सामग्री पर जाएँ

अभिज्ञानशाकुन्तलम्/षष्ठोऽङ्कः

विकिस्रोतः तः
← पञ्चमोऽङ्कः अभिज्ञानशाकुन्तलम्
षष्ठोऽङ्कः
कालिदासः
सप्तमोऽङ्कः →

(ततः प्रविशति नागरिकः श्यालः, पश्चाद्बध्दं पुरुषमादायरक्षिणैच )
रक्षिणौ-(पुरुषं ताडयित्वा)अरे कुम्भीरक, कथय कुत्र त्वया
एतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ।
पुरुषः- (भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी ।
प्रथमः- किं शोभनो ब्राह्मण इति कृत्वा राज्ञा प्रतिग्रहो दत्तः ?
पुरुषः- श्रृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः ।
द्वितीयः - पाटच्चर, किमस्माभिर्जातिः पृष्टा ?
श्यालः- सूचक, कथयतु सर्वमनुक्रमेण । मौनमन्तरा प्रतिबध्नीतम् ।
उभौ- यदावुत्त आज्ञापयति कथय ।
पुरुषः- अहं जालोङ्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ।
श्यालः- (विहस्य) विशुध्द इदानीमाजीवः ।
पुरुषः- भर्तः, मा एवं भण ।
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥१॥
श्यालः- ततस्ततः ?
पुरुषः- एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः ।
यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् ।
पश्चात् अहमस्य विक्रयाय दर्शयन् गृहीतो भावमिश्रैः । मारयत
वा मुञ्चत वा । अयमस्यागमवृत्तान्तः ।
श्यालः- जानुक, विस्रगन्धी गोधादी मत्स्यबन्ध एव निः संशयम् ।
अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।
रक्षिणौ- तथा । गच्छ, अरे ग्रन्थिभेदक ।
श्यालः- सूचक, इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदम् अङ्गुलीयकं
यथागमनं भर्ते निवेद्य ततः शासनं प्रतीक्ष्य निष्र्कामामि ।
उभौ- प्रविशत्वावुत्तः स्वामिप्रसादाय ।(निष्क्रान्तः श्यालः)
प्रथमः- जानुक, विरायते खल्वावुत्तः ।
द्वितीयः- नन्ववसरोपसर्पणीया राजानः !
प्रथमः- जानुक, स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनध्दुम् ।
(इति पुरुषं निर्दिशति)
पुरुषः- नार्हति भावोऽकारणमारणो भवितुम् ।
द्वितीयः- (विलोक्य) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतिष्येतोमुखो
दृश्यते । गृध्र बलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यसि ।
(प्रविश्य) श्यालः- सूचक, मुच्यतामेव जलोपजीवी । उपपन्नः खल्वस्याङ्गुली-
यस्यागमः ।
सूचकः- यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः ! (इति
पुरुषं परिमुक्तबन्धनं करोति )
पुरुषः- (श्यालं प्रणम्य) भर्तः, त्वदीयं मे जीवितम् ।
श्यालः- एष भर्ताङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः ( इति पुरुषाय
स्वं प्रयच्छति )
पुरुषः- (सप्रणामं प्रतिगृह्य भर्तः अनुगृहितोऽस्मि ।
सूचकः- एषः नामानुग्रह । यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।
जानुकः- आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः सम्मतेन
भवितव्यमिति ।
श्यालः- न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन
भर्त्राऽभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन
आसीत् ।
सूचकः- सेवितं नामावुत्तेन !
जानुकः- ननु भण । अस्य कृते मात्स्यिकमर्तुरिति ।
(इति पुरुषमसूयया पश्यति)
पुरुषः- भट्टारक, इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
जानुकः- एतावद्युज्यते ।
श्यालः- धीवर, महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरी-
साक्षिकमस्माकं प्रथमसोहृदम् इष्यते । तच्छौण्डिकापणमेव
गच्छामः । (इति निष्क्रान्तास्सर्वे)
प्रवेशकः
(ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः)
सानुमती- निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसान्निध्यं यावत्साधुजन-
स्याभिषेककाल इति साम्प्रतमस्य राजर्षेरुदन्तं प्रक्षीकरिष्यामि ।
मेनकासम्बन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्त-
मादिष्टपूर्वास्मि । (समन्तादवलोक्य) किं नु खलु ऋतूत्सवे
अपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः
प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया
मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणी-
प्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । (इति नाट्येनावतीर्य स्थिता)
(ततः प्रविशति चूताङ्गुरमवलोकयन्ती चेटी, अपरा च प्रुष्ठतस्तस्याः)
प्रथमा-
आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य ।
दष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥२॥
द्वितीय- परभृतिके, किमेकाकिनी मन्त्रयसे ?
प्रथमा- मधुकरिके, चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति ।
द्वितीया- (सहर्षं त्वरयोपगम्य) कथमुपस्थितो मधुमासः !
प्रथमा- मधुकरिके, तवेदानीं काल एष मदविभ्रमगीतानाम् ।
द्वितीया- सखिं, अवलम्बस्य मां यावदग्रपादस्थिता भूत्वा चूतकलिकां
गृहीत्वा कामदेवार्चनं करोमि ।
प्रथमा- यदि ममापि खल्वर्धमर्चनफलस्य ।
द्वितीया- अकथितोऽप्येतत् संपद्यते यत एकमेव नौ जीवितं ध्दिधा स्थितं
शरीरम् । (सखीमवलम्ब्य स्थिता चूताङ्कुरं गृहणाति । अये,
अप्रतिबुध्दोऽपि चूतप्रसवोऽत्र बन्धभङ्गसुरभिर्भवति ! (इति
कपोतहस्तकं कृत्वा)
त्वमसि मया चूताङ्कुर दत्त कामाय गृहीतधनुषे
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिक शरो भव ॥३॥
(इति चूताङ्कुरं क्षिपति । ततः प्रविशत्यपटीक्षेपेण कुपितः क::ञ्चुकिः)
कञ्चुकी – मा तावदनात्मज्ञे । देवेन प्रतिषिध्दे वसंतोत्सवे त्वमाम्रकलिकाभङ्गं
किमारभसे ?
उभे- (भीते) प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ।
कञ्चुकी – न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं
प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि, -
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
सन्नध्दं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानांरुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टंशरम् ॥४॥
सानुमती- नास्ति सन्देहः । महाप्रभावो राजर्षिः !
प्रथमा- आर्य, कति दिवसन्यावयोमित्रावसुना राष्ट्रियेण भर्तुः पादमूलात्
प्रेषितयोः । इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् ।
तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेव वृत्तान्तः ।
कञ्चुकी – भवतु । न पुनरेवं प्रवर्तितव्यम् ।
उभे- आर्य, कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं, कथयत्वार्यः
किन्निमित्तं भर्ता वसन्तोत्सवः प्रतिषिध्दः ।
सानुमती – उत्सवप्रियाः खलु मनुष्याः ! गुरुणा कारणेन भवितव्यम् ।
कञ्चुकी – (स्वगतम्) बहुलीभूतमतत्किं न कथ्यते ?
(प्रकाशं) किमत्रभवत्योः कर्णपथं नायातं शकुन्तला प्रत्यादेशकौलीनम् ?
उभे - श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् ।
कञ्चुकी- तेन ह्यल्पं कथयितव्यम् । यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं
देवेन “सत्यमूढपर्वा मे तत्र भवती रहसि शकुन्तला मोहात्
प्रत्यादिष्टा” इति, तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा
हि-
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः
दाक्षिण्येन ददाति वाचमुचितामन्तः पुरेभ्यो यदा
गोत्रेषु स्खलितास्तदा भवति च व्रीडाविलक्षश्चिरम् ॥५॥
सानुमती- प्रियं मे
कञ्चुकी- अस्मात् प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
उभे- युज्यते ।
(नेपथ्ये) एतु एतु भवान् ।
कञ्चुकी- (कर्णं दत्वा) अये, इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् ।
उभे- तथा (इति निष्क्रान्ते)
 ::::(ततः प्रविशति पश्चात्तापसदृशवेषो राजा, विदूषकः, प्रतिहारी च )
कञ्चुकी- (राजानमवलोक्य) अहो सर्वास्ववस्थासु रमणीयत्वम्
आकृतिविशेषाणाम् ! एवमुत्सुकोऽपि प्रियदर्शनो देवः । तथा
हि, -
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरण प्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥६॥
सानुमती- (राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेशविमानितापि अस्य कृते
शकुन्तला क्लाम्यति ।
राजा- (ध्यानमन्दं परिक्रम्य)
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हृतहृदयं संप्रति विबुध्दम् ॥७॥
सानुमती- ननु ईदृशानि तपस्विन्या भागधेयानि !
विदूषकः- (स्वगतम्) लङ्घित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने
कथं चिकित्सितव्यो भविष्यतीति !
कञ्चुकी- (उपगम्य) जयतु जयतु देवः । महाराज, प्रत्यवेक्षिताः
प्रमदवनभूमयः । यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।
राजा- वेत्रवति, मद्वचनादमात्यमार्यपिशुनं ब्रूहि, -चिरप्रबोधान्न
संभावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं
पौरकार्यमार्येण तत्पत्रमारोप्य दीयतां इति ।
प्रतीहारी- यद्देव आज्ञापयति । (निष्क्रान्ताः)
राजा- वातायन, त्वमपि स्वं नियोगमशून्यं कुरु ।
कञ्चुकी – यदाज्ञापयति देवः । (इति निष्क्रान्तः)
विदूषकः – कृतं भवता निर्मक्षिकम् । साम्प्रतं शिशिरातपच्छेद-
रमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।
राजा- वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तदव्यभिचारि वचः ।
कुतः –
मुनिसुता प्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥८॥
विदूषकः- तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयिष्यामि ।
(इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति )
राजा- (सस्मितम्) भवतु । दृष्टं बह्मवर्चसम् । सखे, कोपविष्टः प्रियायाः
किञ्चिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ?
विदूषकः- नन्वासन्नपरिचारिका चतुरिका भवता सन्दिष्टा –
“माधवीमण्डप इमां वैलामतिवाहयिष्ये । तत्र मे चित्रफलकगतं
स्वहस्तलिखिता तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानय” इति ।
राजा- ईदृशं हृदयविनोदनस्थानम् ! तत्वमेव मार्गमादेशय ।
विदूषकः – इत इतो भवान् ।
 ::(उभौ परिक्रामतः । सानुमत्यनुगच्छति ।)
विदूषकः- एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया
निःसंशयं स्वागतेनैव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् ।
(उभौ प्रवेश कृत्वोपविष्टौ )
सानुमती- लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततस्तस्यै
भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।
(इति तथा कृत्वा स्थिता)
राजा- सखे, सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम्
कथितवानस्मि भवते च । स भवान् प्रत्यादेशवेलायां मत्समीपगतो
नासीत् । पूर्वमपि न त्वया कदाचित् सङ्कीर्तितं तत्रभवत्या नाम ।
कञ्चित् अहमपि विस्मृतवानसि त्वम् ?
विदूषकः – न विस्मरामि । किं तु सर्वंकथयित्वावसाने पुनस्त्वया
“परिहासविजल्प एष न भूतार्थः “इत्याख्यातम् । मयापि
मृत्पिण्डबुध्दिना तथैव गृहीतम् । अथवा भवितव्यानि खलु
बलवती !
सानुमती- एवं न्विदम् ।
राजा- (ध्यात्वा) सखे, त्रायस्व, माम् ।
विदूषकः- भोः किमेतत् ? अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः
शोकावास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ।
राजा- वयस्य, निराकरण विक्लवायाः प्रियायाः समवस्थामनुस्मृत्य
बलवदशरणोऽस्मि । सा हि,
इतः प्रत्यादेशात्स्वजनमनुगन्तुं, व्यवसिता
स्थिता तिष्ठेत्युच्चेर्वदति गुरुशिष्ये गुरु समे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥९॥
सानुमति – अहो ईदृशो स्वकार्यपरता ! अस्य सन्तापेनाहं रमे ।
विदूषकः- अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा नीतेति ।
राजा- कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत ? मेनका किल सख्यास्ते
जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे
हृदयमाशङ्कते ।
सानुमती – सम्मोहः खलु विस्मयनीयो न प्रतिबोधः ।
विदूषकः- यद्येवम्, अस्ति खलु समागमः कालेन तत्रभवत्या ।
राजा- कथमिव ?
विदूषकः- न खलु मातापितरौ भर्तुवियोगदुःखितां दुहितरं चिरं द्र्ष्टुं पारयतः ।
राजा- वयस्य, -
स्वप्नो नु मया नु मतिभ्रमो नु
क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेते
मनोरथा नाम तटप्रपाताः ॥१०॥
विदूषकः- मैवम् । नत्वङ्गुलीयकमेव निदर्शनमवश्यंभाव्यचिन्तनीयः समागमौ
भवतीति ।
राजा- (अङ्गुलीयकं विलोक्य) अये, इदं तावदसुलभस्थाभ्रंशि
शोचनीयम् !
तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेना ।
अरुण नखमनोहरासु तस्याश्च्युतमसि लब्दपदं यदङ्गुलीषु ॥
सानुमती- यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।
विदूषकः – भोः, इयं नाममुद्रा केनोध्दातेन तत्रभवत्या हस्ताभ्यासं प्रापिता ?
सानुमती – ममापि कौतूहलेनाकारिता एषः ।
राजा- श्रूयतां । तपोवनात्स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह –
“कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यति?” इति ।
विदूषकः- ततस्ततः
राजा- पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता ।
एकैकमत्र दिवसे दिवसे मदीयं
नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत्प्रिये मदवरोधगृहप्रवेशं
नेता जनस्तव समीपमुपैष्यतीति ॥१२॥
तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।
सानुमती – रमणीयः खल्ववधिर्विधिना विसंवादितः ।
विदूषकः- अथ कथं धीवरकल्पितस्य रोहितमत्स्योदराभ्यन्तरे आसीत् ?
राजा- शचितीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्त्रोतसि परिभ्रष्टम् ।
विदूषकः – युज्यते ।
सानुमती- अत एव तपस्विन्या शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये
सन्देहः आसीत् । अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते;-
कथमिवैतत् ?
राजा- उपलप्स्ये तावदिदमङ्गुलीयकम् ।
विदूषकः- (आत्मगतम्) गृहीतोऽनेन पन्था उन्मत्तानाम् ।
राजा-
कथ नु तं बन्धुरकोमलाङ्गुलिं
करं विहायासि निमग्नमम्भसि ?
अचेतनं नाम गुणं न लक्षयेत्
मयैव कस्मादवधीरिता प्रिया ॥१३॥
विदूषकः- (आत्मगतम्) कथं बुभुक्षया खादितव्योऽस्मि !
राजा- प्रिये, अकारणापरित्यागानुशयतप्तहृदयस्तावदनुकतामयं जनः
पुनर्दर्शनेन ।
(ततः प्रविशत्ययटीक्षेपेण चित्रफलकहस्ता चतुरिका)
चतुरिका- इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति)
विदूषकः – (विलोक्य) साधु, वयस्य मधुरावस्थानदर्शनीयो भवानुप्रवेशः
स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु ।
सानुमती- अहो राजर्षिपुणता ! जाने सख्यग्रतो मे वर्तते इति ।
राजा- यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम् ॥१४॥
सानुमती- सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।
विदूषकः – भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः
कतमाऽत्र तत्र भवती शकुन्तला ?
सानुमती – अनभिज्ञः खल्वीदृशस्य रुपस्य मोघदृष्टिरयं जनः ।
राजा- त्वं तावत्कतमां तर्कयसि ?
विदूषकः – तर्कयामि यैषा शिथिलबन्धनोद्वान्त कुसुमेन केशान्ते-
नोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामव-
सेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्ते-
वालिखिता, सा शकुन्तलाः इतरे सरव्याविति ।
राजा- निपुणो भवान् । अस्त्यत्र मे भावचिन्हम् ।
खिन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात् ॥१५॥
चतुरिके, अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय ।
चतुरिका- आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि ।
राजा- अहमेवैतदवलम्बे । (यथोक्तं करोति निष्क्रान्ता चैव)
राजा- (निःश्वस्य)
साक्षात्प्रियामुपगतामपहाय पूर्वं
चित्रार्पितामहमिमां बहुमन्यमानः ।
स्त्रोतोवहां पयि निकामजलामतीत्य
जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥१६॥
विदूषकः – (आत्मगतम्) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः ।
(प्रकाशम्) भोः । अपरं किमत्र लिखितव्यम् ?
सानुमती – यो यः प्रदेशः सख्याः मेऽभिरुपस्तं तमालेखितुकामो भवेत् ।
राजा- श्रूयताम् ।
कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी
पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोनिर्मातुमिच्छाम्यधः
श्रृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥१७॥
विदूषकः – (आत्मगतम्) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं
लम्बकूर्चानां तापसानां कदम्बैः ।
राजा- वयस्य अन्यञ्च । शकुन्तलायाः प्रसाधनमभिप्रेतमत्र
विस्मृतमस्माभिः ।
विदूषकः – किमिव ?
सानुमती – वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं भविष्यति ।
राजा-
कृतं न कर्णार्पितबन्धनं सखे
शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं
मृणालसूत्रं रचितं स्तनान्तरे ॥१८॥
विदूषकः – भोः किं नु तत्रभवति रक्तकुवलयपल्लवशेभिनाग्रहस्तेन
मुखमावार्य चकित चकितेव स्थिता ? (सावधानं निरुप्य,
दृष्ट्वा) आः । एष दास्याः पुत्रः कुसुमरसपाटञ्चरस्तत्रभवत्या
वदनकमलमभिलङ्घते मधुकरः ।
राजा- ननु वार्यतामेष धृष्टः !
विदूषकः – भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति ।
राजा- युज्यते । अयि भो कुसुमलताप्रियातिथे, किमत्र् परिपतनखेदमनु-
भवसि ?
एषा कुसुमनिषण्णा तृषितापि सतो भवन्तमनुरक्ता ।
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥१९॥
सानुमती – अद्याभिजातं खल्वेष वारितः ।
विदूषकः – प्रतिषिध्दापि वामैषा जातिः ।
राजा- एवं भो न मे शासने तिष्ठति ? श्रूयतां तर्हि संप्रति;
अक्लिष्टबालतरुपल्लवलोभनीयं
पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायाः
त्वां कारयामि कमलोदरबन्धनस्थम् ॥२०॥
विदूषकः – एवं तीक्ष्णदण्डस्य किं न भेष्यति ? (प्रहस्य, आत्मगतम्)
एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृश वर्ण इव संवृत्तः ।
(प्रकाशम्) भोः चित्रं खल्वेतत् !
राजा- कथं चित्रम् ?
सानुमति – अहमपीदानीमवगतार्था । किं पुनर्यथालिखितानुभाव्येषः ।
राजा- वयस्य, किमिदमनुष्ठितं पौरोभाग्यम् ?
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥२१॥
(इति बाष्पं विहरति)
सानुमती – पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।
राजा- वयस्य, कथमेवमविश्रान्तदुः खमनुभवामि ?
प्रजागरात्खिलीभूतस्तस्याः स्वप्नं समागमः ।
बाष्पस्तु न ददात्येनां द्र्ष्टुं चित्रगतामपि ॥२२॥
सानुमती – सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलाय ।
(प्रविश्य) – चतुरिका – जयतु जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं
प्रस्थितास्मि ।
राजा- किं च ?
चतुरिका – स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्य-
पुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।
विदूषकः – दिष्ट्या त्वं मुक्ता !
 चतुरिका – यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित
आत्मा ।
राजा- वयस्य, उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं
रक्षतु ।
विदूषकः – आत्मानमिति भण (चित्रफलकमादायोत्थाय च) यदि भवानन्तः-
पुरकूटवागुरातो मोक्ष्यते, तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय ।
सानुमती – अन्यसंक्रान्तहृदयोऽपि प्रथम सम्भावनामपेक्षते । अतिशिथिल-
सौहार्द इदानीमेषः ।
(प्रविश्य पत्रहस्ता) प्रतीहारी- जयतु जयतु देवः ।
राजा- वेत्रवती, न खल्वन्तरा दृष्टा त्वया देवी ?
प्रतीहारी – अथ किम् ? पत्र हस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।
राजा- कार्यज्ञा- कार्योपरोधं मे परिहरति ।
प्रतीहारी – देव, अमात्यो विज्ञापयति- “अर्थजातस्य गणनाबहुलतयैकमेव
पौरकार्यमवेक्षितं; तद्देवः पत्रारुढं प्रत्यक्षीकरोतु” इति ।
राजा- इतः पत्रं दर्शय । (प्रतीहार्युपनयति)
राजा- (अनुवाच्य) कथम् ? समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम
नौव्यसने विपन्नः ! अनपत्यश्च किल तपस्वी ! राजगामी
तस्यार्थसञ्चय इत्येतदमात्येन लिखितम् ।कष्टं खल्वनपत्यता ।
वेत्रवति, बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् ।विचार्यतां
यदि काचिदापन्नसत्वा तस्य भार्यासु स्यात् ।
प्रतीहारी – देव, इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य
श्रूयते ।
राजा- ननु गर्भः पित्रयं रिक्थमर्हति ! गच्छ । एवममात्यं ब्रूहि ।
प्रतीहारी – यद्देव आज्ञापयति ।
राजा- एहि तावत् ।
प्रतीहारी – इयमस्मि ।
राजा- किमनेन सन्ततिरस्ति नास्तीति ?
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना
स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥२३॥
प्रतीहारी – एवं नाम घोषयितव्यम् (निष्क्रम्य पुनः प्रविश्य) काले
प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।
राजा-(दीर्घमुष्णं च निः श्वस्य) एवं भो । सन्ततिच्छेदनिरवलम्बना
कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति । ममाप्यन्ते
पुरुवंशश्रियः एष एव वृत्तान्तः ।
प्रतीहारी – प्रतिहतममङ्गलम् ।
राजा- धिङ्मामुपस्थितश्रेयोवमानिनम् ।
सानुमती – असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।
राजा- संरोपितोऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥२४॥
सानुमती – अपरिच्छिन्नेदानीं ते सन्ततिर्भविष्यति ।
चतुरिका – आर्य, अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं
मेघप्रतिच्छन्दादार्यं माधव्य गृहीत्वागच्छ ।
प्रतीहारी – सुष्ठु भणसि ।
राजा- अहो, दुष्यन्तस्य संशयमारुढाः पिण्डभाजः । कुतः;
अस्मात्परं बत यथाश्रुति संभृतानि
को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं
धौताश्रुशेषमुदकं पितरः पिबन्ति ॥२५॥
चतुरिका – (ससंभ्रममवलोक्य) समाश्वसितु, समाश्वसितु भर्ता ।
सानुमती- हा धिक् ! हा धिक् ! सति खलु दीपे व्यवधानदोषेणैषोऽन्ध-
कारदोषमनुभवति । अहमिदानीमेव निर्वृतं करोमि ? अथवा,
श्रुतं मया शकुन्तलां समाश्वसन्त्या महेन्द्रजनन्याः
मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति तथाऽचिरेण धर्मपत्नीं
भर्ताभिनन्दिष्य-तीति । तद्युक्तमेतं कालं प्रतिपालयितुम् ।
यावदनेनवृत्तान्तेन प्रियसखीं समाश्वासयामि ।
            (इत्युद्भ्रान्तकेन निष्क्रान्ता)
            (नेपथ्ये) अब्रह्मण्यम् ।
राजा- (प्रत्यागतः कर्णं दत्वा) अये, माधव्यस्येवार्तस्वरः । कः कोऽत्र्
भोः ?
(प्रविश्य) प्रतीहारी – (ससंभ्रमम्) परित्रायतां देवः संशयगतं वयस्यम् ।
राजा- केनात्तगन्धो माणवकः ?
प्रतीहारी – अदृष्टरुपेण केनापि सत्येनातिक्रम्य मेघप्रतिच्छन्दस्य
प्रासादस्याग्रभूमिमारोपितः ।
राजा- (उत्थाय) मा तावत् ममापि सत्वैरभिभूयन्ते गृहाः । अथवा,-
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥२६॥
(नेपथ्ये) भो वयस्य, अविहा ! अविहा !
राजा- (गतिभेदेन परिक्रामन्) सखे, न भेतव्यम् ।
(नेपथ्ये) पुनस्तदेव पठित्वा कथं न भेष्यामि ? एष मां कोऽपि
प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति ।
राजा- (सदृष्टिक्षेपम्) धनुस्तावत् ।
(प्रविश्य शार्ङ्गहस्ता) यवनी- भर्तः । एतध्दस्तावापसहितं
शरासनम् । राजा सशरं धनुरादत्ते ।
(नेपथ्ये)
एष त्वामभिनवकण्ठशोणितार्थी
शार्दूलः पशुमिव हन्मि चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा
दुष्यन्तस्तव शरणं भवत्विदानीम् ॥२७॥
राजा- (सरोषम्) कथं मामेवोद्दिशति ? तिष्ठ, तिष्ठ कुणपाशन्, त्वमिदानीं
न भविष्यसि ? (शार्ङ्गमारोप्य)वेत्रवति, सोपानमार्गमादेशय ।
प्रतीहारी- इत इतो देवः (सर्वे सत्वरमुपसर्पन्ति)
राजा- (समन्ताद्विलोक्य) शून्य खल्विदम् ।
(नेपथ्ये)- अविहा ! अविहा ! अहमत्र भवन्तं पश्यामि । त्वं मां न पश्यसि ।
बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः ।
राजा- भोस्तितस्करिणीगर्वित । मदीयमस्त्रं त्वां द्रक्ष्यति । एष तमिषुं
सन्दधे, -
यो हनिष्यति बध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥२८॥
(इत्यस्त्रं संधत्ते । ततः प्रविशति विदूषकमुत्सृज्य मातलिः विदूषकश्च )
मातलिः- कृता शरव्यं हरिणा तवासुराः
शरासनं तेषु विकृष्यतामिदम् ।
प्रसादसौम्यानि सतां सुहृज्जने
पतन्ति चक्षूंषि न दारुणाः शराः ॥२९॥
राजा- (ससंभ्रममस्त्रमुपसंहरन्) अये मातलिः ! स्वागतं महेन्द्रसारथे ।
विदूषकः- अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेन अभिनन्द्यते ।
मातलिः- (सस्मितम्) आयुष्मन्, श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं
प्रेषितः ।
राजा- अवहितोऽस्मि ।
मातलिः- अस्ति कालनेमिप्रसूतिर्दुर्जयोः नाम दानवगणः ।
राजा- अस्ति श्रुतपूर्वं मया नारदात् ।
मातलिः- सख्युस्ते स किल शतक्रतोरजय्य-
स्तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन्न सप्तसप्ति-
स्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥३०॥
स भावनात्तशस्त्र एव इदानीमैन्द्रस्यमारुह्य विजयाय प्रतिष्ठताम् ।
राजा- अनुगृहीतोऽहमनया मघवतः संभावनया । अथ माधव्यं प्रति
भवता किमेव प्रयुक्तम् ?
मातलिः- तदपि कथ्यते ।किञ्चिन्निमित्तादपि मनः सन्तापात् आयुष्मान्
मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मंत्त तथा कृतवान्
अस्मि । कुतः;
ज्वलति चलितेन्धनोऽग्विर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः ॥३१॥
राजा- (जनान्तिकम्) वयस्य, अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र
परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।
त्वन्मतिः केवला तावत्परिपालयतु प्रजाः ।
अदिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥३२॥ इति ।
विदूषकः – यद्भवानाज्ञापयति । (इति निष्क्रान्तः)
मातलिः- आयुष्मान् रथमारोहतु । (राजा रथारोहणं नाट्यति )
(इति निष्क्रान्तः सर्वे)
इति षष्ठोऽङ्कः