अथर्ववेदः/काण्डं ८/सूक्तम् ११

विकिस्रोतः तः
← सूक्तं ८.१० अथर्ववेदः - काण्डं ८
सूक्तं ८.११
अथर्वाचार्यः
सूक्तं ८.१२ →
दे. विराट्। १ त्रिपदासाम्नी अनुष्टुप्, - - - - - - -

सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥८॥
तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति ॥९॥
तामुपाह्वयन्त ॥१०॥
ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥११॥
तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥१२॥
बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥१३॥
ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥१४॥
अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥१५॥
ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्॥१६॥
अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१७॥ {२६}