अथर्ववेदः/काण्डं ७/सूक्तम् ११७
दिखावट
← सूक्तं ७.११६ | अथर्ववेदः - काण्डं ७ सूक्तं ७.११७ (७.११२) वरुणः |
सूक्तं ७.११८ → |
दे. आपः, वरुणश्च। अनुष्टुप्, १ भुरिक् |
शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥१॥
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥