अथर्ववेदः/काण्डं ७/सूक्तम् ११९

विकिस्रोतः तः
← सूक्तं ७.११८ अथर्ववेदः - काण्डं ७
सूक्तं ७.११९(७.११४)
भार्गवः
सूक्तं ७.१२० →
दे. अग्नीषोमौ। अनुष्टुप्

7.119(7.114)
आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे ।
आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे ॥१॥
प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः ।
अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥२॥