सामग्री पर जाएँ

अथर्ववेदः/काण्डं ९/सूक्तम् ०५

विकिस्रोतः तः
← सूक्तं ९.०४ अथर्ववेदः - काण्डं ९
सूक्तं ९.०५
भृगुः
सूक्तं ९.०६ →
दे. पञ्चौदनो अजः, मन्त्रोक्ताः। त्रिष्टुप्, ३ चतुष्पदा पुरोतिशक्वरी जगती, ४, १० जगती, १४, १७, २७-३० अनुष्टुप्, ३० ककुम्मती, १६ त्रिपदानुष्टुप्, १८, ३७ त्रिपदा विराड् गायत्री, २३ पुर उष्णिक् २४ पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्विराड् जगती, २०-२२, २६ पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद् बार्हता भुरिक् ३१ सप्तपदार्षी, ३२-३५ दशपदा प्रकृतिः, ३६ दशपदाकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप् ।

आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन् ।
तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥१॥
इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् ।
ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥
प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।
तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥३॥
अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः ।
माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥
ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् ।
पर्याधत्ताग्निना शमितारः शृतो गच्छतु सुकृतां यत्र लोकः ॥५॥
उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् ।
अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥६॥
अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः ।
अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥७॥
पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि ।
ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥
अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः ।
पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥
अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।
पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥१०॥ {११}
एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति ।
अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥११॥
ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति ।
स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥
अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्।
इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥१३॥
अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।
तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥
एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः ।
स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥१५॥
अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् ।
तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥
येना सहस्रं वहसि येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१७॥
अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निर्ऋतिं बाधमानः ।
तेन लोकान्त्सूर्यवतो जयेम ॥१८॥
यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।
सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥
अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् ।
अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ {१२}
सत्यं चर्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट् शिरः ।
एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥२१॥
अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥
नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्।
सर्वमेनं समादायेदमिदं प्र वेशयेत्॥२३॥
इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति ।
इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२४॥
पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥
पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।
स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२६॥
या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् ।
पञ्चौदनं च तावजं ददातो न वि योषतः ॥२७॥
समानलोको भवति पुनर्भुवापरः पतिः ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२८॥
अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् ।
वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥२९॥
आत्मानं पितरं पुत्रं पौत्रं पितामहम् ।
जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥३०॥ {१३}
यो वै नैदाघं नामर्तुं वेद ।
एष वै नैदाघो नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३१॥
यो वै कुर्वन्तं नामर्तुं वेद ।
कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वै कुर्वन् नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३२॥
यो वै संयन्तं नामर्तुं वेद ।
संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वै संयन् नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३३॥
यो वै पिन्वन्तं नामर्तुं वेद ।
पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वै पिन्वन् नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३४॥
यो वा उद्यन्तं नामर्तुं वेद ।
उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वा उद्यन्नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३५॥
यो वा अभिभुवं नामर्तुं वेद ।
अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
एष वा अभिभूर्नामर्तुर्यदजः पञ्चौदनः ।
निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥३६॥
अजं च पचत पञ्च चौदनान् ।
सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्णन्तु त एतम् ॥३७॥
तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥३८॥ {१४}

भाष्यम्

(स्वामी गङ्गेश्वरानन्द उदासीनः)

विनियोगः--अत्र साम्प्रदायिका पञ्चौदनसवे 'आ नयैतम्" इत्यर्थसूक्तस्य विनियोगमाहुः। एतत्सूक्तेन निरुप्तहविरभिमर्शनं संपातं दातृवाचनं दानं च कुर्यात् । तथा च सूत्रम् -"आ नयैतम्" इत्यपराजिताद् अजमानीयमानमनुमन्त्रयते' इत्यादि । “आ नयैतम्' इति सूक्तेन संपातवन्तम् । आञ्जनान्तम्" (कौ० सू० ६४, ६-२८) इत्यन्तम् इति । एवं पशौ अनेन सूक्तेन अपराजिताद् आनीयमानम् अजमनुमन्त्रयेत । तदुक्तं वैताने– “आ नयैतम् इत्याद्याञ्जानान्तम्" (वैता० श्रौ० १०.१४) इति । तथैव अग्निचयने पुनश्चितौ 'येना सहस्रम्' इत्यनया गार्हपत्ये चीयमाना इष्टका ब्रह्मा अनुमन्त्रयेत । तदुक्तं वैताने -- गार्हपत्य उक्तम् । 'अयमग्निः सत्पतिः' (अथर्व० ७.६४) 'येना सहस्रम्' (अथर्व० ९.५.१७) इति” (वैतान० श्रौ० २९.९) इति । एवमेव तत्रैव वैश्वकर्मणः होमानुमन्त्रणे तस्या एव विनियोगः । तदुक्तं वैताने --"ये भक्षयन्तः' (अथर्व० २.३५), 'एतं सधस्थाः (अ० ६.१२३) इति द्वे। 'येना सहस्रम्' (अ० ९.५.१७) इति 'वैश्वकर्मण होमान्" (वैतान० श्रौ० २९.२३) इति ।।

आ न॑यै॒तमा र॑भस्व सु॒कृतां॑ लो॒कमपि॑ गच्छतु प्रजा॒नन्।
ती॒र्त्वा तमां॑सि बहु॒धा म॒हान्त्य॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ।।१।।
आ। नय । एतम् । आ । रभस्व । सुऽकृताम् । लोकम् । अपि । गच्छतु । प्रऽजानन् ।
तीर्त्वा । तमांसि । बहुऽधा । महान्ति । अजः । नाकम् । आ । क्रमताम् । तृतीयम् ॥ १॥
एतम् अजम् अजन्मानं जीवात्मानं आनय गृहाण, स्वमनसि निदेहि, ध्यायेत् । 'ध्यै चिन्तायाम्' (९०८ भ्वा० पर०) ध्यात्वा च आरभस्व यज्ञं कुरु येन यज्ञेन सदुद्योगबलेन वा प्रजानन् संप्रबुद्धो भूत्वा सुकृतां सुकर्मिणां पुण्यशालिनां लोकम् अपि गन्तव्यं स्थानमपि गच्छतु यातु । अयम् अजः अजन्मा जीवात्मा बहुधा नैकैः प्रकारैः महान्ति तमांसि निविडान्धकारप्रचुराणि नीचोच्चजन्मानि मृत्युरूपाणि तीर्त्वा तृतीयं नाकम् अविद्यमानदुःखं परब्रह्मणो लोकम् आक्रमताम् आरोहतु। अजः न जायते यः सः, जीवात्मा। नञ्पूर्वकात् जनेर्ड: प्रत्ययः ।। १ ।।

इन्द्रा॑य भा॒गं परि॑ त्वा नयाम्य॒स्मिन्य॒ज्ञे यज॑मानाय सू॒रिम्।
ये नो॑ द्वि॒षन्त्यनु॒ तान्र॑भ॒स्वाना॑गसो॒ यज॑मानस्य वी॒राः ।।२।।
इन्द्राय । भागम् । परि। त्वा । नयामि । अस्मिन् । यज्ञे । यजमानाय । सूरिम् ।
ये । नः । द्विषन्ति । अनु । तान् । रभस्व । अनागसः। यजमानस्य । वीराः ॥२॥
अस्मिन् यज्ञे प्रकृते नाकप्राप्तिफलके यज्ञे इन्द्राय षष्ठ्यर्थे चतुर्थी, इन्द्रस्य परमात्मनः भागं भागरूपम् अंशरूपं सूरिम् ज्ञानिनं त्वा त्वां यजमानाय यजमानसमीपे परि नयामि प्रापयामि। ये नः द्विषन्ति येऽस्माकं शत्रवः दुष्कर्मादयः, तान् अनु रभस्व अनुसृत्य आक्रम्य च तद्विनाशोद्योगं कुरु । यतो हि यजमानस्य वीराः वीरपुत्रा: अनागसः निष्पापाः सन्ति । निष्पापे सत्येव दुष्कर्मादिशत्रूणां विनाशोद्योगः क्रियते जनैः ॥ २॥

प्र प॒दो ऽव॑ नेनिग्धि॒ दुश्च॑रितं॒ यच्च॒चार॑ शु॒द्धैः श॒फैरा क्र॑मतां प्रजा॒नन्।
ती॒र्त्वा तमां॑सि बहु॒धा वि॒पश्य॑न्न॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ।।३।।
प्र । पदः । अव । नेनिग्धि । दुःऽचरितम् । यत् । चचार। शुद्धैः । शफैः। आ। क्रमताम् । प्रजानन् ।
तीर्त्वा । तमांसि । बहुऽधा । विऽपश्यन् । अजः । नाकम् । आ । क्रमताम् । तृतीयम् ॥ ३ ॥
हे जीवात्मन् ! त्वं यत् यतः निषिद्धस्थलेषु विहरणेन मलादिसंलग्नतारूपं दुश्चरितं पापाचरणं चचार विहितवान्, अतः पदः पादान् अव नेनिग्धि प्रकृष्टतया संमार्जय 'णिजिर् शौचपोषणयोः', लोट् । तात्पर्यमेतत् यद् दुष्टमार्गानुसरणं त्वया न विधातव्यमिति । अन्यच्च, प्रजानन् सम्यक्तया विज्ञाय विचार्य वा शुद्धैः शफैः पादैः आक्रमताम् पादसंचरणं विधीयताम् । निन्द्यं पन्थानं परित्यज्य प्रशस्तेन पथा गन्तव्यमिति तात्पर्यम् । अजः जन्ममरणरहितोऽयं जीवात्मा बहुधा नैकैः प्रकारैः विपश्यन् संसृतिसुलभान् दोषान् कष्टानि च विलोकयन् तमांसि दुष्टकर्माणि तीर्त्वा विहाय, तेषां पारमासाद्य तृतीयं नाकं स्वर्गलोकम् आक्रमताम् प्राप्नुयादिति ॥ ३ ॥

अनु॑छ्य श्या॒मेन॒ त्वच॑मे॒तां वि॑शस्तर्यथाप॒र्व॑१सिना॒ माभि मं॑स्थाः।
माभि द्रु॑हः परु॒शः क॑ल्पयैनं तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यैनम् ।।४।।
अनु । छ्य । श्यामेन । त्वचम् । एताम् । विऽशस्तः। यथाऽपरु । असिना । मा। अभि। मंस्थाः ।
मा। अभि । द्रुहः । परुऽशः । कल्पय । एनम् । तृतीये । नाके । अधि । वि । श्रय । एनम् ॥ ४॥
विशस्तः शिष्यवर्गेषु संश्लिष्टदोषाणां विच्छेदक गुरो ! त्वं एताम् अहङ्कारादि-दोषजनितां त्वचं त्वचमिव आच्छादिकाम् अविद्यां पापवृत्तिं वा श्यामेन श्यामवर्णवत् भयजनकेन असिना दृढ शासनरूपवज्रेण यथापरु यथापर्व अनुच्छ्य अनुक्रमं छिन्धि । हे गुरो ! मा अभिमंस्थाः शिष्यसंशोधनकार्येऽस्मिन् अभिमानं मा कुरु। तथा मा अभिद्रुहः द्रोहं मा कुरु । एनं शिष्यं परुशः अङ्गादीनां प्रतिसन्धिमादाय कल्पय समर्थं कुरु । तेन च एनं तृतीये नाके दुःखरहिते स्वर्गे अधि विश्रय संस्थापय । विशस्तः - विपूर्वात् 'शसु हिंसायाम्' इत्यस्मात् तृच्, 'ग्रसितस्कभित०' (पा० ७.२.३४) इत्यनेन इडभावः । श्यामेन -श्यायते दूरं गच्छति मनोऽस्मात्, ‘श्यैङ् गतौ' (भ्वादि०) इत्यस्मात् मक्प्रत्ययः ।
अन्ये त्वेवं व्याचक्षते-विशस्तः हे गर्वभरितवचोभिः परहिंसक जीव ! एतां त्वचम् स्वकीयाभिमानस्य उपरितनं भागं श्यामेन असिना यथापरु अनुछ्य ज्ञानरूपेण कृपाणाग्रेण अङ्गम् अङ्गं छिन्धि । मा अभिमंस्थाः सांसारिकेषु पदार्थषु अभिमानं मा कुरु। एनम् परुशः कल्पय अहङ्कृतेरस्याः खण्ड खण्डं विधेहि । एनं तृतीये नाके अधि विश्रय तत इत्थं जीवात्मानं सर्वोच्चे विश्रामस्थाने उपवेशयेति ।। ४ ॥

ऋ॒चा कु॒म्भीमध्य॒ग्नौ श्र॑या॒म्या सि॑ञ्चोद॒कमव॑ धेह्येनम्।
प॒र्याध॑त्ता॒ग्निना॑ शमितारः शृ॒तो ग॑च्छतु सु॒कृतां॒ यत्र॑ लो॒कः ।।५।।
ऋचा । कुम्भीम् । अधि । अग्नौ । श्रयामि । आ। सिञ्च । उदकम् । अव । धेहि । एनम् ।
परिऽआधत्त । अग्निना । शमितारः । शृतः । गच्छतु । सुऽकृताम् । यत्र । लोकः ॥५॥
ऋचा वेदवाण्या कुम्भीम् शिरोद्रवभरितमुखाम् उखाम् अग्नौ ब्रह्माग्नौ वागग्नौ तपोऽग्नौ वा, अधिश्रयामि संस्थापयामि। 'ब्रह्म ह्यग्निः' (शत० ब्रा० १.५.१.११), 'तपो वा अग्निः ' (शत० ब्रा० ३.४.३.२) 'दीक्षायै च त्वा तपसश्च तेजसे जुहोमि' (तै० सं० ३.३.१.१) 'अग्निर्वै वाक्' (का० श्रौ० १८।१९) । गुरोराज्ञया शिष्यः दीक्षामादाय उग्रं तपश्चरति, वेदञ्च अधीते । गुरुस्तु वेदाध्यापनेन तस्य शिरसि समग्रं ज्ञानविज्ञानादिकं सन्धारयति । तदेव कुम्भीपात्ररूपस्य शिरसोऽग्नौऽधिश्रयणं नामेति विवेकः । तस्याम् उखायाम् उदकं सोमरसादिकं आ सिञ्च । यद्वा दत्तावधानो भूत्वा रक्ष। एनं शिष्यं अवधेहि अत्र स्थापय । शमितारः शमदमादिगुणानां प्रापका:, यद्वा दोषाणां शमयितारः यूयं गुरवः एनम् अग्निना परि आधत्त आच्छादयत । एवं शृतः ज्ञानाग्निद्वारा परिपक्कः सन एष सुकृतां पुण्यशालिनां यत्र लोकः तत्र गच्छतु यात्विति भावः ॥ ५ ॥

उत्का॒मातः॒ परि॑ चे॒दत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म्।
अ॒ग्नेर॒ग्निरधि॒ सं ब॑भूविथ॒ ज्योति॑ष्मन्तम॒भि लो॒कं ज॑यै॒तम् ।।६।।
उत् । क्राम । अतः । परि। च । इत् । अतप्तः । तप्तात् । चरोः । अधि। नाकम्। तृतीयम् ।
अग्नेः। अग्निः । अधि। सम् । बभूविथ । ज्योतिष्मन्तम् । अभि । लोकम् । जय । एतम् ॥६॥
चेत् यदि त्वं अतप्तः 'तप्-धातोः लङि रूपम् भृशं तप्तोऽभवः, अतः अस्मात् तप्तात् चरोः पचनाधारभूतात् मृत्पात्रात् परि सर्वतः तृतीयं नाकं स्वर्गम् अधि लक्ष्यीकृत्य उत्क्राम उत्पत, उद्गच्छ । चरुर्मृत्पात्रम, 'चरुर्मृच्चयो भवति । चरतेर्वा समुच्चरन्त्यस्मादापः' (निरु० ३.६) । अग्निः अग्निरूपः त्वं हे शिष्य ! अग्नेः अग्निरूपात् गुरोः सकाशात् अग्निरूपं अधि अधिकृत्य संबभूविथ जज्ञिषे। इत्थम् एतं ज्योतिष्मन्तं देदीप्यमानं लोकं स्वर्गलोकं जय तत्र अधितिष्ठेति भावः ।। ६॥

अ॒जो अ॒ग्निर॒जमु॒ ज्योति॑राहुर॒जं जीव॑ता ब्र॒ह्मणे॒ देय॑माहुः।
अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ।।७।।
अजः । अग्निः । अजम् । ऊं इति । ज्योतिः। आहुः । अजम् । जीवता । ब्रह्मणे। देयम् । आहुः।
अजः । तमांसि । अप । हन्ति । दूरम् । अस्मिन् । लोके। श्रत्ऽदधानेन । दत्तः ॥७॥
अजः अजन्मा जीवात्मा अग्निः अग्निरूपो भवति । तम् एनम् अजं जीवात्मानम् उ निश्चयेन विद्वांसः ज्योतिः ज्योतिष्मन्तं ज्ञानविज्ञानादिभिः प्रकाशितं आहुः। एतादृशम् एनम् अजं जीवता सजीवरूपेण, न तु मृतरूपेण ब्रह्मणे परमपुरुषाय परमात्मने, गुरवे वा वेदाधिगमाय देयं दातव्यम् आहुः वदन्ति विवेकिनः । अस्मिन् लोके मनुष्यसमुदाये च श्रद्दधानेन श्रद्धावता गुरुणा पित्रा वा दत्तः प्रदत्तः समर्पितः अयं अजः लोकानां तमांसि अज्ञानान्धकारान् दूरम् अपहन्ति सर्वथा विनाशयति ॥७॥

पञ्चौ॑दनः पञ्च॒धा वि क्र॑मतामाक्रं॒स्यमा॑न॒स्त्रीणि॒ ज्योतीं॑षि।
ई॑जा॒नानां॑ सु॒कृतां॒ प्रेहि॒ मध्यं॑ तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ।।८।।
पञ्चऽओदनः । पञ्चऽधा। वि । क्रमताम् । आऽक्रंस्यमानः । त्रीणि । ज्योतींषि ।
ईजानानाम् । सुऽकृताम् । प्र । इहि । मध्यम् । तृतीये। नाके। अधि। वि। श्रयस्व ॥ ८ ॥
पञ्चौदनः पञ्चमहाभूतान्येव ओदनरूपाणि यस्येति, तत्राप्रतिहतगतिकः । पञ्चधा विभक्तमोदनं यस्येति केचित् । पञ्चजनेभ्यो ( पञ्चजना: चत्वारो वर्णाः निषादपञ्चमः, तेभ्यो) दीयमान: ओदनो यस्येति अन्ये । पञ्चेन्द्रियविषयाः शब्दस्पर्शरूपरसगन्धा एव ओदनं यस्येति अपरे। व्रीहि-यव-गोधूम-माष-तिलाख्यानि पञ्चप्रमुखान्नानि एव ओदनं यस्येति, वातादिपोषकपदार्थपञ्चकेन संयुक्तम् ओदनं यस्येति वा केचन । 'पञ्चरङ्गी' इति भाषायाम्। पञ्च प्रपञ्चः ओदनं भक्ष्यो यस्य स पञ्चौदनः । पञ्चशब्दो न संख्यावाची, किं तर्हि प्रपञ्चवाची। यथाह श्रीहर्षः-पञ्चास्यवत् 'पञ्चशरस्य नाम्नि प्रपञ्चवाची खलु पञ्चशब्दः' इति परे । एवम् 'उन्दी क्लेदने' (१४५८ रुधा० पर०) इत्यस्मात् 'उन्देर्नलोपश्च' (उणा० २.७६) इत्यनेन युच्, उनत्ति क्लेदयति मिश्रयति अन्नादीनीति ओदनम् । एतादृशोऽयम् अजः गतिशीलो जीवात्मा त्रीणि ज्योतींषि इन्द्रियमनो-बुद्धिसम्बन्धीनि ज्योतींषि आक्रंस्यमानः प्राप्तुमिच्छन् आङ्पूर्वकात् 'क्रमु पादविक्षेपे' (४७३ भ्वा०) इत्यस्मात् लृट: शानच् । पञ्चधाः अधस्तनीं विहाय पञ्चसु दिक्षु पञ्चप्रकारेण विक्रमतां पादविक्षेपं करोतु। हे अज! ईजानानां यजनशीलानाम्, यज्धातो: 'लिट: कानज्वा' (पा० ३.२.१०६) इत्यनेन कानच्, 'वचिस्वपि०' (पा० ६.१.१५) इत्यनेन सम्प्रसारणम्, लिट्त्वात् द्विर्वचने दीर्घः । सुकृतां सुकर्मिणां मध्ये प्रेहि गच्छ, तत्र वस । तदनन्तरं देहपातकाले तृतीये नाके स्वर्गे अधि विश्रयस्व विश्रामं कुरु ॥ ८ ॥

अजा रो॑ह सु॒कृतां॒ यत्र॑ लो॒कः श॑र॒भो न च॒त्तो ऽति॑ दु॒र्गाण्ये॑षः।
पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नः॒ स दा॒तारं॒ तृप्त्या॑ तर्पयाति ।।९।।
अज । आ। रोह। सुऽकृताम् । यत्र । लोकः। शरभः । न । चत्तः । अति । दुःऽगानि । एषः ।
पञ्चऽओदनः । ब्रह्मणे । दीयमानः । सः । दातारम् । तृप्त्या । तर्पयाति ॥९॥
अज हे अजन्मन् ! त्वं सुकृतां पुण्यशालिनां यत्र लोकः तत्र आरोह उद्गच्छ । एषः अजः चत्तः धावमानः, 'चततीति गतिकर्मसु पठितम्' (निध० २.१४) । शरभः न शरभ इव अर्थात् शरभनामकहिंस्रपशुविशेष इव इत्यर्थः । शृणाति ' शृ हिंसायाम्' (क्र्या०) इत्यस्मात् 'कृश् शलि०' (उणा० ३.११२) इत्यनेन अभच् । 'अष्टापदे च करभे शरभ: स्यान्मृगान्तरे' इति मेदिनी (१०७.२१)। दुर्गाणि दुर्गमनानि दुःखेन गन्तुं शक्यान् मार्गान् अति अतिक्रम्यं, गच्छतीति शेषः । एष पञ्चौदनः गतमन्त्रोक्तपञ्चविधोदनभोक्ता अजो जीवः ब्रह्मणे ब्रह्मप्राप्त्यै वेदाध्ययनाय वा दीयमानः समर्प्यमाण: सः अजो दातारं समर्पयितारं मातापित्र्यादिकं तृप्त्या तर्पयाति सुखेन आनन्देन च प्रीणयति ॥९॥

अ॒जस्त्रि॑ना॒के त्रि॑दि॒वे त्रि॑पृ॒ष्ठे नाक॑स्य पृ॒ष्ठे द॑दि॒वांसं॑ दधाति।
पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॒स्येका॑ ।।१०।। {११}
अजः । त्रिऽनाके । त्रिऽदिवे । त्रिऽपृष्ठे । नाकस्य । पृष्ठे । ददिऽवांसम् । दधाति ।
पञ्चऽओदनः। ब्रह्मणे। दीयमानः। विश्वऽरूपा । धेनुः । कामऽदुघा । असि । एका ॥१०॥
अजः अजन्मा जीवात्मा ददिवांसं समर्पयितारं स्वात्मानम् । यद्वा अजः परमात्मा ददिवांसं स्वात्मानं समर्पयितारं जीवं त्रिनाके त्रिविधदुःखरहिते त्रिदिवे अग्निविद्युदादित्यैस्त्रिभिः ज्योतिभिः युक्ते त्रिपृष्ठे पृष्ठत्रययुक्ते 'तिस्रः द्यौः' इति श्रुतिबलात् नाकस्य पृष्ठे स्वर्गलोकस्य पृष्ठभागे दधाति धारयति । ब्रह्मणे ब्रह्मार्थं दीयमानः समर्प्यमाणोऽयं पञ्चौदनः अजः स्वयं एका अद्वितीया कामदुघा कामानां दोग्ध्री प्रदात्रीति विश्वरूपा विश्वरूपधारिणी धेनुः असि पुरुषव्यत्ययः। धेनुसदृशोऽस्तीति भावः ॥ १० ॥

ए॒तद्वो॒ ज्योतिः॑ पितरस्तृ॒तीयं॒ पञ्चौ॑दनं ब्र॒ह्मणे॒ ऽजं द॑दाति।
अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ।।११।।
एतत् । वः । ज्योतिः । पितरः । तृतीयम् । पञ्चऽओदनम् । ब्रह्मणे । अजम् । ददाति ।
अजः । तमांसि । अप । हन्ति । दूरम् । अस्मिन् । लोके । श्रत्ऽदधानेन । दत्तः ॥ ११॥
पितरः हे मातापितरौ ! वः युष्माकं एतत् पुत्रात्मना तृतीयं ज्योतिः मातापित्र्यनन्तरं पुत्रः तृतीयस्थाने भवति, यत् असौ पञ्चौदनम् पञ्चौदनात्मकम् अजम् अजन्मानं स्वात्मानं ब्रह्मणे परब्रह्मणे ददाति समर्पयति, ब्रह्मार्पणं करोतीत्यर्थः । शिष्टं सप्तममन्त्रवत् ॥ ११ ॥

ई॑जा॒नानां॑ सु॒कृतां॑ लो॒कमीप्स॒न्पञ्चौ॑दनं ब्र॒ह्मणे॒ ऽजं द॑दाति।
स व्या॑प्तिम॒भि लो॒कं ज॑यै॒तं शि॒वो॑३ ऽस्मभ्यं॒ प्रति॑गृहीतो अस्तु ।।१२।।
इजानानाम् । सुऽकृताम् । लोकम् । ईप्सन् । पञ्चऽओदनम् । ब्रह्मणे । अजम्। ददाति ।
सः । विऽआप्तिम् । अभि । लोकम् । जय । एतम् । शिवः । अस्मभ्यम् । प्रतिऽगृहीतः । अस्तु ॥ १२॥
हे जीवात्मन् ! ईजानानां यज्ञकर्तॄणां याजकानां सुकृतां शोभनकर्मकृतां लोकम ईप्सन् प्राप्तुमिच्छन् पुरुषः पञ्चौदनम् अजम् स्वात्मानं ब्रह्मणे परब्रह्मणे ददाति ब्रह्मार्पणं करोति । सः त्वं व्याप्तिम् सर्वक्षेत्रेषु स्वीयां व्याप्तिम् अभि अभिलक्ष्य एतं स्वर्गाभिधं तृतीयं लोकं जय। एतादृशः प्रतिगृहीतः गुरुरूपेण अस्माभिः स्वीकृतस्त्वम् अस्मभ्यं शिवः अस्तु कल्याणकारी भूया: ।। १२ ।।

अ॒जो ह्य॑१ग्नेरज॑निष्ट॒ शोका॒द्विप्रो॒ विप्र॑स्य॒ सह॑सो विप॒श्चित्।
इ॒ष्टं पू॒र्तम॒भिपू॑र्तं॒ वष॑ट्कृतं॒ तद्दे॒वा ऋ॑तु॒शः क॑ल्पयन्तु ।।१३।।
अजः । हि । अग्नेः । अजनिष्ट । शोकात् । विप्रः । विप्रस्य । सहसः । विपःऽचित् ।
इष्टम् । पूर्तम् । अभिऽपूर्तम् । वषट्ऽकृतम् । तत् । दे॒वाः । ऋतुऽशः । कल्पयन्तु ॥ १३ ॥
विप्रः मेधावी विपश्चित् विपं बुद्धिं चिनोतीति, बुद्धेश्चयनकर्ता अयम् अजः अजन्मा जीवात्मा सहसः बलवत: विप्रस्य मेधाविनः अग्नेः अग्न्यात्मनः परमेश्वरस्य शोकात् तेजसा अजनिष्ट आविर्बभूव । एतादृशाय अजरूपाय जीवात्मने देवाः इन्द्रादयो देवाः इष्टं यज्ञयागादिकम् पूर्तम् वापीकूपतडागादिकञ्च अभिपूर्तम् पूर्तिसाधनं वषट्कृतं स्वाहादिभिः यज्ञार्थं प्रदत्तं एतत् सर्वं ऋतुशः ऋत्वनुसारं ऋतौ ऋतौ 'संख्यैकवचनाच्च वीप्सायाम्' (पा० ५.४.४३) इत्यनेन ऋतुशब्दात् शस् । प्रथमचरणसाम्यात् अत्रैव अन्यत्र (अथर्व० सं० ४.१४.१) पुनरुक्तवदाभासः ॥ १३ ॥

अ॑मो॒तं वासो॑ दद्या॒द्धिर॑ण्य॒मपि॒ दक्षि॑णाम्।
तथा॑ लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ।।१४।।
अमाऽउतम् । वासः । दद्यात् । हिरण्यम् । अपि । दक्षिणाम् ।
तथा । लोकान् । सम् । आप्नोति । ये। दिव्याः । ये। च । पार्थिवाः॥१४॥
अमोतम् अमा उतम् गृहे निर्मितम्, अमा गृहनाम (निघ० ३.४) उतम् 'वेञ् तन्तुसन्ताने' (१००६ भ्वा०) क्तः, सम्प्रसारणम् । वासः वस्त्रं दद्यात् दानं कुर्यात् । दक्षिणाम् दक्षिणायाम् सप्तम्यर्थे द्वितीया । हिरण्यमपि सुवर्णमपि यथाशक्ति ददातु । तथा तथाकरणेन दाता तान् लोकान् ये दिव्याः दिवि भवाः च ये पार्थिवाः भौमाः, समाप्नोति अधिगच्छति ॥ १४ ॥

ए॒तास्त्वा॒जोप॑ यन्तु॒ धाराः॑ सो॒म्या दे॒वीर्घृ॒तपृ॑ष्ठा मधु॒श्चुतः॑।
स्त॑भान्पृथि॒वीमु॒त द्यां नाक॑स्य पृ॒ष्ठे ऽधि॑ स॒प्तर॑श्मौ ।।१५।।
एताः । त्वा । अज । उप । यन्तु । धाराः । सोम्याः। देवीः । घृतऽपृष्ठाः। मधुऽश्चुतः ।
स्तभान । पृथिवीम् । उत । द्याम् । नाकस्य । पृष्ठे । अधि । सप्तऽरश्मौ ॥ १५॥
अज हे जीवात्मन् ! एताः इष्टापूर्तादिपुण्यप्रभवा: घृतपृष्ठाः घृतं पृष्ठे यासां ता:, घृतभरिताः मधुश्चुतः मधु मधुरसं च्यावयन्ति ताः, मधुस्राविण्यः देवीः दिव्यशक्तिसम्पन्नाः सोम्याः सोमरससम्बन्धिन्यः धाराः त्वा त्वाम् उपयन्तु प्राप्नुवन्तु । अधि सप्तरश्मौ सूर्यस्य उपरि भागे नाकस्य स्वर्गलोकस्य पृष्ठे स्थितः सन् त्वं पृथिवीम् भूलोकम् उत अपि च द्याम् द्युलोकं स्तभान स्तम्भय धारय, दृढीकुरु ॥ १५ ॥

अ॒जो ऽस्यज॑ स्व॒र्गो ऽसि॒ त्वया॑ लो॒कमङ्गि॑रसः॒ प्राजा॑नन्।
तं लो॒कं पुण्यं॒ प्र ज्ञे॑षम् ।।१६।।
अजः । असि । अज । स्वःऽगः । असि । त्वया । लोकम् । अङ्गिरसः। प्र । अजानन् ।
तम् । लोकम् । पुण्यम् । प्र । ज्ञेषम् ॥१६॥
हे अज ! त्वं अजः वस्तुत: जनिविकाररहितः परमात्मैव असि । स्वर्गः स्वर्गप्राप्तिसाधनात् त्वम् स्वर्गः नाक: असि । त्वया त्वत्साहाय्येन अङ्गिरसः अङ्गिरागोत्रोत्पन्ना: महर्षयः लोकं स्वर्गलोकं प्राजानन् ज्ञातवन्तः । अहमपि तं पुण्यं लोकम् पुण्यशीलैः प्राप्यं पवित्रं स्वर्गलोकं प्रज्ञेषम् जानीयाम्। प्र-उपसर्गपूर्वात् जानातेर्लेटि 'सिब्बहुलं लेटि' (पा० ३.१.३४) इत्यनेन सिपीटिचः रूपम् ॥ १६ ॥

येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्।
तेने॒मं य॒ज्ञं नो॑ वह॒ स्व॑र्दे॒वेषु॒ गन्त॑वे ।।१७।।
येन । सहस्रम् । वहसि । येन । अग्ने । सर्वऽवेदसम् ।
तेन । इमम् । यज्ञम् । नः । वह । स्वः। देवेषु । गन्तवे ॥१७॥
अग्ने ! अग्निवत् तेजस्विन् परमात्मस्वरूप अज ! येन प्रयत्नेन त्वं सहस्रं अपरिमितसंख्याकं ज्ञानशक्त्यादिकं वहसि धारयसि येन च सर्ववेदसम् सर्वाणि वेदांसि लभ्यानि यस्मिन् तम्। सकलोपलब्धिरूपं यज्ञादिकं प्राप्नोषि तेन प्रयत्नेन देवेषु देवानां मध्ये स्वर्गन्तवे स्वर्गप्राप्त्यै नः इमं यज्ञं वह धारय ।। १७ ।।

अ॒जः प॒क्वः स्व॒र्गे लो॒के द॑धाति॒ पञ्चौ॑दनो॒ निरृ॑तिं॒ बाध॑मानः।
तेन॑ लो॒कान्त्सूर्य॑वतो जयेम ।।१८।।
अजः । पक्वः । स्वःऽगे। लोके । दधाति । पञ्चऽओदनः । निःऽऋतिम् । बाधमानः ।
तेन । लोकान् । सूर्यऽवतः । जयेम ॥ १८॥
पक्वः परिणतबुद्धिः, सर्वतः तपश्चरणादिना वैदिककर्मोपासनाकलापेन ब्रह्माग्नौ परितप्तः, विनष्टमलविक्षेपः, शुद्धान्तःकरणः सन् पञ्चौदनः अजः अजन्मा जीवात्मा अयं निर्ऋतिम् अपमृत्युं पापदेवतां वा बाधमानः अपवारयन् स्वर्गे लोके तृतीये नाके स्वात्मानं दधाति प्रापयति । वयमपि तेन तेनैव मार्गेण सूर्यवतः लोकान् सूर्यसम्बन्धिनो लोकान् जयेम विजित्य प्राप्नुयाम ॥ १८ ॥

यं ब्रा॑ह्म॒णे नि॑द॒धे यं च॑ वि॒क्षु या वि॒प्रुष॑ ओद॒नाना॑म॒जस्य॑।
सर्वं॒ तद॑ग्ने सुकृ॒तस्य॑ लो॒के जा॑नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम् ।।१९।।
यम् । ब्राह्मणे । निऽदधे । यम् । च । विक्षु । याः । विऽप्रुषः । ओदनानाम् । अजस्य ।
सर्वम् । तत् । अग्ने। सुऽकृतस्य । लोके । जानीतात् । नः । सम्ऽगमने । पथीनाम् ॥ १९ ॥
यं यज्ञं ब्राह्मणे ब्रह्मविदि यज्ञशीले विप्रे असौ अजन्मा देवः निदधे निहितवान्, च यं नियमादिकं विक्षु सामान्यप्रजासु स्थापितवान्, अजस्य अजसम्बन्धिनः ओदनानां पृथिव्यादिपञ्चौदनानां याः विप्रुषः स्वल्पाः कणा: अत्र पतिताः । अग्ने ! अग्निस्वरूप परमात्मन् पथीनां 'पथि गतौ' (१५७६ चुरा०) इत्यस्मात् 'सार्वधातुभ्यः इन् (उणा० ४.११८) इत्यनेन इन् । संगमने सर्वविधमार्गाणां संगमस्थले सुकृतस्य पुण्यशालिनः अस्मिन् लोके स्वर्गलोके नः अस्माकं तत् सर्वं जानीतात् त्वं जानीहि ॥ १९॥

अ॒जो वा इ॒दम॑ग्ने॒ व्य॑क्रमत॒ तस्योर॑ इ॒यम॑भव॒द्द्यौः पृ॑ष्टि॒हम्।
अ॒न्तरि॑क्षं॒ मध्य॒म्दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी ।।२०।। {१२}
अजः । वै । इदम् । अग्रे। वि । अक्रमत । तस्य । उरः। इयम् । अभवत् । द्यौः । पृष्ठम् ।
अन्तरिक्षम् । मध्यम् । दिशः। पार्श्वे इति । समुद्रौ । कुक्षी इति ॥ २० ॥
अजः अजन्मा परमात्मा वै निश्चयेन अग्रे सृष्ट्यादौ इदम् चराचरात्मकं जगत् व्यक्रमत व्यचरत् । इयं पृथिवी तस्य अजस्य उरः वक्ष:स्थानीया अभवत् । द्यौः द्युलोकः पृष्ठम् देहस्य पृष्ठभागः, अन्तरिक्षं मध्यं मध्यदेहः कटिभागः, दिशः पूर्वादय: दिशः पार्श्वे मध्यदेहस्य दक्षिणोत्तरभागौ, कुक्षी कुक्षिद्वयं समुद्रौ, ऊर्ध्वाधोभागविभक्तं पृथिव्याकाशस्थानद्वयविभक्तसमुद्रद्वयम् अभवत् ।। २० ।।

स॒त्यं च॒र्तं च॒ चक्षु॑षी॒ विश्वं॑ स॒त्यं श्र॒द्धा प्रा॒णो वि॒राट्शिरः॑।
ए॒ष वा अप॑रिमितो य॒ज्ञो यद॒जः पञ्चौ॑दनः ।।२१।।
सत्यम् । च । ऋतम् । च । चक्षुषी इति । विश्वम् । सत्यम् । श्रद्धा । प्राणः। विराट् । शिरः। एषः । वै । अपरिऽमितः। यज्ञः । यत् । अजः । पञ्चऽओदनः ॥ २१ ॥
भगवतः परमपुरुषस्याभीद्धात् तपसः समुत्पन्नम् ऋतं च सत्यं च एते द्वे अजस्य परमात्मनस्तस्य चक्षुषी नेत्रे विश्वं जगत् तस्य सत्यं सत्तात्मकम्, 'अस् सत्तायाम्' (१०६५ अदा० ) शतृ, सते हितं यत् सत्यं यथार्थस्वरूपम, तस्य प्रकटो देहः । श्रद्धा श्रत् सत्यं दधातीति श्रद्धा, प्राणः। विराट् विविधं प्रकाशमाना प्रकृतिस्तस्य शिरः शिरो भवति । यत् पञ्चौदनः अजः पञ्चभूताद्यात्मकस्य ओदनस्य भोक्ता अजन्मा स वै एष अपरिमितः असीमः यज्ञः एव, 'विद्वद्भिः परिकीर्तितः' इति शेषः ।। २१ ॥

अप॑रिमितमे॒व य॒ज्ञमा॒प्नोत्यप॑रिमितं लो॒कमव॑रुन्द्धे।
यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।२२।।
अपरिऽमितम् । एव । यज्ञम् । आप्नोति । अपरिऽमितम् । लोकम् । अव । रुन्द्धे ।
यः। अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥ २२ ॥
यः पुरुषः अजम् अजन्मानं पञ्चौदनं पञ्चभूतसेचकं परमात्मानं निमित्तीकृत्य दक्षिणाज्योतिषं दक्षिणादाने ज्योतिषं देदीप्यमानं स्वर्णरजतादिकं ददाति प्रयच्छति स अपरिमितमेव असीम एव अनन्तमेव यज्ञं यज्ञफलम् आप्नोति प्राप्नोति तथा अपरिमितम् अनन्तं लोकं लोकान् अवरुन्धे स्वायत्तीकुरुते ।। २२ ।।

नास्यास्थी॑नि भिन्द्या॒न्न म॒ज्ज्ञो निर्ध॑येत्।
सर्व॑मेनं समा॒दाये॒दमि॑दं॒ प्र वे॑शयेत् ।।२३।।
न । अस्य । अस्थीनि । भिन्द्यात् । न । मज्ज्ञः । निः । धयेत् ।
सर्वम् । एनम् । सम्ऽआदाय । इदम्ऽइदम् । प्र। वेशयेत् ॥ २३ ॥
पञ्चौदने अजस्य उत्सर्गाख्येऽस्मिन् क्रतौ उत्सृज्यमानस्य अस्य अजस्य अस्थीनि न भिन्द्यात् न विदारयेत्, पुनः अस्य मज्ज्ञः अस्थिगतधातुविशेषान् न निर्धयेत् न नितरां पिबेत्, न समापयेदित्यर्थः । एतेन ऋतावस्मिन् अजहिंसापक्ष: सर्वथा निरस्यते। सर्वं सर्वाङ्गपरिपूर्णं जीवन्तम् एनम् अजम् समादाय गृहीत्वा इदम् इदम् इति कृत्वा अस्थिसारादिकान् प्रत्येकं संस्पृश्य दिव्यतामापाद्य च तस्मिन् अजे परमात्मनि भावनया प्रवेशयेत् समर्पयेत्, समर्प्य च अजमुत्सृजेदिति तात्पर्यम् ॥ २३ ॥

इ॒दमि॑दमे॒वास्य॑ रू॒पं भ॑वति॒ तेनै॑नं॒ सं ग॑मयति।
इषं॒ मह॒ ऊर्ज॑मस्मै दुहे॒ यो॑३ ऽजं पञ्चौ॑दन॒म्दक्षि॑णाज्योतिषं॒ ददा॑ति ।।२४।।
इदम्ऽइदम् । एव । अस्य । रूपम् । भवति । तेन । एनम् । सम् । गमयति ।
इषम् । महः । ऊर्जम् । अस्मै । दुहे। यः। अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥ २४ ॥
अस्य अजस्य परमात्मनः इदम् इदम् इति अक्षतं परोक्षं रूपं स्वरूपं यत योगिगम्यं देवैर्वा प्रत्यक्षं भवति, तेन रूपेण एनम् अजं संगमयति सम्मेलयति। यः पुरुषः अजं पञ्चौदनं निमित्तीकृत्य दक्षिणाज्योतिषम् रूप्यकहिरण्यादिकं दक्षिणात्वेन ददाति, अस्मै दक्षिणादात्रै इषम् अन्नं महः तेजः ऊर्जं बलं दुहे प्रयच्छति, पञ्चौदनोऽजरूपः परमात्मेत्यर्थः ॥ २४ ॥

पञ्च॑ रु॒क्मा पञ्च॒ नवा॑नि॒ वस्त्रा॒ पञ्चा॑स्मै धे॒नवः॑ काम॒दुघा॑ भवन्ति।
यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।२५।।
पञ्च । रुक्मा । पञ्च । नवानि । वस्त्रा । पञ्च । अस्मै । धेनवः। कामऽदुघाः । भवन्ति ।
यः । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥ २५ ॥
पञ्चौदन-यज्ञस्य पञ्चसंख्यामधिकृत्यैव रुक्मादयोऽपि दक्षिणादातारं प्राप्नुवन्तीति अस्मिन् मन्त्रे प्रतिपाद्यते-पञ्च रुक्मा पञ्च स्वर्णाभरणानि पञ्च नवानि नूतनानि वस्त्राणि पञ्च कामदुघा कामानां दोग्ध्रीः, प्रपूरयित्रीः धेनवः[]गाः अस्मै असौ, प्रथमार्थे चतुर्थी भवन्ति भवति, लभते । छान्दसं बहुवचनम्, प्राप्तिवचनस्य चौरादिकस्य भूधातोरिदरूपम्, णिचः अभावपक्षे। अपि वा तुमर्थे योगे चतुर्थ्येषा, अस्मै इमं पुरुषं उपकर्तुं एते रुक्मादयः भवन्ति उत्पद्यन्ते ।। २५ ।।

पञ्च॑ रु॒क्मा ज्योति॑रस्मै भवन्ति॒ वर्म॒ वासां॑सि त॒न्वे॑ भवन्ति।
स्व॒र्गं लो॒कम॑श्नुते॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।२६।।
पञ्च । रुक्मा । ज्योतिः । अस्मै । भवन्ति । वर्म । वासांसि । तन्वे । भवन्ति ।
स्वःऽगम् । लोकम् । अश्नुते । यः । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥२६॥
यः पुरुषः अजम् अजन्मानं परमात्मानं पञ्चौदनं लक्ष्यीकृत्य दक्षिणाज्योतिषं रूप्यकसुवर्णादिकं दक्षिणायां ददाति सः स्वर्गं लोकं नाकलोकम् अश्नुते प्राप्नोति । अस्मै ज्योतिः भास्वन्ति पञ्च रुक्मा पञ्च संख्यकानि सुवर्णाभरणानि भवन्ति, वर्म कवचं वासांसि वस्त्राणि च तन्वे शरीराय भवन्ति ॥ २६ ॥

या पूर्वं॒ पतिं॑ वि॒त्त्वा ऽथा॒न्यं वि॒न्दते ऽप॑रम्।
पञ्चौ॑दनं च॒ ताव॒जं ददा॑तो॒ न वि यो॑षतः ।।२७।।
या । पूर्वम् । पतिम् । वित्त्वा । अथ । अन्यम् । विन्दते । अपरम् ।
पञ्चऽओदनम् । च । तौ । अजम् । ददातः । न । वि । योषतः ॥ २७ ॥
या वाग्दत्ता स्त्री पूर्वं पतिं वित्त्वा वचनमात्रेण लब्ध्वा अथ पश्चात् केनापि कारणेन यथाह पराशरः-'नष्टे मृते प्रव्रजिते' इत्यादि (४.३०), पूर्वं पतिं विहाय अन्यम् अपरं द्वितीयं पतिं विन्दते कुरुते तदा तौ दम्पती स्वात्मानम् अजम् अजन्मानं पञ्चौदनं भक्ष्यरूपेण पञ्चभूतात्मकं जगदिदं धारयन्तं प्रभुं ददातः समर्पयतः, तदा तौ न वियोषतः न कदापि वियुक्तौ भवतः ।। २७ ।।

स॑मा॒नलो॑को भवति पुन॒र्भुवाप॑रः॒ पतिः॑।
यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।२८।।
समानऽलोकः । भवति। पुनःऽभुवा । अपरः। पतिः।
यः। अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥ २८ ॥
अपर: द्वितीयः पतिः पुनर्भुवा द्विरूढया पत्न्या सह पुनःपूर्वात्, 'भू सत्तायाम्' (भ्वा०) क्विप्, 'पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषः पतिः' इत्यमरः (अमरकोष २.६.२३) समानलोकः समानलोकवास्तव्यो भवति, यः अजम् इत्यादि पूर्ववत् ॥ २८ ।।

अ॑नुपू॒र्वव॑त्सां धे॒नुम॑न॒ड्वाह॑मुप॒बर्ह॑णम्।
वासो॒ हिर॑ण्यं द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒माम् ।।२९।।
अनुपूर्ववत्साम् । धेनुम् । अनड्वाहम् । उपऽबर्हणम् ।
वासः । हिरण्यम् । दत्त्वा।ते। यन्ति । दिवम्। उत्ऽतमाम् ॥२९॥
अनुपूर्ववत्साम् यथाक्रमं यथापूर्वं वा वत्सप्रदात्रीम्, सदा प्रस्रवित्रीं धेनुं गाम् अनड्वाहं भारवहनक्षमं बलीवर्दम् च उपबर्हणं वासः प्रावरकं वस्त्रम्, हिरण्यं सुवर्णम्, तत्सहितम्, दत्त्वा ये वेदविदे ब्राह्मणाय ददति, तथा कृत्वा ते दातारः उत्तमां दिवम् सर्वोत्कृष्टं द्युलोकं यन्ति प्राप्नुवन्ति ॥ २९॥

आ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्।
जा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ।।३०।। {१३}
आत्मानम् । पितरम् । पुत्रम् । पौत्रम् । पितामहम् ।
जायाम् । जनित्रीम् । मातरम् । ये । प्रियाः । तान् । उप । ह्वये ॥३०॥
भोः भोः सम्बन्धिनः ! शृणुत, अस्मिन् दानयज्ञे अहम् आत्मानम् स्वकीयात्मानम् पितरम्, पितामहम्, जनित्रीम् जन्मप्रदायिनीं मातरम् जायाम् पुत्रम्, पौत्रम् ये च अन्ये मम प्रियाः सुहृदादयः, तान् सर्वान् अहं क्रतौ अस्मिन् उपह्वये आह्वयामि ॥ ३०॥

यो वै नैदा॑घं॒ नाम॒र्तुं वेद॑।
ए॒ष वै नैदा॑घो॒ नाम॒र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।
यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।३१।।
यः । वै। नैदाघम् । नाम । ऋतुम् । वेद ।
एषः । वै। नैदाघः । नाम । ऋतुः। यत् । अजः । पञ्चऽओदनः।
निः । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । दहति । भवति । आत्मना ।
यः। अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥ ३१ ॥
यः पुरुषः वै निश्चयेन नैदाघं नाम ऋतुं ग्रीष्मर्तुं वेद जानाति, कोऽसौ नैदाघो नाम ? तदाह यद् पञ्चौदनः अजः एषः वै निश्चयेन, नूनं स पञ्चौदनः, अज एव नैदाघः नाम ऋतुः ज्ञेयः । नितरां दह्यतेऽस्मिन्निति निदाघ: 'दह भस्मीकरणे' 'हलश्च' ( ) इति घञ् न्यङ्कवादित्वात् इत्यनेन कुत्वम् । निदाघस्यायं नैदाघः । अजन्मा पञ्चौदनो जीवात्मा यदा सुतप्तो भवति, तपश्चरणादिना भृशं दह्यते तदा स 'नैदाघ' इत्युच्यते । स पुमान् अप्रियस्य अप्रियाचरणकर्तुः भ्रातृव्यस्य शत्रोः श्रियं लक्ष्मीं निर्दहति निःशेषेण भस्मसात् करोति तथा आत्मना भवति आत्मबलेन श्रिया सह तिष्ठति यः पञ्चौदनम् अजम् इत्यादि द्वाविंशतितममन्त्रस्य उत्तरार्धवत् ॥ ३१॥

यो वै कु॒र्वन्तं॒ नाम॒ र्तुं वेद॑।
कु॑र्व॒तींकु॑र्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वै कु॒र्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑नाज्योतिषं॒ ददा॑ति ।।३२।।
यः । वै। कुर्वन्तम् । नाम । ऋतुम् । वेद।
कुर्वतीम्ऽकुर्वतीम् । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । आ । दत्ते ।
एषः । वै । कुर्वन् । नाम । ॥ ३२॥
यः पुमान् वै निश्चयेन कुर्वन्तं नाम ऋतुं कर्तृशक्तिमन्तं क्रियाशक्तिमन्तं वा वर्षर्तुम् कुर्वन्तमिति अपराख्यया वेद जानाति, स अप्रियस्य अहितकारिणः भ्रातृव्यस्य शत्रोः कुर्वतीम् कुर्वतीम् प्रत्येकां रचनाशक्तियुतां श्रियं लक्ष्मीं शोभां वा आदत्ते गृह्णाति, अपहरति । एष वै 'कुर्वन्' नाम ऋतुः, इत्यादि पूर्ववत् ॥ ३२ ॥

यो वै सं॒यन्तं॒ नाम॒र्तुं वेद॑।
सं॑य॒तींसं॑यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वै सं॒यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।३३।।
यः। वै। सम्यन्तम् । नाम । ऋतुम् । वेद ।
संयतीम्ऽसंयतीम् । एव । ० ।
एषः । वै। सम्ऽयन् । नाम । ०॥३३॥
यः पुरुषः संयन्तम् नाम 'संयन्' नामकं शरदत्वंपरपर्यायम् ऋतुम् वेद जानाति, सः अप्रियस्य भ्रातृव्यस्य संयतीं संयतीं संयमवतीं प्रत्येकां श्रियम् आदत्ते । एष वै अजः पञ्चौदनः संयत् नाम ऋतु: नूनं पञ्चौदनः अज एव संयन्नामकः इत्यादि शिष्टं पूर्ववत् ॥ ३३ ॥

यो वै पि॒न्वन्तं॒ नाम॒र्तुं वेद॑।
पि॑न्व॒तींपि॑न्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वै पि॒न्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑नाज्योतिषं॒ ददा॑ति ।।३४।।
यः । वै । पिन्वन्तम् । नाम । ० ।
पिन्वतीम्ऽपिन्वतीम् । एव । ० ।
एषः । वै। पिन्वन् । नाम । ० ॥ ३४॥
यः पुमान् पिन्वन्तं सिञ्चन्तम् अतितरां पोषयन्तं वा हेमन्तापरपर्यायम् ऋतुं वेद सः अप्रियस्य भ्रातृव्यस्य पिन्वतीं पिन्वतीं सुभृशं सिञ्चन्तीं, पोषयन्तीं वा श्रियम् आदत्ते हरति । एष वै पिन्वन् नाम इत्यादि यथापूर्वम् ॥ ३४ ॥

यो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑।
उ॑द्यतींउद्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वा उ॒द्यन्न्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॒ यो॑३ ऽजं पञ्चौ॑दनं॒ दक्सि॑णाज्योतिष॒म्ददा॑ति ।।३५।।
यः । वै। उत्ऽयन्तम् । नाम । ० ।
उद्यतीम्ऽउद्यतीम् । एव । ० ।
एषः । वै। उत्ऽयन् । नाम । ० ॥ ३५ ॥
यः वै उद्यन्तं नाम उद्गच्छन्तम् उत्तरायणगामिसूर्यकं शिशिरापर पर्यायम् 'उद्यन्तं' नामानाम् ऋतुं वेद अमित्रस्य भ्रातृव्यस्य 'उद्यतीम् उद्यतीम्' अतितराम् उदयं प्राप्नुवतीं श्रियम् इत्यादि शिष्टं समानम् ॥ ३५॥

यो वा अ॑भि॒भुवं॒ नाम॒र्तुं वेद॑।
अ॑भि॒भव॑न्तीमभिभवन्तीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॒ आ द॑त्ते।
ए॒ष वा अ॑भि॒भूर्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।
यो॑३ ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ।।३६।।
यः । वै। अभिऽभुवम् । नाम । ऋतुम् । वेद।
अभिभवन्तीम्ऽअभिभवन्तीम् एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । आ। दत्ते ।
एषः । वै । अभिऽभूः । नाम । ऋतुः । यत् । अजः । पञ्चऽओदनः।
निः । एव । अप्रियस्य । भ्रातृव्यस्य । श्रियम् । दहति । भवति । आत्मना ।
यः । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति॥३६॥
यः अभिभुवं नाम शीतस्य अभिभवितारं 'वसन्ता'परपर्यायं अभिभूनामानम् ऋतुं वेद स अमित्रस्य भ्रातृव्यस्य अभिभवन्तीम् अभिभवन्तीम् भूयोभूयः परपराभवकारिणीं प्रत्येकां श्रियम् आदत्ते हरति । यः पञ्चौदनः अजः, एष वै अभिभूः नाम ऋतुः इत्यादि यथापूर्वम् ।। ३६ ॥

अ॒जं च॒ पच॑त॒ पञ्च॑ चौद॒नान्।
सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीचीः॒ सान्त॑र्देशाः॒ प्रति॑ गृ॒ह्णन्तु॑ त ए॒तम् ।।३७।।
अजम् । च । पचत । पञ्च । च । ओदनान् ।
सर्वाः । दिशः। सम्ऽमनसः । सध्रीचीः । सऽअन्तर्देशाः। प्रति । गृह्णन्तु । ते । एतम् ॥ ३७॥
अजं जन्मादिषड्विकाररहितं परमात्मानमुद्दिश्य अजम् अजन्मानं गतिशीलं जीवात्मानं पचत परिपक्वं कुरुते च पञ्चओदनान् जीवात्मनस्तस्य उपभोगसाधनभूतान् पञ्चसंख्यकान् ओदनान् अपि सहैव परिपक्वान् कुरुते । सान्तर्देशाः उपदिशाभिः सहिताः सर्वा दिशः प्राच्यादयः सकलाः दिशः संमनसः समानमनस्काः सध्रीचीः सह वर्तमानाः, सह गच्छन्तीर्वा ते तुभ्यं परमात्मनः कृते एतम् अजं जीवात्मानं प्रतिगृह्णन्तु स्वीकुर्वन्तु ॥ ३७ ॥

तास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ता॑भ्य॒ आज्यं॑ ह॒विरि॒दं जु॑होमि ।।३८।। {१४}
ताः । ते। रक्षन्तु । तव। तुभ्यम् । एतम् । ताभ्यः । आज्यम् । हविः । इदम् । जुहोमि ॥ ३८ ॥
ताः पूर्वोक्ताः प्राच्यादयः दिशः। यद्वा ताः नराः नार्यश्च ते तव तुभ्यं त्वत्कल्याणाय एतम् यज्ञम् अजोत्सर्गाख्यमिति यावत्, रक्षन्तु पान्तु । ताभ्यः दिग्भ्य: इदम् आज्यं हविः इमां घृताहुतिं जुहोमि प्रददामीति ।। ३८॥

टिप्पणी

आ नयैतम् इति सूक्तस्य अजपञ्चौदनपाके विनियोगः (कौशिक सूत्र ६४.२७)

९.५.३१ - ९.५.३६

तु. आग्नेयीं वसन्ता सौरी ग्रीष्मे बार्हस्पत्याँ शरदि यदाग्नेयी मुखत एव तया तेजो धत्ते यत् सौरी मध्यत एव तया रुचं धत्ते यद् बार्हस्पत्योपरिष्टादेव तया ब्रह्मवर्चसं धत्ते – काठक सं १३.१

अजोपरि संदर्भाः

  1. धेनुरुपरि टिप्पणी