अथर्ववेदः/काण्डं ८/सूक्तम् १२

विकिस्रोतः तः
← सूक्तं ८.११ अथर्ववेदः - काण्डं ८
सूक्तं ८.१२
अथर्वाचार्यः
सूक्तं ८.१३ →
दे. विराट्। १ चतुष्पदा विराडनुष्टुप्, - - - - - - -

सोदक्रामत्सा वनस्पतीन् आगच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्।
तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥१८॥
सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मासि समभवत्।
तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥१९॥
सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमासे समभवत्।
तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥२०॥
सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत्।
तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥२१॥ {२७}