अभिज्ञानशाकुन्तलम्/पञ्चमोऽङ्कः
← चतुर्थोऽङ्कः | अभिज्ञानशाकुन्तलम् पञ्चमोऽङ्कः कालिदासः |
षष्ठोऽङ्कः → |
(ततः प्रविशत्यासनस्थो राजा विदूषकश्च)
विदूषकः – (कर्णं दत्वा) भो वयस्य, सङ्गीतशालान्तरेऽवधानं देहि ।
कलविशुध्दाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती
हंसपदिका वर्णपरिचयं करोतीति ।
राजा- तूष्णीं भव । यावदाकर्णयामि ।
(आकाशे गीयते)
अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिवृतो मधुकर विस्मृतोऽस्येनां कथम् ॥१॥
राजा- अहो ! रागपरिवाहिणी गीतिः ।
विदूषकः- किं तावद्गीत्या अवगतोऽक्षरार्थः ?
राजा- (स्मितं कृत्वा) सकृत्कृतप्रणयोयं जनः । तदस्या देवीं
वसुमतीमन्तरेण मदुपालम्भभगवतोऽस्मि । सखे माधव्य,
मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धोऽस्मीति ।
विदूषकः – यद्भवनाज्ञापयति (उत्थाय) भो वयस्य, गृहीतस्य तया
परकीयैर्हस्तैः शिखण्डके ताडयमानस्याप्सरसा वीतरागस्येव नास्ति
इदानीं मे मोक्षः !
राजा - गच्छ । नागरिकवृत्या संज्ञापयैनाम् ।
विदूषकः- का गतिः (इति निष्क्रान्तः)
राजा- (आत्मगतम्) किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजन-
विरहादृतेऽपि बलवदुत्कण्ठितोऽस्मि ! अथवा;
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्
पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तर सौहृदानि ॥२॥
(इति पर्याकुलस्तिष्ठति)
(प्रविश्य) कञ्चुकी – अहो न खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
आचार इत्यवहितेन मया गृहीता
या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता
प्रस्थानविक्लवगतेरवलम्बनार्थम् ॥३॥
भो ! कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनात् उत्थिताय
पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् ।
अथवा विश्रमोऽयं लोकतन्त्राधिकारः । कुतः –
भानुः सकृद्युक्ततुरङ्ग एव रात्रिंदिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥४॥
यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च) एष देवः –
प्रजाः प्रजाः स्व इव तन्त्रयित्वा निषेवतेऽशान्तमना विविक्तम् ।
यूथानि सञ्चार्य रविप्रतप्तः शीतं दिवा स्थानमिवद्विपेन्द्रः ॥५॥
(उपगम्य) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः
काश्यपसन्देशमादाय सस्त्रीकास्तपस्विनः सम्प्राप्ताः । श्रुत्वा देवः
प्रमाणम् ।
राजा- (सादरम्) किं काश्यपसन्देशहारिणः ?
कञ्चुकी – अथ किम् ?
राजा- तेन हि मद्वचनात् विज्ञाप्यतामुपाध्यायः सोमरातः ।
अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव
प्रवेशयितुमर्हति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः
प्रतिपालयामि ।
कञ्चुकी – यदाज्ञापयति देवः । (इति निष्क्रान्तः)
राजा - (उत्थाय) वेत्रवति, अग्निशरणमार्गमादेशय ।
प्रतीहारी- इत इतो देवः ।
राजा- परिक्रामति (अधिकारखेदं निरुप्य ) सर्वः प्रार्थितमर्थम् अधिगम्य
सुखी संपद्यते जन्तुः । राज्ञा तु चरितार्थता दुःखोत्तरैव ।
औत्सुक्यमात्रमवसाद्ययति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालन वृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥६॥
(प्रविश्य) वैतालिकौ – विजयतां देवः ।
प्रथमः- स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥७॥
द्वितीयः- नियमयसि विमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्दुकृत्यं प्रजानाम् ॥८॥
राजा - एते क्लान्तमनसः पुनर्नवीकृताः स्मः ।(इति परिक्रामति)
प्रतीहारी – एष अभिनवसंमार्जनसश्रीकः सन्निहितहोमधेनुः अग्निशरणालिन्दः ।
आरोहतु देवः ।
राजा - (आरुह्य परिजनांसावलम्बी तिष्ठति) वेत्रवति, किमुद्दिश्य भगवता
काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः ?
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम्
इत्यारुढबहुप्रतक्रमपरिच्छेदाकुलं मे मनः ॥९॥
प्रतीहारी- सुचरितनन्दिन ऋध्षयो देवं सभाजयितुमागता इति तर्कयामि ।
(ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्कृत्य मुनयः ।
पुरश्चैषां कञ्चुकी पुरोहितश्च ।
कञ्चुकी- इत इतो भवन्तः ।
शार्ङ्गरवः- शारद्वत,
महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥१०॥
शारद्वतः- स्थाने भवान्पुरप्रवेशादित्थं भूतः संवृत्तः । अहमपि,
अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुध्द इव सुप्तम् ।
बध्दमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥११॥
शकुन्तला- (निमित्तं सूचयित्वा) अहो किं मे वामेतरं नयनं विस्फुरति ?
गौतमी- जाते प्रतिहतममङ्गलम् । शुभानि ते भर्तृकुलदेवता वितरन्तु ।
(इति परिक्रामति)
पुरोहितः- (राजानं निर्दिश्य) भो भोस्तपस्विनः, असावत्रभवान् वर्णाश्रमाणां
रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।
शार्ङ्गरवः- भो महाब्राह्मण, काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः ।
कुतः,-
भवन्ति नम्रास्तरवः फलागमैः
नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुध्दताः सत्पुरुषाः समृध्दिभिः
स्वभाव एवैष परोपकारिणाम् ॥१२॥
प्रतीहारी- देव, प्रसन्नमुखवर्णा दृश्यन्ते ।जानामि विश्रब्धकार्या ऋषयः ।
राजा- (शकुन्तलां दृष्ट्वा) अथात्रभवति,
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिवं पाण्डुपात्राणाम् ॥१३॥
प्रतीहारी- देव, कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया
पुनरस्या आकृतिर्लक्ष्यते ।
राजा- भवतु अनिवर्णनीयं परकलत्रम् !
शकुन्तला- (हस्तमुरसिकृत्वा, आत्मगतम्) हृदय, किमेवं वेपसे ? आर्यपुत्रस्य
भावमवधाय धीरं तावद्भव ।
पुरोहितः (पुरो गत्वा) एते विधिवदर्चितास्तपस्विनः । कश्चित्
एषामुपाध्यायसन्देशः । तं देवः श्रोतुमर्हति ।
राजा- अवहितोऽस्मि
ऋषयः- (हस्तानुद्यम्य) विजयस्व राजन् ।
राजा- सर्वानभिवादये
ऋषयः -इष्टेन युज्यस्व ।
राजा- अपि निर्विघ्नतपसो मुनयः ?
ऋषयः-
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि
तमस्तपति धर्माशौ कथमाविर्भविष्यति ॥१४॥
राजा- अर्थवान् खलु मे राजशब्दः । अथ भगवाँल्लोकानुग्रहाय कुशली
काश्यपः ?
ऋषयः- स्वाधीनकुशलाः सिध्दिमन्तः ! स भवन्तमनामयप्रश्नपूर्वक-
मिदमाह ।
राजा- किमाज्ञापयति भगवान् ?
शार्ङ्गरवः- “यन्मिथः समयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया
प्रीतिमता युवयोरनुज्ञातम् । कुतः-
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः
शकुन्तला मूर्तिमती च सत्क्रिया ।
समानयंस्तुल्यगुणं वधूवरं
चिरस्य वाच्यं न गतः प्रजापतिः ॥१५॥
तदिदानीमापन्नसत्वेयं प्रतिगृह्यतां सहधर्मचरणाय” । इति ।
गौतमी- आर्य, किमपि वक्तुकामास्मि । स मे वचनावसरोऽस्तिं ।
कथमिति,-
नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः ।
एकैकमेव चरिते भणामि किमेकमेकस्मै ॥१६॥
शकुन्तला- (आत्मगतम्) किं नु खल्वार्यपुत्रो भणति ?
राजा- किमिदमुपन्यस्तम् ?
शकुन्तला- (आत्मगतम्) पावकः खलु वचनोपन्यासः ?
शार्ङ्गरवः – कथमिदं नाम ? भवन्तः एव सुतरां लोकवृत्तान्तनिष्णाताः ।
सतीमपि ज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तुमतीं विशङकते ।
अतः समीपे परिणेतुरिष्यते
प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥१७॥
राजा- किमत्रभवती मया परिणीतपूर्वा ?
शकुन्तला- (सविवादम्, आत्मगतम्) हृदय, साम्प्रतं त आशङ्का
शार्ङ्गरवः- किं कृतकार्यद्वेषात् धर्मं प्रति विमुखतोचिता राज्ञः ? ।
राजा- कुतोऽयमसत्कल्पनाप्रश्नः ?
शार्ङ्गरवः- मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥१८॥
राजा- विशेषेणाधिक्षिप्तोऽस्मि ।
गौतमी- जाते, मुहुर्तं मा लज्जस्व । अपनेष्यामि तावत्ते अवगुण्ठनम्।
ततस्त्वां भर्ताभिज्ञास्यति ।(यथोक्तं करोति)
राजा-(शकुन्तलां निर्वर्ण्य, आत्मगतम्)
इदमुपनतमेवं रुपमक्लिष्टकान्ति
प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् ।
भ्रमर इव विभाते कुन्तमन्तस्तुषारं
न च खलु परिभोक्तुं नापि शक्नोमि हातुम् ॥१९॥
(इति विचारयन् स्थितः)
प्रतीहारी- (स्वगतम्) अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं
रुपं दृष्ट्वा कोऽन्यो विचारयति ?
शार्ङ्गरवः- भो राजन् , किमिति जोषमास्यते ?
राजा- भोस्तपोधनाः, चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि ।
तत्कथमिमामभिव्यक्त सत्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः
प्रतिपत्स्ये ?
शकुन्तला- (अपवार्य) आर्यस्य परिणय एव सन्देहः ! कुत इदानीं मे
दूराधिरोहिण्याशा ?
शार्ङ्गरवः- मा तावत् ।
कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥२०॥
शारद्वतः- शार्ङ्गरव, विरम त्वमिदानीम् । शकुन्तले, वक्तव्यम् उक्त-
मस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्रति-
वचनम् ।
शकुन्तला- (अपवार्य) इदमवस्थान्तरं गते तादृशेनुरागे किं वा स्मारितेन ?
आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् । (प्रकाशम्) आर्यपुत्र
--- (इत्यर्धोक्ते) संशयित इदानीं परिणये नैष समुदाचारः ।
पौरव, युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं
जनं समयपूर्वं प्रतार्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम् ?
राजा- (कर्णौ पिधाय) शान्तं पापम् ?
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् ।
कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥२१॥
शकुन्तला- भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं
तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।
राजा- उदारः कल्पः ।
शकुन्तला – (मुद्रास्थानं परामृश्य) हा धिक् ! हा धिक् ! अङ्गुलीयकशून्या
मेऽङ्गुलिः !
(इति सविषादं गौतमीमवेक्षते )
गौतमी- नूनं ते शक्रावतारभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः
प्रभ्रष्टमङ्गुलीयकम् !
राजा- (सस्मितम्) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
शकुन्तला- अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि
राजा- श्रौतव्यमिदानीं संवृत्तम् ।
शकुन्तला – ननु एकस्मिन् दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं
तव हस्ते सन्निहितमस्मिन् ।
राजा- श्रुणुमस्तावत् ।
शकुन्तला- तत्क्षणं स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतकमुपस्थितः ।
त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न
पुनस्तेऽपरिचयाध्दस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते
सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः
सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।
राजा- एवमादिभिः आत्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिः आकृष्यन्ते
विषयिणः ।
गौतमी- महाभाग, नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितो अनभिज्ञोऽयं
जनः कैतवस्य ।
राजा- तापसवृध्दे,
स्त्रीणामशिक्षितपटुत्वममानुषीषु
संदृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात्स्वमपत्यजात
मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥२२॥
शकुन्तला- (सरोषम्) अनार्य, आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो
धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ?
राजा- (आत्मगतम्) सन्दिग्धबुध्दिं मां कुर्वन्नकैतव इवास्याः कोपो
लक्ष्यते । तथा ह्यनया-
मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहः प्रणयमप्रतिपद्यमाने
भेदादभ्रुवो कुटितयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य ॥२३॥
(प्रकाशम्) भद्रे, प्रथितं दुष्यन्तस्य चरितं । तथापीदं न लक्षये ।
शकुन्तला- सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि, याहमस्य पुरुवंशप्रत्ययेन
मुखमधोह्रृदयविषस्य हस्ताभ्यासमुपगता ! (पटान्तेन मुखमावृत्य
रोदिति )
शार्ङ्गरवः- इत्थमात्मकृतम् अप्रतिहतं चापलं दहति ।
अतः पीरक्ष्य कर्तव्यं विशेषात्संगतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥२४॥
राजा- अयि भोः किमत्रभवतीप्रत्ययादेवास्मान् संयुतदोषाक्षरैः क्षिणुथ ?
शार्ङ्गरवः- (सासूयम्) श्रुतं भवद्भिरधरोत्तरम् ।
आ जन्मनः शाठ्यमशिक्षितो यत्स्तस्याप्रमाणं वचनं जनस्य ।
परातिसन्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥२५॥
राजा- भोः सत्यवादिन्, अभ्युपगतं तावदस्माभिरेवम् । किं
पुनरिमामतिसन्धाय लभ्यते ?
शार्ङ्गरवः- विनिपातः ।
राजा- विनिपातः, पौरवैः पार्थ्यत इति न श्रध्देयमेतत् ।
शारद्वतः- शार्ङ्गरव, किमुत्तरेण? अनुष्ठिते गुरोः सन्देशः प्रतिनिवर्तामहे
वयम् ।
(राजानं प्रति)
तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥२६॥
गौतमी, गच्छाग्रतः (प्रस्थिताः)
शकुन्तला – कथमनेन विप्रलब्धास्मि, यूयमपि मां परित्यजथ ?
(इत्यनुप्रतिष्ठते)
गौतमी- (स्थित्वा) वत्स, शार्ङ्गरव, अनुगच्छतीयं खलु नः
करुणपरिदेविनी शकुन्तला ! प्रत्यादेशपुरुषे भर्तरि किं वा मे
पुत्रिका करोतु ?
शार्ङ्गरवः- (सरोषं निवृत्त्य) किं पुरोभागे स्वातन्त्र्यमवलम्बसे ?
(शकुन्तला भीता वेपते)
शार्ङ्गरवः- शकुन्तले,
यदि यथा वदति क्षितिपस्तथा
त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः
पतिकुले तव दास्यमपि क्षमम् ॥२७॥
तिष्ठ । साधयामो वयम् ।
राजा- भोस्तपस्विन्, किमत्रभवतीं विप्रलभसे ?
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसं श्लेषपराङ्मुखी वृत्तिः ॥२८॥
शार्ङ्गरवः- यदा तु पूर्ववृत्तमन्यसङ्गद्विस्मृतो भवांस्तदा कथम् अधर्मभीरुः ?
राजा- भवन्तमेवात्र गुरुलाघवं पृच्छामि ।
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥२९॥
पुरोहितः- (विचार्य) यदि तावदेवं क्रियताम् ।
राजा- अनुशास्तु मां भवान् ।
पुरोहितः- अत्र भवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत चेत्;
त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति ।
स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति, अभिनन्द्य
शुध्दान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः
समीपनयनमवस्थितमेव ।
राजा- यथा गुरुभ्यो रोचते ।
पुरोहितः- वत्से, अनुगच्छ माम् ।
शकुन्तला- भगवति वसुधे, देहि मे विवरम् !
(इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च राजा
शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति ।)
(नेपथ्ये) आश्चर्यमाश्चर्यम् ।
राजा- (आकर्ण्य) किं नु खलु स्यात् ?
(प्रविश्य) पुरोहितः- (सविस्मयम्) देव, अद्भुतं खलु संवृत्तम् !
राजा- किमिव ?
पुरोहितः- देव, परावृत्तेषु कण्वशिष्येषु
सा निन्दती स्वानि भाग्यानि बाला
बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।
राजा- किं च ।
पुरोहितः- स्त्रीसंस्थानं चाप्सरस्तीर्थमारा-
दुत्क्षिप्यैनं ज्योतिरेकं जगाम ॥३०॥
(सर्वे विस्मयं रुपयन्ति)
राजा- भगवन्, प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा
तर्केणान्विष्यते ? विश्राम्यतु भवान् ।
पुरोहितः- (विलोक्य) विजयस्व (निष्क्रान्तः)
राजा- वेत्रवति, पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी- इत इतो देवः (इति प्रस्थिता)
राजा- कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवन्तु दूयमानं प्रत्याययतीव मां हृदयम् ॥३१॥
(इति निष्क्रान्ताः सर्वे)
॥ इति पञ्चमोऽङ्कः ॥