अथर्ववेदः/काण्डं ७/सूक्तम् १२०

विकिस्रोतः तः
← सूक्तं ७.११९ अथर्ववेदः - काण्डं ७
सूक्तं ७.१२०(७.११५)
ऋषिः - अथर्वाङ्गिराः
सूक्तं ७.१२१ →
दे. सविता, जातवेदाः। अनुष्टुप्, २- ३ त्रिष्टुप्

प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत ।
अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥१॥
या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् ।
अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः ॥२॥
एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः ।
तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियच्छ ॥३॥
एता एना व्याकरं खिले गा विष्ठिता इव ।
रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम् ॥४॥