अथर्ववेदः/काण्डं ७/सूक्तम् ०८२

विकिस्रोतः तः
← सूक्तं ७.०८१ अथर्ववेदः - काण्डं ७
सूक्तं ७.०८२(७.७७)
अङ्गिराः
सूक्तं ७.०८३ →
दे. मरुतः। १ त्रिपदा गायत्री , २ त्रिष्टुप्, ३ जगती ।

सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।
अस्माकोती रिशादसः ॥१॥
यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
द्रुहः पाशान् प्रति मुञ्चतां सस्तपिष्ठेन तपसा हन्तना तम् ॥२॥
सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः ।
ते अस्मत्पाशान् प्र मुञ्चन्त्वेनसस्सांतपना मत्सरा मादयिष्णवः ॥३॥