अथर्ववेदः/काण्डं ७/सूक्तम् ०७२

विकिस्रोतः तः
← सूक्तं ७.०७० अथर्ववेदः - काण्डं ७
सूक्तं ७.०७२(७.०६९)
ऋषिः - शन्तातिः।
सूक्तं ७.०७३ →
दे. सुखम्। पथ्यापङ्क्तिः।

शं नो वातो वातु शं नस्तपतु सूर्यः ।
अहानि शं भवन्तु नः शं रात्री प्रति धीयताम् ।
शमुषा नो व्युच्छतु ॥१॥