अनिरुद्धसंहिता/अध्यायः ७

विकिस्रोतः तः
← अध्यायः ६ अनिरुद्धसंहिता
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
अनिरुद्धसंहितायाः अध्यायाः

अथ सप्तमोऽध्यायः
भृगुः---
चक्राब्जमण्डल कीद्दक् वदस्व परमश्वर
भगवान्--
चक्राब्जमण्डलं वक्ष्ये विस्तरेणावधारय।। 1 ।।
सूत्रपातविधिं चैव मानवृद्धिं तथैव च।
रजसा पूरणं चैव चक्रपूजाफलं तथा।। 2 ।।
मण्डपं पूर्ववत्कृत्वा अलंकृत्य विधानतः।
तन्मध्ये वेदिकं कृत्वा पञ्चहस्तप्रमाणतः।। 3 ।।
दृढासमंतथाकारं प्रागुत्तरत............।
..............दर्पणसन्निमम्।। 4 ।।
चतुरङ्गुलकां कृत्वा आधारद्व्यङ्गुलं मवेत्।
कुम्भवेदिं विशेषेण हस्तमानसमुच्छ्रिताम्।। 5 ।।
विस्तारं तु विशेषेण चतुर्हस्तं त्रिहस्तकम्।
पञ्चहस्तमथैवापि आधारं तु त्रियंगुलं।
विस्तारायामसदृशा होमवेदिस्तथा भवेत्।
अथवा तालविस्तार मुन्नतं तु त्रियङ्गुलम्।। 7 ।।
वेदिमध्ये लिखेद्विद्वान् मण्डलं चक्रसंज्ञकम्।
चक्रं त्रिविधमुद्दिष्टमुत्तमाधममध्यमम्।। 8 ।।
वक्ष्यामि चोत्तमं प्रोक्तं समासादवधारय
अक्षक्षेत्रे लिखेत् पद्मं पूर्ववत्तालमानतः।। 9 ।।
वृत्तात्संजायते सर्वं वृत्तमध्यात्प्रजायते।
पद्मबाह्ये नाभिनेमि एकधा वा द्विधा त्रिधा।। 10 ।।
अरक्षेत्रं तु तद्वाह्ये बहिर्नेमिस्तु पूर्ववत्।
चतुरङ्गुलमानेन नाभिनेमिः प्रकीर्तितः।। 11 ।।
षडङ्गुलप्रमाणेन अरक्षेत्रं प्रकीर्तितम्।
अरत्रिभागकं सूत्रं स्थापयेत् द्वयपार्श्वयोः।। 12 ।।
द्व्यंशमानेन सूत्रेण भ्रामयेन्मन्त्रवित्तमः।
अपरे तु तथाधः कुर्यान्मातुलुङ्गाकृतिर्भवेत्।। 13 ।।
नेमिक्षेत्राद्बहिर्वीथ्यां पत्रवल्लीं लिखेद्बुधः।
त्र्यङ्गुलं वल्लिमानं स्यात् बाह्यनेमि त्रियङ्गुलम्।। 14 ।।
अरक्षेत्रं बहिः कार्यं षोडशाङ्गुलमानतः।
अरस्थाने लिखेत् चक्रं द्वादशं षोडशं तु वा।। 15 ।।
चतुर्दशाङ्गुलं चक्रं चतुरङ्गेन भूषितम्।
अक्षं नाभिररं नेमिश्चतुरङ्गमिति स्मृतम्।। 16 ।।
अक्षमङ्गुलकं प्रोक्तं नाभिनोमी तथैव च।
चतुरङ्गुलमानं तु अरक्षेत्रं प्रजायते।। 17 ।।
तदरं वृत्तसंकाशमश्राकारमथापि वा।
अब्जपत्रसमाकारमिन्दीवरदलच्छदम्।। 18 ।।
अर्धचन्द्रसमाकारं द्विजाण्डसदृशं तु वा।
एवं द्वादशचक्रस्य अरक्षेत्रे विशेषतः।। 19 ।।
तद्बहिर्नेमिभूभागं वल्लिक्षेत्रंतु पूर्ववत्।
बहिर्नाभि तथा कुर्यात् अरक्षेत्रं तथा भवेत्।। 20 ।।
तदरं पूर्ववत्कुर्यान्मानं पूर्ववदिष्यते।
नेमिक्षेत्रं बहिः कुर्यात् प्रधयश्चबहिस्तथा।। 21 ।।
द्विधावृत्तं बीथिसंघं व्योमवृत्तं बहिर्भवेत्।
चतुरश्रं ततः कुर्यात् पीठादीन् पूर्ववल्लिखेत्।। 22 ।।
रजसा पूरयेत् पश्चात् द्विविधेनोज्बलेन च।
पद्मंतु पूर्ववद्विप्र नाभि नेमि तु पीतलम्।। 23 ।।
अरक्षेत्रं तु रक्तं स्यादरं वै कृष्णसन्निभम्।
पत्रवल्लींतु शुक्लेन नाभिनेमि तु श्यामलम्।। 24 ।।
एकद्वारकृतंचैव अरांते च प्रकल्पयेत्।
इन्दीवरमातुलुङ्ग पद्मपत्र यवोदरम्।। 25 ।।
पिप्पलोदरकञ्चैव परशुं वज्रसन्निभम्।
चतुरश्रं च वृत्तं च अर्धचन्द्रं च कूर्परम्।। 26 ।।
शंङ्ख चक्रं द्वादशैते पूर्वादीनन्तु देशिकः।
अक्षंतु पीतलं प्रोक्तं सर्वचक्रेषु संमतम्।। 27 ।।
नाभिनेमिररक्षेत्रं वर्णभेदैः प्रपूरयेत्।
यथाशोभानुरूपेण पूरयेच्च यथारुचि।। 28 ।।
पूर्ववत्पत्रवल्लींतु नाभिनेमिसितं भवेत्।
अरसंघं तु कृष्णेन अन्तरालं तु पीतलम्।। 29 ।।
प्रधिसंघं विशेषेण नानावर्णैः प्रपूरयेत्।
व्योमवृत्तं तथा कृष्णं पीठादीन् पूर्ववच्चरेत्।। 30 ।।
रेखात्रयं विशेषेण सितं रक्तं च कृष्णकम्।
अन्तः पीठं विशेषेण पाण्डुरक्तेन पूरयेत्।। 31 ।।
चक्रत्रयसमायुक्त मुत्तमं परिकीर्तितम्।
चक्रद्वयसमायुक्तं मध्यमं परिचक्षते।। 32 ।।
एकमप्यधमं प्रोक्तमित्येतत् त्रिविधं भवेत्।
चक्रमध्ये यजेद्देवं नारायणमनामयम्।। 33 ।।
दलेषु वासुदेवादीन् सोमं व्योम्नि प्रपूजयेत्।
नाभिक्षेत्रे यजेच्छ्रीञ्च नेमिक्षेत्रे सरस्वतीम्।। 34 ।।
अरक्षेत्रे जयाञ्चैव अरे मूर्तिं समायजेत्।
अरक्षेत्रे तथाङ्गेषु द्वादसादित्याकान् यजेत्।। 35 ।।
बाह्यारे तु विशेषेण केशवादीन्प्रपूजयेत्।
प्रधिक्षेत्रे विशेषेण समुद्रादींश्च पूजयेत्।। 36 ।।
पीठादिके यथापूर्वं पूजयेदिन्द्रपावकौ।
अनेकोपचारकैर्वापि द्वात्रिंशद्भिरथापि वा।। 37 ।।
षोडशै र्वा विशेषेण प्रोक्षणं स्नानमाचरेत्।
यश्चक्रे पूजयेद्विद्वान् सोऽपि तत्पदमाप्नुयात्।। 38 ।।
अर्थार्थी चार्थमाप्नोति जयार्थी जयमाप्नयात्।
कामार्थी काममाप्नोति पुत्रार्थी पुत्रमाप्नयात्।। 39 ।।
अश्वमेधाष्टकं पुण्यं प्राप्नयाच्चक्रपूजनात्।
प्राजापत्यशतं चैव गोसहस्रफलं तथा।। 40 ।।
पवित्रारोपणे चैव तथा स्नपन कर्मणि।
प्रायश्चित्तेषु सर्वेषु दुर्निमित्तादिकेषु च।। 41 ।।
नृपरोगादिगे प्राप्ते शत्रुभिः परिपीडने।
अनावृष्ट्यादिके प्राप्ते चक्राब्जे संयजेद्विभुम्।। 50 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
चक्राब्जमण्डलं नाम सप्तमोऽध्यायः


*******************--------------