अथर्ववेदः/काण्डं ७/सूक्तम् ०७३

विकिस्रोतः तः
← सूक्तं ७.०७२ अथर्ववेदः - काण्डं ७
सूक्तं ७.०७३(७.०७०)
ऋषिः - अथर्वा।
सूक्तं ७.०७४ →
दे. श्येनः, देवाः। त्रिष्टुप्, .......

यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा ।
तन् मृत्युना निर्ऋतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥१॥
यातुधाना निर्ऋतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् ।
इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥२॥
अजिराधिराजौ श्येनौ संपातिनाविव ।
आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥३॥
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ।
अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥४॥
अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।
अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः ॥५॥