अथर्ववेदः/काण्डं ७/सूक्तम् ०७०

विकिस्रोतः तः
← सूक्तं ७.०६९ अथर्ववेदः - काण्डं ७
सूक्तं ७.०७०-०७१(७.०६८)
ऋषिः - शन्तातिः।
सूक्तं ७.०७२ →
दे. सरस्वती। १. अनुष्टुप्, २. त्रिष्टुप्, ३. गायत्री।

सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।
जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥१॥
इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्।
इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥२॥
शिवा नः शंतमा भव सुमृडीका सरस्वति ।
मा ते युयोम संदृशः ॥१॥