अथर्ववेदः/काण्डं ७/सूक्तम् १२१

विकिस्रोतः तः
← सूक्तं ७.१२० अथर्ववेदः - काण्डं ७
सूक्तं ७.१२१(७.११६)
ऋषिः - अथर्वाङ्गिराः
सूक्तं ७.१२२ →
दे. चन्द्रमाः। १ पुरोष्णिक्, २ एकावसाना द्विपदा आर्च्यनुष्टुप्

नमो रूराय च्यवनाय नोदनाय धृष्णवे ।
नमः शीताय पूर्वकामकृत्वने ॥१॥
यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकम् ।
अभ्येत्वव्रतः ॥२॥