अथर्ववेदः/काण्डं ९/सूक्तम् ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ९.०५ अथर्ववेदः - काण्डं ९
सूक्तं ९.०६
(षट्पर्यायाः) ब्रह्मा।
सूक्तं ९.०७ →
अतिथिसत्कारः

दे. अतिथिः, विद्या।


यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥
सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥२॥
यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥३॥
यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥४॥
या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥५॥
यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥६॥
यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥७॥
यदुपस्तृणन्ति बर्हिरेव तत्॥८॥
यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥९॥
यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥१०॥
यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्॥११॥
यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोडाशावेव तौ ॥१२॥
यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥१३॥
ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते ॥१४॥
यान्युलूखलमुसलानि ग्रावाण एव ते ॥१५॥
शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥१६॥
स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥१७॥ {१५}
यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥१८॥
यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥१९॥
उप हरति हवींष्या सादयति ॥२०॥
तेषामासन्नानामतिथिरात्मन् जुहोति ॥२१॥
स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥२२॥
एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥२३॥
स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥२४॥
सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥२५॥
सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥२६॥
सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥२७॥
प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥२८॥
प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥२९॥
योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥३०॥ {१६}
इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३१॥
पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३२॥
ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३३॥
प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३४॥
कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३५॥
श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३६॥
एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्॥३७॥
अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम् ॥३८॥
एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्॥३९॥ {१७}
स य एवं विद्वान् क्षीरमुपसिच्योपहरति ।
यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४०॥
स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति ।
यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४१॥
स य एवं विद्वान् मधूपसिच्योपहरति ।
यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४२॥
स य एवं विद्वान् मांसमुपसिच्योपहरति ।
यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४३॥
स य एवं विद्वान् उदकमुपसिच्योपहरति ।
प्रजानां प्रजननाय गच्छति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥४४॥ {१८}
तस्मा उषा हिङ्कृणोति सविता प्र स्तौति ।
बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४५॥
तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति ।
मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४६॥
तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति ।
विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४७॥
अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति ।
उप हरति प्रति हरत्युच्छिष्टं निधनम् ।
निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४८॥ {१९}
यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥४९॥
यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥५०॥
यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥५१॥
तेषां न कश्चनाहोता ॥५२॥
यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५३॥
यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥५४॥
स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥५५॥
स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५६॥
स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५७॥
स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५८॥
स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५९॥
स उपहूत उपहूतः ॥६०॥
आप्नोतीमं लोकमाप्नोत्यमुम् ॥६१॥
ज्योतिष्मतो लोकान् जयति य एवं वेद ॥६२॥ {२०}



[सम्पाद्यताम्]

टिप्पणी

अतिथि उपरि टिप्पणी

९.६.१५ यान्युलूखलमुसलानि ग्रावाण एव ते

द्र. उलूखलोपरि टिप्पणी

९.६.१६ शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः

द्र. शूर्प उपरि टिप्पणी