सामग्री पर जाएँ

अभिज्ञानशाकुन्तलम्/सप्तमोऽङ्कः

विकिस्रोतः तः
← षष्ठोऽङ्कः अभिज्ञानशाकुन्तलम्
सप्तमोऽङ्कः
कालिदासः

  (ततः प्र-विशति आकाशयानेन रथाधिरुढो राजा मातलिश्च)
राजा- मातले, अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषाद्
अनुपयुक्तमिवात्मानं समर्थये ।
मातलिः-(सस्मितम्) आयुष्मन्, उभयमप्यपरितोषम् । कुतः,
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥
राजा- मातले, मा मैवम् । स खलु मनोरथानामप्यभूमिः विसर्जनाव-
सरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य –
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन
आमृष्टवक्षोहरिचन्दनाङ्कः मन्दारमाला हरिणा पिनध्दा ॥२॥
मातलिः- किमिव नामायुष्मान् अमरेश्वरान्नार्हति ! पश्य-
सुखपरस्य हरेरुभयैः मतं त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥३॥
राजा- अत्र खलु शतक्रतोरेव महिमास्तुल्यः
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणास्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥४॥
मातलिः- सदृशं तवैतत् (स्तोकमन्तरमतीत्य) आयुष्मन्, इतः पश्य
नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखंति ॥५॥
राजा- मातले, असुरसंप्रहारोत्सुकेन पूर्वेधुर्दिवमधिरोहता मया न लक्षितः
स्वर्गमार्गः । कथमस्मिन् मरुतां पथि वर्तामहे ?
मातलिः-
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां
ज्योतीषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य व्यपेतरजसः प्रवहस्य वायोः
मार्गो द्वितीयहरिविक्रम पूत एषः ॥६॥
राजा- मातले, अतः खलु सबाह्यान्तः करणो ममान्तरात्मा प्रसीदति
(रथाङ्गमवलोक्य) मेघपदवीमवतीर्णौ स्वः ।
मातलिः- कथमवगम्यते ?
राजा-
अयमरविवरेभ्यश्चातकैर्निष्पतद्भिः
हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां
पशुनयति रथस्ते सीकरक्लिन्ननेमिः ॥७॥
मातलिः- क्षणादायुष्मान् स्वाधिकारभूमौ वर्तिष्यते ।
राजा- (अधोऽवलोक्य) मातले, वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते
मनुष्यलोकः । तथा हि –
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
सन्तानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥८॥
मातलिः- साधु दृष्टम् । (सबहुमानमवलोक्य ) अहो उदाररमणीया पृथ्वी ।
राजा- मातले, कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सान्ध्य
इव मेघपरिधः सानुमानालोक्यते ?
मातलिः – एष खलु हेमकूटो नाम किंपुरुष पर्वतः तपस्संसिध्दिक्षेत्रम् ।
पश्य-
स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥९॥
राजा- तेन ह्यतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं
गन्तुमिच्छामि ।
मातलिः- प्रथमः कल्पः !
राजा- (सस्मितम्)
उपोढशब्दा न रथाङ्गनेमयः
प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शतयाऽनिरुध्दत-
स्तवावतीर्णोऽपि रथो न लक्ष्यते ॥१०॥
मातलिः- एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजा- मातले, कतमस्मिन् प्रदेशे मारीचाश्रमः ?
मातलिः- (हस्तेन दर्शयन्) पश्य !
वल्मीकार्धनिमग्नमूर्तिरुरसा सन्दष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।
अंसव्यापि शकुन्तनीडनिचितं विभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥११॥
राजा- नमस्ते कष्टतपसे !
मातलिः- (संयतप्रग्रहं रथं कृत्वा) एतौ अदितिपरिवर्धितमन्दारवृक्षं
प्रजापतेराश्रमं प्रविष्टौ स्वः ।
राजा- स्वर्गादधिकतरं निर्वृतिस्थानम् । अमृतहृदमिवावगाढोऽस्मि ।
मातलिः- (रथं स्थापयित्वा) अवतरत्वायुष्मान् ।
राजा- (अवतीर्य मातले, भवान् कथमिदानीम् ?
मातलिः- संयन्त्रितो मया रथः । वयमप्यवतरामः (तथा कृत्वा) इत
आयुष्मन् । (परिक्रम्य) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजा- ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षो वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं सत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥१२॥
मातलिः- उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य, आकाशे) अये
वृध्दशाकल्य किमनुतिष्ठति भगवान् मारीचः ? किं व्रवीषि-
“ दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नी सहितायै
कथयति” इति ?
राजा- (कर्णं दत्वा), अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः- (राजानमवलोक्य) अस्मिन्नशोकवृक्षमूले तावदास्ताम् आयुष्मान्
यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
राजा- यथा भवान् मन्यते ।
मातलिः- आयुष्मन्, साधयाम्यहम् । (इति निष्क्रान्तः)
राजा- (निमित्तं सूचयित्वा)-
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥१३॥
(नेपथ्ये) मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ?
राजा- (कर्णं दत्वा) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते ?
(शब्दानुसारेणावलोक्य, सविस्मयम्) अये को नु खल्वयम्
अनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ?
अर्धपीतस्तनं मातुरमर्दक्लिष्टकेसरम् ।
प्रकीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥१४॥
(ततः प्रविशति यथानिर्दिष्टकर्मो तपस्विनीभ्यां बालः )
बालः- जृम्भस्व सिंह, दन्तास्ते गणयिष्ये ।
प्रथमा- अविनीत किं नोऽपत्यनिर्विशॆषाणि सत्वानि विप्रकरोषि ? हन्त !
वर्धते ते संरम्भः । स्थानं खलु ऋषिजनेन सर्वदमन इति
कृतनामधेयोऽसि ।
राजा- किं नु खलु बालेऽस्मिनौरस इव पुत्रे स्निह्मति मे मनः ?
नूनमनपत्यता मां वत्सलयति !
द्वितीया- एषा खलु केसरिणी त्वां लङ्घयति, यद्यस्याः पुत्रकं न मञ्चसि ।
बालः- (सस्मितम्) अहो बलीयः खलु भीतोऽस्मि ! (अधरं दर्शयति)
राजा- महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्पुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥१५॥
प्रथमा - वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।
बालः- कुत्र ? देह्येतत् ।
राजा- कथं चक्रवर्तिलक्षणमप्यनेन धार्यत ? तथा ह्यस्य –
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिध्दरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥१६॥
द्वितीया- सुव्रते, न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् ।
मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिका-
मयूरोऽस्ति । तमस्योपहर ।
प्रथमा- तथा । (इति निष्क्रान्ता)
बालः- अनेनैव तावत् क्रीडिष्यामि । (इति तापसीं विलोक्य हसति)
राजा- स्पृहयामि खलु दुर्ललितायास्मै ! (निः श्वस्य)
आलक्ष्यदन्तमुकुलाननिमित्तहासै-
रव्यक्तवर्णरमणीय वचः प्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो
धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥१७॥
तापसी- भवतु । मामयं गणयति । (पार्श्वमवलोक्य) कोऽत्र
ऋषिकुमाराणाम् ? (राजानमवलोक्य) भद्रमुख, एहि तावत् ।
मोचय अनेन दुर्मोकहस्तग्रहेण डिम्बलीलया बाध्यमानं
बालमृगेन्द्रम् ।
राजा- (उपगम्य, सस्मितम्) अयि भो महर्षिपुत्र !
एवमाश्रमविरुध्दवृत्तिना संयमः किमिति जन्मतस्त्वया ।
सत्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥१८॥
तापसी- भद्रमुख, न खल्वयमृषिकुमारः ।
राजा- आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तुवयमेवं
तर्किणः (यथाभ्यर्थितमनुतिष्ठन् बालस्पर्शमुपलभ्य, आत्मगतम्)
अनेन कस्यापि कुलङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
को निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररुढः ॥१९॥
तापसी- (उभौ निर्वर्ण्य) आश्चर्यमाश्चर्यम् ।
राजा- आर्ये, किमिव ?
तापसी- “अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिता अस्मि ।
अपरिचितस्यापि तेऽप्रतिलोभः संवृत्तः” इति ।
राजा- (बालकमुपलालयन्) न चेन्मुनिकुमारोऽयमथ कोऽस्य
व्यपदेशः ?
तापसी- पुरुवंशः ।
राजा- (आत्मगतम्) कथमेकान्वयो मम ? अतः खलु मदनुकारिण-
मेनमत्रभवती मन्यते । अस्त्यैतत् पौरवाणामन्त्यं कुलव्रतम् ।
भवनेषु रसाधिकेषु पूर्वं
क्षितिरक्षार्थमुशन्ति ये निवासम् ।
नियतैकयतिव्रतानि पश्चात्
तरुमूलानि गृहीभवन्ति तेषाम् ॥२०॥
(प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः !
तापसी- यथा भद्रमुखो भणति ।अप्सरसंबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने
प्रसूता ।
राजा- (आत्मगतम्) हन्त ! द्वितीयमिदमाशाजननम् । (प्रकाशम् ) अथ
सा तत्प्रभवती किमारव्यस्य राजर्षेः पत्नी ?
तापसी- कस्तस्य धर्मदारपरित्यागिनो नाम सङ्कीर्तयितुं चिन्तयिष्यति ?
राजा- (स्वगतम्) इयंखलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य
शिशोर्मातरं नामतः पृच्छामि अथवा अनार्य परदारव्यवहारः ।
(प्रविश्य मृन्मयूरहस्ता)
तापसी - सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व ।
बालः- (सदृष्टिक्षेपम्) कुत्र वा मम माता?
उभे- नामसादृश्येन विञ्चितो मातृवत्सलः ।
द्वितीया- वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
राजा- (आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या ? सन्ति
पुनर्नामधेयसादृश्यानि ।अपि नाम मृगतृष्णिकेव नाममात्र प्रस्तावो
मे विषादाय कल्पते !
बालः - मातः, रोचते म एष भद्रमयूरः (इति क्रीडनकमादत्ते)
प्रथमा- (विलोक्य सोद्वेगम्) अहो । रक्षाकरण्डकमस्य मणिबन्धे न
दृश्यते ।
राजा- अलमावेगेन – नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् ।
(इत्यादातुमिच्छति )
उभे- मा खल्वेतदवलम्ब्य--- कथं गृहीतमनेन !
(इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)
राजा- किमर्थं प्रतिषिध्दाः स्मः ?
प्रथमा - श्रृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य जातकर्मसमये
भगवता मारीचेन दत्ता । एनां किल मातापितरावात्मानं च
वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति ।
राजा- अथ गृह्णाति ?
प्रथमा- ततस्तं सर्पो भूत्वा दशति ।
राजा- भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ?
उभे- अनेकशः ।
राजा - सहर्षम् , (आत्मगतम्) कथमिव सम्पूर्णमपि मे मनोरथं
नाभिनन्दामि ! (इति बालं परिष्वजते)
द्वितीया- सुव्रते, एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै
निवेदयावः । (इति निष्क्रान्ते)
बालः- मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।
राजा- पुत्रक, मया सहेव मातरमभिनन्दिष्यसि ।
बालः - मम खलु तातो दुष्यन्तः ! न त्वम् ।
राजा -(सस्मितम्) एष विवाद एव प्रत्याययति !
(ततः प्रविशत्येकवेणीधरा शकुन्तला)
शकुन्तला – विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न म
आशासीदात्मनो भागधेयेषु । अथवा, यथा सानुमत्याख्यातं तथा
सम्भाव्यत एतत् ।
राजा -(शकुन्तलां विलोक्य) अये, सेयमत्रभवती शकुन्तला । यैषा –
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुध्दशीला मम दीर्घं विरहव्रतं बिभर्ति ॥२१॥
शाकुन्तला – (पाश्चात्तापविवर्णं राजानं दृष्ट्वा) न खल्वार्यपुत्र इव । ततः
क एष इदानीं कृतरक्षामङ्कलं दारकं मे गात्रसंसर्गेण दूषयति ?
बालः- (मातरमुपेत्य) मातः एष कोऽपि पुरुषो मां पुत्र इति आलिङ्गति ।
राजा- प्रिये, क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं,
यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
शकुन्तला -(आत्मगतम्) हृदय, समाश्वसिहि । समाश्वसिहि ।
परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः
राजा - प्रिये, -
स्मृतिभिन्नमोहतमसो दिष्टया –
प्रमुखे स्थितासि मे सुमुखी ।
उपरागान्ते शशिनः समुपगता-
रोहिणी योगम् ॥२२॥
शकुन्तला – जयतु जयत्वार्य - - - (इत्यर्धोक्ते बाष्पकण्ठी विरमति )
राजा- सुन्दरि !
बाष्पेण प्रतिषिध्देऽपि जवशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥२३॥
बालः - मातः कः एषः ?
शकुन्तला- वत्स, ते भागधेयानि पृच्छ ।
 राजा- (शकुन्तलायाः पादयोः प्रणिपत्य)
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥२४॥
शकुन्तला – उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितरतिबन्धकं पुराकृतं तेषु दिवसेषु
परिणामाभिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि तथाविधः
संवृत्तः । (राजोत्तिष्ठति)
शकुन्तला – अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्याय जनः ?
राजा - उद्घृतविषादशल्यः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो बध्दबिन्दुरधरं परिबाधमानः ।
ते तावदाकुटिलपक्ष्मविलग्नमद्य
बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥२५॥
(राजा यथोक्तमनुतिष्ठति)
शकुन्तला – (नाममुद्रां दृष्ट्वा) आर्यपुत्र, इदं तदङ्गुलीयकम् ।
राजा - अस्मादङ्गुलीयोपलम्भात् खलु स्मृतिरुपलब्धा !
शकुन्तला – विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभम् आसीत् ।
राजा- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लताकुसुमम् ।
शकुन्तला – नास्य विश्वसिमि । आर्यपुत्र एवैतध्दारयतु ।
(ततः प्रविशति मातलि )
मातलिः- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन च आयुष्मान् वर्धते ।
राजा- अभूत्स्सम्पादितस्वादुफलो मे मनोरथः । मातले, न खलु
विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ?
मातलिः- (सस्मितम्) किमीश्वराणां परोक्षम् ? एत्वायुष्मान् । भगवान्
मारीचस्ते दर्शनं वितरति ।
राजा- शकुन्तले, अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं
द्र्ष्टुमिच्छामि ।
शकुन्तला – जिह्नेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।
राजा- अप्याचरितव्यमभ्युदयकालेषु । एह्येहि ।
(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः)
मारीचः- (राजानमवलोक्य) दाक्षायणि !
पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः ॥२६॥
अदितिः- संभावनीयानुभावस्याकृतिः !
मातलिः- आयुष्मन्, एतौ पुत्रपीतिपिशुनेन चक्षुषा दिवौकसां
पितरावायुष्मन्तमवलोकयत । तावुपसर्प ।
राजा- मातले !
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचि संभवमिदं तत्स्रष्टुरेकान्तरम् ॥२७॥
मातलिः – अथ किम् ?
राजा- (उपगम्य) उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति ।
मारीचः – वत्स, चिरं जीव ! पृथ्वीं पालय ।
अदिति - वत्स, अप्रतिरथो भव !
मारीचः- वत्से,
आखण्डलभसो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्त्या न ते योग्या पौलोमी सदृशी भव ॥२८॥
अदितिः- जाते, भर्तुर्बहुमता भव । अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो
भवतु । उपविशत ।
(सर्वे प्रजापतिमभितः उपविशन्ति)
मारीचः – (एकैकं निर्दिशन् )
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रध्दा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥२९॥
राजा- भगवन् प्रागभिप्रेतसिध्दिः, पश्चाद्दर्शनम् ! अतोऽपूर्वः खलु
वोऽनुग्रहः कुतः,-
उदेति पूर्वं कुसुमं ततः फलं धनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥३०॥
मातलिः- एवं विधातारः प्रसीदन्ति ।
राजा- भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिना उपयम्य
कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्न-
पराध्दोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुली-
यकदर्शनात् ऊढपूर्वां तद् दुहितरमवगतोऽहम् । तच्चित्रमिव मे
प्रतिभाति ।
यथा गजो नेति समक्षरुपे
तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीति –
स्तयाविधो मे मनसां विकारः ॥३१॥
मारीचः- वत्स, अलमात्मापराधशङ्कया । संमोहोऽपि त्वयि नानुपपन्नः ।
श्रूयताम् ।
राजा- अवहितोऽस्मि ।
मारीचः – यदैवाप्सरतीर्थावतरणात् प्रत्याख्यानवैक्लव्यां शकुन्तलामादाय
मेनका दाक्षायणीमुपगता तदेव ध्यानादवगतोऽस्मि दुर्वाससः
शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा, नान्यथेति ।
स चायमङ्गुलीयकदर्शनावसानः !
राजा- ( सोच्छवासम्) एष वचनीयान्मुक्तोऽस्मि !
शकुन्तला –(स्वगतम्) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न पुन शप्तमात्मानं
स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न
विदितः । अतः सखीभ्यां सन्दिष्टाऽस्मि भर्तुरङ्गुलीयकं
दर्शयितव्यमिति ।
मारीचः- वत्से विदितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः
कार्यः । पश्य ।
शापादसि प्रतिहता स्मृतिरोधरुक्षे
भर्तर्यतेततमसि प्रभुता तवैव ।
छाया न मूर्छति मलोपहृतप्रसादे
शुध्दे तु दर्पणतले सुलभावकाशा ॥३२॥
राजा- यथाह भगवान् ।
मारीचः- वत्स , किञ्चिदभिनन्दितस्त्वया विधिवदस्माभिः अनुष्ठितजातकर्मा
पुत्र एष शाकुन्तलेयः ?
राजा- भगवन्, अत्र खलु मे वंशप्रतिष्ठा !
(इति बालं हस्तेन गृह्णाति)
मारीचः – तथा भाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य,-
रथेनानुध्दातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरधः ।
इहायं सत्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥३३॥
राजा- भगवता कृतसंस्कारे सर्वमस्मिन् वयमाशास्महे !
अदितिः- भगवन्, अस्याः दुहितृमनोरथसम्पत्तेः कण्वोऽपि तावत्
श्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति ।
शकुन्तला- (आत्मगतम्) मनोरथ खलु मे भणितो भगवत्या तपः प्रभावात्
प्रत्यक्षं सर्वमेव तत्र भवतः ।
राजा- अतः खलु मम नातिक्रुध्दो मुनिः ।
मारीचः- तथाप्यसौ प्रियमस्माभिः श्रावयितव्य । कः कोऽत्र भोः ?
(प्रविश्य) शिष्यः – भगवन् अयमस्मि ।
मारीचः- गालव, इदानीमेव विहायसा गत्वा मम वचनात् तत्रभवते कण्वाय
प्रियमावेदय यथा- “पुत्रवती शकुन्तला । तच्छापनिवृत्तौ स्मृतिमत
दुष्यन्तेन प्रतिगृहीता” इति ।
शिष्यः- यदाज्ञापयति भगवान् । (इति निष्क्रान्तः)
मारीचः- वत्स, त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य
ते राजधानीं प्रतिष्ठस्व ।
राजा- यदाज्ञापयति भगवन् ।
मारीचः- अपि च ।-
तव भवतु बिडौजा प्राज्यवृष्टि प्रजासु
त्वमपि विततयज्ञः स्वर्गिणः प्रीणयस्व ।
युगशतपरिवर्तानेवमन्योन्यकृत्यै-
र्नयतमुभयलोकानुग्रहश्लाघनीयैः ॥३४॥
राजा- भगवन, य्थाशक्ति श्रेयसे यतिष्ये ।
मारीचः- वत्स, किं ते भूयः प्रियमुपहरामि ?
राजा- अतः परमपि प्रियमस्ति ? यदिह भगवान् प्रियं कर्तुमिच्छति
तर्हीदिमस्तु ।
(भरतवाक्यम्)
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयताम्
ममापि च क्षपयतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः ॥३५॥
(इति निष्क्रान्ताः सर्वे)
-इति सप्तमोऽङ्कः-