अभिज्ञानशाकुन्तलम्/चतुर्थोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search
← तृतीयोऽङ्कः अभिज्ञानशाकुन्तलम्
चतुर्थोऽङ्कः
कालिदासः
पञ्चमोऽङ्कः →

(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ)
अनसूया- प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा
शकुन्तलाऽनुरुपभर्तृगामिनी संवृत्तेति विर्वृतं मे हृदयं, तथाप्येतावत्
चिन्तनीयम् ।
प्रियंवदा- कथमिव ?
अनसूया- अद्य स राजर्षिरिष्टिं परिसमाप्यर्षिभिर्विसर्जित आत्मनो नगरं
प्रविश्यान्तः पुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति ।
 
प्रियंवदा- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति ।
तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
अनसूया- यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
प्रियंवदा- कथमिव ?
अनसूया- गुणवते कन्यका प्रतिपादनीयेत्ययं तावत् प्रथमः सङ्कल्पः । तं
यदि दैवमेव सम्पादयति, नन्वप्रयासेन कृतार्थो गुरुजनः ।
प्रियंवदा- (पुष्पभाजनं विलोक्य) सखि, अवचितानि बलिकर्म पर्याप्तानि
कुसुमानि ।
अनसूया- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।
प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)
(नेपथ्ये) अयमहं भोः ।
अनसूया- (कर्णं दत्वा) अतिथीनामिव निवेदितम् ।
प्रियंवदा- ननूटजसन्निहिता शकुन्तला ?
अनसूया- अद्य पुनर्हृदयेनासन्निहिता ! अलमेतावद्मिः कुसुमैः ।
 ::(नेपथ्ये) आः अतिथिपरिभाविनि !
विचिन्तयन्ती यमनन्यमानसा
तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन्
कथां प्रमत्तः प्रथमं कृतामिव ॥१॥
प्रियंवदा- हा धिक् ! हा धिक् ! अप्रियमेव संवृत्तम् । कस्मिन्नपि
पूजार्हेऽपराध्दा शून्यहृदया शकुन्तला ।
(पुरोऽवलोक्य)न खलु यस्मिन् कस्मिन्नपि । एष दूर्वासाः
सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुवीरया
गत्या प्रतिनिवृत्तः ।
अनसूया- कोऽन्यो हुतवहाद्दग्धुं प्रभवति ? गच्छ, पादयोः प्रणम्य निवर्तयैनं,
यावदहमर्घोदकमुपकल्पयामि ।
(इति निष्क्रान्ता)
प्रियंवदा- तथा
अनसूया- (पदान्तरे स्खलितं निरुप्य) अहो,आवेगस्खलितया गत्या –
प्रभ्रष्टं ममाग्रहस्तात् पुष्पभाजनम् ! (इति पुष्पोच्चयं रुपयति )
(प्रविश्य)- प्रियंवदा- सखि, प्रकृतिवक्रः स कस्यानुनयं प्रतिगृहणाति ? किमपि
पुनः सानुक्रोशः कृतः ।
अनसूया- (सस्मितम्) तस्मिन् बह्वेतदपि । कथय ।
प्रियंवदा- यदा निवर्तितुं नेच्छति, तदा विज्ञापितो मया “ भगवन्, प्रथम
इति प्रेक्ष्याविज्ञानतपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो
मर्षयितव्य” इति ।
अनसूया- ततस्ततः ।
प्रियंवदा- ततो, “न मे वचनमन्यथाभवितुमर्हति । किं तु अभिज्ञानाभरण-
दर्शनेन शापो निवर्तिष्यते” इति मन्त्रयमाण एवान्तर्हितः ।
अनसूया- शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन
स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनध्दम् । तस्मिन्
स्वाधीनोपाया शकुन्तला भविष्यति ।
प्रियंवदा- सखि, एहि । देवकार्यं तावदस्या निवर्तयावः । (परिक्रामतः)
प्रियंवदा –(विलोक्य) अनसूये, पश्य तावत् । वामहस्तोपहित
वदनाऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा
विभावयति । किं पुनरागन्तुकम् ।
अनसूया- प्रियंवदा द्वयोरेव (नौ मुखे) एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु
प्रकृतिपेलवा प्रियसखी !
प्रियंवदा- को नामोष्णोदकेन नवमालिकां सिञ्चति ?
विष्कम्भः
(ततः प्रविशति सुप्तोत्थितः शिष्यः)
शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्र भवता प्रवासादुपावृत्तेन
काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या
इति (परिक्रम्यावलोक्य च )
हन्त प्रभातम् ! तथा हि, -
यात्येकतोऽस्तशिखरं परिरोषधीना –
माविष्कृतारुणपुरः सर एकतोऽर्कः ।
तेजोद्वयस्य युगपद्वयसनोदयाभ्यां
लोको नियम्यत इवात्मदशान्तरेषु ॥२॥
अपि च ,
अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टिं न नन्दयति संस्मरणीय शोभा
इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्र सुदुःसहानि ॥३॥
अनसूया- यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन
राज्ञा शकुन्तलायामनार्यमाचरितम् ।
शिष्यः- यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
(निष्क्रान्तः)
अनसूया- प्रतिबुध्दापि किं करिष्यामि? न म उचितेष्वपि निजकरणीयेषु
हस्तपादं प्रसरति ! काम इदानीं सकामो भवतु, येनासत्यसन्धे
जने शुध्दहृदया सखी पदं कारिता । अथवा दुर्वासः शाप एष
विकारयति । अन्यथा, कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः
कालस्य लेखमात्रमपि न विसृजति ? तदितोऽभिज्ञानमङ्गुलीयकं
तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् ? ननु
सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य
तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्वां शकुन्तलां
निवेदयितुम् । इत्थंगतेऽस्माभिः किं करणीयम् ?
(प्रविश्य) प्रियंवदा- (सहर्षम्) सखि, त्वरस्व त्वरस्व शकुन्तलायाः
प्रस्थानकौतुकं निर्वर्तयितुम् ।
अनसूया- सखि, कथमेतत् ?
प्रियंवदा- श्रृणु । इदानीं सुखशायितपृच्छिका शकुन्तलासकाशं गतास्मि ।
अनसूया – ततस्ततः ?
प्रियंवदा- तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवम्
अभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक
एवाहुतिः पतिता ।वत्से, सुशिष्यपरिदत्ता विद्येवाशोचनीयासि
संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः समीपं विसर्जयामीति।
अनसूया- अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ?
प्रियंवदा- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
अनसूया- (सविस्मयं) कथमिव ?
प्रियंवदा- (संस्कृतमाश्रित्य)
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४॥
अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
प्रियंवदा- सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृत्ता
भवतु ।
अनसूया- तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक, तदिमां
हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां
दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
प्रियंवदा- तथा क्रियताम् । (अनसूया निष्क्रान्ता, प्रियंवदा नाट्येन सुमनसो
गृहणाति)
(नेपथ्ये) गौतमि, आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा- (कर्णंदत्वा) अनसूये त्वरस्व । एते खलु हस्तिनापुरगामिनः
ऋषयः शब्दाय्यन्ते ।
(प्रविश्य समालम्भनहस्ता) अनसूया – सखि, एहि । गच्छावः । (इति
परिक्रामतः)
प्रियंवदा- (विलोक्य) एषा सूर्योदय एव शिखामज्जिता प्रतिष्ठितनीवारहस्ताभिः
स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति ।
उपसर्पाव एनाम् । (इत्युपसर्पतः) (ततः प्रविशति यथोद्दिष्टव्यापारा
आसनस्था शकुन्तला )
तापसीनामन्यतमा- (शकुन्तलां प्रति) जाते, भर्तुर्बहुमानसूचकं महादेवीशब्दं
लभस्व ।
द्वितीया- वत्से, वीरप्रसविनी भव ।
तृतीया- वत्से, भर्तुर्बहुमता भव ।
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)
सख्यौ- (उपसृत्य) सखि, सुखमज्जनं ते भवतु ।
शकुन्तलां- स्वागतं मे सख्योः । इतो निषीदतम् ।
उभे- (मङ्कलपात्राण्यादाय, उपविश्य) हला, सज्जाभव, यावत्ते
मङ्गलसमालम्भनं परिचयावः ।
शकुन्तला- इदमपि बहु मन्तव्यम् ।दुर्लभमिदानीं सखीमण्डनं भविष्यतीति ।
उभे- सखि, उचितं न ते मङ्गलकाले रोदितुम् । (इत्यश्रूणि प्रमृज्य
नाट्येन प्रसाधयतः )
प्रियंवदा- आभरणोचितं रुपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ।
(प्रविश्योपायनहस्तावृषिकुमारकौ)
उभे- इदमलङ्करणम् । अलंक्रियतामत्रभवती ।
(सर्वा विलोक्य विस्मिताः)
गौतमी- वत्स नारद, कुत एतत् ?
प्रथमः- तातकाश्यपप्रभावात् ।
गौतमी- किं मानसी सिध्दीः?
द्वितीयः- न खलु । श्रूयताम् । तत्र भवता वयमाज्ञाप्ताः शकुन्तला-
हेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं-
क्षौमं केन चिदिन्दुपाडु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केन चित् ।
अन्येभ्यो वनदेवताकरतलेरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्दिभिः ॥५॥
प्रियंवदा- (शकुन्तलां विलोक्य) हला, अनयाभ्युपपत्या सूचिता ते
भर्तुगेहेऽनुभवितव्या राजलक्ष्मीः । (शकुन्तला व्रीडां निरुपयति)
प्रथमः-गौतम, एह्येहि । अभिषेकावतीर्णाय काश्यपाय वनस्पतिसेवां
निवेदयावः ।
द्वितीयः- तथा । (इति निष्क्रान्तौ)
सख्यौ- अये, अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेन अङ्गेषु ते
आभरणविनियोगं कुर्वः ।
शकुन्तला- जाने वां नैपुण्यं। (उभे नाट्येनालंकुरुतः)
(ततः प्रविशति स्नानोलेपाः काश्यपः)
काश्यपः-
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्बितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥६॥
(इति परिक्रामति)
सख्यौ – हला शकुन्तले, अवसितमण्डनासि । परिधत्स्व साम्प्रतं
क्षौमयुगलम् ।
गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
शकुन्तला- (सव्रीडम्) तात, वन्दे ।
काश्यपः – वत्से,
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥७॥
गौतमी- भगवन्, वरः खल्वेषः । नाशीः ।
काश्यपः- वत्से । इतस्सद्यो हुताग्नीं प्रदक्षिणीकुरुष्व ।
(सर्वे परिक्रामन्ति )
काश्यपः – (ऋक्छन्दसाऽऽशास्ते)
अमी वेदिं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥८॥
प्रतिष्ठस्वेदानीम् - (सदृष्ठिक्षेपम्) क्व ते शर्ङ्गरवमिश्राः ?
(प्रविश्य) शिष्याः – भगवन्, इमे स्मः ।
काश्यपः – भगिन्यास्ते मार्गमादेशय ।
शार्ड्गरवः – इत इतो भवती । (सर्वे परिक्रामन्ति)
काश्यपः- भो भोः । सन्निहितास्तपोवनतरवः !
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
अद्ये वः कुसुम प्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥९॥
(कोकिलरवं सूचयित्वा)
अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः ।
परभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥१०॥
(आकाशे)
रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः
शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥११॥
(सर्वे सविस्मयमाकर्णयन्ति )
गौतमी- जाते, ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनं देवताभिः । प्रणम
भगवतीः ।
शकुन्तला- (सप्रणामं परिक्रम्य, जनान्तिकम्) हला प्रियंवदे ! आर्यपुत्र-
दर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः
प्रवर्तेते ।
प्रियंवदा- न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य
तपोवनस्यापि तावत्समवस्था दृश्यते !
उद्गलितदर्भकबला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥१२॥
शकुन्तला- (स्मृत्वा) तात, लताभगिनीं वनज्योत्स्नां तावत् आमन्त्रयिष्ये ।
काश्यपः- अवैमि तेऽस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन ।
शकुन्तला –( उपेत्य लतामालिङ्ग्य) वनज्योत्स्ने; चूतसङ्गतापि मां
प्रत्यालिङ्गेतोगताभिः शाखाबहाभिः । अद्यप्रभृति दूरपरिवर्तिनी ते खलु
 भविष्यामि ।
काश्यपः-
सङ्कल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेयम्
अस्यामहं त्वयि च संप्रति वीतचिन्तः ॥१३॥
इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
काश्यपः- अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या
शकुन्तला ! (सर्वे परिष्क्रामन्ति)
शकुन्तला- तात, एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदाऽनघप्रसवा
भवति, तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ।
काश्यपः- नेदं विस्मरिष्यामः ।
शकुन्तला-( गतिभङ्गं रुपयित्वा) को नु खल्वेष निवसने मे सज्जते ?
काश्यपः- वत्से,!
यस्य
 त्वया व्रणविरोपणामिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविध्दे ।
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥१४॥
शकुन्तला – वत्स ! किं सहवासपरित्यागिनीं मामनुसरसि ? अचिरप्रसूतया
जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां
तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।
काश्यपः-
उत्पक्ष्मणोर्नयनयोरुपरुध्दवृत्तिं
बाष्पं कुरु स्थिरतया विहतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति ॥१५॥
शार्ङ्गरवः – भगवन् । ओदकान्तात् स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं
सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हसि ।
काश्यपः- तेन हीमां क्षीरवृक्षाच्छायामाश्रयामः ।
(सर्वे परिष्क्रम्य स्थिताः)
काश्यपः- (आत्मगतम्) किं नु खलु तत्र भवतो दुष्यन्तस्य युक्तरुपमस्माभिः
सन्देष्टव्यम् ? (इति चिन्तयति)
शकुन्तला- (जनान्तिकं) हला, पश्य ।नलिनीपत्रान्तरितम् अपि
सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति दुष्करमहं करोमीति ।
अनसूया- सखि, मैवं मन्त्रयस्व ।
एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम्
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥१६॥
काश्यपः- शार्ङ्गरव, इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य
वक्तव्यः ।
शार्ङ्गरवः- आज्ञापयतु भगवान् ।
काश्यपः-
अस्मान्साधु विचिन्त्य संयमधनानुच्चै कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥१७॥
शार्ङ्गरवः – गृहीतः सन्देशः ।
काश्यपः- वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा
वयम् ।
शार्ङ्गरवः – न खलु धीमतां कश्चिदविषयो नाम !
काश्यपः- सा त्वमितः पतिकुलं प्राप्य,
शुश्रूषस्व कुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥१८॥
कथं वा गौतमी मन्यते ?
गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।
शकुन्तला- तात, इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ?
काश्यपः- वत्से, इमे अपि प्रदेये । न युक्तमनयोः तत्र गन्तुमु । त्वया सह
गौतमी यास्यति ।
शकुन्तला- (पितरमश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा
मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ? ।
काश्यपः- वत्से, ! किमेवं कातरासि ?
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीनार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥१९॥
(शकुन्तला पितुः पादयोः पतति)
काश्यपः- यदिच्छामि ते तदस्तु ।
शकुन्तला – (सख्यावुपेत्य) हला, द्वे अपि मां सममेव परिष्वजेथाम् ।
सख्यौ - (तथा कृत्वा) सखि, ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो
भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
शकुन्तला – अनेन सन्देहेन वामाकम्पितास्मि !
सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।
शकुन्तला – (आश्रमाभिमुखी स्थित्वा ) तात, कदा नु भूयः तपोवनं प्रेक्षिष्ये ?
काश्यपः- श्रूयताम् ।
भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्ता तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥२०॥
गौतमी- जाते, ! परिहीयते गमनवेला ! निवर्तय पितरम् । अथवा चिरेणापि
पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।
काश्यपः- वत्से, उपरुध्यते तपोऽनुष्ठानम् ।
शकुन्तला – (भूयः पितरमश्लिष्य) तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं
मम कृत उत्कण्ठस्व।
काश्यपः – (सनिःश्वासम्)
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ? ।
उटजद्वारविरुढं नीवारबलिं विलोकयतः ॥ २१ ॥
गच्छ । शिवास्ते पन्थानः सन्तु ।
 ::(निष्क्रान्ता शकुन्तला सहयायिनश्च)
सख्यौ- (शकुन्तलां विलोक्य) हा धिक् ! हा धिक् ! अन्तर्हिता शकुन्तला
वनराज्या ।
काश्यपः – (सनिः श्वासम्) अनसूये, ! गतवती वा सहचारिणी । निगृह्य
शोकमनुगच्छत मां प्रस्थितम् ।
उभे- तात । शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशामः ?
काश्यपः – स्नेहप्रवृत्तिरेवंदर्शिनी (सविमर्शं परिक्रम्य ) हन्त भोः । शकुन्तलां
पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः ?
अर्थो हि कन्या परकीय एव
तामद्य सम्प्रेष्य परिग्रहीतुः ।
जानो ममायं विशदः प्रकामं
प्रत्यर्पितन्यास इवान्तरात्मा ॥२२॥
(इति निष्क्रान्ताः सर्वे)
॥ इति चतुर्थोऽङ्कः ॥