अथर्ववेदः/काण्डं ८/सूक्तम् १०

विकिस्रोतः तः
← सूक्तं ८.०९ अथर्ववेदः - काण्डं ८
सूक्तं ८.१०
अथर्वाचार्यः
सूक्तं ८.११ →
दे. विराट्। १-१३, १ त्रिपदार्ची पङ्क्तिः, - - - - - - -

विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥
सोदक्रामत्सा गार्हपत्ये न्यक्रामत्।
गृहमेधी गृहपतिर्भवति य एवं वेद ॥२॥
सोदक्रामत्साहवनीये न्यक्रामत्।
यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥३॥
सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्।
यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥४॥
सोदक्रामत्सा सभायां न्यक्रामत्।
यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥५॥
सोदक्रामत्सा समितौ न्यक्रामत्।
यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥६॥
सोदक्रामत्सामन्त्रणे न्यक्रामत्।
यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥७॥ {२५}