अभिज्ञानशाकुन्तलम्/तृतीयोऽङ्कः

विकिस्रोतः तः
Jump to navigation Jump to search
← द्वितीयोऽङ्कः अभिज्ञानशाकुन्तलम्
तृतीयोऽङ्कः
कालिदासः
चतुर्थोऽङ्कः →

(ततः प्रविशति कुशानादाय यजमानशिष्यः)
शिष्यः- अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र एवाश्रमं तत्र
भवति निरुपद्रवाणि नः कर्माणि संवृत्तानि ।
का कथा बाणसन्धाने ज्याशब्देन दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥१॥
यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि ।
(परिक्रम्यावलोक्य च, आकाशे ) प्रियंवदे, कस्येदमुशिरानुलेपनं
मृणालवन्ति च नलिनीपत्राणि नीयन्ते ? (श्रुतिमभिनीय) किं
व्रवीषि ? “आतपलङ्घनात् बलवदस्वस्था शकुन्तला । तस्याः
शरीरनिर्वापणाय” इति ? तर्हि यत्नात् उपचर्यताम् । सा खलु
भगवतः कण्वस्य कुलपतेरुच्छ्वासितम् । अहमपि तावद्वैतानिकं
शान्त्युदकमस्यै गोतमीहस्ते विसर्जयिष्यामि ।
(इति निष्क्रान्तः)
विष्कम्भकः
(ततः प्रविशति कामयमानावस्थो राजा)
राजा- (सचिन्तं निःश्वस्य)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥२॥
(मदनबाधां निरुप्य) भगवन् कुसुमायुध, त्वया चन्द्रमसा च
विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः । कुतः –
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोः
द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैः
त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥३॥
अथवा
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥४॥
(सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः
श्रमक्लान्तमात्मानं विनोदयामि ? (निः श्वस्य) किं नु खलु मे
प्रियादर्शनादृते शरणमन्यत् ? यावदेनामन्विष्यामि । (शूर्यमवलोक्य)
इमाम् उग्रतपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना
शकुन्तला गमयति । तत्रैव तावद्गच्छामि । (परिक्रम्य संस्पर्शं
रुपयित्वा) अहो, प्रवातसुभगोऽयमुद्देशः ।
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥५॥
(परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे
सन्निहितया शकुन्तलया भवितव्यम् । तथा हि ।
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिक्ते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥६॥
यावद्विटपान्तरेणावलोकयामि ।(परिक्रम्य तथा कृत्वा, सहर्षम्)
अये, लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं
शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां
विश्रम्भकथितानि । (इति विलोकयन् स्थितः)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
सख्यौ -::(उपवीज्य सस्नेहं) हला शकुन्तले, अपि सुखाय ते
नलिनीपत्रवातः ?
शकुन्तला- किं मां वीजयतः सख्यौ ?
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः)
राजा- बलवदस्वस्थशरीरा खलु शकुन्तला दृश्यते ।
(सवितर्कम्) तत्किमयमातपदोषः स्यात्, उत यथा मे मनसि
वर्तते ? (साभिलाषं निर्वर्ण्य) अथवा कृतं सन्देहेन ।
स्तनन्यस्तोशीरं प्रशिथिलितमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो –
र्न तु ग्रीष्मस्यैवं सुभगमपराध्दं युवतिपु ॥७॥
प्रियंवदा- (जनान्तिकम्)अनसूये, तस्य राजर्षेः प्रथमदर्शनात् आरभ्य
पर्युत्सुकेव शकुन्तला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को
भवेत् ?
अनसूया –सखि, ममापीदृश्याशङ्का हृदयस्य । भवतु प्रक्ष्यामि तावदेनाम् ।
(प्रकाशम्) सखि, प्रष्टव्यासि किमपि । बलवान् खलु ते सन्तापः ।
शकुन्तला – (पूर्वार्धेन शयनादुत्थाय) हला, किं वक्तुकामासि ?
अनसूया – हला, शकुन्तले, अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य ।
किं तु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते, तादृशी
तव पश्यामि । कथय, किंनिमित्तं ते संतापः ? विकारं खलु
परमार्थतोऽज्ञात्वांनारम्भः प्रतीकारस्य !
राजा- अनसूयामप्यनुगतॆ मदीयस्तर्कः ।
शकुन्तला – (आत्मगतम्) बलवान् खलु मेऽभिनिवेशः ! इदानीमपि सहसैतयोर्न
शक्नोमि निवेदयितुम् ।
प्रियंवदा- सखि, शकुन्तले, सुष्ठु एषा भणति ।
किमात्मन आतङ्कमुपेक्षसे ? अनुदिवसं खलु परिहीयसेऽङ्गैः !
केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
राजा- अवितथमाह प्रियंवदा ! तथा हि, -
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥८॥
शकुन्तला- सखि, कस्य वान्यस्य कथयिष्यामि ? किंत्वायासयित्रीदानीं वां
भविष्यामि ।
उभे- अत एव खलु निर्बन्धः । स्निग्धजन संविभक्तं हि दुःखं सह्यवेदनं
भवति !
राजा-पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्ण-
मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥९॥
शकुन्तला- सखि, यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः –
---------------(इत्यर्धॊक्ते लज्जां नाटयति )
उभे- कथयतु प्रियसखी ।
शकुन्तला- तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ।
राजा- (सहर्षम्) श्रुतं श्रोतव्यम् !
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥१०॥
शकुन्तला – यद्यपि वामनुमतं,तदा तथा वर्तेथां यथा तस्य राजर्षेः अनुकम्पनीया
भवामि । अन्यथावश्यं सिञ्चितं मे तिलोदकम् ।
राजा- संशयच्छेदि वचनम् !
प्रियंवदा- (जनान्तिकम्) अनसूये, दूरगतमन्मथाऽक्षमेयं कालहरणस्य
यस्मिन् बध्दभावैषा, स ललामभूतः पौरवाणाम् । तद्युक्तमस्या
अभिलाषोऽभिनन्दितुम् ।
अनसूया – तथा यथा भणसि ।
प्रियवंदा- (प्रकाशम्) सखि, दिष्ट्यानुरुपस्तेऽभिनिवेषः । सागरमुज्झित्वा
कुत्र वा महानद्यवतरति ?क इदानीं सहकारमन्तरेण
अतिमुक्तलतां पल्लवितां सहते ?
राजा- किमत्र चित्रम्, यदि विशाखे शशाङ्कलेखामनुवर्तेते !
अनसूया- कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं
सम्पादयावः ?
प्रियंवदा- निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।
अनसूया – कथमिव ?
प्रियंवदा- ननु स राजर्षिरस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान् दिवसान्
प्रजागारकृशो लक्ष्यते ।
राजा सत्यमित्थंभूत एवास्मि । तथा हि, -
इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजान्यस्तापाङ्गप्रसरिभिरश्रुभिः ।
अनतिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥११॥
प्रियंवदा- (विचिन्त्य) हला, मदनलेखोऽस्य क्रियताम् । तं सुमनोगोपितं
कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि ।
अनसूया- रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति ?
शकुन्तला- को नियोगो वा विकल्प्यते ?
प्रियंवदा- तेन हि आत्मन उपन्यासपूर्वं चिन्तय तावत् किमपि ललितपदबन्धनम् |।
शकुन्तला- हला, चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् ।
राजा- (सहर्षम्)
अयं स ते तिष्ठति सङ्गमोत्सुको
विशङ्कसे भीरु यतोऽवधीरणाम्
लभते वा प्रार्थयिता न वा श्रियं
श्रिया दुरापः कथमीप्सितो भवेत् ॥१२॥
सख्यौ- अयि आत्मगुणावमानिनि, क इदानीं शरीरनिर्वापयित्रीं शारदीं
ज्योत्स्नां पटान्तेन वारयति ?
शकुन्तला- (सस्मितं)नियोजितेदानीमस्मि । (इत्युपविष्टा चिन्तयति)
राजा- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि ।
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयत्न्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥१३॥
शकुन्तला- हला, चिन्तितं मया गीतवस्तु । असन्निहितानि पुनर्लेखनसाधनानि !
प्रियंवदा- एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ।
शकुन्तला- (यथोक्तं रुपयित्वा) हला, शृणुतमिदानीं सङ्गतार्थं न वेति ।
उभे- अवहिते स्वः ।
शकुन्तला- (वाचयति)
तव न जाने हृदयं मम पुनः कामो दिवापि रात्रिमपि ।
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥१४॥
राजा- (सहसोपसृत्य)
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥१५॥
सख्यौ- (विलोक्य सहर्षमुत्थाय) स्वागतमविलम्बिनो मनोरथस्य ।
(शकुन्तलाभ्युत्थातुमिच्छति)
राजा- अलमलमायासेन ।
सन्दष्टकुसुमशयनान्या शुक्लान्तबिसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥१६॥
अनसूया- इतः शिलातलैकदेशमलङ्करोतु वयस्यः ।
(राजोपविशति शकुन्तला सलज्जा तिष्ठति )
प्रियंवदा- द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर्मां
पुनरुक्तवादिनीं करोति ।
राजा- भद्रे, नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।
प्रियंवदा- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष
युष्माकं धर्मः ।
राजा- नास्मात्परम् ।
प्रियंवदा- तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता
मदनेनारोपिता ।
राजा- भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि
शकुन्तला- (प्रियंवदामवलोक्य) हला, किमन्तः पुरविरहपर्युत्सुकस्य
राजर्षेरुपरोधेन ?
राजा- सुन्दरी,
इदमनन्यपरायणमन्यथा
हृदयसन्निहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे
मदनबाणहतोऽस्मि हतः पुनः ॥१७॥
अनसूया- वयस्य, बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी
बन्धुजनशोचनीया न भवति तथा निर्वाहय।
राजा- भद्रे, किं बहुना-
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररसना चोर्वीं सखी च युवयोरियम् ॥१८॥
उभे- निर्वृते स्वः ।
प्रियंवदा- (सदृष्टिक्षेपम्) अनसूये, एष इतोदत्तदृष्टिरुत्सुको मृगपोतको
मातरमन्विष्यति । एहि संयोजयाव एनम् । (इत्युभे प्रस्थिते)
शकुन्तला- हला, अशरणास्मि । अन्यतरा युवयोरागच्छतु ।
उभौ- पृथिव्या यः शरणं स तव समिपे वर्तते ।
(इति निष्क्रान्ते)
शकुन्तला- कथं गते एव ?
राजा- अलमावेगेन । नन्वयमाराधयिता जनस्तवसमीपे वर्तते ?
किं शीतलैः क्लमविनोदिभिरार्द्रवातान्
सञ्चारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते
संवाहयामि चरणावुत पद्मताम्रौ ॥१९॥
शकुन्तला- न माननीयेष्वात्मानमपराधयिष्ये ।
(इत्युत्थाय गन्तुमिच्छति)
राजा- सुन्दरि, अपरिनिर्वाणो दिवसः, इयं च ते शरीरावस्था ।
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥२०॥
(इति बलादेनां निवर्तयति)
शकुन्तला- पौरव, रक्ष विनयम् । मदनसन्तप्तापि न खल्वात्मनः प्रभवामि ।
राजा- भीरु, अलं गुरुजनभयेन । दृष्टा ते विदितधर्मा तत्रभवान्नात्र दोषं
ग्रहीष्यति कुलपतिः । पश्य,
गान्धर्वेण विवाहेन बह्वयो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥२१॥
शकुन्तला- मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।
राजा- भवतु मोक्ष्यामि ।
शकुन्तला- कदा ?
राजा-
अपरिक्षतकोमलस्य तावत्
कुसुमस्येव नवस्य षट्पदेन
अधरस्य पिपासता मया ते
सदयं सुन्दरि गृह्यते रसोऽस्य ॥२२॥
(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन )
(नेपथ्ये) चक्रवाकवधुके, आमन्त्रयस्व सहचरम् । उपस्थिता रजनी !
शकुन्तला –::(कर्णं दत्वा, ससंभ्रमम्)पौरव, असंशयं मम
शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । तद्विटपान्तरितो
भव ?
राजा- तथा । (इत्यात्मानमावृत्य तिष्ठति )
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च )
सख्यौ- इत इत आर्या गौतमी ।
गौतमी- (शकुन्तलामुपेत्य )जाने, अपि लघुसन्तापानि तेऽङ्गानि ?
शकुन्तला-आर्ये, अस्ति मे विशेषः ।
गौतमी- अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । (अभ्युक्ष्य)
वत्से, परिणतो दिवसः । एहि । उटजमेव गच्छामः । (प्रस्थिताः)
शकुन्तला- (आत्मगतम्) हृदय, प्रथममेव सुखोपनते मनोरथे कातरभावं न
मुञ्चसि । सानुशयविघटितस्य कथं ते सम्प्रतं सन्तापः ? (पदान्तरे
स्थित्वा, प्रकाशम्) लतावलय, सन्तापहारक, आमन्त्रये त्वां
भूयोऽपि परिभोगाय ।
(इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः)
राजा- (पूर्वस्थानमुपेत्य, सनिः श्वासम्) विघ्नवत्यः प्रार्थितार्थसिध्दयः ।
मया हि, -
मुहुरङ्गुलिसंवृताधरोष्ठं
प्रतिषेधाक्षरविक्लवाभिरामम् ॥
मुखमंसविवर्ति पक्ष्मलाक्ष्याः
कथमप्युन्नमितं न चुम्बितं तु ॥२३॥
क्व नु खलु सम्प्रति गच्छामि ? अथवा, इहैव प्रियापरिभुक्तमुक्ते
लतावलये मुहूर्तं स्थापयामि । (सर्वतोऽवलोक्य)
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः ।
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥२४॥
(आकाशे) राजन् !
सायंतने सवनकर्मणि संप्रवृत्ते
वेदीं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः
सन्ध्यापयोदकपिशाः पिशिताशनानाम् ॥२५॥
(इति निष्क्रान्तः)
राजा- अयमहमागच्छामि ।
॥ इति तृतीयोऽङ्कः ॥