अथर्ववेदः/काण्डं ९/सूक्तम् ०४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ९.०३ अथर्ववेदः - काण्डं ९
सूक्तं ९.०४
ब्रह्मा
सूक्तं ९.०५ →
दे. ऋषभः। त्रिष्टुप्, ८ भुरिक्, ६, १०, २४ जगती, ११-१७, १९-२०, २३ अनुष्टुप्, १८ उपरिष्टाद् बृहती, २१ आस्तारपङ्क्तिः।

साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।
भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥
अपां यो अग्रे प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।
पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥
पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति ।
तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥
पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।
वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥४॥
देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य ।
सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥५॥
सोमेन पूर्णं कलशं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम् ।
शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यच्छ या अमूः ॥६॥
आज्यं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः ।
इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥७॥
इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्।
बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥८॥
दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।
सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥९॥
बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः ।
अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥१०॥ {९}
य इन्द्र इव देवेषु गोष्वेति विवावदत्।
तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥
पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।
अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥१२॥
भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः ।
पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः ॥१३॥
गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् ।
उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥१४॥
क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः ।
देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥१५॥
ते कुष्ठिकाः सरमायै कूर्मेभ्यो अदधुः शफान् ।
ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥
शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा ।
शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥१७॥
शतयाजं स यजते नैनं दुन्वन्त्यग्नयः ।
जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥१८॥
ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः ।
पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥१९॥
गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् ।
तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥२०॥
अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् ।
अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥
पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् ।
आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥२२॥
उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः ।
उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥२३॥
एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु ।
मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥२४॥ {१०}

भाष्यम्

स्वामी गङ्गेश्वरानन्दकृतअभिनवसायणभाष्यम्

(१-२४) ऋषिः-ऋषभः । देवता-ब्रह्मा । छन्दः-१-५,७,९,२२ त्रिष्टुप् ; ८ भुरिक् ; ६,१०,२४ जगती; ११-१७,१९,२०,२३ अनुष्टुप्; १८ उपरिष्टाद् बृहती २१ आस्तारपङक्तिः ।

विनियोगः–अत्र साम्प्रदायिका:-वृषोत्सर्गे 'साहस्रः' इत्यर्थसूक्तेन ऋषभं संपात्य अभिमन्त्र्य विसृजेत्, 'रेतोधाय' (कौ० सू० २४.२०) इत्येतैः षड्भिः सौत्रमन्त्रैः । 'एतं वो युवानम्' (अथर्व० ९.४.२४) इत्यृचा च वत्सस्याभिमन्त्रणं कृत्वा प्रोक्षणं कुर्यात् ।।

परिशिष्टेऽपि वृषोत्सर्गे एव अस्य सूक्तस्य विनियोगः कृतः । तथा चोक्तम् – “साहस्रस्त्वेषः इति ऋषभं संपातवन्तं कृत्वा” (अथर्वपरि० १८.१.७) इति । वयं पुनर्निर्विचिकित्समिदं ब्रूमो यत् सूक्तमिदं वृषभोत्सर्गे एव विनियुक्तम् । तत्र गोवंशाभिवृद्ध्यै हृष्टपुष्टाङ्गः पयस्वान् वृषभ उत्सृज्यते यजमानेन। यद्यपि उत्सर्जनानन्तरमस्योपरि न कस्यापि स्वामित्वम्; तथापि बार्हस्पत्योऽयमुच्यते । तत्रास्त्ययं हेतु:-बृहस्पतिः बृहतां वेदवाचां पतिः ब्राह्मणानामादिस्रोतः वनस्थानां गुरुकुलानामध्यक्षः आचार्यपदभाक् भवति । तत्र कुलगुरोर्ब्रह्मचारिणाञ्च अग्निहोत्र-यज्ञयागादिनिष्पादनाय दोग्ध्रीणां बह्वीनां धेनूनामावश्यकता स्वाभाविकी। ब्रह्मचारिणां शरीरात्ममनसां परिपुष्ट्यै चापि दुग्धाद्यवाप्तये तासामावश्यकता। अत एव उत्सृष्टोऽपि बार्हस्पत्यो वृषभः गुरुकुलाध्यक्षैर्दुग्धप्रदायिनीनां गवां सन्ततिवृद्धये उपयुज्येत चेत् नात्यन्तमनुचितम् । सूक्तस्यास्य मन्त्रेष्वपि वृषोत्सर्गः उच्यते । यथा--"सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति (अथर्व० ९.४.९) इति, 'ब्राह्मणेभ्यः ऋषभं दत्त्वा वरीयः कृणुते मनः' (अथर्व० ९.४.१९) इति ।

साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।

भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥

साहस्रः । त्वेषः । ऋषभः । पयस्वान् । विश्वा । रूपाणि । वक्षणासु । बिभ्रत् ।

भद्रम् । दात्रे । यजमानाय । शिक्षन् । बार्हस्पत्यः । उस्रियः । तन्तुम् । आ । अतान् ॥ १ ॥

साहस्रः सहस्रबलशाली, वीर्यवान् त्वेषः कान्तिमान् ऋषभः वृषभः पयस्वान् प्रचुरपयःप्रदातृरेतस्कः वक्षणासु वक्षःस्थलेषु, कुक्षिषु विश्वारूपाणि विराडात्मना समस्तरूपाणि बिभ्रत् धारयन् दात्रे वृषोत्सर्गं कुर्वते यजमानाय भद्रं सर्वविधकल्याणं शिक्षन् ददत् बार्हस्पत्यः बृहस्पतिदेवताक: अयं उस्त्रियः सर्वप्रकारका: भोगा उत्स्राविणोऽस्मिन् एतादृशः वृषभः तन्तुम् प्रजातन्तुं यज्ञतन्तुं वा । आ अतान् समन्तात् अतानीत्, विस्तारितवान् । लुङि छान्दसं रूपम् ।। १॥


अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।

पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥

अपाम् । यः । अग्रे । प्रतिऽमा। बभूव । प्रऽभूः । सर्वस्मै । पृथिवीऽइव । ढेवी।

पिता । वत्सानाम् । पतिः । अघ्न्यानाम् । साहस्रे । पोषे । अपि । नः। कृणोतु ॥२॥

यः वृषभः विराडात्मना अग्रे सृष्टयादौ अपां रेतसां प्रतिमा प्रतिरूपः बभूव । 'आपो रेतः प्रजननम्' (तै० ४.३.१०.३), 'वीर्यं वा आपः' (शत० ब्रा० ५.३.४.१, तां० ब्रा० ८.७.९), 'आपो रेत:' (शत० ब्रा० ३.८.४.११;५.१)। यद्वा-अयम् अपाम् अन्नानाम् अन्नादिकस्य कारणभूतानां जलानां वा प्रतिमा आकृतिरूपः 'अन्नं वा आपः' (शत० ब्रा० २.१.१.३), (तै० ब्रा० ३.६.२.१) सूक्ष्मतमं भागवतम् आपस्तत्त्वं रेतोरूपेण वृषभदेहात्मना परिणतम्। पुन: यः देवी दिव्यरूपा पृथिवी इव सर्वस्मै षष्ठ्यर्थे चतुर्थी, सर्वस्य प्रभूः समर्थः पालकः । गोषु रेतसो वर्षणेन कर्षणक्षमानां वत्सानां दुग्धसम्पदश्च जननात् । स वृषभः वत्सानां गोवत्सानां पिता जनकः, अघ्न्यानां धेनूनां च पतिः निगद्यते । एतादृशः वृषभः नः अस्मान् अपि साहस्रे पोषे सहस्रसंख्याके पोषणे, नैकविधपुष्ट्यै समर्थान् कृणोतु करोतु ॥ २॥


पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति ।

तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥

पुमान् । अन्तःऽवान् । स्थविरः । पयस्वान् । वसोः। कबन्धम् । ऋषभः । बिभर्ति ।

तम् । इन्द्राय । पथिऽभिः । देवऽयानैः । हुतम् । अग्निः । वहतु । जातऽवेदाः ॥ ३ ॥

पुमान् पुंस्त्वलक्षणवीर्योपेतः पुनः अन्तर्वान् सर्वे लोकाः अन्तर्मध्ये यस्य तादृशः सर्वलोकान् प्राणिनो वा स्वान्तर्दधाति, स्थविरः स्थिरः, अचल: । 'ष्ठा गतिनिवृत्तौ' 'किरच् अजिरः' (उणा० १.५३), धातोर्वुक् ह्रस्वत्वं च । अपि च, पयस्वान् गवां सर्जनद्वारा दुग्धादिजनकः, एवम्भूतोऽयम् ऋषभः वसोः निवासहेतोः संसारस्य कबन्धम् केन वायुना बध्यते इति कबन्धम् उदरम् बिभर्ति धारयति । अतः इन्द्राय इन्द्रार्थम् ऐश्वर्यप्राप्त्यै वा 'इदि परमैश्वर्ये' (६३ भ्वा० पर०), हुतम् दत्तम्, उत्सर्गीकृतम् 'हु दानादानयोः' (१०८३ जुहो० प०) तम् वृषभं जातवेदाः जातानि कृतानि वेत्तीति जातवेदाः अग्निः मृत्योरनन्तरं देवयानैः पथिभिः देवयानमार्गैः वहतु स्वर्गं प्रापयत्विति ॥३॥


पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।

वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥४॥

पिता । वत्सानाम् । पतिः। अघ्न्यानाम् । अथो इति । पिता । महताम् । गर्गराणाम् ।

वत्सः । जरायु । प्रतिऽधुक् । पीयूषः । आमिक्षा । घृतम् । तत् । ऊँ इति । अस्य । रेतः ॥ ४ ॥

अयम् ऋषभः वत्सानां गोशिशूनां पिता जनकः अघ्न्यानाम् अहन्तव्यानां धेनूनां पतिः अथो अपि च महतां विशालानां गर्गराणाम् मन्थनीपात्राणां (अमरकोष २.९.३४) पिता पयःप्रदाने हेतुभूतत्वात् पितृवत् पालक: अस्ति । पयोऽन्तरा दग्ध्नोऽसंभवात् दध्ना विना च नवनीतादेः शशविषाणायितत्वाच्च गोषु पयसामाधायकस्यास्य मथनीपात्रपालकत्वं सुस्थमेवेति भावः । वत्सः गोशिशुः जरायुः उल्बं प्रतिधुक् नवप्रसूतायाः दुग्धं पीयूषः अमृतोपमं दुग्धम् पुंवद्भावश्छान्दसः । आमिक्षा पक्वे क्षीरे दधियोगतः समुत्पन्नो द्रवपदार्थः, 'आमिक्षा सा शृतोष्णे या सीरे स्याद् दधियोगतः' इत्यमरः (१.७.२३) । घृतम् आज्यं तत् उ तदेतत् सर्वमेव अस्य ऋषभस्य रेतः वीर्यम्, अस्य वीर्येण जातत्वादिति भावः ॥ ४॥


देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य ।

सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥५॥

देवानाम् । भागः । उपऽनाहः । एषः । अपाम् । रसः । ओषधीनाम् । घृतस्य ।

सोमस्य । भक्षम् । अवृणीत । शक्रः । बृहन् । अद्रिः । अभवत् । यत् । शरीरम् ॥ ५॥

देवानाम् इन्द्रादीनां भागः भजनीयः, सेवनीयः, देवा अप्येनं भजन्ते सेवन्ते तस्माद्धेतोः । अपि च उपनाहः देवानां बन्धनहेतुः आश्रयभूतः सर्वे देवा अत्र वृषभे वसन्तीति स्मरणात् । एषः वृषभः अपां जलानां रेतसां वा, ओषधीनाम् घृतस्य च रसः सारः सारभूतः अस्ति। वृषोत्सर्गावसरे शक्रः इन्द्रः सोमस्य सोमात्मकस्य अस्य पयसः भक्षम् भक्षणं पानम्, अवृणीत स्वीकृतवान् । तस्माद्धेतोः यत् यस्मात् शक्रस्य शरीरम् देहः बृहन् महान् पर्वततुल्यः अभवत् ।। ५ ॥


सोमेन पूर्णं कलशं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम् ।

शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यच्छ या अमूः ॥६॥

सोमेन । पूर्णम् । कलशम् । बिभर्षि । त्वष्टा । रूपाणाम् । जनिता। पशूनाम् ।

शिवाः। ते। सन्तु । प्रऽजन्वः इह । याः। इमाः । नि । अस्मभ्यम् । स्व॒ऽधिते। यच्छ । याः। अमूः॥ ६॥

हे ऋषभ ! त्वं सोमेन वीर्येण पूर्णं भरितं कलशम् अण्डकोशं बिभर्षि धारयसि । 'रेतः सोमः' (कौ० सू० १३.७), 'सोमं यजति रेत एव तद् दधाति' (तै० सं० २.६.१०) । हे ऋषभ ! त्वमेव रूपाणाम् आकृतीनां त्वष्टा विश्वकर्मा च पशूनां गवादीनां जनिता उत्पादकः असि । ते तव प्रजन्वः प्रजननशक्तयः, गावः प्रपूर्वकात् ‘जनी प्रादुर्भावे' (११४९ दिवा० आ०) धातोः 'कृषिचमितनि० (उणा० १.८०) इत्यनेन ऊः। शिवाः कल्याणकारिण्यः सन्तु । इह पृथिव्याम या इमाः प्रत्यक्षदृश्याः च याः अमू: दिवि स्थिताः दूरवर्तिन्यः शक्तयः सन्ति, ताः सर्वाः हे स्वधिते ! स्वयं धारणकर्तः, स्वेषु आत्मीयेषु धितिः धारणं पोषणं यस्य तत्सम्बुद्धौ, अस्मभ्यं नियच्छ प्रदेहि ॥६॥


आज्यं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः ।

इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥७॥

आज्यम् । बिभर्ति । घृतम् । अस्य । रेतः । साहस्रः। पोषः । तम्। ऊं इति । यज्ञम् । आहुः ।

इन्द्रस्य । रूपम् । ऋषभः। वसानः। सः। अस्मान् । देवाः। शिवः। आ । एतु । ढत्तः ॥ ७॥

स ऋषभः आज्यम् रेत: बिभर्ति धारयति । अस्य ऋषभस्य रेतः एव घृतं घृतरूपेण, परिणमते । तथा च श्रुतिः 'एतद्रेतः यदाज्यम्' (तै० सं० १.१.९.४, शत० ब्रा० १.३.१.१८) । यद्वा-घृतोत्पत्तौ कारणं भवति । कारणे कार्यत्वोपचारः । अयं साहस्रः पोषः सहस्रगुणितपोषणक्षमः, बहुपुष्टिकारक: अस्ति । तम् एतादृशं ऋषभम् उ नूनं यज्ञम् आहुः। यज्ञसाधन-स्वप्रसूत-गवादिघृतसाधनभूतत्वात् तस्मिन् औपचारिक: यज्ञत्वारोपः । हे देवाः ! इन्द्रस्य सर्वशक्तिमतः सर्वैश्वर्यवतः इन्द्रस्य रूपं वसानः धारयन् दत्तः उत्सर्गीकृतः सः ऋषभः अस्मान् शिवः मङ्गलकारी भूत्वा आ एतु प्राप्नोतु ॥ ७ ॥


इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्।

बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥८॥

इन्द्रस्य । ओजः । वरुणस्य । बाहू इति । अश्विनोः । अंसौ। मरुताम् । इयम् । ककुत्।

बृहस्पतिम् । सम्ऽभृतम् । एतम् । आहुः। ये । धीरास: । कवयः । ये। मनीषिणः॥८॥

अस्मिन् ऋषभे इन्द्रस्य देवेन्द्रस्य ओजः अष्टमो धातुः अस्ति । वरुणस्य बाहू भुजौ, च अश्विनोः अंसौ स्कन्धौ स्त: । इयं ककुत् स्कन्धे विशालो मांसपिण्ड: मरुतां देवानामस्ति । ये धीरासः धैर्ययुक्ताः कवयः क्रान्तदर्शिनः ये मनीषिणः बुद्धिमन्त: अस्मिन् जगति विद्यन्ते, ते एतम् ऋषभं सम्भृतम् एकत्रीभूतं बृहस्पतिं बृहस्पतिदेहात्मना जातम् आहुः कथयन्ति ।। ८॥


दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।

सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥९॥

दैवीः । विशः । पयस्वान् । आ । तनोषि । त्वाम् । इन्द्रम् । त्वाम् । सरस्वन्तम् । आहुः ।

सहस्रम् । सः । एकऽमुखाः। ददाति । यः । ब्राह्मणे । ऋषभम् । आऽजुहोति ॥ ९॥

हे ऋषभ ! पयस्वान् दुग्धवान, दुग्धोत्पत्तौ हेतुभूतः त्वं दैवीः दिव्यगुणयुक्ता: विशः मानवीयप्रजाः आतनोषि विस्तारयसि । विचक्षणाः त्वाम् इन्द्रं देवाधिपतिम् च, त्वाम् सरस्वन्तं मधुघृतरसानां सागरम् आहुः कथयन्ति । 'ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः' इति तैत्तिरीये (तै० सं० २.१.११.३) । यः यजमान: ब्राह्मणे ब्राह्मणाय ऋषभम् आजुहोति उत्सृजति, ददाति सः सहस्रं बह्व्यः एकमुखाः एकं ब्राह्मणं प्रति मुखानि यासां ताः, गाः ददाति प्रयच्छति ॥ ९ ॥


बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः ।

अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥१०॥ {९}

बृहस्पतिः । सविता। ते । वयः । दधौ । त्वष्टुः । वायोः । परि । आत्मा। ते। आऽभृतः ।

अन्तरिक्षे । मनसा ।त्वा । जुहोमि । बर्हिः । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥ १०॥

बृहस्पतिः सविता देवश्च ते तुभ्यं वयः आयुष्यमन्नं वा दधौ दत्तवान् । ते तव आत्मा देहः प्राणो वा त्वष्टुः ब्रह्मणः वायोः च उभाभ्यां देवाभ्यां परि परितः आभृतः सम्भृतः । अहं यजमान: त्वा त्वाम् अन्तरिक्षे अनावृते विस्तृते प्रदेशे, विचरणायेति शेषः । जुहोमि उत्सृजामि । उभे द्यावापृथिवी ते तव बर्हिः आसनं स्ताम् भवेताम् ॥ १० ॥


य इन्द्र इव देवेषु गोष्वेति विवावदत्।

तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥

यः । इन्द्रःऽइव । देवेषु । गोषु । एति । विऽवावदत् ।

तस्य । ऋषभस्य । अङ्गानि । ब्रह्मा । सम्। स्तौतु। भद्रया ॥११॥

इव यथा इन्द्रः देवराजः देवेषु देवानां मध्ये विराजते, एवमेव ऋषभोऽयं विवावदत् भृशं विनर्दन् गोषु गोसङ्घेषु एति याति । तस्य ऋषभस्य अङ्गानि सर्व देवमयानि शरीराङ्गानि अस्मिन् औत्सर्गिकयज्ञे ब्रह्मा चतुर्वेदवित् भद्रया सुशोभनया वाचा संस्तौतु सम्यक्तया प्रशंसतु ॥ ११ ॥


पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।

अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥१२॥

पार्श्वे इति । आस्ताम् । अनुऽमत्याः। भगस्य । आस्ताम् । अनुऽवृजौ ।

अष्ठीवन्तौ । अब्रवीत् । मित्रः । मम । एतौ । केवलौ । इति ॥ १२॥

ऋषभस्य द्वे पार्श्वे अनुमत्याः पूर्णिमाया अधिष्ठातृदेव्या: आस्ताम् अभवताम् । भगस्य भगदेवतायाः अनूवृजौ कुक्षेः वाम-दक्षिणभागौ आस्ताम् । अनु उपसर्गपूर्वात् 'वृजी वर्जने आच्छादने च' (१८१३ चुरा०) इत्यस्मात् क्विप् । अष्ठीवन्तौ एतौ द्वौ जानुभागौ केवलौ मम नूनं ममैवेति मित्रः सविता देवः अब्रवीत् उच्चैर्जुघोष ।। १२ ॥


भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः ।

पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः ॥ १३ ॥

भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः ।

पुच्छं वातस्य देवस्य तेन धूनोत्योषधीः ॥१३॥

भसत् । आसीत् । आदित्यानाम् । श्रोणी इति । आस्ताम् । बृहस्पतेः।

पुच्छम् । वातस्य । देवस्य । तेन । धूनोति । ओषधीः ॥ १३ ॥

अस्य ऋषभस्य भसत् नाभितलभागः, गुह्यभागः आदित्यानाम् द्वादशादित्यानाम् आसीत् । श्रोणी कटिभागौ बृहस्पतेः बृहतां वेदवाचां पते: देवगुरोः आस्ताम् अभवताम् । वातस्य देवस्य वायुदेवस्य पुच्छं लाङ्गूलम् आसीत, तेन अयमहर्निशम् ओषधीः सस्यादिधान्यानि वनस्पत्यादीनि च धूनोति कम्पयति । विराडात्मनः वृषभस्य विविधाङ्गेषु सर्वदेवानां वास इति भावः ॥ १३ ॥


गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् ।

उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥१४॥

गुदाः । आसन् । सिनीवाल्याः । सूर्यायाः। त्वचम् । अब्रुवन् ।

उत्थातुः । अब्रुवन् । पदः। ऋषभम् । यत् । अकल्पयन् ॥ १४ ॥

यत् यदा देवाः ऋषभम् अकल्पयन् कल्पितवन्तः, तदा ते अस्य गुदाः गुदास्थानीया नाड्यः सिनीवाल्याः चतुर्दशीयुक्तायाः दृष्टेन्दुमत्या: अमाया: तदधिष्ठात्र्य: देव्याः आसन् इति अब्रुवन् । सिन्या शुक्लया चन्द्रकलया वल्यते मिश्रयते सा सिनीवाली। सिनी + 'वल मिश्रणे' घञ् ङीष् । 'सिनीवाली कुहुरिति देवपत्न्याविति नैरुक्ताः। अमावास्ये इति याज्ञिका: । या पूर्वामावस्या सा सिनीवाली योत्तरा सा कुहूरिति विज्ञायते' (निरु० ११.३१) 'सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः' इत्यमरः (४.९.) । एवमेव ते देवाः ऋषभस्य त्वचं सूर्यायाः सूर्यदुहितुः अब्रुवन् अवदन् । तथैव तस्य पदः पादान् उत्थातुः उत्थानशीलस्य भगवतः कालस्य प्राहुः । मन्त्रोक्तानि अस्य सर्वाण्यङ्गानि देवमयानीति तात्पर्यम् ॥ १४ ॥


क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः ।

देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥१५॥

क्रोडः। आसीत् । जामिऽशंसस्य । सोमस्य । कलशः। धृतः।

देवाः। सम्ऽगत्य । यत् । सर्वे । ऋषभम् । विऽअकल्पयन् ॥ १५॥

यत् यदा देवाः सर्वे संगत्य समितौ मिलित्वा ऋषभम् सर्वदेवात्मकं व्यकल्पयन् कल्पितवन्तः तदा अस्य क्रोडः अङ्कः जामिशंसस्य आसीत् अभवत् । जामिषु ज्ञातृषु विद्वत्सु शंसा प्रशंसा यस्य स जामिशंसः, तस्य 'ज्ञा ज्ञाने' मि, आदेर्जत्वम् । 'शसु स्तुतौ' (७२८ भ्वा० पर०) अ-प्रत्ययः, टाप् । एवमस्य कलशः अण्डकोशः सोमस्य धृतः निर्धारितः तैरिति शेषः ॥ १५ ॥


ते कुष्ठिकाः सरमायै कूर्मेभ्यो अदधुः शफान् ।

ऊबध्यमस्य कीटेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥

ते । कुष्ठिकाः । सरमायै । कूर्मेभ्यः । अदधुः । शफान् ।

ऊबध्यम् । अस्य । कीटेभ्यः । श्वऽवर्तेभ्यः । अधारयन् ॥१६॥

हे ऋषभ ! ते तव कुष्ठिकाः (Dew Claws) शफस्याग्रभाग: पश्चाद्भागो वा सरमायै सरमानामिकायै देवशुन्यै तथा ते शफान् खुरान् कूर्मेभ्यः कच्छपेभ्य: अदधुः ऋषयो निहितवन्तः, उत्सृष्टस्य ते मरणोत्तरमिति शेषः । अस्य ऋषभस्य ऊबध्यम् अजीर्णमन्नम् दुर्बन्धं दुर्बन्धनीयम्, दुःखेन पचनीयम्, 'दुर्'-उपसर्गपूर्वात् 'बध बन्धने' (९७३ भ्वा० प०) इत्यस्मात् पृषोदरादित्वात् यत्, दकारस्य लोपः, ऊत्वम्, तत् श्ववर्तेभ्यः कुक्कुरेषु संलग्नेभ्यः कीटेभ्यः कृमिभ्यः अधारयन् निर्धारितवन्तः ॥ १६॥


शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा ।

शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥१७॥

शृङ्गाभ्याम् । रक्षः। ऋषति । अवर्तिम् । हन्ति । चक्षुषा ।

शृणोति । भद्रम् । कर्णाभ्याम् । गवाम् । यः। पतिः । अघ्न्यः ॥ १७॥

यः अघ्न्यः अवध्यः गवां पतिः अस्ति, स वृषभः शृङ्गाभ्यां स्वीयशृङ्गाभ्यां रक्षः राक्षसादीन् हिंसकान् ऋषति दूरीकरोति, चक्षुषा नेत्रज्योतिषा अवर्ति वृत्त्यभावं जीविकाभावं वा हन्ति विनाशयति च। कर्णाभ्यां श्रोत्राभ्यां भद्रं सर्वेषां कल्याणकारिणीं वाचं शृणोति आकर्णयति ।। १७॥


शतयाजं स यजते नैनं दुन्वन्त्यग्नयः ।

जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥१८॥

शतयाजम् । सः। यजते । न । एनम् । दुन्वन्ति । अग्नयः ।

जिन्वन्ति । विश्वे। तम् । दे॒वाः । यः। ब्राह्मणे । ऋषभम् । आऽजुहोति ॥ १८॥

यः यजमानः ब्राह्मणे ब्राह्मणाय ऋषभं वृषभं आजुहोति ददाति स शतयाजं यजते शतसंख्यकान् यज्ञान् करोति । वृषोत्सर्गेण ब्राह्मणाय ऋषभं ददता यजमानेन शतं यज्ञानां पुण्यमासादितमिति तात्पर्यम् । एनम् वृषोत्सर्गकारिणं यजमानम् अग्नयः अग्निहोत्रसम्बद्धाः त्रयः पञ्च वा अग्निदेवाः न दुन्वन्ति न उपतापयन्ति, किमु वक्तव्यं लौकिकोऽग्निस्तं प्रपीडयेदिति । तम् यजमानं विश्वे देवाः सर्वे देवाः विश्वेदेवनामानो वा देवाः जिन्वन्ति प्रीणयन्ति, 'जिन्वति गतिकर्मा प्रीतिकर्मा च' ( निरु० ६.२२) ॥ १८॥


ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः ।

पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥१९॥

ब्राह्मणेभ्यः । ऋषभम् । दत्त्वा । वरीयः । कृणुते । मनः।

पुष्टिम् । सः । अघ्न्यानाम् । स्वे । गोऽस्थे। अव । पश्यते ॥१९॥

ब्राह्मणेभ्यः ऋषभं दत्त्वा यजमानः मनः स्वीयं मनः, अन्तःकरणं वा वरीयः अतितरां श्रेष्ठं कृणुते करोति । तेन च स स्वे गोष्ठे गोशालायाम् अघ्न्यानाम् अवध्यानां धेनूनां पुष्टिं पोषणं समृद्धिं च अवपश्यते अवलोकते । तदीयं गोष्ठं कामदुग्भिः गोभिः सदैव सुसमृद्धं जायत इति भावः ॥ १९ ॥


गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् ।

तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥२०॥

गावः । सन्तु । प्रऽजाः । सन्तु । अथो इति । अस्तु। तनूऽबलम् ।

तत् । सर्वम् । अनु । मन्यन्ताम् । देवाः । ऋषभऽदायिने ॥२०॥

वृषोत्सर्गं कुर्वतो यजमानस्य समीपे गावः बह्व्यो धेनवः सन्तु । प्रजाः सन्तत्यः सन्तु, सन्ततिविस्तारो जायताम् । अथ अपि च तनूबलं शारीरिकबलं अस्तु वर्धतामित्यर्थः। ऋषभदायिने वषोत्सर्गकर्त्रे यजमानाय तत् सर्वं पूर्वोक्तं शुभजातं सर्वे देवाः अनु मन्यन्ताम् अनुमोदन्ताम् ॥ २० ॥


अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् ।

अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥

अयम् । पिपानः । इन्द्रः। इत् । रयिम् । दधातु । चेतनीम् ।

अयम् । धेनुम् । सुऽदुघाम् । नित्यऽवत्साम् । वशम् । दुहाम् । विपःऽचितम् । परः । दिवः ॥ २१ ॥

पिपानः प्रवृद्धः, परिपुष्टः 'ओ प्यायी वृद्धौ कानच्, छान्दसः यलोपः। इन्द्रः इत् परमैश्वर्यवान् इन्द्र एव अयम् वृषोत्सर्गे दीयमानो वृषभः दात्रे यजमानाय चेतनीं चेतनासम्पन्नां रयिं गोरूपां लक्ष्मीं दधातु धारयतु, वर्धयत्वित्यर्थः । पुनश्च सुदुघां सुष्ठु दोग्घ्रीम्, नित्यवत्सां प्रतिवर्षं वत्सप्रदात्रीं वशं दुहां दोहनसमये वशवर्तिनीं च धेनुम् दधातु इति पूर्वेणान्वयः । अन्यच्च, यजमानाय परः दिव 'दिवु परिकूजने' (१७०७ चुरा०) हिंसनात् परिकूजनात् वा परस्तात् 'दिवु मर्दने' (१७२५ चुरा०) हिंसा-परिकूजनादिविरहितम् विपश्चितम् अध्यात्मविद्याविचक्षणम्, करोतु इति शेषः ॥ २१ ॥


पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् ।

आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥२२॥

पिशङ्गऽरूपः । नभसः। वयःऽधाः । ऐन्द्रः । शुष्मः । विश्वऽरूपः । नः । आ । अगन् ।

आयुः। अस्मभ्यम् । दधत् । प्रजाम् । च । रायः। च । पोषैः । अभि । नः । सचताम् ॥ २२॥

पिशङ्गरूपः सुवर्णाभः वयोधाः जीवनप्रदः, आयुष्यप्रदो वा। विश्वरूपः नैकरूपः ऐन्द्रः इन्द्रसम्बन्धि शुष्मः बलं तेजो वा तद्रूपः अयम् ऋषभः नभसः द्युलोकात् नः अस्माकं पुरतः आगन् समुपस्थितः आस्ते । सोऽयम् अस्मभ्यम् आयुः चिरजीवनं प्रजां सन्ततिं च दधत् धारयन् रायः ऐश्वर्यस्य पोषैः पुष्टिभिः च नः अस्मान् अभिसचताम् समवेतान् करोतु ॥ २२ ॥


उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः ।

उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥२३॥

उप । इह । उपऽपर्चन । अस्मिन् । गोऽस्थे । उप । पृञ्च । नः ।

उप । ऋषभस्य । यत् । रेतः । उप । इन्द्र । तव । वीर्यम् ॥ २३ ॥

उपपर्चन हे समीपसम्पर्ककर्त: ऋषभ ! 'पृची सम्पर्के (१४६३ रुधा० पर०) । इह अत्र उप अस्माकं समीपम् आगच्छ । नः अस्माकं अस्मिन् गोष्ठे अस्यां गोशालायां उपपृञ्च समीपस्थ एव सम्पृक्तो भव । ऋषभस्य वृषभस्य उप समीपे यद् रेतः वीर्यमस्ति, हे इन्द्र ! तत् तव उप वीर्यम् त्वदीयं त्वत्समीपस्थमेव वीर्यं विद्यते, नान्यस्य कस्यापि इति भावः ॥ २३ ॥


एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु ।

मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥२४॥ {१०}

एतम् । वः। युवानम् । प्रति । दध्मः । अत्र । तेन । क्रीडन्तीः । चरत । वशान् । अनु ।

मा । नः । हासिष्ट । जनुषा । सुऽभागाः । रायः। च । पोषैः । अभि । नः । सचध्वम् ॥ २४ ॥

एतावत्पर्यन्तं नैकैः प्रकारैः वृषभं संस्तुत्य उपसंहारे तत्पत्न्यो गावः संस्तुत्य प्रार्थयन्ते-- हे गावः ! युवानं यौवनोपेतम् एतम् अमुम् वृषभम् अत्र गोष्ठे वः युष्माकं कृते प्रतिदध्मः स्थापयामः । तेन वृषभेण क्रीडन्तीः क्रीडां कुर्वन्तीः, यूयं वशान् अनु यथेच्छं चरत इतस्ततः विचरत । सुभागाः हे सौभाग्यशालिन्यो गावः ! यूयं नः अस्मान् जनुषा जन्मना सह, यावज्जन्म इत्यर्थः, मा हासिष्ट मा त्यजत । च रायः पोषैः ऐश्वर्यस्य अभिवृद्धिभिः नः अस्मान् अभि सचध्वम् परितः सेवध्वमिति ॥ २४ ॥