अथर्ववेदः/काण्डं ७/सूक्तम् ०८२
दिखावट
← सूक्तं ७.०८१ | अथर्ववेदः - काण्डं ७ सूक्तं ७.०८२(७.७७) अङ्गिराः |
सूक्तं ७.०८३ → |
दे. मरुतः। १ त्रिपदा गायत्री , २ त्रिष्टुप्, ३ जगती । |
सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।
अस्माकोती रिशादसः ॥१॥
यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
द्रुहः पाशान् प्रति मुञ्चतां सस्तपिष्ठेन तपसा हन्तना तम् ॥२॥
सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः ।
ते अस्मत्पाशान् प्र मुञ्चन्त्वेनसस्सांतपना मत्सरा मादयिष्णवः ॥३॥