन्धो माणवकः ।
प्रतीहारी-अदिष्टरूवेण केण वि सत्तेण अदिक्कमिअ

मेहृप्पडिच्छन्दस्स पासादस्स अग्गभूमिं आरोविदो [ अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रनिच्छन्दस्य प्रासादस्याग्रभूमिमा रोपितः ]

राजा--( उत्थाय तावत् । ममापि सत्वैरभिभूयन्ते)

गृहा: । अथवा ।

अहन्यहन्यात्मन एव ताव-
ज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रचाती-
त्यशेषतो वेदितुमस्ति शक्तिः ॥ २६ ॥

इत्यमरः ।माढव्यस्येव विदूषकस्येव | परित्रायतां देवः संशयगतं जीवनमरणसंशयं प्राप्तं वयस्यं विदूषकम् । अनेन भयनामकं संध्यंतराङ्गमुपक्षिप्तम् । तल्लक्षणं तु --~भयं त्वाकस्मिकस्त्रासः ’ इति । आत्तगंधोऽभिभूतः । ‘ आत्तगंधोऽभिभूतः स्यात्' इत्यमरः । माणवको विदूषकः । अदृष्टरूपेण केनचित्त्सत्वेन जंतुनातिक्रम्य मेघप्रतिच्छंदनाम्नः प्रासादस्याग्रभूमिमारोपितः । सत्त्वेनातिक्रम्येति यदुक्तं तन्निषेधे मा तावदिति भिन्नं वाक्यम् | ममाप्यतिधार्मिकस्य यथाशास्त्र प्रजापरिपालकस्य नानायज्ञादिकतुर्गृहाः सत्त्वैरभिभूयंत इति प्रश्नकाकुः । अथवेत्याक्षेपे । अहनीति । अहन्यहनि प्रतिदिनमात्मनः


प्रति वध्योऽहमित्यापन्नक्रोशः । " अब्रह्मण्यमवध्योक्तौ " इत्यमरः ममापीत्यनेनत्मनो निर्दोषता गम्यते । अथवेत्यादि । अहनीति । आत्मन एव स्वस्यैव प्रमादस्खलितं प्रमादेनानवधानतया प्राप्तं स्खलितं दुराचरणम् । तावत्खाकल्येन ज्ञातुं न


१ परित्ताअदु परित्ताअदु देवो जेणकेणअ कंठे गहीदं ( परित्रायतां परित्रायतां देवः येनकेनापि कंठे गृहीतं ) इति क्व• पु• पाठः । २ आप्तकंठः इति क्व० पु• पाठः । ३ देव इत्यधिकं क्व • पु } ¥ अक्कमिअ ( आक्रम्य ) इति क्व० पु० पाठः ।

( नेपथ्ये )

भो वअस्म, आवेह अविहा [ भो वयस्य, अविहा अविहा |
राजा--( गतिभेदेन परिक्रामन् ) सखे, न भेतव्यं न भेतव्यम् ।

(नेपथ्ये )

( पुनस्तदेव पठित्वा ) कहं ण भाइस्सं / एस मं को वि पंच

वणदसिरोहरं उच्छं विअ तेिर्णभद्रं करेदि [ कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनतशिरोधरमिभुमेिव त्रिभङ्गं करोति ]

राजा-( सदृष्टिक्षेपम् ) धनुस्तावत् ।

( प्रविश्य शाङ्गहस्ता )

यवनी-भट्टा, एदं हत्थावाबसहिदं सरासरौ [ मर्तः, एतद्ध

स्तावापसहितं शरासनम् ।

(राजा सशरं धनुरादत्ते )


प्रमादस्खलितमनवधानेन विपरीतकरणं ज्ञातुं तावदादौ न शक्यम् । एवकारव्यवच्छेद्यमाह-प्रजास्विति । प्रजासु मध्ये को जनः केन पथा प्रयतीत्यशेषतो वेदितुं ज्ञातुमात्मनः शक्तिर्नास्तीतेि संबंधः (१) ज्ञातुं वेदितुमिस्यर्थालंकारः। छेकवृत्यनुप्रासौ । त्रयोदश्युपजातिर्द्विोपेंद्रव ब्रयोः ! भो वयस्य, अविहेतेि खेदे निपातः । अविहाविहनिर्वेदे ? इत्युक्तेः । गतिभेदेन । क्रोषोद्धतगत्येत्यर्थः । कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनताशरोधरामिडमिव त्रिभङ्गं त्रिखण्डं करोति । एतद्ध


शक्यम् । प्रजासु जनेषु । तेन पंथा असता सता व मार्गेण कः प्रयाति संचरत अशे यतः साकल्येन वैदितुं ज्ञातुं शकिः सामथ्र्युम् । अविधेत्याक्रोशे । गतिभेदेन गत्यन्तरेण


१ अविध अविध इति क्वे० पु• पाठः । २ अलभवं ( अत्रभवन् ) इत्यधिकं क० पू० ३ पञ्चायणद ( पञ्चदवनत ) इति क० पु• पाठः । ४ तिक्ख ( तीक्ष्ण ) इति क० यु० पाठः ।

(नेपथ्ये )

एष त्वयभिनवकण्ठशोणितार्या
शहूँछः पशुमिव हृन्मि चेर्टमानम् ।
आतन भयमपनेतुमात्तधन्वा
दुष्यन्तस्तव शरणं भवविनीम् ॥ २७ ॥

राजा---( सरोषम् ) कथे ममैवोद्दिशति । निष्ट कुणपाशन,

स्त्वमिदानीं न भविष्यसि । ( शार्ड्समारोप्य ) वेत्रवति, सोपानमार्ग सादर्शय ।


स्तावापसहितं प्यघातवरणसहितं शरासनं धनुः । एष इति । अभिनवं नूतनं यत्कण्ठशोणितं तदर्थं शार्दूलो व्याघ्रः । ‘ शार्दूलद्वीपिनौ व्याने इत्यमरः । चेष्टमानमितस्ततो बळमानं पशुमिचैष स्वां हन्मि । अभिनये श्यादिविशेषणमेतदोऽपि योज्यम् । चेष्टमानमपि युध्दोऽपि (?) । अनेन वीभत्सरसो ध्वनितः । तल्लक्षणं तु --‘हृद्यानां तु पदार्थानां दर्श- नश्रवणादयः। स्वभावाद्धातुदोषादो वस्त्वत्यन्ताप्रियामकम् ? स्याद्वि. भावोऽथानुभावाछूत्कम्पो (?) गान्धूननम् । अथ संचारिणो मोहावे शापस्मारमृत्यवः ॥ व्याधिश्च यत्र बीभइसः स स्थायिन्या जुगुष्सया । शुद्धोऽभूद्धोऽत्यन्तशुद्धो बीभत्सस्तु त्रिधा मनः ॥ आद्यो रुधिराविष्ठा दिशुद्धाशुद्धभावौ ॥ ’ इतेि ! दृशरूपकेऽपि --‘रुधिरान्त्रीकसञ्च. सास्नाय्वादािभेः क्षोभणः ? इति द्वितीये बीभत्सभेदः ? आर्तानां पीडैि- तानां भयमपनेतुं दूरीकर्तुमातधन्वा । गृहीतचाप इति स्वाभाविकं क्रोधा वेगसूचनम् । उपमावृत्तिश्रुत्यनुप्रासाः । प्रहर्षिणीवृत्तम् । अनेनौजो नाम संध्यन्तराङ्गमुपाक्षिप्तम् । तल्लक्षणं तु--‘ओजस्तु वागुपन्यासो नेिज शक्तिप्रकाशुकःइति । तदभिप्रायेण राजा सरोषमिति । कुणपाशन


वरितगमनेनेत्यर्थः । छेम्सवापो नाम ज्याघातवारणमुच्यते । एष इत्यादि । शार्दूलो व्याघ्रः श्रेष्टमानं कुर्युतम् । आर्तानो दीनानाम् । शरणं भवतु रक्षक भवतु । दुष्यन्त इति नामग्रहणमक्षेपे । नेपथ्य इत्यादिनैतदन्तेन विद्रवो नाम गर्भसन्ध्यंगभुक्तम् । तदुक्तं << वधयोगो विद्वः स्याद्वधसंताडनादिभिः ” इति । अत्र वधबंधनावुश्चोगा विंद्रवः । कथमित्यादि । मामित्यनेन स्वस्य २४रता व्यज्यते । इदानीं मया शरासने चुदते सति ।


१ वेष्टम नं इति क० पु० पटः । २ निर्दिशति । तिष्ठ तिष्ठ

कोणपापसद इति ई० पू० पाठः ३

प्रतीहारी-इदं इदो देवो । [ इत इतो देवः ]
( सर्वे सत्वरमुपसर्पन्ति )
राजा--( सभन्ताद्विलोक्य ) शून्यं खल्विदम् ।

( नेपथ्ये )

आविश । अविहा । अहं अत्तभवन्तं पेक्खामि । तुमं में ण

पेक्खासि । विडायलग्गहीदो सूस ओ विअ णिरासो हि विदे संवुत्तो । [ अविह अविहा । अहमत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । विडालीत मूषिक इव निराशोऽस्मि जीविते संवृत्तः]

राजा–भोस्तिरस्करिणीगर्वित, मदीयं शंखं त्वां द्रक्ष्यति

एवं तमिखं संदधे ।

यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षतं च द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ २८ ॥

(इत्यत्रं संधत्ते )


राक्षस ! शजा--सरोषम् ’ इत्यादेनैतदन्तेन “ क्रोधो नाम ? संध्यन्त राङ्गमुपक्षिप्तम् । तल्लक्षणं तु--‘क्रोधस्तु चेतसो दीप्तिरपराधादिदर्श नात् ? इति । इत इतो देवः । अविहा खेदे । अहमत्रभवन्तं पूज्यं राजानं पश्यामि । स्वं मां न पश्यास 1 बिडालगृहीतो मार्जारगृहीतो मूषिक इव निराशोऽस्मि जीविते संवृत्तः । अनेनोपमानेन स्थागेऽधि जीविताभावः सूचितः । तिरस्करिणोविश्च तया गर्वित, यद्यहं न पश्यामि तथापि मदीयं शस्त्रं त्वां द्रक्ष्यति । एष इत्यस्य श्लोकेना न्धयः । य इति । यः शूरो वध्यं घां हनिष्यति प्रहरिष्यति द्विजं विदू- षकं रक्ष्यं रक्षति राक्षिष्यति । तमिषं संदध इति संबन्धः । एकस्योभय कारित्वे दृष्टान्तमाह--हंस इति । अत्रोपमेय उभयस्यादृष्टत्वेन रूपेणै क्यं विवक्षितम् । “ राजा--भोः ’ इत्यादिनैतदन्तेन व्यवसायो नामाङ्ग सुपक्षिप्तम् । तद्युक्षणं दशरूपकै-‘व्यवसायः स्वशक्त्युक्तेः ’ इति । भोस्तिरस्कारिणीत्यादिना तन्मिश्रा वर्जयन्यप इत्यन्तेन दुष्यन्तेन स्वशकिकथमाद्य- चसाय इति सन्ध्यंगमुक्तम् । तदुकं ‘‘ व्यवसायः खशक्युक्तिः ’ इति । य इति ।


१ ( अविध अबिध) इति के० पु~ पाठः२ अत्रं इति कo पु० पाठः

३ अहं इत्यथैकं ब्र० ए०

( ततः प्रविशति वैिदूषकमुत्सृज्य मातादिः)

मातलिः--राजन् !

कृताः शरव्यं हरिणा तवासुराः शरासने तेषु विकृष्यतामिदम् । प्रसदसौम्यानेि सतां सुहृज्जने पतन्ति चक्षुपि न दारुणाः शूराः२९

राजा-( अन्नमुपसंहरन् ) अचे, मतलिः । स्वागतं महेन्द्रसारथे।

राज्ञा स्वशक्तेरावष्करणात् । नेपथ्ये’ इत्यादिनैतदन्तेन रौद्रो रसैः ध्वनितः । तल्लक्षणं तु--हन्तृप्रकृतयो रक्षोदैयाद्यन्यायकारिणः । जिघां साश्वश्च यत्र स्युर्विभावाः परिकीर्तिताः ॥ भकुटरक्तनेत्रत्वं कपोलस्ट् रणं तथा | दन्तोष्ठपीडनं हस्तानेऽपेषोऽथान्यविग्रहे ॥ तलायैस्ताडनं छेदो मर्दः पाटनमोटने । शस्त्राणां ग्रहणं घातः प्रहारो रुधिरस्रुतिः ॥ एतेऽनुभावा बोधावमर्षावगौ च चापलम् । वेदवेपथुरोमाञ्चगद्रदस्वरः तादयः । भाषाः संचारिंणः स्थायी कृधो रौद्रौऽभ्यधायि सः ॥ ? इति | कुत इति । हरिणेन्द्रेणासुरा दैत्यास्तष शरव्यं लक्ष्यं कृताः । रुझ साक्ष्यं शरव्यं च ’ इत्यमरः । अत इदं शरासनं तेषु विकृध्यताम् । तदर्थमहमागतोऽस्मीते चतम् । सूक्ष्मकाव्यलिङ्क च ! सुहृज्जने सतां प्रसादेन सौम्यान्यनुग्रहाणि च—ये पतन्ति न दारुण मर्मभेदिनः शराः। तेन धनुराकर्षणमात्रं , अपि तु तेषु नशरपातोऽपि कर्तव्य इति भावः । अत्र तव मयते विशेषे वक्तव्ये सतां सज्जन इति सामान्योक्तेरप्रस्तुतप्रशंसा । तादृशचक्षुषा सतां सुइजनसंबन्धप्रतीतेः समातृकारो व्यङ्ग्यः न दारुणा इति व्यतिरेकः। वृत्त्यनुप्रासः | वंशस्थं वृत्तम् । अखं बाणम् । अये इत्याश्चर्यं । मातलेर्महत्त्वमिन्द्रसारथित्वे


द्विजं विदूषकम् । तन्मिश्राः तदैकभूताः ततः प्रविशतीयादि । मातलिर्नामेंद्रसारथिः । कुता इति । हरिणा देबेन्द्रेण । तव । अमानुषप्रभावस्य तवेति यावत् । असुराः । विवधमायागार्थता देवशत्रवः । शरव्यः लक्ष्याः । अत्र देवेन्द्रधिज्ञमातलिः समागमैन परिवर्तक नाम सात्वतीत्यंगमुक्तं भवति । तदुक्तं १८ त्यक्त्वा प्रकृत- मन्यस्य करणं पारंवर्तके ” इति । अत्र प्रकृतं परित्यज्यान्यस्य करणेsपि तदन्यकार्ये यथा प्रकृत एव पर्यवस्यति । तथा कर्तव्यम् । अन्यथा प्रबन्धवस्तुविच्छेदप्रसंगात् ।


१ शरच्या इति क. पु० पाठः । २ मातले इति कo पु० पाठः ।

( प्रविश्य )

विदूषकः--अहैं जेण इष्टिपसुमारं मारिदो स इमिणा साअदेण

अहिणन्दीअदि [ अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेना भिनन्द्यते ]

मातलिः-( सस्मितम् ) आयुष्प, धूयतां यदस्मि रणा

भवत्सकाशं प्रेषितः ।

राजा-अवहितोऽस्मि ।
मातालिः-अस्ति कालनेमिप्रसूतिदुर्जेय नाम नवगणः ।
राजा---अस्ति । श्रुतपूर्व मया नारदात् ।
मातालः

 सख्युस्ते स किल शतक्रतांरजय्य
स्तस्य त्वं रणशिरसि स्मृतो निहन्ता।
उच्छेत्तुं प्रभवति यन्न सप्तसप्ति-
स्तनैशं तिमिरमपकरोति चन्द्रः ॥ ३० ॥
स्थूलाक्षरैः युक्तः भागः


नैवेति महेन्द्रसारथे इत्युक्तिः अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनन्द्यते । अस्मीत्यहमर्थं निपातः । हरिणेन्द्रेण । अवहितो ऽस्मि सावधानोऽस्मि । ८ राजा--अस्ति ’ इति पूर्वस्योत्तररूपं भिन्नं वाक्यम् | सख्युरिति । किलेति प्रसिद्धौ । ते तव सख्युर्मित्रस्य । अनेन जन्मप्रभृतेि तेन सह मैयाभिनियोगत्वेनेदं मन्तव्यमिति भावः । शतक तोरिन्द्रस्यजथ्यः । प्रयत्नसहत्रैरापि जेतुमशक्य इत्यर्थः । क्षयजय्य शक्याथै १ इति निपातः । रणशिरसि संग्रामाग्रे तस्य दानवमणस्य त्वं निहंताः स्मृतः । सप्तसप्तिः सूर्यो यज्ञेशं भिशासंबन्धि तिमिरमुच्छेतुं नाशायेतुं न प्रभवति समर्थो न भवति चंद्रस्तदपाकरोति । दृष्टांतः ।


यथा प्रकृते शकुन्तलाविषयविरहाकुलस्य राज्ञो मातलिसमागमस्तेन सह नागमनं तस्मात् । प्रतिनिवर्तनसमये मारीचाश्रमे शकुन्तलादर्शनम् । जेणेत्यादि । अनेन राझा । इष्टिपशुमारं मारित इत्यत्र उपमाने कर्मणि वेति णमुलकषादित्वाद्यथाविध्यनु प्रयोगः । सख्युरात। सः दुर्जयो दानवगणः । किलेति प्रसिद्धौ । सप्तसप्तिः सूर्यः ।


१ श्रुतपूर्वः शेते क० पु• पाठः ।

स भवनातशत्र एव इदंनीं तमैन्द्ररथमारुह्य विजयाय ।

प्रतिष्ठताम् ।

राजा-अनुगृहीतोऽहमनया मघवतः संभावनया । अथ माढ्ठ्यं

प्रति भवता किमेवं प्रयुक्तम् ।

मातलिः--तदपि कथ्यते । किंचिन्निमित्तादृषि मनःसंतापाद्

युष्मान्मया विक्लवो दृष्टः । पश्चात्कोपचिनुमायुष्मन्तं तथा कृतवान् नम । कुतः ।

ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रयः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः ॥ ३१ ॥
राजा- -( जनान्तिकम् ) वयस्य, अनतिक्रमणीया दिवस्पतेर-

ज्ञा। तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।

त्वन्मतेः क्वळ तावत्परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यवृतं धनुः ॥ ३२ ॥ इति ।


स्तसस्तस्येति सप्तसप्तति छेकवृत्त्यप्रासाः ? प्रहर्षिणी वृत्तम् । अत्रानेन स्वस्वामिनः सूर्योपमानत्वेन तेजस्विचं वदता तदशक्यकरत्वेनास्थ चंद्र पमानत्वं वदतोभयत्रौचित्यं ध्वनितम् । ज्वलति । चलितं चलनं प्राप्त मिन्धनं यस्य सोऽग्निर्दलति । विप्रकृतः कोपितः पन्नगः सर्पः फणां फटामूवै कुरुत इत्यर्थः । ‘ फटायां तु फण द्वयोः' इत्यमरः । हि निश्चितं जनः सर्वो लोकः क्षभाच्चित्तीयत्वं भहिमानमात्मप्रभाव प्रया बाहुल्येन प्रतिपद्यते । मालादृष्टांतालंकारः । भवानिति विशेषे प्रस्तुते जन इति सामान्योक्तेरप्रस्तुतप्रशंसा । लतिलिते इति प्राप्नोति छेकवृत्यनुप्रासैौ । तत्तस्मादत्र विषये ममेन्द्राज्ञया तत्र गमनरूपेण परि गतार्थं ज्ञातार्थं कृत्वा । पिशुन इतेि मन्त्रिनाम । स्वमाप्तिरिति ।


ज्वलतीत्यादि । हि यतो हेतोः विकृतः विकारितः । महिमानं प्रभावम् । त्वन्मातेरित्यादि। केवला प्रजापालनैकतत्परा । प्रजास्तावत्पालयतु यावन्मदा


१ इमं इति क्र० पु० पाठः १२ युक्तमिदमनुष्टितं भवद्भिः इत्यधिकं के० पू० ।

३ यातं इति ऊ९ • पाठः ।

विदूषकः-जं भवं आणवेदोि। ( इत निष्क्रान्तः ) [ यद्भवान्

नाज्ञापयति |

मातलिः- आयुष्मान्रथमारोहतु ।

(राजा रथावुरोहणं नाट्यतेि )

( इति निष्क्रांताः सर्वे )

इत षष्ठाऽङ्करे


इतेि चूहीति संबंधः । पूर्व प्रजापरिपालन उभयमपि व्यापृतमासीत् । अधुना ते मतिरेवेतेि केवलेयुक्तम् । अनेनोभयायत्तसिद्धित्वमात्मनः सचितम् । द्वितीयस्यान्यत्र विनियोगमाह--अधीति । अन्यस्मिन्कर्मणि दानवमारणे । एतेन लोकद्वयरक्षकत्वमस्य ध्वनितम् । अधिज्यमित्यनेः नैतत्समयमारभ्य दानवमारणपर्यन्तं ब्यानुत्तारणं ध्वनितम् । यद्भाधाना ज्ञापयाति । रथाधिरोहणं नाव्यतत्पूर्वजानुचार्या । तत्क्षणं तु संगीतरः रत्नाकरे--'कुञ्चितोत्क्षिप्तपादस्याजानुस्तनसमं (? ) यदा । न्यस्य स्तद्धि (?) कृतोऽन्योऽत्रिरूवैजानुस्तदा भवेत् ॥ ' इति ॥

इति श्रीमदभिज्ञानशाकुन्तलटीकायामर्थद्योतनिकायां

षष्ठोऽङ्कः समाप्तः


गमनं तावदित्यर्थः । तेन च पुनरागमने बिन्दुरुकः । अधिज्यमारोपितगुणकम् ॥ इनि भ्रमणवेंकटाचलेश्वरपादारविंदपूजकवैखानसकुलतिलककौशिकगोत्रश्रीवेंकटभz इतिगोत्रक्रमागतभष्टबिरुदीतिरुमलाचार्यपुत्रेण श्रीनिवासाचार्येण विरचिता-

यामभिज्ञानशाकुन्तळव्याख्यायां षष्ठोऽङ्कः ।


१ ईत इत आयुष्मन् इतेि क्व० पु० पाठः।

  1. जुज्जइ जुज्जइ ( युज्यते युज्यते ) इति क्व० पु० पाठः ।
  2. प्रविष्टः इति क्व०पु० पाठः ।
  3. विदूषकः-एदु एदु भवं ( एतु एतु भवान् ) इत्यधिकं क्व० पु० ।
  4. तथाहि इत्यधिकं क्व० पु० ।
  5. तथाहि इति नास्ति क्व० पु० ।
  6. श्वासापरक्ताधरः इति क्व० पु० पाठः
  7. संलक्ष्यते इति क्व० पु० पाठः ।
  8. दाणिं ( इदानीं ) इत्याधिकं क्व० पु० ।
  9. सिसिरे ( शिशिरे ) इति क्व० पु० पाठः ।
  10. सुहं ( सुखं ) इत्यधिकं क्व० पु° ।
  11. ( निश्वस्य ) इत्वधिकं क्व० पु० ।
  12. णासेमि ( नाशयामि ) इति क्व० पु० पाठः
  13. सण्णिाहिदा ( सन्निहिता ) इति क्व० पु० पाठः ।
  14. सुकथासु इत्यधिकं क्व० पु०
  15. किम् इति क्व० पु० पाठः ।
  16. अपि इत्यधिकं क्व० पु० ।