अथर्ववेदः/काण्डं ७/सूक्तम् ०८३

विकिस्रोतः तः
← सूक्तं ७.०८२ अथर्ववेदः - काण्डं ७
सूक्तं ७.०८३(७.७८)
अथर्वा
सूक्तं ७.०८४ →
दे. अग्निः। १ परोष्णिक् , २ त्रिष्टुप् ।

वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् ।
इहैव त्वमजस्र एध्यग्ने ॥१॥
अस्मै क्षत्राणि धारयन्तमग्ने युनज्मि त्वा ब्रह्मणा दैव्येन ।
दीदिह्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु ॥२॥