अथर्ववेदः/काण्डं ७/सूक्तम् ०८४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.०८३ अथर्ववेदः - काण्डं ७
सूक्तं ७.०८४(७.७९)
अथर्वा
सूक्तं ७.०८५ →
दे. अमावास्या। त्रिष्टुप् , १ जगती।

यत्ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा ।
तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥
अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे ।
मयि देवा उभये साध्याश्चेन्द्रज्येष्ठाः समगच्छन्त सर्वे ॥२॥
आगन् रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती ।
अमावास्यायै हविषा विधेमोर्जं दुहाना पयसा न आगन् ॥३॥
अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।
यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥४॥

[सम्पाद्यताम्]