अथर्ववेदः/काण्डं ७/सूक्तम् ११८
दिखावट
← सूक्तं ७.११७ | अथर्ववेदः - काण्डं ७ सूक्तं ७.११८ (७.११३) भार्गवः |
सूक्तं ७.११९ → |
दे. तृष्टिका। १ विराडनुष्टुप्, २ शंकुमती चतुष्पदा भुरिगुष्णिक्। |
तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके ।
यथा कृतद्विष्टासोऽमुष्मै शेप्यावते ॥१॥
तृष्टासि तृष्टिका विषा विषातक्यसि ।
परिवृक्ता यथासस्यृषभस्य वशेव ॥२॥